शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण १

उपवेषः

१.२.१

स वै कपालान्येवान्यतर उपदधाति । दृषदुपले अन्यतरस्तद्वा एतदुभयं सह क्रियते तद्यदेतदुभयं सह क्रियते - १.२.१.१

शिरो ह वा एतद्यज्ञस्य यत्पुरोडाशः स यान्येवेमानि शीर्ष्णः कपालान्येतान्येवास्य कपालानि मस्तिष्क एव पिष्टानि तद्वा एतदेकमङ्गमेकं सह करवाव समानं करवावेति तस्माद्वा एतदुभयं सह क्रियते - १.२.१.२

स यः कपालान्युपदधाति । स उपवेषमादत्ते धृष्टिरसीति स यदेनेनाग्निं धृष्ण्विवोपचरति तेन धृष्टिरथ यदेनेन यज्ञ उपालभत उपेव वा एनेनैतद्वेवेष्टि तस्मादुपवेषो नाम - १.२.१.३

तेन प्राचोऽङ्गारानुदूहति । अपाग्ने अग्निमामादं जहि निष्क्रव्यादं सेधेत्ययं वा आमाद्येनेदं मनुष्याः पक्त्वाश्नन्त्यथ येन पुरुषं दहन्ति स क्रव्यादेतावेवैतदुभावतोऽपहन्ति - १.२.१.४

अथाङ्गारमास्कौति । आ देवयजं वहेति यो देवयाट् तस्मिन् हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा इति तस्माद्वा आस्कौति - १.२.१.५

तं मध्यमेन कपालेनाभ्युपदधाति । देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुर्नेन्नोऽधस्तान्नाष्ट्रारक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तस्मादेवमुपदधाति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्मान्मध्यमेन कपालेनाभ्युपदधाति - १.२.१.६

स उपदधाति । ध्रुवमसि पृथिवीं दृंहेति पृथिव्या एव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधायेति बह्वी वै यजुःस्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्य सजातवनीति भूमा वै सजातास्तद्भूमानमाशास्त उपदधामि भ्रातृव्यस्य वधायेति यदि नाभिचरेद्यद्य अभिचरेदमुष्य वधायेति ब्रूयादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति - १.२.१.७

अथाङ्गारमास्कौति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि रक्षसामपहन्ता तस्मादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति - १.२.१.८

अथाङ्गारमध्यूहति । अग्ने ब्रह्म गृभ्णीष्वेति नेदिह पुरा नाष्ट्रा रक्षांस्याविशानित्यग्निर्हि रक्षसामपहन्ता तस्मादेनमध्यूहति - १.२.१.९

अथ यत्पश्चात्तदुपदधाति । धरुणमस्यन्तरिक्षं दृंहेत्यन्तरिक्षस्यैव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधायेति - १.२.१.१०

अथ यत्पुरस्तात्तदुपदधाति । धर्त्रमसि दिवं दृंहेति दिव एव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधायेति - १.२.१.११

अथ यद्दक्षिणतस्तदुपपधाति । विश्वाभ्यस्त्वाशाभ्य उपदधामीति स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम्भ्रातृव्यमवबाधतेऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न वानद्धो तद्यद्विश्वा आशास्तस्मादाह विश्वाभ्यस्त्वाशाभ्य उपदधामीति तूष्णीं वै वेतराणि कपालान्युपदधाति चित स्थोर्ध्वचित इति वा - १.२.१.१२

अथाङ्गारैरभ्यूहति । भृगूणामङ्गिरसां तपसा तप्यध्वमित्येतद्वै तेजिष्ठं तेजो यद्भृग्वङ्गिरसां सुतप्तान्यसन्निति तस्मादेनमभ्यूहति - १.२.१.१३

अथ यो दृषदुपले उपदधाति । स कृष्णाजिनमादत्ते शर्मासीति तदवधूनोत्यवधूतं रक्षोऽवधूता अरातय इति सोऽसावेव बन्धुस्तत्प्रतीचीनग्रीवमुपस्तृणात्यदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्विति सोऽसावेव बन्धुः - १.२.१.१४

अथ दृषदमुपदधाति । धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्त्विति धिषणा हि पर्वती हि प्रति त्वादित्यास्त्वग्वेत्त्विति तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्योऽन्यं हिनसाव इतीयमेवैषा पृथिवी रूपेण - १.२.१.१५

अथ शम्यामुदीचीनाग्रामुपदधाति । दिव स्कम्भनीरसीत्यन्तरिक्षमेव रूपेणान्तरिक्षेण हीमे द्यावापृथिवी विष्टब्धे तस्मादाह दिव स्कम्भनीरसीति - १.२.१.१६

अथोपलामुपदधाति । धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्त्विति कनीयसी ह्येषा दुहितेव भवति तस्मादाह पार्वतेयीति प्रति त्वा पर्वती वेत्त्विति प्रति हि स्वः संजानीते तत्संज्ञामेवैतद्दृषदुपलाभ्यां वदति नेदन्योऽन्यं हिनसात इति द्यौरेवैषा रूपेण हनू एव दृषदुपले जिह्वैव शम्या तस्माच्छम्यया समाहन्ति जिह्वया हि वदति - १.२.१.१७

अथ हविरधिवपति । धान्यमसि धिनुहि देवानिति धान्यं हि देवान्धिनवदित्यु हि हविर्गृह्यते - १.२.१.१८

अथ पिनष्टि । प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनु प्रसितिमायुषे धामिति प्रोहति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वेति - १.२.१.१९

तद्यदेवं पिनष्टि । जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति - १.२.१.२०

स यदाह । प्राणाय त्वोदानाय त्वेति तत्प्राणोदानौ दधाति व्यानाय त्वेति तद्व्यानं दधाति दीर्घामनु प्रसितिमायुषे धामिति तदायुर्दधाति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना सुप्रतिगृहीतान्यसन्निति चक्षुषे त्वेति तच्चक्षुर्दधात्येतानि वै जीवतो भवन्त्येवमु हैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानां तस्मादेवं पिनष्टि पिंषन्ति पिष्टान्यभीन्धते कपालानि - १.२.१.२१

अथैक आज्यं निर्वपति । यद्वा आदिष्टं देवतायै हविर्गृह्यते यावद्देवत्यं तद्भवति तदितरेण यजुषा गृह्णाति न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिशति यदाज्यं तस्मादनिरुक्तेन यजुषा गृह्णाति महीनां पयोऽसीति मह्य इति ह वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनां पयोऽसीत्येवमु हास्यैतत्खलु यजुषैव गृहीतं भवति तस्माद्वेवाह महीनां पयोऽसीति - १.२.१.२२

सम्पाद्यताम्