शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४/ब्राह्मण १

सामिधेन्यनुवचनम्

सामिधेनी.

१.४.१

हिंकृत्यान्वाह । नासामा यज्ञोऽस्तीति वा आहुर्न वा अहिंकृत्य साम गीयते स यद्धिंकरोति तद्धिंकारस्य रूपं क्रियते प्रणवेनैव साम्नो रूपमुपगच्छत्यो३ंओ३ इत्येतेनो हास्यैष सर्व एव ससामा यज्ञो भवति - १.४.१.१

यद्वेव हिंकरोति । प्राणो वै हिंकारः प्राणो हि वै हिंकारस्तस्मादपिगृह्य नासिके न हिंकर्तुं शक्नोति वाचा वा ऋचमन्वाह वाक्च वै प्राणश्च मिथुनं तदेतत्पुरस्तान्मिथुनं प्रजननं क्रियते सामिधेनीनां तस्माद्वै हिंकृत्यान्वाह - १.४.१.२

स वा उपांशु हिंकरोति । अथ यदुच्चैर्हिंकुर्यादन्यतरदेव कुर्याद्वाचमेव तस्मादुपांशु हिंकरोति - १.४.१.३

स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति पराच्यह देवेभ्यो यज्ञं वहत्यर्वाची मनुष्यानवति तस्माद्वा एति च प्रेति चान्वाह - १.४.१.४

यद्वेवेति च प्रेति चान्वाह । प्रेति वै प्राण एत्युदानः प्राणोदानावेवैतद्दधाति तस्माद्वा एति च प्रेति चान्वाह - १.४.१.५

यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेतः सिच्यत एति प्रजायते प्रेति पशवो वितिष्ठन्त एति समावर्तन्ते सर्वं वा इदमेति च प्रेति च तस्माद्वा एति च प्रेति चान्वाह - १.४.१.६

सोऽन्वाह । प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवत्यग्न आयाहि वीतय इति तद्वेति भवति - १.४.१.७

तदु हैक आहुः । उभयं वा एतत्प्रेति सम्पद्यत इति तदु तदातिविज्ञान्यमिव प्र वो वाजा अभिद्यव इति तन्नु प्रेत्यग्न आयाहि वीतय इति तद्वेति - १.४.१.८

सोऽन्वाह । प्र वो वाजा अभिद्यव इति(ऋ.ऋग्वेदः सूक्तं ३.२७|३.२७.१) तन्नु प्रेति भवति वाजा इत्यन्नं वै वाजा अन्नमेवैतदभ्यनूक्तमभिद्यव इत्यर्धमासा वा अभिद्यवोऽर्धमासानेवैतदभ्यनूक्तं हविष्मन्त इति पशवो वै हविष्मन्तः पशूनेवैतदभ्यनूक्तम् - १.४.१.९

घृताच्येति । विदेघो ह माथवोऽग्निं वैश्वानरं मुखे बभार तस्य गोतमो राहूगण ऋषिः पुरोहित आस तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति नेन्मेऽग्निर्वैश्वानरो मुखान्निष्पद्याता इति - १.४.१.१०

तमृग्भिर्ह्वयितुं दध्रे । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने बृहन्तमध्वरे(ऋ.५.२६.३) विदेघेति - १.४.१.११

स न प्रतिशुश्राव । उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयो(ऋ.८.४४.१७) विदेघा३ इति - १.४.१.१२

स ह नैव प्रतिशुश्राव । तं त्वा घृतस्नवीमह(ऋ.५.२६.२) इत्येवाभिव्याहरदथास्य घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल तं न शशाक धारयितुं सोऽस्य मुखान्निष्पेदे स इमां पृथिवीं प्रापादः - १.४.१.१३

तर्हि विदेघो माथव आस । सरस्वत्यां स तत एव प्राङ्दहन्नभीयायेमां पृथिवीं तं गोतमश्च राहूगणो विदेघश्च माथवः पश्चाद्दहन्तमन्वीयतुः स इमाः सर्वा नदीरतिददाह सदानीरेत्युत्तराद्गिरेर्निर्धावति तां हैव नातिददाह तां हस्म तां पुरा ब्राह्मणा न तरन्त्यनतिदग्धाग्निना वैश्वानरेणेति - १.४.१.१४

तत एतर्हि । प्राचीनं बहवो ब्राह्मणास्तद्धाक्षेत्रतरमिवासस्रावितरमिवास्वदितमग्निना वैश्वानरेणेति - १.४.१.१५

तदु हैतर्हि । क्षेत्रतरमिव ब्राह्मणा उ हि नूनमेनद्यज्ञैरसिष्वदन्त्सापि जघन्ये नैदाघे समिवैव कोपयति तावच्छीतानतिदग्धा ह्यग्निना वैश्वानरेण - १.४.१.१६

स होवाच । विदेघो माथवः क्वाहं भवानीत्यत एव ते प्राचीनं भुवनमिति होवाच सैषाप्येतर्हि कोसलविदेहानां मर्यादा ते हि माथवाः - १.४.१.१७

अथ होवाच । गोतमो राहूगणः कथं नु न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति स होवाचाग्निर्मे वैश्वानरो मुखेऽभूत्स नेन्मे मुखान्निष्पद्यातै तस्मात्ते न प्रतिश्रौषमिति - १.४.१.१८

तदु कथमभूदिति । यत्रैव त्वं घृतस्नवीमह इत्यभिव्याहार्षीस्तदेव मे घृतकीर्तावग्निर्वैश्वानरो मुखादुदज्वालीत्तं नाशकं धारयितुं स मे मुखान्निरपादीति - १.४.१.१९

स यत्सामिधेनीषु घृतवत् । सामिधेनमेव तत्समेवैनं तेनेन्धे वीर्यमेवास्मिन्दधाति - १.४.१.२०

तदु घृताच्येति । देवाञ्जिगाति सुम्नयुरिति यजमानो वै सुम्नयुः स हि देवाञ्जिगीषति स हि देवाञ्जिघांसति तस्मादाह देवाञ्जिगाति सुम्नयुरिति सैषाग्नेयी सत्यनिरुक्ता सर्वं वा अनिरुक्तं सर्वेणैवैतत्प्रतिपद्यते - १.४.१.२१

अग्न आयाहि वीतय इति(ऋ.६.१६.१०) । तद्वेति भवति वीतय इति समन्तिकमिव ह वा इमेऽग्रे लोका आसुरित्युन्मृश्या हैव द्यौरास - १.४.१.२२

ते देवा अकामयन्त । कथं नु न इमे लोका वितरां स्युः कथं न इदं वरीय इव स्यादिति तानेतैरेव त्रिभिरक्षरैर्व्यनयन्वीतय इति त इमे विदूरं लोकास्ततो देवेभ्यो वरीयोऽभवद्वरीयो ह वा अस्य भवति यस्यैवं विदुष एतामन्वाहुर्वीतय इति - १.४.१.२३

गृणानो हव्यदातय इति । यजमानो वै हव्यदातिर्गृणानो यजमानायेत्येवैतदाह नि होता सत्सि बर्हिषीत्यग्निर्वै होतायं लोको बर्हिरस्मिन्नेवैतल्लोकेऽग्निं दधाति सोऽयमस्मिंल्लोकेऽग्निर्हितः सैषेममेव लोकमभ्यनूक्तेममेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः - १.४.१.२४

तं त्वा समिद्भिरङ्गिर इति(ऋ.६.१६.११) । समिद्भिर्ह्येतमङ्गिरस ऐन्धताङ्गिर इत्यङ्गिरा उ ह्यग्निर्घृतेन वर्धयामसीति तत्सामिधेनं पदं समेवैनं तेनेन्धे वीर्यमेवास्मिन्दधाति - १.४.१.२५

बृहच्छोचा यविष्ठ्येति । बृहदु ह्येष शोचति समिद्धो यविष्ठ्येति यविष्ठो ह्यग्निस्तस्मादाह यविष्ठ्येति सैषितमेव लोकमभ्यनूक्तान्तरिक्षलोकमेव तस्मादाग्नेयी सत्यनिरुक्ता निरुक्तो ह्येष लोक एतमेवैतया लोकं जयति यस्यैवंविदुष एतामन्वाहुः - १.४.१.२६

स नः पृथु श्रवाय्यमिति(ऋ.६.१६.१२) । अदो वै पृथु यस्मिन्देवा एतच्छ्रवाय्यं यस्मिन्देवा अच्छा देव विवाससीत्यच्छा देव विवासस्येतन्नो गमयेत्येवैतदाह - १.४.१.२७

बृहदग्ने सुवीर्यामिति । अदो वै बृहद्यस्मिन्देवा एतत्सुवीर्यं यस्मिन्देवाः सैषितमेव लोकमभ्यनूक्ता दिवमेवैतमेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः - १.४.१.२८

सो न्वाह । ईडेन्यो नमस्य इति(ऋ.३.२७.१३) ईडेन्यो ह्येष नमस्यो ह्येष तिरस्तमांसि दर्शत इति तिर इव ह्येष तमांसि समिद्धो ददृशे समग्निरिध्यते वृषेति सं हीध्यते वृषा वृषो अग्निः समिध्यत इति(ऋ.३.२७.१४) सं हीध्यते - १.४.१.२९

अश्वो न देववाहन इति । अश्वो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति यद्वैनेत्यृच्योमिति तत्तस्मादाहाश्वो न देववाहन इति - १.४.१.३०

तं हविष्मन्त ईडत इति । हविष्मन्तो ह्येतं मनुष्या ईडते तस्मादाह तं हविष्मन्त ईडत इति - १.४.१.३१

वृषणं त्वा वयं वृषन्वृषणः समिधीमहीति(ऋ.३.२७.१५) । सं ह्येनमिन्धतेऽग्ने दीद्यतं बृहदिति दीदयेव ह्येष बृहत्समिद्धः - १.४.१.३२

तं वा एतम् । वृषण्वन्तं त्रिचमन्वाहाग्नेय्यो वा एताः सर्वाः सामिधेन्यो भवन्तीन्द्रो वै यज्ञस्य देवतेन्द्रो वृषैतेनो हास्यैताः सेन्द्राः सामिधेन्यो भवन्ति तस्माद्वृषण्वन्तं त्रिचमन्वाह- १.४.१.३३

सोऽन्वाह । अग्निं दूतं वृणीमह इति देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे तान्त्स्पर्धमानान्गायत्र्यन्तरा तस्थौ या वै सा गायत्र्यासीदियं वै सा पृथिवीयं हैव तदन्तरा तस्थौ त उभय एव विदांचक्रुर्यतरान्वै न इयमुपावर्त्स्यति ते भविष्यन्ति परेतरे भविष्यन्तीति तामुभय एवोपमन्त्रयांचक्रिरेऽग्निरेव देवानां दूत आस सहरक्षा इत्यसुररक्षसमसुराणां साग्निमेवानुप्रेयाय तस्मादन्वाहाग्निं दूतं वृणीमह इति स हि देवानां दूत आसीद्धोतारं विश्ववेदसमिति- १.४.१.३४

तदु हैकेऽन्वाहुः । होता यो विश्ववेदस इति नेदरमित्यात्मानं ब्रवाणीति तदु तथा न ब्रूयान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्माद्यथैवर्चानूक्तमेवानुब्रूयाद्धोतारं विश्ववेदसमित्येवास्य यज्ञस्य सुक्रतुमित्येष हि यज्ञस्य सुक्रतुर्यदग्निस्तस्मादाहास्य यज्ञस्य सुक्रतुमिति सेयं देवानुपाववर्त ततो देवा अभवन्परासुरा भवति ह वा आत्मना परास्य सपत्ना भवन्ति यस्यैवंविदुष एतामन्वाहुः - १.४.१.३५

तां वा अष्टमीमनुब्रूयात् । गायत्री वा एषा निदानेनाष्टाक्षरा वै गायत्री तस्मादष्टमीमनुब्रूयात् - १.४.१.३६

तद्धैके । पुरस्ताद्धाय्ये दधत्यन्नं धाय्ये मुखत इदमन्नाद्यं दध्म इति वदन्तस्तदु तथा न कुर्यादनवकॢप्ता ह तस्यैषा भवति यः पुरस्ताद्धाय्ये दधाति दशमी वा हि तर्ह्येकादशी वा सम्पद्यते तस्यो हैवैषावकॢप्ता भवति यस्यैतामष्टमीमन्वाहुस्तस्मादुपरिष्टादेव धाय्ये दध्यात् - १.४.१.३७

समिध्यमानो अध्वर इति(ऋ.३.२७.४) । अध्वरो वै यज्ञः समिध्यमानो यज्ञ इत्येवैतदाहाग्निः पावक ईड्य इति पावको ह्येष ईड्यो ह्येष शोचिष्केशस्तमीमह इति शोचन्तीव ह्येतस्य केशाः समिद्धस्य समिद्धो अग्न आहुतेति(ऋ.५.२८.५) अतः प्राचीनं सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधोऽपवृङ्क्त इव ह्येतद्धोता यद्वा अन्यत्समिध इध्मस्यातिरिच्यतेऽतिरिक्तं तद्यद्वै यज्ञस्यातिरिक्तं द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते तस्मादतः प्राचीनं सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधः - १.४.१.३८

देवान्यक्षि स्वध्वरेति । अध्वरो वै यज्ञो देवान्यक्षि सुयज्ञियेत्येवैतदाह त्वं हि हव्यवाडसीत्येष हि हव्यवाड्यदग्निस्तस्मादाह त्वं हि हव्यवाडसीति
आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे वृणीध्वं हव्यवाहनमिति (ऋ.५.२८.६) सम्प्रेष्यत्येवैतया जुहुत च यजत च यस्मै कामाय समैन्धिढ्वं तत्कुरुतेत्येवैतदाहाग्निं प्रयत्यध्वर इत्यध्वरो वै यज्ञोऽग्निं प्रयति यज्ञ इत्येवैतदाह वृणीध्वं हव्यवाहनमित्येष हि हव्यवाहनो यदग्निस्तस्मादाह वृणीध्वं हव्यवाहनमिति - १.४.१.३९

तं वा एतम् । अध्वरवन्तं त्रिचमन्वाह देवान्ह वै यज्ञेन यजमानान्त्सपत्ना असुरा दुधूर्षां चक्रुस्ते दुधूर्षन्त एव न शेकुर्धूर्वितुं ते पराबभूवुस्तस्माद्यज्ञोऽध्वरो नाम दुधूर्षन्ह वा एनं सपत्नः पराभवति यस्यैवं विदुषोऽध्वरवन्तं त्रिचमन्वाहुर्यावद्वेव सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति - १.४.१.४०
अध्वरशब्दस्य विवेचनम्

सम्पाद्यताम्

टिप्पणी

File:सामिधेनी Samidheni.ogg