शतपथब्राह्मणम्/काण्डम् २/अध्यायः ४/ब्राह्मण ३

२.४.३ आग्रयणेष्टिः

तदु होवाच कहोडः कौषीतकिः । अनयोर्वा अयं द्यावापृथिव्यो रसोऽस्य रसस्य हुत्वा देवेभ्योऽथेममश्नामेति तस्माद्वा आग्रयणेष्ट्या यजत इति - २.४.३.१

तदु होवाच याज्ञवल्क्यः । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततोऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विषेणेव त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभवेमेति ततो न मनुष्या आशुर्न पशव आलिलिशिरेता हेमाः प्रजा अनाशकेन नोत्पराबभूवुः - २.४.३.२

तद्वै देवाः शुश्रुवुः । अनाशकेन ह वा इमाः प्रजाः पराभवन्तीति ते होचुर्हन्तेदमासामपजिघांसामेति केनेति यज्ञेनैवेति यज्ञेन ह स्म वै तद्देवाः कल्पयन्ते यदेषां कल्पमासर्षयश्च - २.४.३.३

ते होचुः । कस्य न इदं भविष्यतीति ते ममममेत्येव न सम्पादयां चक्रुस्ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदं भविष्यतीति तथेति तस्मिन्नाजिमाजन्त - २.४.३.४

ताविन्द्राग्नी उदजयताम् । तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवतीन्द्राग्नी ह्यस्य भागधेयमुदजयतां तौ यत्रेन्द्राग्नी उज्जिगीवांसौ तस्थतुस्तद्विश्वे देवा अन्वाजग्मुः - २.४.३.५

क्षत्रं वा इन्द्राग्नी । विशो विश्वे देवा यत्र वै क्षत्रमुज्जयत्यन्वाभक्ता वै तत्र विट्तद्विश्वान्देवानन्वाभजतां तस्मादेष वैश्वदेवश्चरुर्भवति - २.४.३.६

तं वै पुराणानां कुर्यादित्याहुः । क्षत्रं वा इन्द्राग्नी नेत्क्षत्रमभ्यारोहयाणीति तौ वा उभावेव नवानां स्यातां यद्धि पुरोडाश इतरश्चरुरितरस्तेनैव क्षत्रमनभ्यारूढं तस्मादुभावेव नवानां स्याताम् - २.४.३.७

त उ ह विश्वे देवा ऊचुः । अनयोर्वा अयं द्यावापृथिव्यो रसो हन्तेमे अस्मिन्नाभजामेति ताभ्यामेतं भागमकल्पयन्नेतं द्यावापृथिव्यमेककपालम्पुरोडाशं तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति तस्येयमेव कपालमेकेव हीयं तस्मादेककपालो भवति - २.४.३.८

तस्य परिचक्षा[] । यस्यै वै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तोऽथैतं सर्वमेव जुहोति न स्विष्टकृतेऽवद्यति सा परिचक्षा। उतो हुतः । पर्यावर्तते - २.४.३.९

तदाहुः । पर्याभूद्वा अयमेककपालो मोहिष्यति राष्ट्रमिति नास्य सा परिचक्षाऽऽहवनीयो वा आहुतीनां प्रतिष्ठा स यदाहवनीयं प्राप्यापि दश कृत्वः पर्यावर्तेत न तदाद्रियेत यदीत्त्वन्ये वदन्ति कस्तत्संधमुपेयात्तस्मादाज्यस्यैव यजेदाज्यं ह वा अनयोर्द्यावापृथिव्योः प्रत्यक्षं रसस्तत्प्रत्यक्षमेवैने एतत्स्वेन रसेन मेधेन प्रीणाति तस्मादाज्यस्यैव यजेत् - २.४.३.१०

एतेन वै देवाः । यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्नुस्तत आश्नन्मनुष्या आलिशन्त पशवः - २.४.३.११

अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कश्चन कृत्ययेव त्वद्विषेणेव त्वत्प्रलिम्पतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति यमु चैव देवा भागमकल्पयन्त तमु चैवैभ्य एष एतद्भागं करोतीमा उ चैवैतदुभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवस्ता अनमीवा अकिल्विषाः कुरुते ता अस्यानमीवा अकिल्विषा इमाः प्रजा उपजीवन्ति तस्माद्वा एष एतेन यजते - २.४.३.१२

तस्य प्रथमजो गौर्दक्षिणा । अग्र्यमिव हीदं स यदीजानः स्याद्दर्शपूर्णमासाभ्यां वा यजेताथैतेन यजेत यद्यु अनीजानः स्याच्चातुष्प्राश्यमेवैतमोदनमन्वाहार्यपचने पचेयुस्तं ब्राह्मणा अश्नीयुः - २.४.३.१३

द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवास्तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणां हविः स्यादिति ह्याहुर्नाग्निहोत्रे जुहुयात्समदं ह कुर्याद्यदग्निहोत्रे जुहुयादन्यद्वा आग्रयणमन्यदग्निहोत्रं तस्मान्नाग्निहोत्रे जुहुयात् - २.४.३.१४

  1. निन्दा