शतपथब्राह्मणम्/काण्डम् ७/अध्यायः ३/द्वितीयं ब्राह्मणम्

७.३.२

आप्यानवतीभ्यामभिमृश्य । प्रत्येत्यातिथ्येन प्रचरत्यातिथ्येन प्रचर्य प्रवर्ग्योपसद्भ्यां प्रचरति प्रवर्ग्योपसद्भ्यां प्रचर्याथैतां चर्मणि चितिं समवशमयन्ति तद्यच्चर्मणि चर्म वै रूपं रूपाणामुपाप्त्यै लोमतो लोम वै रूपं रूपाणामुपाप्त्यै रोहिते रोहिते ह सर्वाणि रूपाणि सर्वेषां रूपाणामुपाप्त्या आनडुहेऽग्निरेष यदनड्वानग्निरूपाणामुपाप्त्यै प्राचीनग्रीवे तद्धि देवत्रा - ७.३.२.१

तदग्रेण गार्हपत्यम् । अन्तर्वेद्युत्तरलोम प्राचीनग्रीवमुपस्तृणाति तदेतां चितिं समवशमयन्त्यथ प्रोक्षति तद्यत्प्रोक्षति शुद्धमेवैतन्मेध्यं करोत्याज्येन तद्धि शुद्धं मेध्यमथो अनभ्यारोहाय न हि किंचनान्यद्धविराज्येन प्रोक्षन्ति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवैतच्छुद्धं मेध्यं करोत्यथो अनभ्यारोहाय न हि किंचनान्यद्धविस्तूष्णीं प्रोक्षन्ति - ७.३.२.२

यद्वेव प्रोक्षति । हविर्वा एतत्तदेतदभिघारयति यद्वै हविरभ्यक्तं यदभिघारितं तज्जुष्टं तन्मेध्यमाज्येनाज्येन हि हविरभिघारयन्ति तूष्णीं तूष्णीं हि हविरभिघारयन्ति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम् - ७.३.२.३

तदाहुः । यत्प्रथमामेव चितिं प्रोक्षति कथमस्यैष सर्वोऽग्निः प्रोक्षितो भवति कथं चर्मणि प्रणीतः कथमश्वप्रणीत इति यदेवात्र सर्वासां चितीनामिष्टकाः प्रोक्षत्येवमु हास्यैष सर्वोऽग्निः प्रोक्षितो भवत्येवं चर्मणि प्रणीत एवमश्वप्रणीत उद्यच्छन्त्येतां चितिम् - ७.३.२.४

अथाहाग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति । एतद्वै देवानुपप्रैष्यत एतं यज्ञं तंस्यमानान्रक्षांसि नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व इति तेभ्य एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्राहरंस्तैरेनानस्तृण्वत तान्त्स्तृत्वाऽभयेऽनाष्ट्र ऽएतं यज्ञमतन्वत - ७.३.२.५

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवापहतानि यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो यदेव रक्षो यः पाप्मा तेभ्य एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्रहरति तैरेनान्त्स्तृणुते तान्त्स्तृत्वाभयेऽनाष्ट्र ऽएतं यज्ञं तनुते - ७.३.२.६

तद्यदग्निभ्य इति । बहवो ह्येतेऽग्नयो यदेताश्चितयोऽथ यत्प्रह्रियमाणेभ्य इति
प्र हि हरति - ७.३.२.७

तद्धैकेऽन्वाहुः । पुरीष्यासो अग्नयः प्रावणेभिः सजोषस इति प्रायणरूपं न तथा कुर्यादाग्नेयीरेव गायत्रीः कामवतीरनुब्रूयादा ते वत्सो मनो यमत्तुभ्यं ता अङ्गिरस्तमाग्निः प्रियेषु धामस्विति - ७.३.२.८

आग्नेयीरन्वाह । अग्निरूपाणामुपाप्त्यै कामवतीः कामानामुपाप्त्यै गायत्रीर्गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तिस्रस्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति ताः सप्त सम्पद्यन्ते सह त्रिरनूक्ताभ्यां सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवत्युपांश्वन्वाह रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते पश्चादनुब्रुवन्नन्वेति च्छन्दोभिरेवैतद्यज्ञं पश्चादभिरक्षन्नेति - ७.३.२.९

श्येनचितेः परिक्रमणम्

अथाश्वं शुक्लं पुरस्तान्नयन्ति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्तऽ एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति समाश्नुवत तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति समश्नुत आगच्छन्त्यग्निं दक्षिणतः पुच्छस्य चितिमुपनिदधत्युत्तरतोऽश्वमाक्रमयन्ति - ७.३.२.१०

तमुत्तरार्धेनाग्नेः । अन्तरेण परिश्रितः प्राञ्चं नयन्ति तत्प्राच्यै दिशः पाप्मानमपहन्ति तं दक्षिणा तद्दक्षिणायै दिशः पाप्मानमपहन्ति तं प्रत्यञ्चं तत्प्रतीच्यै दिशः पाप्मानमपहन्ति तमुदञ्चं तदुदीच्यै दिशः पाप्मानमपहन्ति सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याथैनमुदञ्चं प्राञ्चं प्रसृजति तस्योक्तो बन्धुः - ७.३.२.११

तं प्रत्यञ्चं यन्तम् । एतां चितिमवघ्रापयत्यसौ वा आदित्य एषोऽश्व इमा उ सर्वाः प्रजा या इमा इष्टकास्तद्यदवघ्रापयत्यसावेव तदादित्य इमाः प्रजा अभिजिघ्रति तस्मादु हैतत्सर्वोऽस्मीति मन्यते प्रजापतेर्वीर्येण तद्यत्प्रत्यञ्चं यन्तमवघ्रापयति प्रत्यङ्ह्येवैष यन्निमाः सर्वाः प्रजा अभिजिघ्रति - ७.३.२.१२

यद्वेवावघ्रापयति । असौ वा आदित्य एषोऽश्व इम उ लोका एताः स्वयमातृण्णास्तद्यदवघ्रापयत्यसावेव तदादित्य इमांल्लोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रमुपरि तस्य बन्धुः - ७.३.२.१३

यद्वेवाघ्रापयति । अग्निर्देवेभ्य उदक्रामत्सोऽपः प्राविशत्ते देवाः प्रजापतिमब्रुवंस्त्वमिममन्विच्छ स तुभ्यं स्वाय पित्र आविर्भविष्यतीति तमश्वः शुक्लो भूत्वाऽन्वैच्छत्तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद तमभ्यवेक्षां चक्रे स हैनमुदुवोष तस्मादुवोष तस्मादश्वः शुक्ल उदुष्टमुख इवाथो ह दुरक्षो भावुकस्तमु वा ऋत्वेव हिंसित्वेव मेने तं होवाच वरं ते ददामीति - ७.३.२.१४

स होवाच । यस्त्वानेन रूपेणान्विच्छाद्विन्दादेव त्वा स इति स यो हैनमेतेन रूपेणान्विच्छति विन्दति हैनं वित्त्वा हैवैनं चिनुते - ७.३.२.१५

स शुक्लः स्यात् । तद्ध्येतस्य रूपं य एष तपति यदि शुक्लं न विन्देदप्यशुक्लः स्यादश्वस्त्वेव स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादाग्नेयो वा अनड्वानग्निरु सर्वेषां पाप्मनामपहन्ता - ७.३.२.१६

अथातोऽधिरोहणस्यैव । तं हैके पुरस्तात्प्रत्यञ्चमधिरोहन्ति पश्चाद्वा प्राञ्चं न तथा कुर्यात्पशुरेष यदग्निर्यो वै पशुं पुरस्तात्प्रत्यञ्चमधिरोहति विषाणाभ्यां तं हन्त्यथ यः पश्चात्प्राञ्चं पद्भ्यां तमात्मनेवैनमारोहेद्यं वा आत्मना पशुमारोहन्ति स पारयति स न हिनस्त्युत्तरतो यं हि कं च पशुमारोहन्त्युत्तरत एवैनमारोहन्त्यारुह्याग्निमौत्तरवेदिकं कर्म कृत्वाऽऽत्मन्नग्निं गृह्णीत आत्मन्नग्निं गृहीत्वा सत्यं साम गायति पुष्करपर्णमुपदधाति तस्यातः - ७.३.२.१७

अथैतं साये भूतेऽश्वं परिणयन्ति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतं वज्रमभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्तथैवास्मा अयमेतं वज्रमभिगोप्तारं करोति - ७.३.२.१८

तं वा उपास्तमयमादित्यस्य परिणयति । एष वा अस्य प्रत्यक्षं दिवा गोप्ता भवति
रात्रिसाचयान्यु वै रक्षांसि रात्र्या एवास्मा एतं वज्रमभिगोप्तारं करोति सर्वतः परिणयति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिणयति त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोत्यथैनमुदञ्चं प्राञ्चं प्रसृजति तस्योक्तो बन्धुरथ स पुनर्विपल्ययते तस्योपरि बन्धुः - ७.३.२.१९