शतपथब्राह्मणम्/काण्डम् २/अध्यायः ४/ब्राह्मण १


२.४.१.

अथ हुतेऽग्निहोत्र उपतिष्ठते । [१]भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयति यदाह भूर्भुवः स्वरिति तया समृद्धयाशिषमाशास्ते सुप्रजाः प्रजाभिः स्याम इति। तत्प्रजामाशास्ते। सुवीरो वीरैः इति। तद्वीरानाशास्ते। सुपोषः पोषैरिति तत्पुष्टिमाशास्ते - २.४.१.१

यद्वा अदो दीर्घमग्न्युपस्थानम् । आशीरेव साशीरियं तदेतावतैवैतत्सर्वमाप्नोति तस्मादेतेनैवोपतिष्ठेतैतेन न्वेव वयमुपचराम इति ह स्माहासुरिः - २.४.१.२

अथ प्रवत्स्यन् । गार्हपत्यमेवाग्र उपतिष्ठतेऽथाहवनीयं - २.४.१.३

स गार्हपत्यमुपतिष्ठते । नर्य प्रजां मे पाहीति प्रजाया हैष ईष्टे तत्प्रजामेवास्मा एतत्परिददाति गुप्त्यै - २.४.१.४

अथाहवनीयमुपतिष्ठते । शंस्य पशून्मे पाहीति पशूनां हैष ईष्टे तत्पशूनेवास्मा एतत्परिददाति गुप्त्यै - २.४.१.५

अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यन्त्त्वा वाचं विसृजतेऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात् - २.४.१.६

स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति - २.४.१.७

स आहवनीयमुपतिष्ठते । आगन्म विश्ववेदसमस्मभ्यं वसुवित्तममग्ने सम्राडभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पति - २.४.१.८

अथ गार्हपत्यमुपतिष्ठते । अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः अग्ने गृहपतेऽभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पत्येतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते - २.४.१.९

स वै खलु तूष्णीमेवोपतिष्ठेत । इदं वै यस्मिन्वसति ब्राह्मणो वा राजा वा श्रेयान्मनुष्यो न्वेव तमेव नार्हति वक्तुमिदं मे त्वं गोपाय प्राहं वत्स्यामीत्यथास्मिन्नेते श्रेयांसो वसन्ति देवा अग्नयः क उ तानर्हति वक्तुमिदम्मे यूयं गोपायत प्राहं वत्स्यामीति - २.४.१.१०

मनो ह वै देवा मनुष्यस्याजानन्ति । स वेद गार्हपत्यः परिदाम्मेदमुपागादिति तूष्णीमेवाहवनीयमुपतिष्ठते स वेदाहवनीयः परिदां मेदमुपागादिति – २.४.२.११

अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यत्त्वा वाचं विसृजतेऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात् - २.४.१.१२

स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं तूष्णीमेवाहवनीयमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति तूष्णीमेव गार्हपत्यमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति - २.४.१.१३

अथातो गृहाणामेवोपचारः । एतद्ध वै गृहपतेः प्रोषुष आगताद्गृहाः समुत्त्रस्ता इव भवन्ति किमयमिह वदिष्यति किं वा करिष्यतीति स यो ह तत्र किंचिद्वदति वा करोति वा तस्माद्गृहाः प्रत्रसन्ति तस्येश्वरः कुलं विक्षोब्धोरथ यो ह तत्र न वदति न किं चन करोति तं गृहा उपसंश्रयन्ते न वा अयमिहावादीन्न किंचनाकरदिति स यदिहापि सुक्रुद्ध इव स्याच्छ्व एव ततस्तत्कुर्याद्यद्वदिष्यन्वा करिष्यन्वा स्यादेष उ गृहाणामुपचारः - २.४.१.१४

  1. वासं ३.३७