शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ३

ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १
निष्क्रियक्षणेषु द्विदेवत्यग्रहाः.

४.१.३ ऐन्द्रवायवग्रहः

वाग्घ वा अस्यैन्द्रवायवः । एतन्न्वध्यात्ममिन्द्रो ह यत्र वृत्राय वज्रम्प्रजहार सोऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे तदेवापि देवा अपन्यलयन्त - ४.१.३.१

ते ह देवा ऊचुः । न वै हतं वृत्रं विद्म न जीवं हन्त न एको वेत्तु यदि हतो वा वृत्रो जीवति वेति - ४.१.३.२

ते वायुमब्रुवन् । अयं वै वायुर्योऽयं पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्ठोऽसि यदि जीविष्यति त्वमेव क्षिप्रम्पुनरागमिष्यसीति - ४.१.३.३

स होवाच । किं मे ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरैद्धतं वृत्रं स होवाच हतो वृत्रो यद्धते कुर्यात् तत्कुरुतेति - ४.१.३.४

ते देवा अभ्यसृज्यन्त । यथा वित्तिं वेत्स्यमाना एवं स यमेकोऽलभत स एकदेवत्योऽभवद्यं द्वौ स द्विदेवत्यो यं बहवः स बहुदेवत्यस्तद्यदेनम्पात्रैर्व्यगृह्णत तस्माद्ग्रहा नाम - ४.१.३.५

स एषामापूयत् । स एनाञ्छुक्तः पूतिरभिववौ स नालमाहुत्या आस नालं भक्षाय - ४.१.३.६

ते देवा वायुमब्रुवन् । वायविमं नो विवाहीमं नः स्वदयेति स होवाच किं मे ततः स्यादिति त्वयैवैतानि पात्राण्याचक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति - ४.१.३.७

तस्य देवाः । यावन्मात्रमिव गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः - ४.१.३.८

नो एव निष्ठीवेत् । तस्माद्यद्यप्यासक्त इव मन्येताभिवातं परीयाच्छ्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति - ४.१.३.९

अथेतरं वायुर्व्यवात् । तदस्वदयत्ततोऽलमाहुत्या आसालं भक्षाय तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सोऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते - ४.१.३.१०

इन्द्रो ह वा ईक्षां चक्रे । वायुर्वै नोऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते हन्तास्मिन्नपित्वमिच्छा इति - ४.१.३.११

स होवाच । वायवा माऽस्मिन्ग्रहे भजेति किं ततः स्यादिति निरुक्तमेव वाग्वदेदिति निरुक्तं चेद्वाग्वदेदा त्वा भजामीति तत एष ऐन्द्रवायवो ग्रहोऽभवद्वायव्यो हैव ततः पुरा - ४.१.३.१२

स इन्द्रोऽब्रवीत् । अर्धं मेऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव म इतीन्द्रस्तुरीयमेव त इति वायुः - ४.१.३.१३

तौ प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापतिर्ग्रहं द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरर्धं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्रतुरीयमेव भाजयांचकार यद्वै चतुर्थं तत्तुरीयं तत एष ऐन्द्रतुरीयो ग्रहोऽभवत् - ४.१.३.१४

तस्य वा एतस्य ग्रहस्य । द्वे पुरोरुचौ वायव्यैव पूर्वा ऐन्द्रवायव उत्तरा द्वे अनुवाक्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरा द्वौ प्रैषौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजयांचकार - ४.१.३.१५

स होवाच । तुरीयंतुरीयं चेन्मामबीभजुस्तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यदिदं क्षुद्रं सरीसृपं वदति - ४.१.३.१६

तस्मादेतदृषीणाभ्यनूक्तम् । चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा येमनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति - ४.१.३.१७

अथातो गृह्णात्येव । आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार उपो तेऽअन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वेति - ४.१.३.१८

अथापगृह्य पुनरानयति । इन्द्रवायू इमे सुता उप प्रयोभिरागतम्। इन्दवो वामुशन्ति हि । उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वेति सादयति स यदाह सजोषोभ्यां त्वेति यो वै वायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाहैष ते योनिः सजोषोभ्यां त्वेति - ४.१.३.१९



टिप्पणी

प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति प्राणैर्वा एतद्धोतारं अभिधिनोति, वषट्कारे वषट्कारे वै होता प्राणस्यान्तं गच्छति, प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति, प्राणैर्वा एतद्धोतारं अभिधिनोति, प्राणा वै द्विदेवत्याः, पशवा इडा, यद् द्विदेवत्यानभक्षयित्वेडामुपह्वयेत पशुभिः प्राणानन्तरियात् , अथ यद् द्विदेवत्यान् भक्षयित्वेडामुपह्वयते प्राणान् वा एतदात्मन् धित्वाथ पशून् उपह्वयते , इन्द्रियं वै सोमः, पशव इन्द्रियम् , यत् सोमं भक्षयति इन्द्रियमेवात्मन्धत्ते - मैसं ४.६.१

वायु उपरि टिप्पणी

ऐन्द्रवायवोपरि टिप्पणी

द्वन्द्वोपरि टिप्पणी

स यस्स आकाश इन्द्र एव सः स यस्स इन्द्रस्सामैव तत् १ तास्यैतस्य साम्न इयमेव प्राची दिग्घिङ्कार इयम्प्रस्ताव इयमादिरियमुद्गीथोऽसौ प्रतिहारोऽन्तरिक्षमुपद्र व इयमेव निधनम् २ तदेतत्सप्तविधं साम स य एवमेतत्सप्तविधं साम वेद यत्किं च प्राच्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं हिङ्कारेणाप्नोति ३ अथ यद्दक्षिणायं दिशि तत्सर्वम्प्रस्तावेनाप्नोति ४ अथ यत्प्रतीच्यां दिशि तत्सर्वमादिनाप्नोति ५ अथ यदुदीच्यां दिशि तत्सर्वमुद्गीथेनाप्नोति ६ अथ यदमुष्यां दिशि तत्सर्वम्प्रतिहारेणाप्नोति ७ अथ यदन्तरिक्षे तत्सर्वमुपद्रवेणाप्नोति ८ अथ यदस्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं निधनेनाप्नोति - जैउब्रा. १.१०.१.१।

वायुर्हिंकर्त्ता - तैसं. ३.३.२.१

यद्वै पात्रं रिक्तमनुन्मुक्तं तदनु रक्षांसि यज्ञं अवयन्ति, यदैन्द्रवायवे पुरोडाशमवदधाति मैत्रावरुणे पयस्यामाश्विने धानां, अरिक्तत्वाय, वि वा एतद्यज्ञश्छिद्यते यत्सवनानि संतिष्ठन्ते, यदेतानि पात्राण्या तृतीयात्सवनात् परिशेरे, यज्ञस्य संतत्या अविछेदाय - मैसं ४.६.२

दीक्षितानां उपतापे -- उपांश्वन्तर्यामौ ते प्राणापानौ पातामसा उपांशुसवनस्ते व्यानं पात्वसावैन्द्रवायवस्ते वाचं पात्वसौ मैत्रावरुणस्ते चक्षुषी पात्वसावाश्विनस्ते श्रोत्रं पात्वसावाग्रयणस्ते दक्षक्रतू पात्वसा उक्थस्तेऽङ्गानि पात्वसौ ध्रुवस्त आयुः पात्वसाविति - आश्व.श्रौ.सू. ६.१०.३

पादपाग्रे यदा पुष्पः आविर्भवति, आधुनिकविज्ञाने तस्य संज्ञा क्रोमोसोमः अस्ति। क्रोम - रंग। सोम - सोम। जंगमेषु क्रोमस्य प्राकट्यं न भवति। तस्य स्थाने शिरस्य प्राकट्यं जन्मतः एव अस्ति। वैदिकवाङ्मये अस्य संज्ञा अग्नीषोमः अस्ति। यदा प्रवर्ग्य एवं अग्निचयनस्य माध्यमेन अग्नेः शोधनस्य प्रक्रिया पूर्णा भवति, तदोपरि सोमस्य शोधनप्रक्रियायाः आरम्भः भवति। ऐन्द्रवायवः अस्य आरम्भः अस्ति, अयं प्रतीयते।

 
Flores