शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ७/ब्राह्मण २


३.७.२

यावती वै वेदिस्तावती पृथिवी । वज्रा वै यूपास्तदिमामेवैतत्पृथिवीमेतैर्वज्रैः स्पृणुतेऽस्यै सपत्नान्निर्भजति तस्माद्यूपैकादशिनी भवति द्वादश उपशयो भवति वितष्टस्तं दक्षिणत उपनिदधाति तद्यद्द्वादश उपशयो भवति - ३.७.२.१

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयाञ्चक्रुस्तद्य एत उच्छ्रिता यथेषुरस्ता तया वै स्तृणुते वा न वा स्तृणुते यथा दण्डः प्रहृतस्तेन वै स्तृणुते वा न वा स्तृणुतेऽथ य एष द्वादश उपशयो भवति यथेषुरायतानस्ता यथोद्यतमप्रहृतमेवमेष वज्र उद्यतो दक्षिणतो नाष्ट्राणां रक्षसामपहत्यै तस्माद्द्वादश उपशयो[१] भवति - ३.७.२.२

तं निदधाति । एष ते पृथिव्यां लोक आरण्यस्ते पशुरिति पशुश्च वै यूपश्च तदस्मा आरण्यमेव पशूनामनुदिशति तेनो एष पशुमान्भवति तद्वयं यूपैकादशिन्यै सम्मयनमाहुः श्वःसुत्यायै ह न्वेवैके सम्मिन्वन्ति प्रकुब्द्रतायै चैव श्वःसुत्यायै यूपं मिन्वन्तीत्यु च - ३.७.२.३

तदु तथा न कुर्यात् । अग्निष्ठमेवोच्छ्रयेदिदं वै यूपमुच्छ्रित्याध्वर्युरापरिव्ययणान्नान्वर्जत्यपरिवीता वा एत एतां रात्रिं वसन्ति सा न्वेव परिचक्षा पशवे वै यूपमुच्छ्रयन्ति प्रातर्वै पशूनालभन्ते तस्मादु प्रातरेवोच्छ्रयेत् - ३.७.२.४

स य उत्तरोऽग्निष्ठात्स्यात् । तमेवाग्र उच्छ्रयेदथ दक्षिणमथोत्तरं दक्षिणार्द्ध्यमुत्तमं तथोदीची भवति - ३.७.२.५

अथो इतरथाहुः । दक्षिणमेवाग्रेऽग्निष्ठादुच्छ्रयेदथोत्तरमथ दक्षिणमुत्तरार्ध्यमुत्तमं तथो हास्योदगेव कर्मानुसंतिष्ठत इति - ३.७.२.६

स यो वर्षिष्ठः स दक्षिणार्ध्यः स्यात् । अथ ह्रसीयानथ ह्रसीयानुत्तरार्ध्यो ह्रसिष्ठस्तथोदीची भवति - ३.७.२.७

अथ पत्नीभ्यः पत्नीयूपमुच्छ्रयन्ति । सर्वत्वाय न्वेव पत्नीयूप उच्छ्रीयते तत्त्वाष्ट्रं पशुमालभते त्वष्टा वै सिक्तं रेतो विकरोति तदेष एवैतत्सिक्तं रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता यन्मुष्करस्तस्मान्मुष्करो भवति तं न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत्स यत्संस्थापयेत्प्रजायै हान्तमियात्तत्प्रजामुत्सृजति तस्मान्न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत् - ३.७.२.८

  1. उपशय-(सा०, आध्व०) पशुयज्ञेषु १. अग्नीषोमीयपशौ तत्प्रकृतिके स्तोमायनसंज्ञके सवनीयपशौ च विकल्पितायां यूपैकादशिन्यां एकादशानां यूपानां समूहे दक्षिणतो भूमौ अवस्थापितो द्वादशो यूप उपशय इत्युच्यते । तत्र एकादशस्वेव यूपेषु पशवो नियुज्यन्ते न द्वादशे उपशये । तदुक्तम् - सर्वे वा अन्ये यूपा: पशुमन्त: उपशय एवापशुः' इति विशेषोऽवगन्तव्य: । २. य: यूपैकादादशिनीपक्षे द्वादश: सकलोऽपि अतष्टः दीर्घतमस्य दक्षिणस्य यूपस्य दक्षिणत उपशेते (भूमौ अवतिष्ठते) स उपशय: यूप इत्युच्यते। तत्र जोषणादयो यूपसंस्कारा न क्रियन्ते। छेदनादयस्तु भवन्तीति विशेषोऽवधेय: । द्र० यूपसंस्कार–, यूपैकादशिनी- । ४. उपशय: नाम यूपविशेषः। यूपैकादशिन्यां स एकादश: (द्वादश:?) तत्र परिव्ययणादिसंस्काराभावेऽपि अमन्त्रका: छेदनादय: केचिद्धर्मा वाचनिका विद्यन्ते । द्र० मी०को० पृ०
    ११७८ ।
    उपशय- (सा०, आध्व०) सोमयज्ञेषु प्रकृतिभूत ज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे सप्रवर्ग्ये प्रवर्ग्यवत्सु च प्रयुक्तौ उपसमीपे शयाते इत्युपशयौ द्वौ महावीरौ तौ उपशयौ इत्युच्येते। द्र० श्रौ०प०नि०(श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः - पं. पीताम्बरदत्त शास्त्री