शतपथब्राह्मणम्/काण्डम् ९/अध्यायः २/ब्राह्मण १

९.२.१

उपवसथीयेऽहन्प्रातरुदित आदित्ये । वाचं विसृजते वाचं विसृज्य पञ्चगृहीतमाज्यं गृह्णीते तत्र पञ्च हिरण्यशकलान्प्रास्यत्यथैतत्त्रयं समासिक्तं भवति दधि मधु घृतं पात्र्यां वा स्थाल्यां वोरुबिल्यां तदुपरिष्टाद्दर्भमुष्टिं निदधाति - ९.२.१.१

अथाग्निमारोहति । नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिष इत्यत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र तस्मा अलं यद्धिंस्याद्यं जिहिंसिषेद्यमु वा एष हिनस्ति हरसा वैनं शोचिषा वार्चिषा वा हिनस्ति तथो हैनमेष एतैर्न हिनस्त्यन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः - ९.२.१.२

आरुह्याग्निं स्वयमातृण्णां व्याघारयति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः - ९.२.१.३

स्वयमातृण्णां व्याघारयति । प्राणः स्वयमातृण्णा प्राणे तदन्नं दधाति - ९.२.१.४

यद्वेव स्वयमातृण्णां व्याघारयति । उत्तरवेदिर्हैषाग्नेरथ याममूं पूर्वां व्याघारयत्यध्वरस्य साऽथ हैषाग्नेस्तामेतद्व्याघारयति - ९.२.१.५

पश्यंस्तत्र हिरण्यं व्याघारयति । प्रत्यक्षं वै तद्यत्पश्यति प्रत्यक्षं सोत्तरवेदिः प्रास्ता एवेह भवन्ति परोऽक्षं वै तद्यत्प्रास्ताः परोऽक्षमियमुत्तरवेदिः - ९.२.१.६

स्वाहाकारेण तां व्याघारयति । प्रत्यक्षं वै तद्यत्स्वाहाकारः प्रत्यक्षं सोत्तरवेदिर्वेट्कारेणेमां परोऽक्षं वै तद्यद्वेट्कारः परोऽक्षमियमुत्तरवेदिराज्येनाज्येन ह्युत्तरवेदिं व्याघारयन्ति पञ्चगृहीतेन पञ्चगृहीतेन ह्युत्तरवेदिं व्याघारयन्ति व्यतिहारं व्यतिहारं ह्युत्तरवेदिं व्याघारयन्ति - ९.२.१.७

नृषदे वेडिति । प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतत्प्रीणात्यप्सुषदे वेडिति योऽप्स्वग्निस्तमेतत्प्रीणाति बहिर्षदे वेडिति य ओषधिष्वग्निस्तमेतत्प्रीणाति वनसदे वेडिति यो वनस्पतिष्वग्निस्तमेतत्प्रीणाति स्वर्विदे वेडित्ययमग्निः स्वर्विदिममेवैतदग्निं प्रीणाति - ९.२.१.८

यद्वेवाह । नृषदे वेडप्सुषदे वेडित्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति - ९.२.१.९

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तव संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.२.१.१०

अथैनं समुक्षति । दध्ना मधुना घृतेन जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वम्वेतदन्नं यद्दधि मधु घृतं सर्वेणैवैनमेतदन्नेन प्रीणाति सर्वतः समुक्षति सर्वत एवैनमेतत्सर्वेणान्नेन प्रीणाति - ९.२.१.११

यद्वेवैनं समुक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधात्यन्नं वै रूपमेतदु परममन्नं यद्दधि मधु घृतं तद्यदेव परमं रूपं तदस्मिन्नेतदुत्तमं दधाति सर्वतः समुक्षत्यपि बाह्येन परिश्रितः सर्वत एवास्मिन्नेतद्रूपमुत्तमं दधाति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम् - ९.२.१.१२

यद्वेवैनं समुक्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निंसमस्कुर्वंस्तदस्मिन्नदोऽमुं पुरस्ताद्भागमकुर्वतादः सजूरब्दीयमथास्मिन्नेतं संचित उपरिष्टाद्भागमकुर्वत तद्यत्समुक्षति य एवास्मिंस्ते प्राणा ऋषयः संचित उपरिष्टाद्भागमकुर्वत तानेवैतत्प्रीणाति दध्ना मधुना घृतेन तस्योक्तो बन्धुः - ९.२.१.१३

ये देवा देवानाम् । यज्ञिया यज्ञियानामिति देवा ह्येते देवानां यज्ञिया उ यज्ञियानां संवत्सरीणमुप भागमासत इति संवत्सरीणं ह्येते एतं भागमुपासतेऽहुतादो हविषो यज्ञे अस्मिन्नित्यहुतादो हि प्राणाः स्वयं पिबन्तु मधुनो घृतस्येति स्वयमस्य पिबन्तु मधुनश्च घृतस्य चेत्येतत् - ९.२.१.१४

ये देवा देवेषु । अधि देवत्वमायन्निति देवा ह्येते देवेष्वधि देवत्वमायन्ये ब्रह्मणः पुरऽएतारो अस्येत्ययमग्निर्ब्रह्म तस्यैते पुरऽएतारो येभ्यो न ऋते पवते धाम किं चनेति न हि प्राणेभ्य ऋते पवते धाम किंचन न ते दिवो न पृथिव्या अधि स्नुष्विति नैव ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्त इत्येतत् - ९.२.१.१५

द्वाभ्यां समुक्षति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समुक्षति - ९.२.१.१६

अथ प्रत्यवरोहति । प्राणदा अपानदा इति सर्वे हैते प्राणा योऽयमग्निश्चितः स यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष प्राणान्वृञ्जीताथ यदेतामत्रात्मनः परिदां वदते तथो हास्यैष प्राणान्न वृङ्क्ते प्राणदा अपानदा व्यानदा वर्चोदा वरिवोदा इत्येतद्दा मेऽसीत्येवैतदाहान्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः - ९.२.१.१७

प्रत्येत्य प्रवर्ग्योपसद्भ्यां प्रचरति । प्रवर्ग्योपसद्भ्यां प्रचर्याथास्मै व्रतं वाऽर्धव्रतं वा प्रयच्छत्यथ प्रवर्ग्योपसद्भ्यामथ प्रवर्ग्यमुत्सादयत्याप्त्वा तं कामं यस्मै कामायैनं प्रवृणक्ति - ९.२.१.१८

तं वै परिष्यन्द उत्सादयेत् । तप्तो वा एष शुशुचानो भवति तं यदस्यामुत्सादयेदिमामस्य शुगृच्छेद्यदप्सूत्सादयेदपोऽस्य शुगृच्छेदथ यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति तस्मात्परिष्यन्द उत्सादयेत् - ९.२.१.१९

अग्नौ त्वेवोत्सादयेत् । इमे वै लोका एषोऽग्निरापः परिश्रितस्तं यदग्ना उत्सादयति तदेवैनं परिष्यन्द उत्सादयति - ९.२.१.२०

यद्वेवाग्ना उत्सादयति । इमे वै लोका एषोऽग्निरग्निर्वायुरादित्यस्तदेते प्रवर्ग्याः स यदन्यत्राग्नेरुत्सादयेदेतांस्तद्देवान्बहिर्धैभ्यो लोकेभ्यो दध्यादथ यदग्ना उत्सादयत्येतानेवैतद्देवानेषु लोकेषु दधाति - ९.२.१.२१

यद्वेवाग्ना उत्सादयति । शिर एतद्यज्ञस्य यत्प्रवर्ग्य आत्माऽयमग्निश्चितः स यदन्यत्राग्नेरुत्सादयेद्बहिर्धाऽस्माच्छिरो दध्यादथ यदग्ना उत्सादयत्यात्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति - ९.२.१.२२

स्वयमातृण्णया संस्पृष्टं प्रथमं प्रवर्ग्यमुत्सादयति । प्राणः स्वयमातृण्णा शिरः प्रवर्ग्य आत्मायमग्निश्चितः शिरश्च तदात्मानं च प्राणेन संतनोति संदधात्युत्साद्य प्रवर्ग्यं यथा तस्योत्सादनम् - ९.२.१.२३