शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ७/ब्राह्मण ३


३.७.३ अग्नीषोमीयपशुयागः

पशुश्च वै यूपश्च । न वा ऋते यूपात्पशुमालभन्ते कदा चन तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यदन्नमभविष्यन्यथेदमन्नं भूता यथा हैवायं द्विपात्पुरुष उच्छ्रित एवं हैव द्विपाद उच्छ्रिताश्चेरुः - ३.७.३.१

ततो देवा एतं वज्रं ददृशुः । यद्यूपं तमुच्छिश्रियुस्तस्माद्भीषा प्राव्लीयन्त ततश्चतुष्पादा अभवंस्ततोऽन्नमभवन्यथेदमन्नं भूता एतस्मै हि वा एतेऽतिष्ठन्त तस्माद्यूप एव पशुमालभन्ते नर्ते यूपात्कदा चन - ३.७.३.२

अथोपाकृत्य पशुम् । अग्निं मथित्वा नियुनक्ति तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यद्धविरभविष्यन्यथैनानिदं हविर्भूतानग्नौ जुह्वति तान्देवा उपनिरुरुधुस्त उपनिरुद्धा नोपावेयुः - ३.७.३.३

ते होचुः । न वा इमेऽस्य यामं विदुर्यदग्नौ हविर्जुह्वति नैताम्प्रतिष्ठामुपरुध्यैव पशूनग्निं मथित्वाग्नावग्निं जुहवाम ते वेदिष्यन्त्येष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततोऽभ्यवैष्यन्ति ततो रातमनस आलम्भाय भविष्यन्तीति - ३.७.३.४

त उपरुध्यैव पशून् । अग्निं मथित्वाग्नावग्निमजुहुवुस्तेऽविदुरेष वै किल हविषो यामः एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततोऽभ्यवायंस्ततो रातमनस आलम्भायाभवन् - ३.७.३.५

तथो एवैष एतत् । उपरुध्यैव पशुमग्निं मथित्वाग्नावग्निं जुहोति स वेदैष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततोऽभ्यवैति ततो रातमना आलम्भाय भवति तस्मादुपाकृत्य पशुमग्निं मथित्वा नियुनक्ति - ३.७.३.६

तदाहुः । नोपाकुर्यान्नाग्निं मन्थेद्रशनामेवादायाञ्जसोपपरेत्याभिधाय नियुञ्ज्यादिति तदु तथा न कुर्याद्यथाधर्मं तिरश्चथा चिकीर्षेदेवं तत्तस्मादेतदेवानुपरीयात् - ३.७.३.७

अथ तृणमादायोपाकरोति । द्वितीयवान्निरुणधा इति द्वितीयवान्हि वीर्यवान् - ३.७.३.८

स तृणमादत्ते । उपावीरसीत्युप हि द्वितीयोऽवति तस्मादाहोपावीरसीत्युप देवान्दैवीर्विशः प्रागुरिति दैव्यो वा एता विशो यत्पशवोऽस्थिषत देवेभ्य इत्येवैतदाह यदाहोप देवान्दैवीर्विशः प्रागुरिति - ३.७.३.९

उशिजो वह्नितमानिति । विद्वांसो हि देवास्तस्मादाहोशिजो वह्नितमानिति - ३.७.३.१०

देव त्वष्टर्वसु रमेति । त्वष्टा वै पशूनामीष्टे पशवो वसु तानेतद्देवा अतिष्ठमानांस्त्वष्टारमब्रुवन्नुपनिमदेति यदाह देव त्वष्टर्वसु रमेति - ३.७.३.११

हव्या ते स्वदन्तामिति । यदा वा एत एतस्मा अध्रियन्त यद्धविरभविष्यंस्तस्मादाह हव्या ते स्वदन्तामिति - ३.७.३.१२

रेवती रमध्वमिति । रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमिति बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिः पशवो वसु तानेतद्देवा अतिष्ठमानान्ब्रह्मणैव परस्तात्पर्यदधुस्तन्नात्यायंस्तथो एवैनानेष एतद्ब्रह्मणैव परस्तात्परिदधाति तन्नातियन्ति तस्मादाह बृहस्पते धारया वसूनीति पाशं कृत्वा प्रतिमुञ्चत्यथातो नियोजनस्यैव - ३.७.३.१३