शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् ४

८.२.४

बस्तो वय इति बस्तं वयसाऽऽप्नोद्विवलं छन्द इत्येकपदा वै विवलं छन्द एकपदा ह भूत्वाऽजा उच्चक्रमुः - ८.२.४.१

वृष्णिर्वय इति । वृष्णिं वयसाऽऽप्नोद्विशालं छन्द इति द्विपदा वै विशालं छन्दो द्विपदा ह भूत्वाऽवय उच्चक्रमुः - ८.२.४.२

पुरुषो वय इति । पुरुषं वयसाऽऽप्नोत्तन्द्रं छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः - ८.२.४.३

व्याघ्रो वय इति । व्याघ्रं वयसाऽऽप्नोदनाधृष्टं छन्द इति विराड्वा अनाधृष्टं छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराड्ढ भूत्वा व्याघ्रा उच्चक्रमुः - ८.२.४.४

सिंहो वय इति । सिंहं वयसाऽऽप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि च्छन्दांसि च्छादयत्यतिच्छन्दा ह भूत्वा सिंहा उच्चक्रमुरथातो निरुक्तानेव पशून्निरुक्तानि च्छन्दांस्युपदधाति - ८.२.४.५

पष्ठवाड्वय इति । पष्ठवाहं वयसाऽऽप्नोद्बृहती छन्द इति बृहती ह भूत्वा पष्ठवाह उच्चक्रमुः - ८.२.४.६

उक्षा वय इति । उक्षाणं वयसाऽऽप्नोत्ककुप्छन्द इति ककुब्भ भूत्वोक्षाण उच्चक्रमुः - ८.२.४.७

ऋषभो वय इति । ऋषभं वयसाऽऽप्नोत्सतोबृहती च्छन्द इति सतोबृहती ह भूत्वऽर्षभा उच्चक्रमुः - ८.२.४.८

अनड्वान्वय इति । अनड्वाहं वयसाऽऽप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वाऽनड्वाह उच्चक्रमुः - ८.२.४.९

धेनुर्वय इति । धेनुं वयसाऽऽप्नोज्जगती छन्द इति जगती ह भूत्वा धेनव उच्चक्रमुः - ८.२.४.१०

त्र्यविर्वय इति । त्र्यविं वयसाऽऽप्नोत्त्रिष्टुप्छन्द इति त्रिष्टुब्भ भूत्वा त्र्यवय उच्चक्रमुः -८.२.४.११

दित्यवाड्वय इति । दित्यवाहं वयसाऽऽप्नोद्विराट्छन्द इति विराड्ढ भूत्वा दित्यवाह उच्चक्रमुः - ८.२.४.१२

पञ्चाविर्वय इति । पञ्चाविं वयसाऽऽप्नोद्गायत्री छन्द इति गायत्री ह भूत्वा पञ्चावय उच्चक्रमुः - ८.२.४.१३

त्रिवत्सो वय इति । त्रिवत्सं वयसाऽऽप्नोदुष्णिक्छन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा उच्चक्रमुः - ८.२.४.१४

तुर्यवाड्वय इति । तुर्यवाहं वयसाऽऽप्नोदनुष्टुप्छन्द इत्यनुष्टुब्भ भूत्वा तुर्यवाह उच्चक्रमुः - ८.२.४.१५

एते वै ते पशवः । यांस्तत्प्रजापतिर्वयसाऽऽप्नोत्स वै पशुं प्रथममाहाथ वयोऽथ च्छन्दो वयसा च ह्येनांश्छन्दसा च परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनानयमेतद्वयसा चैव च्छन्दसा च परिगत्यात्मन्धत्त आत्मन्कुरुते - ८.२.४.१६

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः पुरस्तादुपदधाति शिरोऽस्य ता अथ या दक्षिणतश्चोत्तरतश्च स आत्माथ याः पश्चात्तत्पुच्छम् - ८.२.४.१७

स वै पुरस्तादेवाग्र उपदधाति । शिरो हि प्रथमं जायमानस्य जायतेऽथ दक्षिणत उपधायोत्तरत उपदधाति सार्धमयमात्मा जायता इत्यथ पश्चात्पुच्छं ह्यन्ततो जायमानस्य जायते - ८.२.४.१८

तद्यानि वर्षिष्ठानि च्छन्दांसि । ये स्थविष्ठाः पशवस्तान्मध्य उपदधाति मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यं प्रति पशुर्वरिष्ठोऽथ ये वीर्यवत्तमाः पशवस्तान्दक्षिणत उपदधाति दक्षिणं तदर्धं पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोर्वीर्यत्तरः - ८.२.४.१९

पूर्वार्धं च जघनार्धं चाणिष्ठौ करोति । यदहामूश्चतस्रस्तेनैना अणिष्ठा अथ यदिह ह्रसिष्ठान्पशूनुपदधाति तेनो एता अणिष्ठाः पूर्वार्धं च तज्जघनार्धं च पशोरणिष्ठौ करोति तस्मात्पूर्वार्धश्च जघनार्धश्च पशोरणिष्ठौ तस्मात्पूर्वार्धेन च जघनार्धेन च पशुरुच्च तिष्ठति सं च विशत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः - ८.२.४.२०

इत्याहवनीयचित्यायां पञ्चचितिकायां द्वितीया चितिः