शतपथब्राह्मणम्/काण्डम् १/अध्यायः ४/ब्राह्मण ३

१.४.३ शान्तिकर्म

यो ह वा अग्निः सामिधेनीभिः समिद्धः । अतितरां ह वै स इतरस्मादग्नेस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः - १.४.३.[१]

स यथा हैवाग्निः । सामिधेनीभिः समिद्धस्तपत्येवं हैव ब्राह्मणः सामिधेनीर्विद्वाननुब्रुवंस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः - १.४.३.[२]

सोऽन्वाह । प्रव इति प्राणो वै प्रवान्प्राणमेवैतया समिन्द्धेऽग्न आयाहि वीतय इत्यपानो वा एतवानपानमेवैतया समिन्द्धे बृहच्छोचा यविष्ठ्येत्युदानो वै बृहच्छोचा उदानमेवैतया समिन्द्धे - १.४.३.

स नः पृथु श्रवाय्यमिति । श्रोत्रं वै पृथु श्रवाय्यं श्रोत्रेण हीदमुरु पृथु शृणोति श्रोत्रमेवैतया समिन्द्धे - १.४.३.[४]

ईडेन्यो नमस्य इति । वाग्वा ईडेन्या वाग्घीदं सर्वमीट्टे वाचेदं सर्वमीडितं वाचमेवैतया समिन्द्धे - १.४.३.[५]

अश्वो न देववाहन इति । मनो वै देववाहनं मनो हीदं मनस्विनं भूयिष्ठं वनीवाह्यते मन एवैतया समिन्द्धे - १.४.३.[६]

अग्ने दीद्यतं बृहदिति । चक्षुर्वै दीदयेव चक्षुरेवैतया समिन्द्धे - १.४.३.[७]

अग्निं दूतं वृणीमह इति । य एवायं मध्यमः प्राण एतमेवैतया समिन्धे सा हैषान्तस्था प्राणानामतो ह्यन्य ऊर्ध्वाः प्राणा अतोऽन्येऽवाञ्चोऽन्तस्था ह भवत्यन्तस्थामेनं मन्यन्ते य एवमेतामन्तस्थां प्राणानां वेद - १.४.३.[८]

शोचिष्केशस्तमीमह इति । शिश्नं वै शोचिष्केशं शिश्नं हीदं शिश्नं भूयिष्ठं शोचयति शिश्नमेवैतया समिन्द्धे - १.४.३.[९]

समिद्धो अग्न आहुतेति । य एवायमवाङ्प्राण एतमेवैतया समिन्द्ध आ जुहोता दुवस्यतेति सर्वमात्मानं समिन्द्ध आ नखेभ्योऽथो लोमभ्यः - १.४.३.[१०]

स यद्येनं प्रथमायां सामिधेन्यामनुव्याहरेत् । तं प्रति ब्रूयात्प्राणं वा एतदात्मनोऽग्नावाधाः प्राणेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात् - १.४.३.[११]

यदि द्वितीयस्यामनुव्याहरेत् । तं प्रति ब्रूयादपानं वा एतदात्मनोऽग्नावाधा अपानेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात् - १.४.३.[१२]

यदि तृतीयस्यामनुव्याहरेत् । तं प्रति ब्रूयादुदानं वा एतदात्मनोऽग्नावाधाः उदानेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात् - १.४.३.[१३]

यदि चतुर्थ्यामनुव्याहरेत् । तं प्रतिब्रूयाच्छ्रोत्रं वा एतदात्मनोऽग्नावाधाः श्रोत्रेणात्मन आर्त्तिमारिष्यसि बधिरो भविष्यसीति तथा हैव स्यात् - १.४.३.[१४]

यदि पञ्चम्यामनुव्याहरेत् । तं प्रति ब्रूयाद्वाचं वा एतदात्मनोऽग्नावाधा वाचात्मन आर्त्तिमारिष्यसि मूको भविष्यसीति तथा हैवस्यात् - १.४.३.[१५]

यदि षष्ठ्यामनुव्याहरेत् । तं प्रति ब्रूयान्मनो वा एतदात्मनोऽग्नावाधा मनसात्मन आर्त्तिमारिष्यसि मनोमुषिगृहीतो मोमुघश्चरिष्यसीति तथा हैव स्यात् - १.४.३.[१६]

यदि सप्तम्यां अनुव्याहरेत् तं प्रति ब्रूयाच्चक्षुर्वा एतदात्मनोऽग्नावाधाश्चक्षुषात्मन आर्त्तिमारिष्यस्यन्धो भविष्यसीति तथा हैव स्यात् - १.४.३.[१७]

यद्यष्टम्यामनुव्याहेत्। तं प्रति ब्रूयान्मध्यं वा एतत्प्राणमात्मनोऽग्नावाधा मध्येन प्राणेनात्मन आर्त्तिमारिष्यस्युद्ध्माय मरिष्यसीति तथा हैव स्यात् - १.४.३.[१८]

यदि नवम्यामनुव्याहरेत्। तं प्रतिब्रूयाच्छिश्नं वा एतदात्मनोऽग्नावाधाः शिश्नेनात्मन आर्त्तिमारिष्यसि क्लीबो भविष्यसीति तथा हैवस्यात् - १.४.३.[१९]

यदि दशम्यामनुव्याहरेत्। तं प्रति ब्रूयादवाञ्चं वा एतत्प्राणमात्मनोऽग्नावाधा अवाचा प्राणेनात्मन आर्त्तिमारिष्यस्यपिनद्धो मरिष्यसीति तथा हैव स्यात् - १.४.३.[२०]

यद्येकादश्यामनुव्याहेत्। तं प्रति ब्रूयात्सर्वं वा एतदात्मानमग्नावाधाः सर्वेणात्मनार्त्तिर्मारिष्यसि क्षिप्रेऽमुं लोकमेष्यसीति तथा हैव स्यात् - १.४.३.[२१]

स यथा हैवाग्निम् । सामिधेनीभिः समिद्धमापद्यार्त्तिं न्येत्येवं हैव ब्राह्मणं सामिधेनीर्विद्वांसं समनुब्रुवन्तमनुव्याहृत्यार्त्तिं न्येति - १.४.३.[२२]