शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ४/ब्राह्मण १


३.४.१ आतिथ्येष्टिः

शिरो वै यज्ञस्यातिथ्यं बाहू प्रायणीयोदयनीयौ । अभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च - ३.४.१.१

अथ यस्मादातिथ्यं नाम । अतिथिर्वा एष एतस्यागच्छति यत्सोमः क्रीतस्तस्मा एतद्यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत्तदह मानुषं हविर्देवानामेवमस्मा एतदातिथ्यं करोति - ३.४.१.२

तदाहुः । पूर्वोऽतीत्य गृह्णीयादिति यत्र वा अर्हन्तमागतं नापचायन्ति क्रुध्यति वै स तत्र तथा हापचितो भवति - ३.४.१.३

तद्वा अन्यतर एव विमुक्तः स्यात् । अन्यतरोऽविमुक्तोऽथ गृह्णीयात्स यदन्यतरो विमुक्तस्तेनागतो यद्वन्यतरोऽविमुक्तस्तेनापचितः - ३.४.१.४

तदु तथा न कुर्यात् विमुच्यैव प्रपाद्य गृह्णीयाद्यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्मान्मानुषे यावन्न विमुञ्चते नैवास्मै तावदुदकं हरन्ति नापचितिं कुर्वन्त्यनागतो हि स तावद्भवत्यथ यदैव विमुञ्चतेऽथास्मा उदकं हरन्त्यथापचितिं कुर्वन्ति तर्हि हि स आगतो भवति तस्माद्विमुच्यैव प्रपाद्य गृह्णीयात् - ३.४.१.५

स वै संत्वरमाण इव गृह्णीयात् । तथा हापचितो भवति तत्पत्न्यन्वारभते पर्युह्यमाणं वै यजमानोऽन्वारभतेऽथात्र पत्न्युभयत एवैतन्मिथुनेनान्वारभेते यत्र वा अर्हन्नागच्छति सर्वगृह्या इव वै तत्र चेष्टन्ति तथा हापचितो भवति - ३.४.१.६

स वा अन्येनैव ततो यजुषा गृह्णीयात् । येनो चान्यानि हवींष्येकं वा एष भागं क्रीयमाणोऽभिक्रीयते च्छन्दसामेव राज्याय च्छन्दसां साम्राज्याय तस्य छन्दांस्यभितः साचयानि यथा राज्ञोऽराजानो राजकृतः सूतग्रामण्य एवमस्य छन्दांस्यभितः साचयानि - ३.४.१.७

न वै तदवकल्पते । यच्छन्दोभ्य इति केवलं गृह्णीयाद्यत्र वा अर्हते पचन्ति तदभितः साचयोऽन्वाभक्ता भवन्त्यराजानो राजकृतः सूतग्रामण्यस्तस्माद्यत्रैवैतस्यै गृह्णीयात्तदेव छन्दांस्यन्वाभजेत् - ३.४.१.८

स गृह्णाति । अग्नेस्तनूरसि विष्णवे त्वेत्यग्निर्वै गायत्री तद्गायत्रीमन्वाभजति - ३.४.१.९

सोमस्य तनूरसि विष्णवे त्वेति । क्षत्रं वै सोमः क्षत्रं त्रिष्टुप्तत्त्रिष्टुभमन्वाभजति - ३.४.१.१०

अतिथेरातिथ्यमसि विष्णवे त्वेति । सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते च्छन्दोभ्यः - ३.४.१.११

श्येनाय त्वा सोमभृते विष्णवे त्वेति । तद्गायत्रीमन्वाभजति सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः सोमभृत्तेनैवैनामेतद्वीर्येण द्वितीयमन्वाभजति - ३.४.१.१२

अग्नये त्वा रायस्पोषदे विष्णवे त्वेति । पशवो वै रायस्पोषः पशवो जगती तज्जगतीमन्वाभजति - ३.४.१.१३

अथ यत्पञ्च कृत्वो गृह्णाति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्वो गृह्णात्यथ यद्विष्णवे त्वा विष्णवे त्वेति गृह्णाति विष्णवे हि गृह्णाति यो यज्ञाय गृह्णाति - ३.४.१.१४

नवकपालः पुरोडाशो भवति । शिरो वै यज्ञस्यातिथ्यं नवाक्षरा वै गायत्र्यष्टौ तानि यान्यन्वाह प्रणवो नवमः पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य तस्मान्नवकपालः पुरोडाशो भवति - ३.४.१.१५

कार्ष्मर्यमयाः परिधयः । देवा ह वा एतं वनस्पतिषु राक्षोघ्नं ददृशुर्यत्कार्ष्मर्यं शिरो वै यज्ञस्यातिथ्यं नेच्छिरो यज्ञस्य नाष्ट्रा रक्षांसि हिनसन्निति तस्मात्कार्ष्मर्यमयाः परिधयो भवन्ति - ३.४.१.१६

आश्ववालः प्रस्तरः । यज्ञो ह देवेभ्योऽपचक्राम सोऽश्वो भूत्वा पराङाववर्त तस्य देवा अनुहाय वालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्धं संन्यासुस्तत एता ओषधयः समभवन्यदश्ववालाः शिरो वै यज्ञस्यातिथ्यं जघनार्धो वाला उभयत एवैतद्यज्ञं परिगृह्णाति यदाश्ववालाः प्रस्तरो भवति - ३.४.१.१७

ऐक्षव्यौ विधृती । नेद्बर्हिश्च प्रस्तरश्च संलुभ्यात इत्यथोत्पूयाज्यं सर्वाण्येव चतुर्गृहीतान्याज्यानि गृह्णाति न ह्यत्रानुयाजा भवन्ति - ३.४.१.१८

आसाद्य हवींष्यग्निं मन्थति । शिरो वै यज्ञस्यातिथ्यं जनयन्ति वा एनमेतद्यन्मन्थन्ति शीर्षतो वा अग्रे जायमानो जायते शीर्षत एवैतदग्रे यज्ञं जनयत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति शिरो वै यज्ञस्यातिथ्यं शीर्षत एवैतद्यज्ञं सर्वाभिर्देवताभिः समर्धयति तस्मादग्निं मन्थति - ३.४.१.१९

सोऽधिमन्थनं शकलमादत्ते । []अग्नेर्जनित्रमसीत्यत्र ह्यग्निर्जायते तस्मादाहाग्नेर्जनित्रमसीति - ३.४.१.२०

अथ दर्भतरुणके निदधाति । वृषणौ स्थ इति तद्यावेवेमौ स्त्रियै साकंजावेतावेवैतौ - ३.४.१.२१

अथाधरारणिं निदधाति । उर्वश्यसीत्यथोत्तरारण्याज्यविलापनीमुपस्पृशत्यायुरसीति तामभिनिदधाति पुरूरवा असीत्युर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरेवमेवैष एतस्मान्मिथुनाद्यज्ञं जनयत्यथाहाग्नये मथ्यमानायानुब्रूहीति - ३.४.१.२२

स मन्थति । []गायत्रेण त्वा च्छन्दसा मन्थामि त्रैष्टुभेन त्वा च्छन्दसा मन्थामि जागतेन त्वा च्छन्दसा मन्थामीति तं वै च्छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दांस्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह यदा जायते प्रह्रियमाणायेत्यनुप्रहरन् - ३.४.१.२३

सोऽनुप्रहरति । भवतं नः समनसौ सचेतसावरेपसौ मा यज्ञं हिंसिष्टम्मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य न इति शान्तिमेवाभ्यामेतद्वदति यथा नान्योऽन्यं हिंस्याताम् - ३.४.१.२४

अथ स्रुवेणोपहत्याज्यम् । अग्निमभिजुहोत्यग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपावा स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन्त्स्वाहेत्याहुत्यै वा एतमजीजनत तमेतयाहुत्याऽप्रैषीत्तस्मादेवमभिजुहोति - ३.४.१.२५

तदिडान्तं भवति । नानुयाजान्यजन्ति शिरो वै यज्ञस्यातिथ्यं पूर्वार्धो वै शिरः पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति स यद्धानुयाजान्यजेद्यथा शीर्षतः पर्याहृत्य पादौ प्रतिदध्यादेवं तत्तस्मादिडान्तं भवति नानुयाजान्यजन्ति - ३.४.१.२६

टिप्पणी

ऐतरेयब्राह्मणे ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)
  1. वा.सं. ५.२
  2. वा.सं. ५.२