शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ४/ब्राह्मण ४

९.४.४ सुत्याहकर्माणि

अथ प्रातः प्रातरनुवाकमुपाकरिष्यन् । अग्निं युनक्ति युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते तं वै पुरस्तात्सर्वस्य कर्मणो युनक्ति तद्यत्किंचात्र ऊर्ध्वं क्रियते युक्ते तत्सर्वं समाधीयते - ९.४.४.१

परिधिषु युनक्ति । अग्नय एते यत्परिधयोऽग्निभिरेव तदग्निं युनक्ति - ९.४.४.२

स मध्यमं परिधिमुपस्पृश्य । एतद्यजुर्जपत्यग्निं युनज्मि शवसा घृतेनेति[१] बलं वै शवोऽग्निं युनज्मि बलेन च घृतेन चेत्येतद्दिव्यं सुपर्णं वयसा बृहन्तमिति दिव्यो वा एष सुपर्णो वयसो बृहन्धूमेन तेन वयं गमेम ब्रध्नस्य विष्टपं स्वर्गं लोकं रोहन्तोऽधि नाकमुत्तममित्येतत् - ९.४.४.३

अथ दक्षिणे । इमौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने । ताभ्यां पतेम सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह - ९.४.४.४

अथोत्तरे । इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युरित्यमृतं वै हिरण्यममृतपक्षः शकुनो भर्तेत्येतन्महान्त्सधस्थे ध्रुव आ निषत्तो नमस्ते अस्तु मा मा हिंसीरित्यात्मनः परिदां वदते - ९.४.४.५

तद्यन्मध्यमं यजुः । स आत्माथ ये अभितस्तौ पक्षौ तस्मात्ते पक्षवती भवतः पक्षौ हि तौ - ९.४.४.६

त्रिभिर्युनक्ति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्युनक्ति - ९.४.४.७

अथ राजानमभिषुत्याग्नौ जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चति सोऽस्यैष दैव आत्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तोऽथ भक्षयति तदात्मानमभिषिञ्चति सोऽस्यायमात्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तः - ९.४.४.८

अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति - ९.४.४.९

अथैनं विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते यज्ञायज्ञियं स्तोत्रमुपाकरिष्यन्त्स्वर्गो वै लोको यज्ञायज्ञियमेतस्य वै गत्या एनं युङ्क्ते तदाप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते - ९.४.४.१०

तं वै पुरस्तात्स्तोत्रस्य विमुञ्चति । स यदुपरिष्टात्स्तोत्रस्य विमुञ्चेत्पराङ् हैतं स्वर्गं लोकमतिप्रणश्येदथ यत्पुरस्तात्स्तोत्रस्य विमुञ्चति तत्सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चति - ९.४.४.११

परिधिषु विमुञ्चति । परिधिषु ह्येनं युनक्ति यत्र वाव योग्यं युञ्जन्ति तदेव तद्विमुञ्चन्ति - ९.४.४.१२

स संध्योरुपस्पृश्य । एते यजुषी जपति तथा द्वे यजुषी त्रीन्परिधीननुविभवतो दिवो मूर्द्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधि तिष्ठसि श्रित इत्युत्तरे मूर्धवतीभ्यां मूर्द्धा ह्यस्यैषोऽप्सुमतीभ्यामग्नेरेतद्वैश्वानरस्य स्तोत्रं यद्यज्ञायज्ञियं शान्तिर्वा आपस्तस्मादप्सुमतीभ्याम् - ९.४.४.१३

द्वाभ्यां विमुञ्चति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्विमुञ्चति त्रिभिर्युनक्ति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ९.४.४.१४

तं हैके । प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमुञ्चन्ति संस्थारूपं वा एतद्यद्विमोचनं किं पुरा संस्थायै संस्थारूपं कुर्यामेति न तथा कुर्यादहरहरहर्वा एष यज्ञस्तायतेऽहरहः संतिष्ठतेऽहरहरेनं स्वर्गस्य लोकस्य गत्यै युङ्क्तेऽहरहरेनेन स्वर्गं लोकं गच्छति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत् - ९.४.४.१५

अथो यथा प्रायणीयेऽतिरात्रे । सामिधेनीरनूच्य ब्रूयादुदयनीय एवातोऽनुवक्तास्मीति तादृक्तत्तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत् - ९.४.४.१६

तद्धैतच्छाण्डिल्यः । कङ्कतीयेभ्योऽहरहः कर्म प्रदिश्य प्रवव्राजाहरहरेव वो युनजानहरहर्विमुञ्चानिति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत् - ९.४.४.१७

  1. वा.सं. १८.५१