शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ४

ऐन्द्रवायव-मैत्रावरुणौ द्विदेवत्यग्रहौ
निष्क्रियकाले द्विदेवत्यग्रहाः.

४.१.४ मैत्रावरुणग्रहः

क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्मं स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः - ४.१.४.१

ते हैतेऽअग्रे नानेवासतुः । ब्रह्म च क्षत्रं च ततः शशाकैव ब्रह्म मित्र ऋते क्षत्राद्वरुणात्स्थातुम् - ४.१.४.२

न क्षत्रं वरुणः । ऋते ब्रह्मणो मित्राद्यद्ध किं च वरुणः कर्म चक्रेऽप्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समानृधे - ४.१.४.३

स क्षत्रं वरुणः । ब्रह्म मित्रमुपमन्त्रयां चक्र उप माऽऽवर्तस्व संसृजावहै पुरस्त्वा करवै त्वत्प्रसूतः कर्म करवा इति तथेति तौ समसृजेतां तत एष मैत्रावरुणो ग्रहोऽभवत् - ४.१.४.४

सो एव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणम्पुरोदधीत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण सं हैवास्मै तदानृधे - ४.१.४.५

तत्तदवकॢप्तमेव । यद्ब्राह्मणोऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवकॢप्तं यत्क्षत्रियो ब्राह्मणो भवति यद्ध किं च कर्म कुरुते प्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मऽर्ध्यते - ४.१.४.६

अथातो गृह्णात्येव । अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह श्रुतं हवमुपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति - ४.१.४.७

तं पयसा श्रीणाति । तद्यत्पयसा श्रीणाति वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तम्मित्रमब्रुवंस्त्वमपि हंसीति स न चकमे सर्वस्य वा अहं मित्रमस्मि न मित्रं सन्नमित्रो भविष्यामीति तं वै त्वा यज्ञादन्तरेष्याम इत्यहमपि हन्मीति होवाच तस्मात्पशवोऽपाक्रामन्मित्रं सन्नमित्रोऽभूदिति स पशुभिर्व्यार्ध्यत तमेतद्देवाः पशुभिः समार्धयन्यत्पयसाऽश्रीणंस्तथो एवैनमेष एतत्पशुभिः समर्धयति यत्पयसा श्रीणाति - ४.१.४.८

तदाहुः । शश्वद्ध नैव चकमे हन्तुमिति तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य तस्मात्पयसा श्रीणाति - ४.१.४.९

स श्रीणाति । राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः तां धेनुम्मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमेष ते योनिर्ऋतायुभ्यां त्वेति सादयति स यदाहऽर्तायुभ्यां त्वेति ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्मो ह्यृतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुस्तस्मादाहैष ते योनिर्ऋतायुभ्यां त्वेति - ४.१.४.१०



टिप्पणी

मित्रावरुणोपरि टिप्पणी

ऋग्वेदे १.२.६ कथनमस्ति - वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्। मक्ष्वित्था धिया नरा॥ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्। धियं घृताचीं साधन्ता॥

अयं प्रतीयते यत् इन्द्रवायोः कार्यं धियः सर्जनमस्ति, निरुक्ता वाक्। मित्रावरुणयोः कार्यं घृताची धियः सर्जनमस्ति, धी, वाक् यत् घृतस्य अञ्चनं करोति। एकः समित् अस्ति यस्य घृतेन अञ्चनं करणीयं भवति। घृतः समितेः समित्याः , सममित्याः विस्तारं करोति। गवादिपशवः पयःसर्जनं कुर्वन्ति। पयसि घृतस्य अंशमपि निगूढः भवति। सामवेदे कथनमस्ति यत् साधन्ता शब्दस्य अर्थं सिद्धिः अस्ति। एका धी बुद्धिरूपा अस्ति, अन्या सिद्धिरूपा। तौ गणेशस्य पत्न्यौ स्तः। मैत्रावरुणतः अग्रिमग्रहः आश्विन्ग्रहः अस्ति। तयोः वैशिष्ट्यं गो-अश्वः अस्ति, अयं प्रतीयते।