शतपथब्राह्मणम्/काण्डम् १४/अध्यायः २

ब्राह्मण १

१ गवाजपयोऽवसेचनब्राह्मणम्-तत्रादौ आज्यपूर्णे महावीरे गवाजयोः पयोऽवसेचनं विधातुं तत्र तयोर्दोहनात्पूर्वं तदासेचनोत्तरकालं च होतव्ययो रौहिणपुरोडाशयोः सायम्प्रातःकाले होमं विधाय तत्र मन्त्रद्वयस्य विनियोजनम् , एतयो रौहिणपुराडाशयोः क्रमेणाग्न्यादित्यात्मनाऽहोरात्रात्मना द्यावापृथिव्यात्मना चक्षुर्द्वयात्मना च प्रशंसनम् , दोहनार्थं रज्ज्वादानस्य समन्त्रकं स्तावकार्थवादातिदेशसहितं विधानम्, दैवीभिः संज्ञाभिर्घर्मदुहो गोराह्वानं विधाय लौकिकेन नाम्नाऽपि तस्या आह्वानस्य विधानम् , एवमुभयविधैर्नामभिराहूतायास्तस्या मन्त्रतत्तात्पर्यार्थोपेतं बन्धनविधानम् , दोहनाय वत्सविसर्जनस्य मन्त्रतत्सङ्गत्युपपादनसहितं विधानम्, मन्त्रतत्सङ्गत्युपपादनसहितं वत्सस्य पुनर्बन्धनविधानम्, ततः समन्त्रकं दोहनं विधाय तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानम् , दोहनसमये सर्वतः प्रसृतानां विप्रुषां मन्त्रवदमिमन्त्रणं विधाय मन्त्रस्य पाठप्राप्तं त्रिर्वचनमनूद्य तत्प्रशंसनम्, घर्मदुहो धेनोः समन्त्रकं स्तनाभिमर्शनं विधाय तस्य मन्त्रस्य पादशोऽनूद्य व्याख्यानम्, स्तावकार्थवादातिदेशसहितं समन्त्रकं गार्हपत्यं प्रति गमनविधानम्, एतस्य महावीरस्य ग्रहणसाधनयोः शफयोरादानं समन्त्रकं विधाय ताभ्यां शफाभ्यां महावीरस्य समन्त्रकं परिग्रहणविधानम्, ततो महावीरस्याधोभागे वेदेनोपमार्जनस्य स्तावकार्थवादातिदेशसहितं विधानम्, तत उपयमन्या स्रुचा महावीराधोभागस्य सोपपत्तिकं समन्त्रकं परिग्रहणविधानम्, एवं स्थिते महावीरेऽजापयस आसेचनं सप्रयोजनं विधाय गोपयसः समन्त्रकमासेचनविधानम् , उक्तमन्त्रस्य पदद्वयं पदद्वयमनूद्य सोपपत्तिकं स्तावकार्थवादातिदेशसहितं च व्याख्यानं, प्रथमाध्यायस्थप्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.


ब्राह्मण २

२ घर्मप्रचरणम्-तत्र प्रथमं होत्रा " प्रैतु ब्रह्मणस्पतिः" इत्यस्मिन्मन्त्रे उच्यमानेऽध्वर्युः शफाभ्यां महावीरं धृत्वाऽऽहवनीयं प्रति प्राङ्मुखो गच्छन्वातनामानि यजूंषि जुहोतीत्याख्यायिकयोपपादनपूर्वकमभिधानं, तत्र द्वादशवातनामप्रतिपादकमंत्राणां सोपपत्तिकं वायुपरत्वं प्रतिपाद्य तात्पर्यार्थविवरणम्, एतेषां द्वादशानां वातनाम्नां संहत्य माससंवत्सरादित्यप्रवर्ग्यात्मना प्रशंसनं, तत उपयमन्या सुचाऽऽसेचनसमये पतितं पयो वा घृतं वा हविर्महावीरे पुनरासिञ्चन्तीति समन्त्रकं सार्थवादं विधानम् , इत्थं प्रत्यानयनानन्तरमाम्नातस्य जपमन्त्रस्य सार्थवादं विनियोजनं, ततोऽस्य घर्मयागस्य वषट्कारप्रदानत्वात्प्रसक्तायाः पुरोऽनुवाक्याया निषेधप्रदर्शनं, महावीरस्थेन हविषा वषट्कृते होमस्य विधानं, विहिते होमे मन्त्रं विनियुज्य तस्य स्वाहाकारार्थवादसहितं व्याख्यानं, होमानंतरं त्रिवारं महावीरस्याग्नेरूर्ध्वाभिमुखमुज्ज्वालनं समंत्रकं विधाय तन्मंत्रस्य व्याख्यानम्, अनुवषट्कारे च समन्त्रकं होमं विधाय तन्मन्त्रस्य तात्पर्यार्थविवरणं, सप्रयोजनं ब्रह्मकर्तृकघर्मानुमन्त्रणमन्त्रं विधाय तस्य भागशोऽनूद्य व्याख्यानं, सोपपत्तिकं यजमानस्यापि घर्मानुमन्त्रणमन्त्रं विधाय तस्य भागशोऽनूद्य व्याख्यानम्, एवं वषट्काराऽनुवषट्कारयोर्महावीरस्थं हविर्हुत्वा तत्र यदवशिष्टं तेन प्रतिदिशमध्वर्युणा पिन्वने क्रियमाणे यजमानकर्तृकं घर्मपिन्वमानानुमन्त्रणमन्त्रं विधाय तस्य भागशोऽनूद्य व्याख्यानं, यजमानफलार्थं प्रथममूर्ध्वं पश्चात्प्रागादिदिक्षु च देवपितृतृप्त्यर्थं पिन्वनं कुर्यादित्यर्थवादेनोन्नयनम् , एवं कुर्वतो दक्षिणतोऽवस्थितस्याध्वर्योः प्रत्याक्रमणविधानं, विहिते प्रत्याक्रमणे कर्तव्यप्रकारं मन्त्रं चाभिधाय तत्र मन्त्रस्य तात्पर्यार्थं प्रदर्श्य च प्रवर्ग्ये तत्सङ्गतेरुपपादनम्, एवमुत्तरपूर्वाद्धेऽतिक्रम्याहवनीयस्योत्तरस्यां दिशि सिकतयोप्ते स्थले महावीरस्य समन्त्रकं सादनं विधाय तस्य मन्त्रस्य व्याख्यानं, सप्तभिर्मन्त्रैः सप्त विकङ्कतशकलान्घर्मे न्यज्य जुहोति हुत्वा हुत्वा प्रथमपरिधौ हस्तलेपं निर्मार्ष्टीति च सार्थवादं विधानम्, एतेषां सप्तानामपि शाकलमन्त्राणां मध्ये प्रथममन्त्रस्य पूषपरत्वं व्याख्याय द्वितीयतृतीयपञ्चमषष्ठशाकलमन्त्राणां प्राणपरत्वव्याख्यानं, तथा चतुर्थशाकलमन्त्रेण चतुर्थशकलं घर्मे न्यज्याग्नावहुतं सन्तं वेद्यामास्तीर्णे बर्हिषि दक्षिणभागे स्वयमुदीचीं दिशमीक्षमाणः संवृणुयादिति सार्थवादं सविशेषं विधानं, सप्तमशाकलमन्त्रेण तु सप्तमस्य शकलस्य होमं निषिध्य सप्रकारकं सोपपत्तिकं निरसनविधानम् , एताः सप्त शाकलाहुतीः संहत्य तासां प्रशंसनं, महावीरे वर्तमानस्यावशिष्टस्य हविष उपयमन्यामासेचनस्य मन्त्रतदभिप्रायसहितं स्तावकार्थवादातिदेशसहितं च विधानं, सायंप्रातःकालयोः प्रवृञ्जनोपरिष्टात्काले होतव्यत्वेन विहितौ यौ रौहिणपुरोडाशौ तावस्मिन्काले होतव्याविति समन्त्रकं स्तावकार्थवादातिदेशसहितं च विधानम्, उपयमन्यामानीतस्यावशिष्टस्य घर्मस्य यजमानेन सहोपहवयाचनपूर्वकं मन्त्रतदर्थसहितं भक्षणविधानम् , स्तावकार्थवादातिदेशसहितं प्राग्वंशस्य दक्षिणादिग्भागे प्रवर्ग्यकर्तॄणां मार्जनविधानं, ततोऽवशिष्टानां वैकंकतशकलानां प्रहरणविधानम्, इत्थं सप्रवर्गे क्रतौ प्रवर्ग्याख्यं कर्म निर्वर्त्य तदनूपसदाख्यं कर्म कर्तव्यमित्यभिधाय प्रवर्ग्यस्य प्रयोजनकथनपूर्वकमुपसंहरणम् , इमं प्रवर्ग्यम् प्रथमयज्ञे न प्रवृञ्ज्यादिति सदोषं सकारणं निषिध्य द्वितीये तृतीये वा तु यज्ञेऽमुं प्रवर्ग्यं प्रवृञ्ज्यादेवेति सोपपत्तिकं सप्रयोजनं सकारणं विपक्षे बाधककथनपुरःसरं विधानं, द्वितीयतृतीयादिष्वपि यज्ञेषु न सर्वेषां यजमानानामविशेषेणैतत्प्रवर्ग्यानुष्ठानं कर्तव्यं, किन्तु ज्ञातप्रियानूचानानामिति सप्रयोजनमभिधानं, सहस्रदक्षिणे-सर्ववेदसे--सर्वपृष्ठे विश्वजिति-वाजपेये-राजसूये च सत्रेषु च नियमेन प्रवृञ्ज्यादेभ्योऽन्यत्र नेति प्रतिपादनम्, एवमप्रवर्ग्यस्य यज्ञस्याशिरस्कत्वे कथमग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसौम्याध्वराणां सशिरस्त्वमित्याशङ्क्य तदुपपादनं, प्रकारान्तरेण सशिरस्कत्वस्योपपादनम्, एतद्वेदनस्य फलाभिधानं, सोमयागाङ्गभूतेषु दीक्षणीयादिषु कर्मसु प्रणीता आपः प्रणीयन्ते तद्वत्तदङ्गभूते प्रवर्ग्येऽपि तासां प्रणयनेन भवितव्यमित्याशङ्क्य तत्समाधानकथनं, प्रयाजानुयाजानामभावकृतं यज्ञान्तरवैषम्यमाशङ्क्य तत्समाधानकथनं, यज्ञान्तरवदत्राज्यभागौ कुतो न भवत इत्याशंक्य तत्समाधानकथनं, मृन्मयपात्रस्य होमानर्हतामाशंक्य घर्महोमे तदेव योज्यमित्युपपाद्य तत्र पक्षान्तरेण वानस्पत्यं हिरण्मयं च पात्रमाक्षिप्यैतस्मिन्पक्षे बाधमुक्त्वा मृन्मयेनैव होतव्यमित्युपसंहारकरणं, प्रथमाध्यायस्थप्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.