१.२.२

पवित्रवति सम्वपति । पात्र्यां पवित्रे अवधाय देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सम्वपामीति सोऽसावेवैतस्य यजुषो बन्धुः - १.२.२.[१]

अथान्तर्वेद्युपविशति । अथैक उपसर्जनीभिरैति ता आनयति ताः पवित्राभ्याम्प्रतिगृह्णाति समाप ओषधीभिरिति सं ह्येतदाप ओषधीभिरेताभिः पिष्टाभिः सङ्गच्छन्ते समोषधयो रसेनेति सं ह्येतदोषधयो रसेनैताः पिष्टा अद्भिः संगच्छन्त आपो ह्येतासां रसः सं रेवतीर्जगतीभिः पृच्यन्तामिति रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते सं मधुमतीर्मधुमतीभिः पृच्यन्तामिति सं रसवत्यो रसवतीभिः पृच्यन्तामित्येवैतदाह - १.२.२.[२]

अथ संयौति । जनयत्यै त्वा संयौमीति यथा वा अधिवृक्तोऽग्नेरधि जायेतैवं वै
तत्संयौति- १.२.२.[३]

अथ द्वेधा करोति । यदि द्वे हविषी भवतः पौर्णमास्यां वै द्वे हविषी भवतः स यत्र पुनर्न संहरिष्यन्त्स्यात्तदभिमृशतीदमग्नेरिदमग्नीषोमयोरिति नाना वा एतदग्रे हविर्गृह्णन्ति तत्सहावघ्नन्ति तत्सह पिंषन्ति तत्पुनर्नाना करोति तस्मादेवमभिमृशत्यधिवृणक्त्येवैष पुरोडाशमधिश्रयत्यसावाज्यम् - १.२.२.[४]

तद्वा एतत् । उभयं सह क्रियते तद्यदेतदुभयं सह क्रियतेऽर्धो ह वा एष आत्मनो यज्ञस्य यदाज्यमर्धो यदिह हविर्भवति स यश्चासावर्धो य उ चायमर्धस्ता उभावग्निं गमयावेति तस्माद्वा एतदुभयं सह क्रियत एवमु हैष आत्मा यज्ञस्य संधीयते - १.२.२.[५]

सोऽसावाज्यमधिश्रयति । इषे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेति तत्पुनरुद्वासयत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह - १.२.२.[६]

अथ पुरोडाशमधिवृणक्ति । घर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्प्रवृंज्यादेवं प्रवृणक्ति विश्वायुरिति तदायुर्दधाति - १.२.२.[७]

तं प्रथयति । उरुप्रथा उरु प्रथस्वेति प्रथयत्येवैनमेतदुरु ते यज्ञपतिः प्रथतामिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदाशिषमाशास्ते - १.२.२.[८]

तं न सत्रा पृथु कुर्यात् । मानुषं ह कुर्याद्यत्पृथुं कुर्याद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञो करवाणीति तस्मान्न सत्रा पृथुं कुर्यात् - १.२.२.[९]

अश्वशफमात्रं कुर्यादित्यु हैक आहुः । कस्तद्वेद यावानश्वशफो यावन्तमेव स्वयं मनसा न सत्रा पृथुं मन्येतैवं कुर्यात् - १.२.२.[१०]

तमद्भिरभिमृशति । सकृद्वा त्रिर्वा तद्यदेवास्यात्रावघ्नन्तो वा पिंषन्तो वा क्षिण्वन्ति वा वि वा वृहन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादद्भिरभिमृशति - १.२.२.[११]

सोऽभिमृशति । अग्निष्टे त्वचं मा हिंसीदित्यग्निना वा एनमेतदभितप्स्यन्भवत्येष ते त्वचं मा हिंसीदित्येवैतदाह- १.२.२.[१२]

तं पर्यग्निं करोति । अच्छिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति - १.२.२.[१३]

तं श्रपयति । देवस्त्वा सविता श्रपयत्विति न वा एतस्य मनुष्यः श्रपयिता देवो ह्येष तदेनं देव एव सविता श्रपयति वर्षिष्ठेऽधि नाक इति देवत्रो एतदाह यदाह वर्षिष्ठेऽधि नाक इति तमभिमृशति श्रृतं वेदानीति तस्माद्वा अभिमृशति - १.२.२.[१४]

सोऽभिमृशति । मा भेर्मा संविक्था इति मा त्वं भैषीर्मा संविक्था यत्त्वाहममानुषं सन्तं मानुषोऽभिमृशामीत्येवैतदाह - १.२.२.[१५]

यदा शृतोऽथाभिवासयति । नेदेनमुपरिष्टान्नाष्ट्रा रक्षांस्यवपश्यानिति नेद्वेव नग्न इव मुषित इव शयाता इत्यु चैव तस्माद्वा अभिवासयति - १.२.२.[१६]

सोऽभिवासयति । अतमेरुर्यज्ञोऽतमेरुर्यजमानस्य प्रजा भूयादिति नेदेतदनुयज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति तस्मादेवमभिवासयति - १.२.२.[१७]

अथ पात्रीनिर्णेजनम् । अङ्गुलिप्रणेजनमाप्त्येभ्यो निनयति तद्यदाप्त्येभ्यो निनयति - १.२.२.[१८]