२.१.४.

यदहरस्य श्वोऽग्न्याधेयं स्यात् । दिवैवाश्नीयान्मनो ह वै देवा मनुष्यस्याजानन्ति तेऽस्यैतच्छ्वोऽग्न्याधेयं विदुस्तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः - २.१.४.[१]

तन्न्वेवानवकॢप्तं यो मनुष्येष्वनश्नत्सु पूर्वोऽश्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्वोऽश्नीयात्तस्मादु दिवैवाश्नीयात्तद्वपि काममेव नक्तमश्नीयान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो ह्येवैष तावद्भवति यावदनाहिताग्निस्तस्माद्वपि काममेव नक्तमश्नीयात् - २.१.४.[२]

तद्धैकेऽजमुपबध्नन्ति । आग्नेयोऽजोऽग्नेरेव सर्वत्वायेति वदन्तस्तदु तथा न कुर्याद्यद्यस्याजः स्यादग्नीध एवैनं प्रातर्दद्यात्तेनैव तं काममाप्नोति तस्मादु तन्नाद्रियेत - २.१.४.[३]

अथ चातुष्प्राश्यमोदनं पचन्ति । छन्दांस्यनेन प्रीणीम इति यथा येन वाहनेन स्यन्त्स्यन्त्स्यात्तत्सुहितं कर्तवै ब्रूयादेवमेतदिति वदन्तस्तदु तथा न कुर्याद्यद्वा अस्य ब्राह्मणाः कुले वसन्त्यृत्विजश्चानृत्विजश्च तेनैव तं काममाप्नोति तस्मादु तन्नाद्रियेत - २.१.४.[४]

तस्य सर्पिरासेचनं कृत्वा । सर्पिरासिच्याश्वत्थीस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्यादधति शमीगर्भमेतदाप्नुम इति वदन्तः स यः पुरस्तात्संवत्सरमभ्यादध्यात्स ह तं काममाप्नुयात्तस्मादु
तन्नाद्रियेत - २.१.४.[५]

तदु होवाच भाल्लवेयः । यथा वा अन्यत्करिष्यन्त्सोऽन्यत्कुर्याद्यथान्यद्वदिष्यन्त्सोऽन्यद्वदेद्यथान्येन पथैष्यन्त्सोऽन्येन प्रतिपद्येतैवं तद्य एतं चातुष्प्राश्यमोदनं पचेदपराद्धिरेव सेति न हि तदवकल्पते यस्मिन्नग्नावृचा वा साम्ना वा यजुषा वा समिधं वाभ्यादध्यादाहुतिं वा जुहुयाद्यत्तं दक्षिणा वा हरेयुरनु वा गमयेयुर्दक्षिणा वा ह्येनं हरन्त्यन्वाहार्यपचनो भविष्यतीत्यनु वा गमयन्ति - २.१.४.[६]

अथ जाग्रति देवाः । तद्देवानेवैतदुपावर्तते स सदेवतरः श्रान्ततरस्तपस्वितरोऽग्नी आधत्ते तद्वपि काममेव स्वप्यान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो ह्येवैष तावद्भवति यावदनाहिताग्निस्तस्माद्वपि काममेव स्वप्यात् - २.१.४.[७]

तद्धैकेऽनुदिते मथित्वा । तमुदिते प्राञ्चमुद्धरन्ति तदु तदुभे अहोरात्रे परिगृह्णीमः प्राणोदानयोर्मनसश्च वाचश्च पर्याप्त्या इति वदन्तस्तदु तथा न कुर्यादुभौ हैवास्य तथानुदित आहितौ भवतोऽनुदिते हि मथित्वा तमुदिते प्राञ्चमुद्धरन्ति स य उदित आहवनीयं मन्थेत्स ह तत्पर्याप्नुयात् - २.१.४.[८]

अहर्वै देवाः । अनपहतपाप्मानः पितरो न पाप्मानमपहते मर्त्याः पितरः पुरा हायुषो म्रियते योऽनुदिते मन्थत्यपहतपाप्मानो देवा अप पाप्मानं हतेऽमृता देवा नामृतत्वस्याशास्ति सर्वमायुरेति श्रीर्देवाः श्रियं गच्छति यशो देवा यशो ह भवति य एवं विद्वानुदिते मन्थति - २.१.४.[९]

तदाहुः । यन्नर्चा न साम्ना न यजुषाग्निराधीयतेऽथ केनाधीयत इति ब्रह्मणो हैवैष ब्रह्मणाधीयते वाग्वै ब्रह्म तस्यै वाचः सत्यमेव ब्रह्म ता वा एताः सत्यमेव व्याहृतयो भवन्ति तदस्य सत्येनैवाधीयते - २.१.४.[१०]

भूरिति वै प्रजापतिः । इमामजनयत भुव इत्यन्तरिक्षं स्वरिति दिवमेतावद्वा इदं सर्वं यावदिमे लोकाः सर्वेणैवाधीयते - २.१.४.[११]

भूरिति वै प्रजापतिः । ब्रह्माजनयत भुव इति क्षत्रं स्वरिति विशमेतावद्वा इदं सर्वं यावद्ब्रह्म क्षत्रं विट्सर्वेणैवाधियते - २.१.४.[१२]

भूरिति वै प्रजापतिः । आत्मानमजनयत भुव इति प्रजां स्वरिति पशूनेतावद्वा इदं सर्व यावदात्मा प्रजा पशवः सर्वेणैवाधीयते - २.१.४.[१३]

स वै भूर्भुव इति । एतावतैव गार्हपत्यमादधात्यथ यत्सर्वैरादध्यात्केनाहवनीयमादध्याद्द्वे अक्षरे परिशिनष्टि तेनो एतान्ययातयामानि भवन्ति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवः स्वरिति तान्यष्टावक्षराणि सम्पद्यन्तेऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसाधत्ते - २.१.४.[१४]

देवान्ह वा अग्नीऽआधास्यमानान् । तानसुररक्षसानि ररक्षुर्नाग्निर्जनिष्यते नाग्नी
आधास्यध्व इति तद्यदरक्षंस्तस्माद्रक्षांसि - २.१.४.[१५]

ततो देवा एतं वज्रं ददृशुः । यदश्वं तं पुरस्तादुदश्रयंस्तस्याभयेऽनाष्ट्रे निवातेऽग्निरजायत तस्माद्यत्राग्निं मन्थिष्यन्त्स्यात्तदश्वमानेतवै ब्रूयात्स पूर्वेणोपतिष्ठते वज्रमेवैतदुच्छ्रयति तस्याभयेऽनाष्ट्रे निवातेऽग्निर्जायते - २.१.४.[१६]

स वै पूर्ववाट्स्यात् । स ह्यपरिमितं वीर्यमभिवर्धते यदि पूर्ववाहं न विन्देदपि य एव कश्चाश्वः स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादेष ह्येवानडुहो बन्धुः - २.१.४.[१७]

तं यत्र प्राञ्चं हरन्ति । तत्पुरस्तादश्वं नयन्ति तत्पुरस्तादेवैतन्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति - २.१.४.[१८]

तं वै तथैव हरेयुः । यथैनमेष प्रत्यङ्ङुपाचरेदेष वै यज्ञो यदग्निः प्रत्यङ्हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ यस्मात्पराङ् भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्माद्यज्ञोऽभूदितीश्वरो ह यत्तथैव स्यात् - २.१.४.[१९]

एष उ वै प्राणः । तं वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ्हैवैनं प्राणः प्रविशत्यथ यस्मात्पराङ्भवति पराङु हैवास्मात्प्राणो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणोऽभूदितीश्वरो ह यत्तथैव स्यात् - २.१.४.[२०]

अयं वै यज्ञो योऽयं पवते । तं वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ्हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ यस्मात्पराङ्भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्माद्यज्ञोऽभूदितीश्वरो ह यत्तथैव स्यात् - २.१.४.[२१]

एष उ वै प्राणः । ते वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ्हैवैनं प्राणः प्रविशत्यथ यस्मात्पराङ्भवति पराङु हैवास्मात्प्राणो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणोऽभूदितीश्वरो ह यत्तथैव स्यात्तस्मादु तथैव हरेयुः - २.१.४.[२२]

अथाश्वमाक्रमयति । तमाक्रमय्य प्राञ्चमुन्नयति तं पुनरावर्तयति तमुदञ्चं प्रमुञ्चति वीर्यं वा अश्वो नेदस्मादिदं पराग्वीर्यमसदिति तस्मात्पुनरावर्तयति - २.१.४.[२३]

तमश्वस्य पद आधत्ते । वीर्यं वा अश्वो वीर्य एवैनमेतदाधत्ते तस्मादश्वस्य पद आधत्ते - २.१.४.[२४]

स वै तूष्णीमेवाग्र उपस्पृशति । अथोद्यच्छत्यथोपस्पृशति भूर्भुवः स्वरित्येव तृतीयेनादधाति त्रयो वा इमे लोकास्तदिमानेवैतल्लोकानाप्नोत्येतन्न्वेकम् - २.१.४.[२५]

अथेदं द्वितीयम् । तूष्णीमेवाग्र उपस्पृशत्यथोद्यच्छति भूर्भुवः स्वरित्येव द्वितीयेनादधाति यो वा अस्यामप्रतिष्ठितो भारमुद्यच्छति नैनं शक्नोत्युद्यन्तुं सं हैनं शृणाति - २.१.४.[२६]

स यत्तूष्णीमुपस्पृशति । तदस्यां प्रतिष्ठायां प्रतिष्ठन्ति सोऽस्यां प्रतिष्ठित आधत्ते तथा न व्यथते तदु हैतत्पश्चेव दध्रिर आसुरिः पाञ्चिर्माधुकिः सर्वं वा अन्यदियसितमिव प्रथमेनैवोद्यत्यादध्याद्भूर्भुवः स्वरिति तदेवानियसितमित्यतो यतमथा कामयेत तथा कुर्यात् - २.१.४.[२७]

अथ पुरस्तात्परीत्य । पूर्वार्धमुल्मुकानामभिपद्य जपति द्यौरिव भूम्ना पृथिवीव वरिम्णेति यथासौ द्यौर्बह्वी नक्षत्रैरेवम्बहुर्भूयासमित्येवैतदाह यदाह द्यौरिव भूम्नेति पृथिवीव वरिम्णेति यथेयम्पृथिव्युर्व्येवमुरुर्भूयासमित्येवैतदाह तस्यास्ते पृथिवि देवयजनि पृष्ठ इत्यस्यै ह्येनं पृष्ठ आधत्तेऽग्निमन्नादमन्नाद्यायादध इत्यन्नादोऽग्निरन्नादो भूयासमित्येवैतदाह सैषाशीरेव स यदि कामयेत जपेदेतद्यद्यु कामयेतापि नाद्रियेत - २.१.४.[२८]

अथ सर्पराज्ञ्या ऋग्भिरुपतिष्ठते । आयं गौः पृश्निरक्रमीदसदन्मातरं पुरःपितरं च प्रयन्त्स्वः अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम्त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते प्रति वस्तोरह द्युभिरिति तद्यदेवास्यात्र सम्भारैर्वा नक्षत्रैर्वर्तुभिर्वाधानेन वानाप्तं भवति तदेवास्यैतेन सर्वमाप्तं भवति तस्मात्सर्पराज्ञ्या ऋग्भिरुपतिष्ठते - २.१.४.[२९]

तदाहुः । न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेतीयं वै पृथिवी सर्पराज्ञी स यदेवास्यामाधत्ते तत्सर्वान् कामानाप्नोति तस्मान्न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेति - २.१.४.[३०]