शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ९/ब्राह्मण ३

श्रीमन्थकर्मब्राह्मणम्

स यः कामयेत। महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षे पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा वा सर्वौषधम्फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधायावृताऽऽज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति - १४.९.३.१

यावन्तो देवास्त्वयि जातवेदः तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्। तेभ्योऽहम्भागधेयं जुहोमि ते मा तृप्ताः कामैस्तर्पयन्तु स्वाहा - १४.९.३.२

या तिरश्ची निपद्यसेऽहं विधरणी इति। तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा॥ प्रजापते न त्वदेतान्यन्य इति तृतीयां जुहोति - १४.९.३.३

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेति। अग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सस्रवमवनयति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति - १४.९.३.४

भूताय स्वाहेति। अग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति - १४.९.३.५

पृथिव्यै स्वाहेति। अग्नौ हुत्वा मन्थे संस्रवमवनयति अन्तरिक्षाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति दिवे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति दिग्भ्यःस्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति - १४.९.३.६

भूः स्वाहेति। अग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति - १४.९.३.७

अग्नये स्वाहेति। अग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति तेजसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति श्रियै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति लक्ष्म्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सवित्रे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सरस्वत्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वेभ्यो देवेभ्यः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति - १४.९.३.८

अथैनमभिमृशति। भ्रमसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे संदीप्तमसि विभूरसि प्रभूरसि ज्योतिरस्यन्नमसि निधनमसि संवर्गोऽसीति - १४.९.३.९

अथैनमुद्यच्छति। आमोऽस्यामं हि ते मयि। स हि राजेशानोऽधिपतिः स मा राजेशानोऽधिपतिं करोत्विति - १४.९.३.१०

अथैनमाचामति। तत्सवितुर्वरेण्यम्। मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः।। भूः स्वाहा - १४.९.३.११

भर्गो देवस्य धीमहि। मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः। मधु द्यौरस्तु नः पिता ।। भुवः स्वाहा - १४.९.३.१२

धियो यो नः प्रचोदयात्। मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः॥ स्वः स्वाहेति सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य प्रक्षाल्य पाणी जघनेनाग्निं प्राक्शिराः संविशति - १४.९.३.१३

प्रातरादित्यमुपतिष्ठते। दिशामेकपुण्डरीकमस्यहम्मनुष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति - १४.९.३.१४

तं हैतमुद्दालक आरुणिः वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति - १४.९.३.१५

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति - १४.९.३.१६

एतमु हैव मधुकः पैङ्ग्यः। चूडाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति - १४.९.३.१७

एतमु हैव चूडो भागवित्तिः। जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति - १४.९.३.१८

एतमु हैव जानकिरायस्थूणः। सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति - १४.९.३.१९

एतमु हैव सत्यकामो जाबालो अन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् - १४.९.३.२०

चतुरौदुम्बरो भवति। औदुम्बरश्चमस औदुम्बर स्रुव औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ - १४.९.३.२१

दश ग्राम्याणि धान्यानि भवन्ति। व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्त्सार्धं पिष्ट्वा दध्ना मधुना घृतेनोपसिञ्चत्याज्यस्य जुहोति - १४.९.३.२२