शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण १

अदाभ्यग्रहः.
अंशुग्रहः
४.६.१ अंशुग्रहः

प्रजापतिर्वा एष यदंशुः । सोऽस्यैष आत्मैवात्मा ह्ययम्प्रजापतिस्तदस्यैतमात्मानं कुर्वन्ति यत्रैतं गृह्णन्ति तस्मिन्नेतान्प्राणान्दधाति यथा यथैते प्राणा ग्रहा व्याख्यायन्ते स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति - ४.६.१.१

तदारम्भणवत् । यत्रैतं गृह्णन्त्यथैतदनारम्भणमिव यत्रैतं न गृह्णन्ति तस्माद्वा अंशुं गृह्णाति - ४.६.१.२

तं वा औदुम्बरेण पात्रेण गृह्णाति । प्रजापतिर्वा एष प्राजापत्य उदुम्बरस्तस्मादौदुम्बरेण पात्रेण गृह्णाति - ४.६.१.३

तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांल्लोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति - ४.६.१.४

स वै तूष्णीमेव ग्रावाणमादत्ते । तूष्णीमंशून्निवपति तूष्णीमप उपसृजति तूष्णीमुद्यत्य सकृदभिषुणोति तूष्णीमेनमनवानन्जुहोति तदेनं प्रजापतिं करोति - ४.६.१.५

अथास्यां हिरण्यं बद्धं भवति । तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशतेऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते - ४.६.१.६

तदु होवाच राम औपतस्विनिः । काममेव प्राण्यात्काममुदन्याद्यद्वै तूष्णीं जुहोति तदेवैनं प्रजापतिं करोतीति - ४.६.१.७

अथास्यां हिरण्यं बद्धं भवति । तदुपजिघ्रति स यदेवात्र क्षणुते वा वि वा लिशतेऽमृतमायुर्हिरण्यं तदमृतमायुरात्मन्धत्ते - ४.६.१.८

तदु होवाच बुडिल आश्वतराश्विः । उद्यत्यैव गृह्णीयान्नाभिषुणुयादभिषुण्वन्ति वा अन्याभ्यो देवताभ्यस्तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्योऽथ यदुद्यच्छति तदेवास्याभिषुतं भवतीति - ४.६.१.९

तदु होवाच याज्ञवल्क्यः । अभ्येव षुणुयान्न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतास इत्यृषिणाभ्यनूक्तं न वा अन्यस्यै कस्यै चन देवतायै सकृदभिषुणोति तदन्यथा ततः करोति यथो चान्याभ्यो देवताभ्यस्तस्मादभ्येव षुणुयादिति - ४.६.१.१०

तस्य द्वादश प्रथमगर्भाः । पष्ठौह्यो दक्षिणा द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनं प्रजापतिं करोति - ४.६.१.११

तासां द्वादश गर्भाः । ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिरंशुस्तदेनं प्रजापतिं करोति - ४.६.१.१२

तदु ह कौकूस्तः । चतुर्विंशतिमेवैताः प्रथमगर्भाः पष्ठौहीर्दक्षिणा ददावृषभं पञ्चविंशं हिरण्यमेतदु ह स ददौ - ४.६.१.१३

स वा एष न सर्वस्यैव ग्रहीतव्यः । आत्मा ह्यस्यैष यो न्वेव ज्ञातस्तस्य ग्रहीतव्यो यो वास्य प्रियः स्याद्यो वानूचानोऽनूक्तेनैनं प्राप्नुयात् - ४.६.१.१४

सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि - ४.६.१.१५

टिप्पणी

द्र. शतपथब्राह्मणम् ११.५.९