शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४/ब्राह्मण ३

५.४.३ अभिषेकोत्तरकर्माणि

तद्योऽस्य स्वो भवति । तस्य शतं वा परःशता वा गा उत्तरेणाहवनीयं स्थापयति
तद्यदेवं करोति - ५.४.३.१

वरुणाद्ध वा अभिषिषिचानात् । इन्द्रियं वीर्यमपचक्राम शश्वद्य एषोऽपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति सोऽस्येन्द्रियं वीर्यं निर्जघान तत्पशुष्वन्वविन्दत्तस्मात्पशवो यशो यदेष्वन्वविन्दत्तत्पशुष्वनुविद्येन्द्रियं वीर्यं पुनरात्मन्नधत्त तथो एवैष एतन्नाहैवास्मान्न्विन्द्रियं वीर्यमपक्रामति वरुणसवो वा एष यद्राजसूयमिति वरुणो ऽकरोदिति त्वेवैष एतत्करोति - ५.४.३.२

अथ रथमुपावहरति । यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते तस्माद्रथमुपावहरति - ५.४.३.३

स उपावहरति । इन्द्रस्य वज्रोऽसीति वज्रो वै रथ इन्द्रो वै यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वज्रोऽसीति - ५.४.३.४

तमन्तर्वेद्यभ्यववर्त्य युनक्ति । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति - ५.४.३.५

तं चतुर्युजं युनक्ति । स जघनेन सदोऽग्रेण शालां येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन चात्वालमग्रेणाग्नीध्रमुद्यच्छति - ५.४.३.६

तमातिष्ठति । अव्यथायै त्वा स्वधायै त्वेत्यनार्त्यै त्वेत्येवैतदाह यदाहाव्यथायै त्वेति स्वधायै त्वेति रसाय त्वेत्येवैतदाहारिष्टो अर्जुन इत्यर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नाम द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहारिष्टो अर्जुन इति - ५.४.३.७

अथ दक्षिणायुग्यमुपार्षति । मरुतां प्रसवेन जयेति विशो वै मरुतो विशा वै तत्क्षत्रियो जयति यज्जिगीषति तस्मादाह मरुतां प्रसवेन जयेति - ५.४.३.८

अथ मध्ये गवामुद्यच्छति । आपाम मनसेति मनसा वा इदं सर्वमाप्तं तन्मनसैवैतत्सर्वमाप्नोति तस्मादाहापाम मनसेति - ५.४.३.९

अथ धनुरार्त्न्या गामुपस्पृशति । समिन्द्रियेणेतीन्द्रियं वै वीर्यं गाव इन्द्रियमेवैतद्वीर्यमात्मन्धत्तेऽथाह जिनामीमाः कुर्व इमा इति - ५.४.३.१०

तद्यत्स्वस्य गोषूद्यच्छति । यद्वै पुरुषात्पराग्भवति यशो वा किंचिद्वा स्वं हैवास्य तत्प्रतमामिवाभ्यपक्रामति तत्स्वादेवैतदिन्द्रियं वीर्यम्पुनरात्मन्धत्ते तस्मात्स्वस्य गोषूद्यच्छति - ५.४.३.११

तस्मै तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति । न वा एष क्रूरकर्मणे भवति यद्यजमानः क्रूरमिव वा एतत्करोति यदाह जिनामीमाः कुर्व इमा इति तथो हास्यैतदक्रूरं कृतं भवति तस्मात्तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति - ५.४.३.१२

अथ दक्षिणानायच्छति । सोऽग्रेण यूपं दक्षिणेन वेदिं येनैव दक्षिणा यन्ति तेन प्रतिपद्यते तं जघनेन सदोऽग्रेण शालामुद्यच्छति - ५.४.३.१३

[]मा त इन्द्र ते वयं तुराषाट् । अयुक्तासो अब्रह्मता विदसाम तिष्ठा रथमधि यं वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाऽभीशवो वै रश्मयस्तस्मादाहा रश्मीन्देव यमसे स्वश्वानित्यथ रथविमोचनीयानि जुहोति प्रीतो रथो विमुच्याता इति तस्माद्रथविमोचनीयानि जुहोति - ५.४.३.१४

स जुहोति । अग्नये गृहपतये स्वाहेति स यदेवाग्नेयं रथस्य तदेवैतेन प्रीणाति वहा वा आग्नेया रथस्य वहानेवैतेन प्रीणाति श्रीर्वै गार्हपतं यावतोयावत ईष्टे तच्छ्रियमेवास्यैतद्गार्हपतं राज्यमभिविमुच्यते - ५.४.३.१५

सोमाय वनस्पतये स्वाहेति । द्वयानि वै वानस्पत्यानि चक्राणि रथ्यानि चानसानि च तेभ्यो न्वेवैतदुभयेभ्योऽरिष्टिं कुरुते सोमो वै वनस्पतिः स यदेव वानस्पत्यं रथस्य तदेवैतेन प्रीणाति दारूणि वै वानस्पत्यानि रथस्य दारूण्येवैतेन प्रीणाति क्षत्रं वै सोमः क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते - ५.४.३.१६

मरुतामोजसे स्वाहेति । स यदेव मारुतं रथस्य तदेवैतेन प्रीणाति चत्वारोऽश्वा रथः पञ्चमो द्वौ सव्यष्टृसारथी ते सप्त सप्तसप्त व मारुतो गणः सर्वमेवैतेन रथं प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते - ५.४.३.१७

इन्द्रस्येन्द्रियाय स्वाहेति । स यदेवैन्द्रं रथस्य तदेवैतेन प्रीणाति सव्यष्ठा वा ऐन्द्रो रथस्य सव्यष्ठारमेवैतेन प्रीणातीन्द्रियं वै वीर्यमिन्द्र इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते - ५.४.३.१८

अथ वाराह्या उपानहा उपमुञ्चते । अग्नौ ह वै देवा घृतकुम्भं प्रवेशयांचक्रुस्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि सम्भूतस्तस्माद्वराहे गावः संजानते स्वमेवैतद्रसमभिसंजानते तत्पशूनामेवैतद्रसे प्रतितिष्ठति तस्माद्वाराह्या उपानहा उपमुञ्चते - ५.४.३.१९

अथेमां प्रत्यवेक्षमाणो जपति । पृथिवि मातर्मा मा हिंसीर्मो अहं त्वामिति वरुणाद्ध वा अभिषिषिचानात्पृथिवी बिभयाञ्चकार महद्वा अयमभूद्योऽभ्यषेचि यद्वै मायं नावदृणीयादिति वरुण उ ह पृथिव्यै बिभयाञ्चकार यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति न पुत्रो मातरम् - ५.४.३.२०

वरुणसवो वा एष यद्राजसूयम् । पृथिव्यु हैतस्माद्बिभेति महद्वा अयमभूद्योऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति न पुत्रो मातरं तस्मादेवं जपति - ५.४.३.२१

सोऽवतिष्ठति । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदित्येतामतिच्छन्दसं
जपन्नेषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनं पाप्मा नान्ववतिष्ठति - ५.४.३.२२

तं न संग्रहीताऽन्ववतिष्ठेत् । नेत्तं लोकमन्ववतिष्ठाद्यं सुषुवाणोऽन्ववास्थादिति तं सरथमेव रथवाहन आदधति ततोऽवाङपप्रवते तथा तं लोकं नान्ववतिष्ठति यं सुषुवाणोऽन्ववास्थात् - ५.४.३.२३

उत्तरेणाहवनीयं पूर्वाग्निरुद्वृत्तो भवति । स रथवाहनस्य दक्षिणमन्वनुष्यन्दं शतमानौ प्रवृत्तावाबध्नाति - ५.४.३.२४

औदुम्बरीं शाखामुपगूहति । तयोरन्यतरमुपस्पृशतीयदस्यायुरस्यायुर्मयिधेहि युङ्ङसि वर्चो मयि धेहीति तदायुर्वर्च आत्मन्धत्ते - ५.४.३.२५

अथौदुम्बरीं शाखामुपस्पृशति । ऊर्गस्यूर्जं मयि धेहीति तदूर्जमात्मन्धत्ते तस्यैतस्य कर्मण एतावेव शतमानौ प्रवृत्तौ दक्षिणा तौ ब्रह्मणे ददाति ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्तौ ब्रह्मणे ददाति - ५.४.३.२६

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । मैत्रावरुणी पयस्या निहिता भवति तामस्य बाहू अभ्युपावहरतीन्द्रस्य वां वीर्यकृतो बाहू अभ्युपावहरामीति पशूनां वा एष रसोयत्पयस्या तत्पशूनामेवास्यैतद्रसं बाहू अभ्युपावहरति तद्यन्मैत्रावरुणी भवति मित्रावरुणा उ हि बाहू तस्मान्मैत्रावरुणी भवति - ५.४.३.२७


  1. वा.सं. १०.२२