शतपथब्राह्मणम्/काण्डम् १४/अध्यायः २/ब्राह्मण १

गवाजपयोऽवसेचनं ब्राह्मणम्

अथातो रोहिणौ जुहोति। अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा प्राता रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा सायम् - १४.२.१.[१]

तद्यद्रोहिणौ जुहोति। अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्यां हि देवताभ्यां यजमानाः स्वर्गं लोकं रोहन्ति - १४.२.१.[२]

अथो अहोरात्रे वै रौहिणौ। आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्राभ्याम्परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः - १४.२.१.[३]

अथो इमौ वै लोकौ रौहिणौ। आदित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां लोकाभ्याम्परिगृह्णाति तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः - १४.२.१.[४]

अथो चक्षुषी वै रौहिणौ। शिरः प्रवर्ग्यः शीर्षंस्तच्चक्षुर्दधाति - १४.२.१.[५]

अथ रज्जुमादत्ते। देवेभ्यस्त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे रास्नासीत्यसावेव बन्धुः - १४.२.१.[६]

अथ गामाह्वयति। जघनेन गार्हपत्यं यन्निड एह्यदित एहि सरस्वत्येहीतीडा हि गौरदितिर्हि गौः सरस्वती हि गौरथो तैराह्वयति नाम्नाऽसावेह्यसावेहीति त्रिः १४.२.१.[७]

तामागतामभिदधाति। अदित्यै रास्नासीन्द्राण्या उष्णीष इतीन्द्राणी ह वा इन्द्रस्य प्रिया पत्नी तस्या उष्णीषो विश्वरूपतमः सोऽसीति तदाह तमेवैनमेतत्करोति - १४.२.१.[८]

अथ वत्समुपार्जति। पूषाऽसीत्ययं वै पूषा योऽयं पवत एष हीदं सर्वम्पुष्यत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पूषाऽसीति - १४.२.१.[९]

अथोन्नयति। घर्माय दीष्वेत्येष वा अत्र घर्मो रसो भवति यमेषा पिन्वते तस्मै दयस्वेत्येवैतदाह - १४.२.१.[१०]

अथ पिन्वने पिन्वयति। अश्विभ्यां पिन्वस्वेत्यश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहाश्विभ्यां पिन्वस्वेति १४.२.१.[११]

सरस्वत्यै पिन्वस्वेति। वाग्वै सरस्वती वाचा वा एतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाह सरस्वत्यै पिन्वस्वेति - १४.२.१.[१२]

इन्द्राय पिन्वस्वेति। इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तयैवैतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहेन्द्राय पिन्वस्वेति - १४.२.१.[१३]

अथ विप्रुषोऽभिमन्त्रयते। स्वाहेन्द्रवत्स्वाहेन्द्रवदितीन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतत्प्रीणाति तस्मादाह स्वाहेन्द्रवत्स्वाहेन्द्रवदिति त्रिष्कृत्व आह त्रिवृद्धि यज्ञोऽवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.१.[१४]

अथास्यै स्तनमभिपद्यते। यस्ते स्तनः शशयो यो मयोभूरिति यस्ते स्तनो निहितो
गुहायामित्येवैतदाह यो रत्नधा वसुविद्यः सुदत्र इति यो धनानां दाता वसुवित्पणाय्य इत्येवैतदाह येन विश्वा पुष्यसि वार्याणीति येन सर्वान्देवान्त्सर्वाणि भूतानि बिभर्षीत्येवैतदाह सरस्वति तमिह धातवेऽकरिति वाग्वै सरस्वती सैषा घर्मदुघा यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाहाथ गार्हपत्यस्यार्धमैत्युर्वन्तरिक्षमन्वेमीत्यसावेव बन्धुः - १४.२.१.[१५]

अथ शफावादत्ते। गायत्रं च्छन्दोऽसि त्रैष्टुभं च्छन्दोऽसीति गायत्रेण चैवैनावेतत्त्रैष्टुभेन च च्छन्दसादत्ते द्यावापृथिवीभ्यां त्वा परिगृह्णामीतीमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णात्यथ मौञ्जेन वेदेनोपमार्ष्ट्यसावेव बन्धुः - १४.२.१.[१६]

अथोपयमन्योपगृह्णाति। अन्तरिक्षेणोपयच्छामीत्यन्तरिक्षं वा उपयमन्यन्तरिक्षेण हीदं सर्वमुपयतमथो उदरं वा उपयमन्युदरेण हीदं सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयच्छामीति - १४.२.१.[१७]

अथाजाक्षीरमानयति। तप्तो वा एष शुशुचानो भवति तमेवैतच्छमयति तस्मिञ्छान्ते
गोक्षीरमानयति - १४.२.१.[१८]

इन्द्राश्विनेति। इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतत्प्रीणात्यश्विनेत्यश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहेन्द्राश्विनेति - १४.२.१.[१९]

मधुनः सारघस्येति। एतद्वै मधु सारघं घर्मं पातेति रसम्पातेत्येवैतदाह वसव इत्येते वै वसव एते हीदं सर्वं वासयन्ते यजत वाडिति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति - १४.२.१.[२०]

स्वाहा सूर्यस्य रश्मये वृष्टिवनय इति। सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति तमेवैतत्प्रीणाति तस्मादाह स्वाहा सूर्यस्य रश्मये वृष्टिवनय इत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः - १४.२.१.[२१]

अथैतद्वै। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.२.१.[२२]