शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १/ब्राह्मण २

महावीरादिप्रवर्ग्यपात्रसंभरणब्राह्मणम्

महावीरः.

स वै सम्भारान्त्सम्भरति। स यद्वा एनानित्था चेत्था च सम्भरति तत्सम्भाराणां सम्भारत्वं स वै यत्र यत्र यज्ञस्य न्यक्तं ततस्ततः सम्भरति - १४.१.२.१

कृष्णाजिने सम्भरति। यज्ञो वै कृष्णजिनं यज्ञ एवैनमेतत्सम्भरति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरत्युत्तरत उदीची हि मनुष्याणां दिक्प्राचीनग्रीवे तद्धि देवत्रा - १४.१.२.२

अभ्र्या। वज्रो वा अभ्रिर्वीर्यं वै वज्रो वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति - १४.१.२.३

औदुम्बरी भवति। ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति - १४.१.२.४

अथो वैकङ्कती। प्रजापतिर्यां प्रथमामाहुतिमजुहोत्स हुत्वा यत्र न्यमृष्ट ततो विकङ्कतः समभवद्यज्ञो वा आहुतिर्यज्ञो विकङ्कतो यज्ञेनैवैनमेतत्समर्धयति कृत्स्नं करोति - १४.१.२.५

अरत्निमात्री भवति। बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति - १४.१.२.६

तामादत्ते। देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नारिरसीत्यसावेव बन्धुः - १४.१.२.७

तां सव्ये पाणौ कृत्वा। दक्षिणेनाभिमृश्य जपति युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिरित्यसावेव बन्धुः - १४.१.२.८

अथ मृत्पिण्डं परिगृह्णाति। अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतो देवी द्यावापृथिवी इति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी अगच्छद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति तस्मादाह देवी द्यावापृथिवी इति मखस्य वामद्य शिरो राध्यासमिति यज्ञो वै मखो यज्ञस्य वामद्य शिरो राध्यासमित्येवैतदाह देवयजने पृथिव्या इति देवयजने हि पृथिव्यै सम्भरति मखाय त्वा मखस्य त्वा शीर्ष्ण इति यज्ञो वै मखो यज्ञाय त्वा यज्ञस्य त्वा शीर्ष्ण इत्येवैतदाह - १४.१.२.९

अथ वल्मीकवपाम्। देव्यो वम्र्य इत्येता वा एतदकुर्वत यथायथैतद्यज्ञस्यशिरोऽच्छिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति भूतस्य प्रथमजा इतीयं वै पृथिवी भूतस्य प्रथमजा तदनयैवैनमेतत्समर्धयति कृत्स्नं करोति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः - १४.१.२.१०

अथ वराहविहतम्। इयत्यग्र आसीदितीयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री तामेमूष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति मखस्य तेऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः - १४.१.२.११

अथादारान्। इन्द्रस्यौज स्थेति यत्र वा एनमिन्द्र ओजसा पर्यगृह्णात्तदस्य परिगृहीतस्य रसो व्यक्षरत्स पूयन्निवाशेत सोऽब्रवीदादीर्येव बत म एष रसोऽस्तौषीदिति तस्मादादारा अथ यत्पूयन्निवाशेत तस्मात्पूतीकास्तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति तस्मादु सुरभयो यज्ञस्य हि रसात्सम्भूता अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात्तस्मादाहेन्द्रस्यौज स्थेति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः - १४.१.२.१२

अथाजाक्षीरम्। यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत्ततोऽजासमभवत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः - १४.१.२.१३

तान्वा एतान्पञ्च सम्भारान्त्सम्भरति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तान्त्सम्भृतानभिमृशति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः - १४.१.२.१४

अथोत्तरतः परिश्रितं भवति। तदभिप्रयन्तो जपन्ति प्रैतु ब्रह्मणस्पतिरित्येष वै ब्रह्मणस्पतिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह प्रैतु ब्रह्मणस्पतिरिति प्र देव्येतु सूनृतेति देवी ह्येषा सूनृताऽच्छा वीरं नर्यं पङ्क्तिराधसमित्युपस्तौत्येवैनमेतन्महयत्येव देवा यज्ञं नयन्तु न इति सर्वानेवास्मा एतद्देवानभिगोप्तॄन्करोति - १४.१.२.१५

परिश्रितं भवति। एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरं परिश्रयति - १४.१.२.१६

अथ खरे सादयति। मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरथ मृत्पिण्डमुपादाय महावीरं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः प्रादेशमात्रं प्रादेशमात्रमिव हि शिरो मध्ये सङ्गृहीतं मध्ये सङ्गृहीतमिव हि शिरोऽथास्योपरिष्टात्त्र्यङ्गुलं मुखमुन्नयति नासिकामेवास्मिन्नेतद्दधाति तं निष्ठितमभिमृशति मखस्य शिरोऽसीति मखस्य ह्येतत्सौम्यस्य शिर एवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले - १४.१.२.१७

प्रजापतिर्वा एष यज्ञो भवति। उभयं वा एतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमितं रूपं तदस्य तेन संस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवम्विद्वानेतदेवं करोत्यथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः - १४.१.२.१८

अथ गवेधुकाभिर्हिन्वति। यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले - १४.१.२.१९

अथैनान्धूपयति। अश्वस्य त्वा वृष्णः शक्ना धूपयामीति वृषा वा अश्वो वीर्यं वै वृषा वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले - १४.१.२.२०

अथैनाञ्छ्रपयति। शृतं हि देवानामिष्ट्काभिः श्रपयत्येता वा एतदकुर्वत यथायथैतद्यज्ञस्य शिरोऽच्छिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति तदु येनैव सुशृताः स्युस्तेन श्रपयेदथ पचनमवधाय महावीरमवदधाति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले तान्दिवैवोपवपेद्दिवोद्वपेदहर्हि देवानाम् - १४.१.२.२१

प्रक्षेपितलोष्टस्य ऋजु एवं अनृजु पथः - अल्पतमक्रियासिद्धान्तः

स उद्वपति। ऋजवे त्वेत्यसौ वै लोक ऋजुः सत्यं ह्यृजुः सत्यमेष य एष तपत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वेति - १४.१.२.२२

साधवे त्वेति। अयं वै साधुर्योऽयं पवत एष हीमांल्लोकान्त्सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह साधवे त्वेति - १४.१.२.२३

सुक्षित्यै त्वेति। अयं वै लोकः सुक्षितिरस्मिन्हि लोके सर्वाणि भूतानि क्षियन्त्यथो अग्निर्वै सुक्षितिरग्निर्ह्येवास्मिंल्लोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वेति तूष्णीं पिन्वने तूष्णीं रौहिणकपाले - १४.१.२.२४

अथैनानाच्छृणत्ति। अजायै पयसा मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले - १४.१.२.२५

अथैतद्वै। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.१.२.२६