ब्राह्मणम् १

१ चायनीमंत्राणां विनियोगः - तत्रादौ विधीयमानस्य सावित्रहोमस्य सवितृसम्बन्धः होमसाधनाज्यद्रव्यस्याष्टग्रहणं-प्रसङ्गादषाढायाः सार्थवादम् इष्टकात्वोपपादनम् , आहुतेरूर्ध्वग्रहणं-- सोपपत्तिकं सार्थवादमाहुतेः सान्तत्येन हवनमाहुतेः सवितृदेवत्यत्वं सार्थवादं प्रकारान्तरेणाहुतिकरणम्-आज्यहोमत्वात्प्राप्तं केवलस्रुवेण होमकरणं व्युदस्य सार्थवादं स्रुक्स्रुवाभ्यां होमकरणम्-आहुतिसाधनानां मन्त्राणामष्टधा प्रविभागेन स्तवनं चेत्येतेषां सावित्रहोमीयधर्माणां निरूपणं, विहितं सावित्रहोममनूद्य तत्र यजुरन्तान्यजुर्धर्मकानष्टौ ऋङ्मन्त्रान्विनियुज्य तेषामर्थविवरणम् , अन्तिमस्य यजुषस्त्रयीविद्यात्वोपपादनम् , अष्टानां मन्त्राणां सम्भूय प्रशंसनम् , अष्टममन्त्रान्ते पठितेनस्वाहाकारेण सह सम्भाव्यमानाया नवसंख्याया दिक्प्राणात्मना स्वाहान्ते हूयमानयाऽऽहुत्या सह सम्भाव्यमानाया दशसंख्याया विराट्प्राणलक्षणाग्न्यात्मना च प्रशंसनम् , अप्सु नेतव्यान्पशून्विधातुमाख्यायिकाकथनम् , तस्यां च रासभस्य गवाविपशुद्वयप्रतिनिधित्वकथनं रासभादश्वतरस्य गर्दभस्योत्पत्तिप्रदर्शनम् , अनद्धापुरुषस्य पुरुषपशोः प्रतिनिधित्वमुपवर्ण्य लक्षणाभिधानं पशुगतत्रित्वसंख्याप्रशंसनसहितमश्वगर्दभाजैस्त्रिभिरग्नेरन्वेषणप्रदर्शनम् तेषां चतुर्णामेव पञ्चसम्पत्तिमुक्त्वा तस्याः पञ्चसंख्याया अग्न्यात्मना स्तवनम् , तेषां त्रयाणां पशूनां मौञ्जीबन्धनविधानम् मुञ्जेनैव रशनाकरणस्याख्यायिकया प्रतिपादनम् , रशनायास्त्रिवृत्त्वाभिधानम् , तेषामश्वगर्दभाजपशूनामाहवनीयस्य दक्षिणप्रदेशे स्वस्वसृष्टिक्रमेण प्राक्संस्थमवस्थानस्य सार्थवादं विधानम् , आहवनीयस्योत्तरप्रदेशेऽभ्र्याः स्थापनविधानम् , आहवनीयाभ्र्योः स्त्रीपुंसात्मना प्रशंस्य तयोर्मध्यप्रदेशस्य सदृष्टान्तं व्यवधानस्वरूपत्वाभिधानम् , सेतिहासमभ्रेर्वेणुमयत्वोपवर्णनम् , सम्भवासम्भवाभ्यामभ्रेः कल्माषीत्वाकल्माषीत्वमभिधायोभयत्र सुषिरत्वं तु सर्वथा सम्पाद्यमित्यभिधानम् , अभ्रेः प्रादेशमात्रत्वं परमतेन प्रदर्श्य स्वमतेनारत्नीमात्रत्वस्य सकारणमभिधानम् , केषाञ्चिन्मतेनाभ्रेरन्यतःक्ष्णुत्वं पूर्वपक्षयित्वा सिद्धान्ततया त्वभ्रेरुभयतःक्ष्णुत्वस्यैव सार्थवादं निगमनं, कथं यजमानेनैकयाऽभ्र्या लोकत्रयादग्नेः खननं संभाव्यत इत्याशंक्य तदुपपादनम्, अभ्र्यादानम् विधाय तत्रादाने मन्त्रत्रयं विनियुज्य च तस्यार्थतात्पर्योपेतं व्याख्यानम् अभ्र्यादानमंत्रगतत्रित्वसंख्यायाः प्रशंसनं, अभ्रेश्चतुर्थेन मंत्रेणाभिमन्त्रणस्य सार्थवादं विधानम् , अभिमन्त्रणे मन्त्रं विधाय तद्व्याख्यानं च, केषांचन मतेन मन्त्रगतहिरण्मयीतिविशेषणसामर्थ्यादभ्रिर्हिरण्यनिर्मिताऽपेक्ष्यते इति तत्पक्षमुपन्यस्य तं दूषयित्वा च प्रागुक्तं छन्दोमयत्वमेव युक्तमिति सिद्धान्तप्रतिष्ठापनम्, आदानाभिमन्त्रणविनियुक्तानां मन्त्राणां संख्यायाश्चतुरक्षरात्मिकया वाचा चतुर्दिगात्मना मंत्रगतछन्दोभिः सह महादिगवान्तरदिगात्मना च प्रशंसनं चेति.


ब्राह्मणम् २

२ विधास्यमानस्य तेषां पशूनां यथाक्रममभिमंत्रणस्य वीर्यात्मना प्रशंसनम् , अश्वरासभाजपशूनामनुक्रमेण समन्त्रकमभिमन्त्रणविधानं तेषां मन्त्राणां व्याख्यानं च, अभिमन्त्रणमन्त्रगतत्रित्वसंख्यायास्त्रिवृदग्न्यात्मना प्रशंसनम् , अश्वरासभाजपशूनामनुक्रमेण समन्त्रकमनुपस्पर्शनपूर्वकं प्राङुत्क्रमणविधानं तेषां मन्त्राणां व्याख्यानं च, उत्क्रमणमन्त्रगतत्रित्वसंख्यायास्त्रिवृदग्न्यात्मना प्रशंसनम् , एतेषां पशूनामभिमन्त्रणोत्क्रमणमन्त्रगतषट्संख्यायाः सम्भूयर्तुसंवत्सराग्निरूपत्वेन प्रशंसनं चेति. .


ब्राह्मणम् ३

३ गार्हपत्यादिष्वग्निषु प्रज्वलत्सु मृत्पिण्डमभिलक्ष्याध्वर्युप्रभृतयः प्राङ्मुखाः सन्तो गच्छेयुरिति समन्त्रकं विधानं, अनद्धापुरुषनिरीक्षणमभिधाय तेनाग्नेरन्वेषणाभिधानं, मृत्पिण्डस्य पश्चिमे देशे व्यध्वे सच्छिद्राया वल्मीकवपाया निधानं विधाय वल्मीकवपामादाय तच्छिद्रेण मृत्पिण्डं निरीक्षेदिति विधानं, निरीक्षणे मन्त्रं विधाय तद्व्याख्यानं, मन्त्रमन्त्रार्थविवरणोपेतं सप्रयोजनमश्वाभिमन्त्रणविधानम् , अश्वस्य तत्कर्तृकाक्रमणपूर्वकं मृत्पिण्डाधिष्ठापनस्य मन्त्रतदर्थसहितं सार्थवादमभिधानं, मन्त्रतत्तात्पर्योपेतमश्वस्योन्मर्शनविधानम्, अश्वमस्पृशन्नेवोत्क्रामेति मन्त्रेणोत्क्रामयेदिति समन्त्रकं विधाय मन्त्रार्थदर्शनप्रसङ्गेनाश्वस्य सौभाग्यप्रदर्शनं, पुनरप्यश्वस्याभिमन्त्रणं विधाय तत्र मन्त्रं च विनियुज्य तस्य व्याख्यानं, अभिमन्त्रितस्याश्वस्य रासभाभ्यां सहावस्थापन विधानं, मृदमुपविश्याश्वस्य पदे “ आ त्वा जिघर्म्याविश्वतः" इति व्यतिषिक्ताभ्यां द्वाभ्यामृग्भ्यां स्रुवगृहीतेनाज्येन द्वे आहुती जुहुयादिति सार्थवादं विधानं, विनियुक्तमन्त्रार्थविवरणं प्रसङ्गाद्विश्वज्योतिःसंज्ञकेष्टकात्रयस्य देवतासम्बन्धप्रदर्शनं च, अभ्र्या पिण्डं त्रिः परिलिखेदिति मन्त्रतदर्थविवरणोपेतं सार्थवादं विधानं सप्रकारकं सार्थवादं पिण्डखननविधानं चेत्यादि.