शतपथब्राह्मणम्/काण्डम् १/अध्यायः ६/प्रयाजानामिष्टौ प्राथम्यम्
१.६.१ प्रयाजानामिष्टौ प्राथम्यम्
ऋतवो ह वै देवेषु यज्ञे भागमीषिरे । आ नो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वेव नोऽपि यज्ञे भाग इति - १.६.१.१
तद्वै देवा न जज्ञुः । त ऋतवो देवेष्वजानत्स्वसुरानुपावर्तन्ताप्रियान्देवानां द्विषतो भ्रातृव्यान्- १.६.१.२
ते हैतामेधतुमेधां चक्रिरे । यामेषामेतामनुशृण्वन्ति कृषन्तो ह स्मैव पूर्वे वपन्तो यन्ति लुनन्तोऽपरे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे - १.६.१.३
तद्वै देवानामाग आस । कनीय इन्न्वतो द्विषन्द्विषतेऽरातीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथासदिति - १.६.१.४
ते होचुः ऋतूनेवानुमन्त्रयामहा इति केनेति प्रथमानेवैनान्यज्ञे यजामेति - १.६.१.५
स हाग्निरुवाच । अथ यन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामायतनाच्च्यावयाम इति ते यदृतूनभिह्वयमाना अथाग्निमायतनान्नाच्यावयंस्तस्मादग्निरच्युतो न ह वा आयतनाच्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्युतं वेद - १.६.१.६
ते देवा अग्निमब्रुवन् परेह्येनांस्त्वमेवानुमन्त्रयस्वेति स हेत्याग्निरुवाचऽर्तेवोऽविदं वै वो देवेषु यज्ञे भागमिति कथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति - १.६.१.७
त ऋतवोऽग्निमब्रुवन् । आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे भागमविद इति स एषोऽग्निर्ऋतुष्वाभक्तः समिधो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्निमित्याभक्तो ह वै तस्यां पुण्यकृत्यायां भवति यामस्य समानो ब्रुवाणः करोत्यग्निमते ह वा अस्मा अग्निमन्त ऋतव ओषधीः पचन्तीदं सर्वं य एवमेतमग्निमृतुष्वाभक्तं वेद - १.६.१.८
तदाहुः । यदुत्तमान्प्रयाजानावाहयन्त्यथ कस्मादेनान्प्रथमान्यजन्तीत्युत्तमान्ह्येनान्यज्ञेऽवाकल्पयन्प्रथमान्वो यजामेत्यब्रुवंस्तस्मादुत्तमानावाहयन्ति प्रथमान्यजन्ति - १.६.१.९
चतुर्थेन वै प्रयाजेन देवाः । यज्ञमाप्नुवंस्तं पञ्चमेन समस्थापयन्नथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं समाश्नुवत - १.६.१.१०
ते स्वर्गं लोकं यन्तः । असुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तेऽग्निम्पुरस्तादकुर्वत रक्षोहणं रक्षसामपहन्तारमग्निं मध्यतोऽकुर्वत रक्षोहणं रक्षसामपहन्तारमग्निं पश्चादकुर्वत रक्षोहणं रक्षसामपहन्तारं - १.६.१.११
स यद्येनान्पुरस्तात् । असुररक्षसान्यासिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्ता यदि मध्यत आसिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्ता यदि पश्चादासिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा रक्षसामपहन्ता त एवं सर्वतोऽग्निभिर्गुप्यमानाः स्वर्गं लोकं समाश्नुवत - १.६.१.१२
तथो एवैष एतत् । चतुर्थेनैव प्रयाजेन यज्ञमाप्नोति तं पञ्चमेन संस्थापयत्यथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं समश्नुते - १.६.१.१३
स यदाग्नेयमाज्यभागं यजति । अग्निमेवैतत्पुरस्तात्कुरुते रक्षोहणं रक्षसामपहन्तारमथ यदाग्नेयः पुरोडाशो भवत्यग्निमेवैतन्मध्यतः कुरुते रक्षोहणं रक्षसामपहन्तारमथ यदग्निं स्विष्टकृतं यजत्यग्निमेवैतत्पश्चात्कुरुते रक्षोहणं रक्षसामपहन्तारं - १.६.१.१४
स यद्येनं पुरस्तात् । असुररक्षसान्यासिसंक्षन्त्याग्नेरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता यदि मध्यत असुररक्षसान्यासिसंक्षन्त्यग्निरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता यदि पश्चादसुररक्षसान्यासिसंक्षन्त्यग्निरेव तान्यपहन्ति रक्षोहा रक्षसामपहन्ता स एवं सर्वतोऽग्निभिर्गुप्यमानः स्वर्गं लोकं समश्नुते - १.६.१.१५
स यद्येनं पुरस्तात् । यज्ञस्यानुव्याहरेत्तं प्रतिब्रूयान्मुख्यामार्त्तिमारिष्यस्यन्धो वा बधिरो वा भविष्यसीत्येता वै मुख्या आर्त्तयस्तथा हैव स्यात् - १.६.१.१६
यदि मध्यतो यज्ञस्यानुव्याहरेत् । तं प्रति ब्रूयादप्रजा अपशुर्भविष्यसीति प्रजा वै पशवो मध्यं तथा हैव स्यात् - १.६.१.१७
यद्यन्ततो यज्ञस्यानुव्याहरेत् । तं प्रति ब्रूयादप्रतिष्ठितो दरिद्रः क्षिप्रेऽमुं लोकमेष्यसीति तथा हैव स्यात्तस्मादु ह नानुव्याहारीव स्यादुत ह्येवंवित्परो भवति - १.६.१.१८
संवत्सरं ह वै प्रयाजैर्जयञ्जयति । स ह न्वेवैनं जयति योऽस्य द्वाराणि वेद किं हि स तैर्गृहैः कुर्याद्यानन्तरतो न व्यवविद्याद्यथायथास्य ते भवन्ति तस्य वसन्त एव द्वारं हेमन्तो द्वारं तं वा एतं संवत्सरं स्वर्गं लोकम्प्रपद्यते सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेन हास्याक्षय्यं सुकृतम्भवत्यक्षय्यो लोकः - १.६.१.१९
तदाहुः । किंदेवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयादनिरुक्तो वै प्रजापतिरनिरुक्तान्याज्यानि तानि हैतानि यजमानदेवत्यान्येव यजमानो ह्येव स्वे यज्ञे प्रजापतिरेतेन ह्युक्ता ऋत्विजस्तन्वते तं जनयन्ति - १.६.१.२०
स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति सैषाज्येन मिश्राहुतिर्हूयते यजमानेन हैवैषैतन्मिश्रा हूयते यदि ह वा अपि दूरे सन्यजते यद्यन्तिके यथा हैवान्ते सत इष्टं स्यादेवं हैवैवं विदुष इष्टं भवति यद्यु हापि बह्विव पापं करोति नो हैव बहिर्धा यज्ञाद्भवति य एवमेतद्वेद - १.६.१.२१