शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/प्रथमं ब्राह्मणम्

७.२.१ नैर्ऋतीष्टकाचयनम्

अथातो नैर्ऋतीर्हरन्ति । एतद्वै देवा गार्हपत्यं चित्वा समारोहन्नयं वै लोको गार्हपत्य इममेव तं लोकं संस्कृत्य समारोहंस्ते तम एवानतिदृश्यमपश्यन् - ७.२.१.[१]

तेऽब्रुवन् । उप तज्जानीत यथेदं तमः पाप्मानमपहनामहा इति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं तमः पाप्मानमपहनामहा इति - ७.२.१.[२]

ते चेतयमानाः । एता इष्टका अपश्यन्नैर्ऋतीस्ता उपादधत ताभिस्तत्तमः पाप्मानमपाघ्नत पाप्मा वै निर्ऋतिस्तद्यदेताभिः पाप्मानं निर्ऋतिमपाघ्नत तस्मादेता नैर्ऋत्यः - ७.२.१.[३]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तत्तमः स पाप्मा देवैरेवापहतो यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा या निर्ऋतिस्तमेताभिरपहते तद्यदेताभिः पाप्मानं निर्ऋतिमपहते तस्मादेता नैर्ऋत्यः - ७.२.१.[४]

यद्वेवैता नैर्ऋतीर्हरन्ति । प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतो भूतमसिञ्चन्योनिर्वा उखा तस्मा एतां संवत्सरे प्रतिष्ठां समस्कुर्वन्निममेव लोकमयं वै लोको गार्हपत्यस्तस्मिन्नेनं प्राजनयंस्तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु
तदस्यैताभिरपाघ्नंस्तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपाघ्नंस्तस्मादेता नैर्ऋत्यः - ७.२.१.[५]

तथैवैतद्यजमानः । आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा तस्मा एतां संवत्सरे प्रतिष्ठां संस्करोतीममेव लोकमयं वै लोको गार्हपत्यस्तस्मिन्नेनं प्रजनयति तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु तदस्यैताभिरपहन्ति तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपहन्ति तस्मादेता नैर्ऋत्यः - ७.२.१.[६]

पादमात्र्यो भवन्ति । अधस्पदमेव तत्पाप्मानं निर्ऋतिं कुरुतेऽलक्षणा भवन्ति यद्वै नास्ति तदलक्षणमसन्तमेव तत्पाप्मानं निर्ऋतिं कुरुते तुषपक्वा भवन्ति नैर्ऋता वै तुषा नैर्ऋतैरेव तन्नैर्ऋतं कर्म करोति कृष्णा भवन्ति कृष्णं हि तत्तम आसीदथो कृष्णा वै निर्ऋतिः - ७.२.१.[७]

ताभिरेतां दिशं यन्ति । एषा वै नैर्ऋती दिङ्नैर्ऋत्यामेव तद्दिशि निर्ऋतिं दधाति स
यत्र स्वकृतं वेरिणं श्वभ्रप्रदरो वा स्यात्तदेना उपदध्याद्यत्र वा अस्या अवदीर्यते यत्र वाऽस्या ओषधयो न जायन्ते निर्ऋतिर्हास्यै तद्गृह्णाति नैऋत एव तद्भूमेर्निर्ऋतिं दधाति ताः पराचीर्लोकभाजः कृत्वोपदधाति - ७.२.१.[८]

असुन्वन्तमयजमानमिच्छेति । यो वै न सुनोति न यजते तं निर्ऋतिर्ऋच्छति स्तेनस्येत्यामन्विहि तस्करस्येति स्तेनस्य चेत्यामन्विहि तस्करस्य चेत्येतदथो यथा
स्तेनस्तस्करः प्रलायमेत्येवं प्रलायमिहीत्यन्यमस्मदिच्छ सा त इत्येत्यनित्थं विद्वांसमिच्छेत्येतन्नमो देवि निर्ऋते तुभ्यमस्त्विति नमस्कारेणैवैनामपहते - ७.२.१.[९]

नमः सु ते निर्ऋते तिग्मतेज इति । तिग्मतेजा वै निर्ऋतिस्तस्या एतन्नमस्करोत्ययस्मयं विचृता बन्धमेतमित्ययस्मयेन ह वै तं बन्धेन निर्ऋतिर्बध्नाति यं बध्नाति यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं यम्याभ्यां हीदं सर्वं यतमाभ्यां त्वं संविदानेत्येतदुत्तमे नाके अधिरोहयैनमिति स्वर्गो वै लोको नाकः स्वर्गे लोके यजमानमधिरोहयेत्येतत् - ७.२.१.[१०]

यस्यास्ते घोर आसञ्जुहोमीति । घोरा वै निर्ऋतिस्तस्या एतदासञ्जुहोति यत्तद्देवत्यं
कर्म करोत्येषां बन्धानामवसर्जनायेति यैर्बन्धैर्बद्धो भवति यां त्वा जनो भूमिरिति प्रमन्दत इतीयं वै भूमिरस्यां वै स भवति यो भवति निर्ऋतिं त्वाऽहं परिवेद विश्वत इति निर्ऋतिरिति त्वाऽहं परिवेद सर्वत इत्येतदियं वै निर्ऋतिरियं वै ते निरर्पयति यो निर्ऋच्छति तद्यथा वै ब्रूयादसावामुष्यायणोऽसि वेद त्वा मा मा हिंसीरित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति - ७.२.१.[११]

नोपस्पृशति । पाप्मा वै निर्ऋतिर्नेत्पाप्मना संस्पृशा इति न सादयति प्रतिष्ठा वै सादनं नेत्पाप्मानं प्रतिष्ठापयानीति न सूददोहसाधिवदति प्राणो वै सूददोहा नेत्पाप्मानं प्राणेन संतनवानि संदधानीति - ७.२.१.[१२]

ता हैके परस्तादर्वाचीरुपदधति । पाप्मा वै निर्ऋतिर्नेत्पाप्मानं निर्ऋतिमन्ववायामेति न तथा कुर्यात्पराचीरेवोपदध्यात्पराञ्चमेव तत्पाप्मानं निर्ऋतिमपहते - ७.२.१.[१३]

तिस्र इष्टका उपदधाति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्पाप्मानं निर्ऋतिमपहते - ७.२.१.[१४]

अथासन्दीं शिक्यम् । रुक्मपाशमिण्ड्वे तत्परार्धे न्यस्यति नैर्ऋतो वै पाशो निर्ऋतिपाशादेव तत्प्रमुच्यते यं ते देवी निर्ऋतिराबबन्ध पाशं ग्रीवास्वविचृत्यमित्यनेवंविदुषा हाविचृत्यस्तं ते विष्याम्यायुषो न मध्यादित्यग्निर्वा आयुस्तस्यैतन्मध्यं यच्चितो गार्हपत्यो भवत्यचित आहवनीयस्तस्माद्यदि युवाऽग्निं चिनुते यदि स्थविर आयुषो न मध्यादित्येवाहाथैतं पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि प्रमुक्त इत्येतत्त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैव तत्पाप्मानं निर्ऋतिमपहते - ७.२.१.[१५]

तिस्र इष्टका भवन्ति । आसन्दी शिक्यं रुक्मपाश इण्ड्वे तदष्टावष्टाक्षरा गायत्री
गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्पाप्मानं निर्ऋतिमपहते - ७.२.१.[१६]

अथान्तरेणोदचमसं निनयति । वज्रो वा आपो वज्रेणैव तत्पाप्मानं निर्ऋतिमन्तर्धत्ते नमो भूत्यै येदं चकारेत्युपोत्तिष्ठन्ति भूत्यै वा एतदग्रे देवाः कर्माकुर्वत तस्या एतन्नमोऽकुर्वन्भूत्या उ एवायमेतत्कर्म कुरुते तस्या एतन्नमस्करोत्यप्रतीक्षमायन्त्यप्रतीक्षमेव तत्पाप्मानं निर्ऋतिं जहति - ७.२.१.[१७]

प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतदयथायथं करोति यदग्नौ सामिचित एतां दिशमेति तस्मा एवैतन्निह्नुतेऽहिंसायै - ७.२.१.[१८]

यद्वेवोपतिष्ठते । अयं वै लोको गार्हपत्यः प्रतिष्ठा वै गार्हपत्य इयमु वै प्रतिष्ठाऽथैतदपथमिवैति यदेतां दिशमेति तद्यदुपतिष्ठत इमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति - ७.२.१.[१९]

निवेशनः संगमनो वसूनामिति । निवेशनो ह्ययं लोकः संगमनो वसूनां विश्वा रूपाभिचष्टे शचीभिरिति सर्वाणि रूपाण्यभिचष्टे शचीभिरित्येतद्देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनामिति यथैव यजुस्तथा बन्धुः - ७.२.१.[२०]