ब्राह्मण १

१ पश्वेकादशिनी तां विधातुमाख्यायिका, तत्रैकादशिन्याः फलसहितो विधिः, सामान्येनैकादशिनीफलममिधायेदानीम् आग्नेयसारस्वतसौम्यपौष्णबार्हस्पत्यवैश्व- देवेन्द्रमारुतैन्द्राग्नसावित्रवारुणाख्यांस्तानेकादशिनान्पशून्क्रमेण विधाय तत्फलस्य विभज्य दर्शनम्, तत्र-आग्नेयपशोः प्राथम्ये कारणकथनम्, सौम्यपशोः सारस्वतानन्तर्यस्य प्रशंसनं, बार्हस्पत्यस्य पौष्णानंतर्ये युक्तिप्रदर्शनं, ऐन्द्रस्य वैश्वदेवानंतर्ये कारणदर्शनम्, यूपैकादशिनीपक्षे प्रयोगविधानम्, पश्वेकादशिनीपक्षे प्रयोगविधानम्, उद्धूनयनकाले निवेधने वपाभिः प्रचारेऽङ्गानां यागावसरे च प्रयोगक्रमनिरूपणं चेति


ब्राह्मण २

२ सोमाभिषवार्थे वसतीवरीणां ग्रहणविधानं, गृहीतानां वसतीवरीणां सवनत्रयार्थं विभजनं, गृहीतव्यानामपां विशेषणद्वारा गुणाभिधानं, स्यन्दमानानामपां ग्रहणे उपपत्त्यन्तरकथनं, तत्र दिवाग्रहणस्याभिप्रायाविष्करणम्, अस्तमयात्पूर्वकालीनस्य ग्रहणस्य प्रशंसनं, वसतीवरीग्रहणात्प्रागस्तमये सति तद्ग्रहणोपायकथनं, तदुभयासम्भवे उपायान्तरकथनं, वसतीवरीग्रहणे मन्त्रविधानं तदर्थविवरणं च, आहृतानामपां गार्हपत्यस्य पश्चाद्भागे समन्त्रं सादनधानम्, -अग्नीषीमीयपशोः .पत्नीसंयाजान्तत्वप्रतिपादनं, वसतीवरीणामपां वेदेः परितो नयनविधानं, वेदिमध्यस्थान्- दीक्षितान्प्रत्यध्वर्योः ' व्युत्कामत ' इति त्रिर्वचनं, हविर्धानस्य पुरोदेशे यजमानस्यावस्थानकथनं, ता वसतीरीरादायाध्वर्युर्दक्षिणद्वारेण प्राग्वशान्नि- ष्क्रम्य वेद्या दक्षिणश्रोणौ सादयेदिति विधानं तत्र मंत्रे प्रतिपाद्य तद्व्याख्यानं च, ताः पुनराहृत्याग्रेण पत्नीं सादयतीति विधानं, ताः पुनरादायाध्वर्योरुत्तरमार्गेण निष्क्रम्योत्तरश्रोणौ तासां समंत्रं सादनविधानं, सर्वतः परिहरणस्योत्तरवेदेरपरिहरणस्य च प्रशंसनं, वसतीवरीग्रहणप्रभृतीनामग्नीध्रसादना न्तानां मन्त्राणां सप्तसंख्यायाः शक्वरीत्वसम्पत्त्या प्रशंसनं चेति।


ब्राह्मण ३

३ सुत्यादिवसे प्रातःकालीनं सवनीयपश्वर्थमृत्विक्सम्प्रबोधनाद्याज्यासादनान्तप्रयोगनिरूपणं, सार्थवादं सोमोपावहरणविधानम्, उपावहरणमार्गप्रदर्शनं, ग्राव्णां मध्ये स्थापनं विधाय तत्प्रशंसनम्, उपावहरणे मन्त्रमुक्त्वा तस्य विभज्य उपाख्यानम्, उपाय....सोमस्य समंत्रकमुपस्थानविधानं, प्रातनुवाकप्रयोगकथनं, तत्र प्रातरनुवाकप्रैषे ' प्रातर्यावभ्यः इत्येतावानंशो न वक्तव्य इति शाखान्तरीयं मतं प्रत्याख्याय वक्तव्य इति स्वमतस्य स्थापनं प्रातरनुवाकोपक्रमांगभूतस्य समिदाधानस्य छन्दोदेवतासमिन्धनरूपत्वेन प्रशंसनं, होतृकर्तृकस्य प्रातरनुवाकानुवचनस्य छन्दसां पुनराप्यायनरूपत्वेन प्रशंसनम्, उक्तस्याप्यायनस्य सार्थकत्वाय गतसारत्व प्रसक्तिदर्शनं, प्रातरनुवाकस्य प्रतिगरविषये केषाञ्चिन्मतं. प्राप्तिपूर्वकमुदाहृत्य- तस्य निराकरणम्, एकधनाख्याना- मुदकानामानयनार्थं प्रचरण्याज्याहुति- होमस्य विधानपूर्वकं प्रशंसनं, पुनस्तस्यै- वाहुतिप्रस्तरणात्मना प्रशंसनं, होममन्त्रं विधाय तस्य विभज्य व्याख्यानम्, अप्सु होमार्थमपरं चतुर्गृहीतमाज्यं गहीत्वोदङ्मुखं व्रजमानस्य प्रैषदानकथनं, तत्र प्रथमप्रैषमुक्त्वा तद्व्याख्यानम्, अन्येषामपि प्रैषानां प्रदर्शनं, तेषां जलानयनार्थं निर्गमनमार्गकथनं, गमनसमये पत्न्याः साहित्यं विधाय तस्याख्यानमुखेन प्रशंसनं, प्रचरणीगृहीतस्याज्यस्याप्सु होमं विधाय तत्प्रशंसनं, पुनस्तस्य प्रकारान्तरेण प्रशंसनं, होममंत्रं विधाय तस्य विभज्य व्याख्यानं, हुताया आहुत्या अपसारणस्य समन्त्रकं विधानं, समन्त्रकं मैत्रावरुणचमसेनोकायनविधानं, सत्स्वितरेषां चमसेषु मैत्रावरुणचमसस्य प्रयोजनकथनम्, अप्सम्भरणानंतरमनुष्ठेयस्य विधानं, केषाञ्चित्साक्षादुदकसंसर्जनपक्षमुदाहत्य तदभिप्रायं चाविष्कृत्य तस्यान्यथासिद्धिं प्रदर्श्य निराकरणम्, अब्विषये होत्रध्वर्य्वोः प्रश्नोत्तरप्रदर्शनम्, अग्निष्टोमे प्रचरणीसंस्रवस्य तदभावे अपरचतुर्गृहीताज्यास्याग्नेप्यर्चा- होमः-उक्थ्ये मध्यमपरिधेरुपस्पर्शनम्- अतिरात्रषोडश्यादिषु केवलं मंत्रमुक्त्वा तूष्णीमेव देवयजनप्रपादनमित्येतद्यज्ञ क्रतूनां व्यावर्तनकरणविधानं तत्र मध्ये ज्योतिष्टोमे मन्त्रस्याग्नेयत्वं संगवमिति व्याख्यानं च, एकधननामकघटानामयुग्मसंख्यानां विकल्पेन विधानं, युग्मसंख्यया एकधनशब्दनिर्वचनं प्रद३र्य प्रशंसनं चेति.


ब्राह्मण ४

४ निग्राभ्या ( सोमाभिषव) प्रयोगोपक्रमः, तत्राधिषवणसंज्ञके दारुमये फलके पर्युपवेशनहिरण्यबन्धनादीतिकर्तव्यताविधानं, हिरण्यबन्धनस्य सत्यत्वरूपेण प्रशंसनम्, अंशुग्राहाभिषवार्थमध्वर्योर्ग्राव्णामादानकथनं, ग्राव्णोऽश्ममयत्वं विधाय तत्प्रशंसनम्, आदाने मंत्रं विधाय तद्व्याख्यानं, सार्थवादं वाग्यमनविधानं, निग्राभ्यास्वाहृतासु यजमानाय वाचनविधानं,वाचनमंत्रस्यावयवशस्तात्पर्याभिधानम्, उपांशुसवननामनिरुक्तिसहितं सार्थवादं मंत्रमंत्रार्थयुतमुपांशुसवने सोमोन्मानविधानं, मान- गतपञ्चसंख्याप्रशंसनं, मितस्य सोमस्य समंत्रकमभिमर्शनविधानं, सोमस्य लोकान्तरस्थाय्यंशस्य यत्परिग्रहाभिधानं तस्याख्यायिकामुखेन प्रशंसनं, निग्राभ्योदकैः सोमोपसेचनं विधाय तस्याख्यायिकया प्रशंसनं, प्रसङ्गान्निग्राभ्याशब्दनिर्वचनम्, उपसेचने मंत्रमुक्त्वा तद्व्याख्यानं, प्रहरिष्यतो द्वेष्यस्य तदभावे तृणस्यानुध्यानकथनं, प्रहरणं तन्मंत्रं च विधाय मंत्रस्य व्याख्यानम्, अभिषवणे त्रित्वं विधाय सम्भरणनिग्राभोपायनयोः संख्यया सह समुच्चित्य च तत्प्रशंसनं, निग्राभोपायनमनूद्य तत्प्रशंसनं तत्र मन्त्रं विधाय तत्प्रशंसनं, सोमस्याभिषव (संभरणादि) प्रसङ्गात्तन्नामनिर्वचनं यज्ञनामनिर्वचनं च उक्तार्थसंवादाय सोमप्रार्थनारूपमंत्रसंवाददर्शनं तत्र मंत्रतात्पर्याभिधानं च, निग्राभ्योऽद्भ्यो होतृचमसेन यद् ग्रहणं तस्य प्रशंसनं चेत्यादि,