शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ३/ब्राह्मण ३

९.३.३

अथैतान्यज्ञक्रतूञ्जुहोति । []अग्निश्च मे घर्मश्च म इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति - ९.३.३.१

अथायुज स्तोमाञ्जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वाऽयुग्भि स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाऽयुग्भि स्तोमैः स्वर्गं लोकमेति - ९.३.३.२

तद्वै त्रयस्त्रिंशादिति । अन्तो वै त्रयस्त्रिंशोऽयुजां स्तोमानामन्तत एव तद्देवाः स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति - ९.३.३.३

अथ युग्मतो जुहोति । एतद्वै छन्दांस्यब्रुवन्यातयामा वा अयुज स्तोमा युग्मभिर्वयं स्तोमैः स्वर्गं लोकमयामेति तानि युग्मभि स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानो युग्मभि स्तोमैः स्वर्गं लोकमेति - ९.३.३.४

तद्वा अष्टाचत्वरिंशादिति । अन्तो वा अष्टाचत्वारिंशो युग्मतां स्तोमानामन्तत एव तच्छन्दांसि स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति - ९.३.३.५

स आह । []एका च मे तिस्रश्च मे चतस्रश्च मेऽष्टौ च म इति यथा वृक्षं रोहन्नुत्तरामुत्तरां शाखां समालम्भं रोहेत्तादृक्तद्यद्वेव स्तोमाञ्जुहोत्यन्नं वै स्तोमा अन्नेनैवैनमेतदभिषिञ्चति - ९.३.३.६

अथ वयांसि जुहोति । पशवो वै वयांसि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति - ९.३.३.७

अथ नामग्राहं जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वाऽथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षं प्रीणाति वाजाय स्वाहा प्रसवाय स्वाहेति नामान्यस्यैतानि नामग्राहमेवैनमेतत्प्रीणाति - ९.३.३.८

त्रयोदशैतानि नामानि भवन्ति । त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रीणाति यद्वेव नामग्राहं जुहोति नामग्राहमेवैनमेतदभिषिञ्चति - ९.३.३.९

अथाह । []इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाऽऽधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति - ९.३.३.१०

यद्वेवाह । इयं ते राण्मित्राय यन्ताऽसि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाऽऽधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्ताऽसि यमन ऊर्जे चनोऽसि वृष्ट्यै च नोऽसि प्रजानां च न आधिपत्यायासीत्युपब्रुवत एवैनमेतदेतस्मै नः सर्वस्मा अस्येतस्मै त्वा सर्वस्मा अभ्यषिचामहीति तस्मादु हेदं मानुषं राजानमभिषिक्तमुपब्रुवते - ९.३.३.११

अथ कल्पाञ्जुहोति । प्राणा वै कल्पाः प्राणानेवास्मिन्नेतद्दधात्यायुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामित्येतानेवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति - ९.३.३.१२

द्वादश कल्पाञ्जुहोति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति यद्वेव कल्पाञ्जुहोति प्राणा वै कल्पा अमृतमु वै प्राणा अमृतेनैवैनमेतदभिषिञ्चति - ९.३.३.१३

अथाह []स्तोमश्च यजुश्च ऋक्च साम स बृहच्च रथन्तरं चेति त्रयी हैषा विद्यान्नं वै त्रयी विद्यान्नेनैवैनमेतत्प्रीणात्यथो अन्नेनैवैनमेतदभिषिञ्चति स्वर्देवा अगन्मामृताऽ अभूमेति[] स्वर्हि गच्छत्यमृतो हि भवति प्रजापतेः प्रजा अभूमेति प्रजापतेर्हि प्रजा भवति वेट्स्वाहेति वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते तदेनमेताभ्यामुभाभ्यां प्रीणाति वषट्कारेण च स्वाहाकारेण चाथो एताभ्यामेवैनमेतदुभाभ्यामभिषिञ्चत्यत्र तां स्रुचमनुप्रास्यति यदत्राज्यलिप्तं तन्नेद्बहिर्द्धाग्नेरसदिति - ९.३.३.१४

तस्यै वा एतस्यै वसोर्धारायै । द्यौरेवात्माभ्रमूधो विद्युत्स्तनो धारैव धारा दिवोऽधि गामागच्छति - ९.३.३.१५

तस्यै गौरेवात्मा । ऊध एवोध स्तन स्तनो धारैव धारा गोरधि यजमानम् - ९.३.३.१६

तस्यै यजमान एवात्मा । बाहुरूधः स्रुक्स्तनो धारैव धारा यजमानादधि देवान्देवेभ्योऽधि गां गोरधि यजमानं तदेतदनन्तमक्षय्यं देवानामन्नं परिप्लवते स यो हैतदेवं वेदैवं हैवास्यैतदनन्तमक्षय्यमन्नं भवत्यथातः सम्पदेव - ९.३.३.१७

तदाहुः । कथममस्यैषा वसोर्धारा संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्राणि च शतान्येषा वसोर्धाराथ षडथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि षट्षड्वा ऋतवस्तदृतूनां रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैषा वसोर्धारा संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथग्वसोर्धारयाभिहुता भवन्ति - ९.३.३.१८

तदाहुः । कथमस्यैषा वसोर्धारा महदुक्थमाप्नोति कथं महतोक्थेन सम्पद्यत इत्येतस्या एव वसोर्धारायै यानि नव प्रथमानि यजूंषि तत्त्रिवृच्छिरोऽथ यान्यष्टाचत्वारिंशत्तौ चतुर्विंशौ पक्षावथ यानि पञ्चविंशतिः स पञ्चविंश आत्माथ यान्येकविंशतिस्तदेकविंशं पुच्छमथ यानि त्रयस्त्रिंशत्स वशोऽथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैषा वसोर्धारा महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते - ९.३.३.१९

  1. वा.सं. १८.२२
  2. वा.सं. १८.२४
  3. वा.सं. १८.२८
  4. वा.सं. १८.२९
  5. सत्रस्यर्द्धि साम