शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ५/ब्राह्मण ३

५.५.३ केशवपनीयोऽतिरात्रः

अभिषेचनीयेनेष्ट्वा । केशान्न वपते तद्यत्केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति तस्याभिषिक्तस्य केशान्प्रथमान्प्राप्नोति स यत्केशान्वपेतैतां श्रियं जिह्मां विनाशयेद्व्युदुह्यात्तस्मात्केशान्न वपते - ५.५.३.१

संवत्सरं न वपते । संवत्सरसम्मिता वै व्रतचर्या तस्मात्संवत्सरं न वपते स एष व्रतविसर्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः - ५.५.३.२

तस्यैकविंशं प्रातःसवनम् । सप्तदशं माध्यन्दिनं सवनं पञ्चदशं तृतीयसवनं सहोक्थैः सह षोडशिना सह रात्र्या - ५.५.३.३

त्रिवृद्राथन्तरः संधिर्भवति । एष एवैकविंशो य एष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभिप्रत्यवैति सप्तदशात्पञ्चदशं पञ्चदशादस्यामेव त्रिवृति प्रतिष्ठायां प्रतितिष्ठति - ५.५.३.४

तस्य रथन्तरं पृष्ठं भवति । इयं वै रथन्तरमस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठत्यतिरात्रो भवति प्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति - ५.५.३.५

स वै न्येव वर्तयते केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति तस्याभिषिक्तस्य केशान्प्रथमान्प्राप्नोति स यत्केशान्वपेतैतां श्रियं जिह्मां विनाशयेद्व्युह्यादथ यन्निवर्तयते तदात्मन्येवैतां श्रियं नियुनक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्ठति - ५.५.३.६

आसन्द्या उपानहा उपमुञ्चते । उपानड्भ्यामधि यदस्य यानं भवति रथो वा किंचिद्वा सर्वं वा एष इदमुपर्युपरि भवत्यर्वागेवास्मादिदं सर्वं भवति यो राजसूयेन यजते तस्मादस्यैषैव व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्ठति - ५.५.३.७