चातुर्मास्ययागः


ब्राह्मण १ वैश्वदेवपर्व

१ तत्र वैश्वदेवस्य प्रजासृष्टिहेतुत्वप्रतिपादिन्याख्यायिका, तस्यां च प्रजा- पतिसकाशात् प्रजासृष्टिदर्शनम्, अस्मिन्नर्थे ऋङ्मन्त्रसंवाददर्शनम्, तद्व्याख्यानं च, प्राजापत्यायाः सृष्टेरविच्छेदेनानुवृत्तिदर्शनम्, पयसोऽन्नरूपताकथनम्, वैश्वदेवपर्वविधानं, तस्य स्वातंत्र्येणानुष्ठाने प्रजाकामसंयोगकथनं च, आग्नेयादिपौष्णान्तानां पञ्चानां हविषां विधानपूर्वकं प्रशंसनम्, पयस्यायागस्य स्थान- निर्देशपूर्वकं साख्यायिकं मारुतयागविधानम्, वैश्वदेवस्य पयस्यायागस्य द्यावापृथिवीयस्य यागस्य च विधानम्, वैशेष्यकानामङ्गानां विधानम्, तत्र बर्हिराहरणे विशेषविधानं च, कालविशिष्टस्याग्निमन्थनस्य विधानम्, चोदकप्राप्तानां प्रयाजानुयाजानां नवसंख्याकवविधानम् समिष्टयजुर्यागस्य विकल्पेन त्रित्वैकत्वयो- र्विधानं, वैश्वदेवयागस्य सदृष्टान्तं प्रजाश्रीफलसाधनत्वकथनं चेत्यदि.
इति वैश्वदेवपर्व ।


ब्राह्मण २ वरुणप्रघासपर्व

२ तत्र वरुणप्रघासपर्वणो वरुणपाश विमोचनहेतुत्वप्रतिपादिकयाऽऽख्यायिकया तद्विध्युन्नयनम्, वरुणप्रघासेषु चोदकप्राप्तयोर्वेद्याहवनीययोर्द्वित्व- विधानम्, सार्थवादमुत्तरवेदिनिवपनविधानम् वैश्वदेविकाग्नेयादिहविष्पञ्चकस्यात्रापि विधानम्, षष्ठस्यैन्द्राग्नयागस्य विधानम्, वेदिद्वये क्रमाद्वारुण्या मारुत्याश्च पयस्यायाः देवताविधानपूर्वकं सधर्मकं सार्थवादं विधानम्, अन्तिमस्य काययागस्य विधानं, पूर्वेद्युः करम्भपात्रनिर्माणविधानम्, तच्छेषाद्यवपिष्टाद्वारुणस्य मेषस्य मारुत्या मेध्याश्च सधर्मकं सार्थवादं निर्माणविधानम्, हविषामासादनविधानम् एतदुत्तरमग्निमन्थन विधानम् सार्थवादं सप्रकारकं पत्नीकर्तृककरम्भपात्रहोमस्य विधानम्, ततोऽग्निसम्मार्जनप्रभृत्याज्यभागान्तं कर्मजातमध्वर्युप्रतिप्रस्थातृभ्यां प्रकृतिवदनुष्ठेयमिति दर्शनम, तत्राश्रावणे होतृप्रवरणे प्रयाजाज्य- भागप्रधानानुयाजादिप्रैषसम्प्रदाने


ब्राह्मण ३ साकमेधपर्व

३ तत्र साकमेधपर्वणो वृत्रासुरपापरूपशत्रुजयहेतुत्वप्रतिपादकवृन्तान्तकथनपुरःसरं तद्विधानं, तस्याहर्द्वयसाध्यत्वविधानं च, तत्रापि पूर्वेद्युरनुष्ठेयानां तिसृणामनीकवतीसान्तपनीयागृहमेधीयेष्टीनां द्रव्यदेवताकालनिर्देशपुरःसरं सार्थवादं विधानम्, तासु गृहमेधीयेष्ट्याः पिशीलकापिशीलकपक्षद्वयेन धर्मविशेषसहितं कर्तव्याकर्तव्याङ्गानामनुक्रमेण विधानम् दर्वीहोमार्थं सशेषचरुस्थालीनिधानपूर्वकं हविःशेषप्रतिपत्तिकथनम्, तदनंतरमनुष्ठेयस्य सायम्प्रातरग्निहोत्रस्य यवाग्वाऽनुष्ठानविधानम्, रात्रौ वत्ससमवार्जनं कृत्वा प्रातः पितृयज्ञार्थं निवान्या गोर्दोहनं कुर्यादिति विधानम्, ततः प्रातर्हुतेऽहुते वाऽग्निहोत्रे समंत्रकं गृहीत्वा ऋषभाह्वाने वा ब्रह्मणा जुहुधीत्युक्ते समंत्रकस्य पूर्णदर्वाख्यस्य होमस्य विधानम्, ततः कर्तव्यतायाः क्रीडिनीयेष्टेर्द्रव्यदेवताकालनिर्देशपूर्वकं विधानं चेत्यादि.

ब्राह्मण ४ महाहविषेष्टिः

४ महाहविषेष्टिः, तत्र उत्तरवेदिनिवपन पृषदाज्यग्रहणाग्निमन्थनादीनि वरुण- प्रघासवदेवात्रापि कर्तव्यानीति प्रयोगानुक्रमकथनम्, आग्नेयादि- पौष्णान्तहविष्पञ्चकस्यानुवादपूर्वकं प्रशंसनं च, तत ऐन्द्राग्नस्य द्वादशकपालस्य माहेन्द्रस्य चरोर्वैश्वकर्मणस्यैककपालस्य च षष्ठसप्तमाष्टमानां यागानां सार्थवादं विधानम्, एतस्य च उपक्रमावसरायोदीरितफलसाधनत्वस्य निगमनं चेति.


चातुर्मास्ययागविहारः


सम्पाद्यताम्