शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ७
ब्राह्मणम् १ द्वयोर्ऋतव्येष्टकयोरुपधानम्
१ द्वयोर्ऋतव्येष्टकयोरुपधानम्--तत्र च धर्मातिदेशसहितं सार्थवादमृतव्ययोरुपधानविधानं, विहिते उपधाने मंत्रं विनियुज्य तस्य व्याख्यानं सकृत्सादनविधानं च, पञ्चम्यां चितौ अवश्यं कर्तव्यतया ऋतुरूपत्वेनर्तव्ययोरुपधानस्य प्रशंसनं, विहितमृतव्ययोरुपधानं प्रथमायाः स्वयमातृण्णायाः प्रथमाया विश्वज्योतिषश्चोपरिष्टात्कर्तव्यमिति सार्थवादं विधानं, पुनः प्रकारान्तरेणर्तव्ययोः प्रशंसनम्, एता एवर्तव्याः संयान्य इत्यभिधानम् , अत्रान्या एव संयान्य इति चरकाध्वर्यूणां मतमनूद्य तत्प्रत्याख्यानं.
विश्वज्योतिष उपधानम्--तत्र च स्वयमातृण्णायाः पुरस्तात्सार्थवादं विश्वज्योतिष उपधानविधानं, प्रसङ्गात्प्रथमाया मध्यमायाश्च स्वयमातृण्णाया उपरिष्टादुपधेयायाः प्रथमाया मध्यमायाश्च विश्वज्योतिषः सार्थवादं प्रदर्शनं, विहिते विश्वज्योतिरुपधाने मंत्रं विनियुज्य तस्यार्थविवरणं, पूर्ववत्सादनसूददोहसा धवदनाभिधानं, पूर्वव द्विश्वज्योतिषामपि संयानीत्वमभिधाय तत्रान्या एव संयान्य इति चरकाध्वर्यूणां . मतपनूद्य तत्प्रत्याख्यानं चेति.
ब्राह्मणम् २ सर्वचितिशेषः तत्र लोकम्पृणेष्टकोपधानम्
२ सर्वचितिशेषः, तत्र लोकम्पृणेष्टकोपधानम् -तत्र पूर्वं लोकम्पृणाशब्दनिर्वचनपुरःसरं पंचम्यां चितौ प्रथमचितिवत्सार्थवादं लोकम्पृणेष्टकोपधानविधानं, लोकम्पृणोपधानस्य सार्थवादं स्थानविशेषविधानं, विहिते उपधाने मंत्रं विनियुज्य तस्य व्याख्यानं, पूर्ववत्प्राप्तं सादनं निषिध्य केवलं सूददोहसाधिवदनाभिधानम् , अस्या लोकम्पृणाया अयातयामत्वस्य सार्थवादं निरूपणं, यजुष्मतीरुपधाय लोकम्पृणया प्रच्छादयतीति सार्थवादं प्रतिपादनम् , आत्मन्येव यजुष्मतीरुपदध्यान्न पक्षपुच्छेषु इति सोपपत्तिकं प्रतिपादनम् , उभयीर्यजुष्मतीश्च लोकम्पृणाश्चात्मन्नुपदधातीत्यनूद्यात्मनः पीनत्वं पक्षपुच्छयोस्तनीयस्त्वं चाभिधाय सोपपत्तिकं चितस्याचितस्य च विज्ञानप्रतिपादनं, लोकम्पृणया स्वयमातृण्णायाः प्रच्छादनमनूद्य तत्प्रशस्य च जीविष्यतो मरिष्यतश्च विज्ञाननिरूपणं, क्रमसहितं लोकम्पृणाभिः सर्वतः संछादनस्य प्रकारनिरूपणम् , आत्मन एवाधि पक्षपुच्छानां सोपपत्तिकं चयनविधानं, पाकसमये उपधानसमये वा भिन्ना अतिपाकात्कृष्णाश्चेष्टका नोपदध्यादिति सकारणं प्रतिषिध्य भिन्नानां कृष्णानामतिरिक्तानां चोत्करे उत्किरणरूपप्रतिपत्तिकथनं यजुष्मतीनां लोकम्पृणानां चेष्टकानां परिमाणावशेषं सयुक्तिकमभिधाय तिसृणां चितीनां त्र्यालिखितत्वं द्वयोरपरिमिताऽऽलिखितत्वं च सकारणं प्रतिपाद्य पुनः सर्वासां चितीनां त्र्यालिखितत्वस्य सहेतुकं निरूपणं, यजुष्मतीनामिष्टकानां सोपपत्तिकं - मध्यमायां चितावावपनस्थानविधानम् , अतिरिक्ता इष्टका नैवोपधेया इच्छा चेदुपधेया वा इति सकारणं प्रतिपाद्य देवानां दृष्टान्तेन नैवोपधेया इति निगमनं चेत्यादि
ब्राह्मणम् ३ पुरीषनिवपनम्
३ पुरीषनिवपनम्--तत्र च लोकम्पृणोपधानस्यानन्तरं सार्थवादं पुरीषनिवपनविधानं, तच्च पुरीषनिवपनमादौ स्वयमातृण्णायां कर्तव्यमिति न स्वयमातृण्णायामावपेदित्येकीयमतनिरसनपूर्वकं सोपपत्तिकं सार्थवादमभिधानं, स्वयमातृण्णायामुप्तेन पुरीषेणात्मनः संछादनस्य क्रमसहितप्रकारनिरूपणं, पुरीषेणात्मनः सर्वतः संछादनस्य प्रशंसनं, विहिते पुरीषनिवपने मंत्रं विनियुज्य तस्यार्थप्रदर्शनं, पुरीषनिवपनस्य प्रकारान्तरेण छन्दोदेवताद्वारा प्रशंसनं, ततो विकर्णी च स्वयमातृण्णां चोभे परस्परं यथा संस्पृष्टे स्यातां तथोपदध्यादिति सार्थवादं विधानं, विकर्ण्याः उपधानमनूद्य तत्र सार्थवादं स्थानविशेषविधानं, पुनर्विकर्णीस्वयमातृण्णयोरुपधानमनूद्य तयोरायुरात्मना प्राणात्मना च प्रशंसनं कृत्वा तत्र पूर्वामुत्तरां विकर्णीमुपदध्यादिति प्रतिपादनं, विकर्ण्या उपधाने स्वयमातृण्णाया उपधाने च क्रमात्पूर्वत्रैक उत्तरत्र द्वाविति मंत्रत्रयं विनियुज्य तेषां व्याख्यानं, नानोपधानं सकृत्सादनं समानकरणं शर्करामयत्वं चेत्येतेषां सहेतुकमभिधानं, सार्थवादं , पूर्ववत्सूददोहसाऽधिवदनमभिधाय तत्र मंत्रं विनियुज्य तस्य व्याख्यानं चेत्यादि.
ब्राह्मणम् ४ चितिपुरीषाणां मीमांसा
४ स्वयमातृण्णासु सार्थवादमाख्यायिकया साम्नां गानविधानं, तच्च सामगानं "भूर्भुवः स्वः " इत्येतासु व्याहृतिषु कर्तव्यमिति सार्थवादमभिधानं, तानि वै सामानि नानाप्रस्तावानि समाननिधनानीति सोपपत्तिकं निरूपणम् , इष्टकाभिश्चितस्य सपक्षपुच्छस्याग्नेर्हिरण्यशकलैर्द्वाभ्यां द्वाभ्यां शताभ्यां पञ्चकृत्वः प्रोक्षणस्य सार्थवादं सप्रकारकं समंत्रकं विधानं,
चितिपुरीषाणां मीमांसा--तस्यां च सप्तानामपि चितीनां क्रमाद् भूम्यन्तरिक्षद्यौर्यज्ञ यजमानस्वर्गामृतरूपत्वं प्रतिपाद्य तासां क्रमात्पशुवयोनक्षत्रदक्षिणाप्रजादेवामृतात्मना पुरीषेण प्रच्छादनमभिधाय तद्द्वाराऽधिदेवतरूपेण प्रशंसनं, पुनस्तासामेव सप्तानां चितीनां सोपपत्तिकमध्यात्मरूपेण प्रशंसनं चेत्यादि.