शतपथब्राह्मणम्/काण्डम् १/अध्यायः ६/दर्शोपचारः

१.६.४ दर्शोपचारः

इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । सोऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे स पराः परावतो जगाम देवा ह वै विदांचक्रुर्हतो वै वृत्रोऽथेन्द्रो न्यलेष्टेति - १.६.४.१

तमन्वेष्टुं दध्रिरे । अग्निर्देवतानां हिरण्यस्तूप ऋषीणां बृहती च्छन्दसां तमग्निरनुविवेद तेनैतां रात्रिं सहाजगाम स वै देवानां वसुर्वीरो ह्येषाम् - १.६.४.२

ते देवा अब्रुवन् । अमा वै नोऽद्य वसुर्वसति यो नः प्रावात्सीदिति ताभ्यामेतद्यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्यां समानमोदनं पचेदजं वा तदह मानुषं हविर्देवानामेवमाभ्यामेतत्समानं हविर्निरवपन्नैन्द्राग्नं द्वादशकपालं पुरोडाशं तस्मादैन्द्राग्नो द्वादशकपालं पुरोडाशो भवति - १.६.४.३

स इन्द्रोऽब्रवीत् । यत्र वै वृत्राय वज्रं प्राहरं तद्व्यस्मये स कृश इवास्मि न वै मेदं धिनोति यन्मा धिनवत्तन्मे कुरुतेति तथेति देवा अब्रुवन् - १.६.४.४

ते देवा अब्रुवन् । न वा इममन्यत्सोमाद्धिनुयात्सोममेवास्मै सम्भरामेति तस्मै सोमं समभरन्नेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति स इहैवापश्चौषधीश्च प्रविशति स वै देवानां वस्वन्नं ह्येषां तद्यदेष एतां रात्रिमिहामा वसति तस्मादमावास्या नाम - १.६.४.५

तं गोभिरनुविष्ठाप्य समभरन् । यदोषधीराश्नंस्तदोषधिभ्यो यदपोऽपिबंस्तदद्भ्यस्तमेवं संभृत्यातच्य तीव्रीकृत्य तमस्मै प्रायच्छन् - १.६.४.६

सोऽब्रवीत् । धिनोत्येव मेदं नेव तु मयि श्रयते यथेदं मयि श्रयातै तथोपजानीतेति तं शृतेनैवाश्रयन् - १.६.४.७

तद्वा एतत् समानमेव सत्पय एव सदिन्द्रस्यैव सत्तत्पुनर्नानेवाचक्षते यदब्रवीद्धिनोति मेति तस्माद्दध्यथ यदेनं शृतेनैवाश्रयंस्तस्माच्छृतं - १.६.४.८

स यथांशुराप्यायेत् । एवमाप्यायताप पाप्मानं हरिमाणमहतैष उ आमावास्यस्य बन्धुः स यो हैवं विद्वान्त्संनयत्येवं हैव प्रजया पशुभिराप्यायतेऽप पाप्मानं हते तस्माद्वै संनयेत् - १.६.४.९

तदाहुः । नासोमयाजी संनयेत्सोमाहुतिर्वा एषा सानवरुद्धा सोमयाजिनस्तस्मान्नासोमयाजी संनयेदिति - १.६.४.१०

तदु समेव नयेत् । नन्वत्रान्तरेण शुश्रुम सोमेन नु मा याजयताथ म एतदाप्यायनं संभरिष्यथेत्यब्रवीदिति न वै मेदं धिनोति यन्मा धिनवत्तन्मे कुरुतेति तस्मा एतदाप्यायनं समभरंस्तस्मादप्यसोमयाजी समेव नयेत् - १.६.४.११

वार्त्रघ्नं वै पौर्णमासम् । इन्द्रो ह्येतेन वृत्रमहन्नथैतदेव वृत्रहत्यं यदामावास्यं वृत्रं ह्यस्मा एतज्जघ्नुष आप्यायनमकुर्वन् - १.६.४.१२

तद्वा एतदेव वार्त्रघ्नम् । यत्पौर्णमासमथैष एव वृत्रो यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदेनमेतेन सर्वं हन्ति नास्य किं चन परिशिनष्टि सर्वं ह वै पाप्मानं हन्ति न पाप्मनः किं चन परिशिनष्टि य एवमेतद्वेद - १.६.४.१३

तद्धैके । दृष्ट्वोपवसन्ति श्वो नोदेतेत्यदो हैव देवानामविक्षीणमन्नम्भवत्यथैभ्यो वयमित उपप्रदास्याम इति तद्धि समृद्धं यदक्षीण एव पूर्वस्मिन्नन्नेऽथापरमन्नमागच्छति स ह बह्वन्न एव भवत्यसोमयाजी तु क्षीरयाज्यदो हैव सोमो राजा भवति - १.६.४.१४

अथ यथैव पुरा । केवलीरोषधीरश्नन्ति केवलीरपः पिबन्ति ताः केवलमेव पयो दुह्र एव तदेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति स इहापश्चौषधीश्च प्रविशति तदेनमद्भ्य ओषधिभ्यः संभृत्याहुतिभ्योऽधि जनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे - १.६.४.१५

तद्वा एतत् । अविक्षीणमेव देवानामन्नाद्यं परिप्लवतेऽविक्षीणं ह वा अस्यास्मिंलोकेऽन्नं भवत्यक्षय्यममुष्मिंलोके सुकृतं य एवमेतद्वेद - १.६.४.१६

तद्वा एतां रात्रिम् । देवेभ्योऽन्नाद्यं प्रच्यवते तदिमं लोकमागच्छति ते देवा अकामयन्त कथं नु न इदं पुनरागच्छेत्कथं न इदं परागेव न प्रणश्येदिति तद्य एव संनयन्ति तेष्वाशंसन्त एत एव नः संभृत्य प्रदास्यन्तीत्या ह वा अस्मिन्त्स्वाश्च निष्ट्याश्च शंसन्ते य एवमेतद्वेद यो वै परमतां गच्छति तस्मिन्नाशंसन्ते - १.६.४.१७

तद्वा एष एवेन्द्रः । य एष तपत्यथैष एव वृत्रो यच्चन्द्रमाः सोऽस्यैष भ्रातृव्यजन्मेव तस्माद्यद्यपि पुरा विदूरमिवोदितोऽथैनमेतां रात्रिमुपैव न्याप्लवते सोऽस्य व्यात्तमापद्यते - १.६.४.१८

तं ग्रसित्वोदेति । स न पुरस्तान्न पश्चाद्ददृशे ग्रसते ह वै द्विषन्तम्भ्रातृव्यमयमेवास्ति नास्य सपत्नाः सन्तीत्याहुर्य एवमेतद्वेद - १.६.४.१९

तं निर्धीय निरस्यति । स एष धीतः पश्चाद्ददृशे स पुनराप्यायते स एतस्यैवान्नाद्याय पुनराप्यायते यदि ह वा अस्य द्विषन्भ्रातृव्यो वणिज्यया वा केनचिद्वा सम्भवत्येतस्य हैवान्नाद्याय पुनः सम्भवति य एवमेतद्वेद - १.६.४.२०

तद्धैके । महेन्द्रायेति कुर्वन्तीन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्महेन्द्रायेति तद्विन्द्रायेत्येव कुर्यादिन्द्रो वा एष पुरा वृत्रस्य वधादिन्द्रो वृत्रं जघ्निवांस्तस्माद्विन्द्रायेत्येव कुर्यात् - १.६.४.२१