शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ५/ब्राह्मण ५

४.५.५

एष वै प्रजापतिः । य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते - ४.५.५.१

उपांशुपात्रमेवान्वजाः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते - ४.५.५.२

अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते - ४.५.५.३

अथ यदेतयोरुभयोः । सह सतोरुपांशु पूर्वं जुहोति तस्मादु सह सतोऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्योऽवयः - ४.५.५.४

अथ यदुपांशुं हुत्वा । ऊर्ध्वमुन्मार्ष्टि तस्मादिमा अजा अराडीतरा आक्रममाणा इव यन्ति - ४.५.५.५

अथ यदन्तर्यामं हुत्वा । अवाञ्चमवमार्ष्टि तस्मादिमा अवयोऽवाचीनशीर्ष्ण्यः खनन्त्य इव यन्त्येता वै प्रजापतेः प्रत्यक्षतमां यदजावयस्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति - ४.५.५.६

शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्त एष वै शुक्रो य एष तपत्येष उ एवेन्द्रः पुरुषो वै पशूनामैन्द्रस्तस्मात्पशूनामीष्टे - ४.५.५.७

ऋतुपात्रमेवान्वेकशफं प्रजायते । तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्त इतीव वा ऋतुपात्रमितीवैकशफस्य शिर आग्रयणपात्रमुक्थ्यपात्रमादित्यपात्रमेतान्येवानु गावः प्रजायन्ते तानि वै तानि पुनर्यज्ञे प्रयुज्यन्ते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते - ४.५.५.८

अथ यदजाः । कनिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राण्यनु प्रजायन्ते - ४.५.५.९

अथ यद्गावः । भूयिष्ठानि पात्राण्यनु प्रजायन्ते तस्मादेताः सकृत्संवत्सरस्य विजायमाना एकैकं जनयन्त्यो भूयिष्ठा भूयिष्ठानि हि पात्राण्यनु प्रजायन्ते - ४.५.५.१०

अथ द्रोणकलशे । अन्ततो हारियोजनं ग्रहं गृह्णाति प्रजापतिर्वै द्रोणकलशः स इमाः प्रजा उपावर्तते ता अवति ता अभिजिघ्रत्येतद्वा एना भवति यदेनाः प्रजनयति - ४.५.५.११

पञ्च ह त्वेव तानि पात्राणि । यानीमाः प्रजा अनु प्रजायन्ते समानमुपांश्वन्तर्यामयोः शुक्रपात्रमृतुपात्रमाग्रयणपात्रमुक्थ्यपात्रम्पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञो यद्यु षडेवर्तवः संवत्सरस्येत्यादित्यपात्रमेवैतेषां षष्ठम् - ४.५.५.१२

एकं ह त्वेव तत्पात्रम् । यदिमाः प्रजा अनु प्रजायन्त उपांशुपात्रमेव प्राणो ह्युपांशुः प्राणो हि प्रजापतिः प्रजापतिं ह्येवेदं सर्वमनु - ४.५.५.१३