ब्राह्मण १

१ यजमानव्रतमीमांसा--तत्रावशिष्टः कृत्स्नोऽपि प्रयोगः, प्रकृतिवदेवेत्यभिप्रायेण तमनभिधाय पयोव्रतस्य मीमांसा क्रियत इति प्रतिज्ञाकरणं पयोव्रतं विधाय तत्प्रशंसार्थमाख्यायिकाकथनं, तस्यां चाख्यायिकायां दीक्षासमनन्तरकाले द्वितीयदिने प्रथमोपसदि द्वितीयोपसद्दिने तृतीयोपसद्दिने च देवा भूयोभूयस्तपस्तप्त्वा क्रमाच्चतुस्त्रिद्व्येकस्तन दुग्धपयोव्रता अभवन्नुपवसथीये चतुर्थदिने भूयस्तपस्तप्त्वाऽपि सर्वथा सन्निहिततरस्यापि दुग्धामृतस्याप्राप्त्या ते ऽनाशकात्मकं व्रतमकुर्वन्-पञ्चमदिने सुत्याहे तु तदमृतं सोमरूपं प्राप्य कण्डनं कृत्वा तदग्नावजुहुवुरित्याद्यभिधानम् , इत्थं देवानां कथामवतार्य तथैवेदानीन्तनो यजमानस्तत्सर्वं करोतीति सप्रपञ्चं प्रतिपादनम् ।
समिष्टयजुर्मीमांसा--तस्यां चादौ प्रतिज्ञापूर्वकं समिष्टयजुर्मीमांसार्थमाख्यायिकाकथनम् , आख्यायिकायामपि देवासुराः सत्यानृतवदनलक्षणं पितुर्दायं समनुप्राप्य तस्य यथोचितं विभज्य ग्रहणं चक्रुरित्यभिधानं तत्र देवा यत्सत्यमगृह्णंस्तत्त्रयीलक्षणमिति प्रतिपाद्य तदुदितं यज्ञं कृत्वा त्रयीलक्षणमिदं सत्यं विस्तारयामेत्याशयेन दीक्षणीया समिष्टयजुषः पूर्वभाविकर्मान्ता-प्रायणीया शंय्वन्ता-सोमं क्रीत्वाऽनसा पर्युह्य तस्मै आतिथ्येडान्ता तिस्र उपसदः प्रयाजानुयाजवर्जिता सामिधेनीत्रिकमनूच्य प्रधानदेवता यजनमात्राः उपवसथेऽग्नीषोमीयः पशुः समिष्टयजुर्वर्जितः-प्रातःसवनं माध्यन्दिनसवनं च स्वस्वावधिक तृतीयसवनं च सकलं-इत्येतान्यागान्क्रमेण तदा तदा समनुष्ठितवन्तो यदा यदा च तद्विस्तार्यमानं सत्यमपहर्तुकामा असुराः समागताः । किञ्च तेषामागमनसमये प्रक्रान्तं यज्ञं यावदनुष्ठितं समाप्य यागान्तरप्रारम्भं चक्रुस्तेन स स याग उपरिष्टादुक्तसंस्थः सम्पन्नः । इतोऽसुरा अप्यन्ततस्तत्सत्यमपहर्तुं न शेकुः प्रत्युत पराभूताः देवाश्च सत्यसमृद्धा अभवन्नित्यादिनिरूपणम् , उक्तार्थं वेदितुरपि स्वस्य सत्यसमृद्धिः शत्रोः पराभूतिरित्येतत्फलं भवतीति प्रतिपादनं, ते देवाः पश्चान्नो इमे यज्ञाः सामिसंस्थिताः यानिमान्यज्ञान्परित्यजन्तो गता वयं तदुपजानीत यथेमान्यज्ञान्संस्थापयामेत्यादि विचार्यैतानि समिष्टयजूंषि समपश्यंस्तैरेतान्यज्ञान्समस्थापयन्नित्यादिनिरूपणं, समिष्टयजुर्नाम्नो द्वेधा निर्वचनम् , एतेषामेव समिष्टयजुषां नवत्वविशिष्टसंख्याप्रदर्शनेन प्रशंसनं, सौमिकान्याग्निकानि पौर्वापर्यक्रमेणोभयान्यपि समिष्टयजूंषि जुहुयादित्यभिधानम्, आग्निके द्वे जुहुयादित्यभिधाय तयोर्वियात्वस्य प्रशंसनं, तयोरेवाग्निकयोः समिष्टयजुषोर्मन्त्रद्वयस्य विनियोजनं, सौमिकानामाग्निकानां च मिलितायाः संख्यायाः प्रशंसनं, पुनरस्या एव मिलितायाः संख्यायाः प्रकारान्तरेण प्रशंसनम् । देविकाहवींषि--तत्र च समिष्टयजुहोमानन्तरमनुष्ठेयप्रयोगस्य कथनं, तत्र क्रमेण समिष्टयजूंषि हुत्वाऽवभृथं यन्ति अवभृथादागत्योदयनीयेन चरित्वा अनूबन्ध्यस्य पशुपुरोडाशेन चरित्वा व देविकानां हवींषि निर्वपेदिति प्रतिपादनं, अत्र देविकानां हविःषु धात्रो द्वादशकपालो निरुप्यते तत्र धात्रशब्दस्य प्रवृत्तिनिमितं प्रदर्श्य तद्द्वाराऽस्य प्रयोजननिरूपणं, तथैतेषां सर्वेषामपि हविषां सम्भूयोपयोगस्य कथनं, तस्यैव दिङ्निरोधार्थं परिगतस्य धातुर्दिशामुत्क्रान्तरूपस्य च प्रदर्शनं, धातुरादित्यात्मकत्वाद्द्वादशसंख्यासम्बन्धात्तद्देवत्यस्य पुरोडाशस्य द्वादशकपालत्वमुपपाद्य तत्पूर्वोक्तं यद्दिशां परममुत्क्रांतरूपं तान्येतानि पूर्वाणि हवींषीति प्रदर्शनं, तस्य धात्रपुरोडाशस्य होमावसरे पुरोडाशान्तरवदवदानप्रसक्तौ सर्वहोमत्वमभिधाय तदुपयोगस्याभिधानं, देविकाशब्दस्य सोपपत्तिकं निर्वचनं, एतेषां पञ्चत्वसंख्यावत्त्वस्योपपादनं, नैतानि हवींषि निर्वपेदित्याशङ्क्य कामानामति. रेकाभावान्निर्वपेदेवेति तत्समाधानकथनं, पशुपुरोडाशमनु एतद्धविर्निर्वापस्य सकारणमभिधानं, सौमिकानामाग्निकानां चोभयेषामपि पौर्वापर्यक्रमेणानुष्ठेयत्वकथनं, पशुपुरोडाशस्योच्चैस्त्वं हविषामुपांशुत्वं तत्प्रैषानां प्रकारविशिष्टत्वं स्विष्टकृदिडयोः समानत्वं चेत्यादि प्राग्वन्निरूपणं, दीक्षणीयादीनां समिष्टयजुर्होमात्पूर्वभावित्वेन समिष्टयजुर्होमः सिध्यति--अग्नीषोमीयपशोः पुनर्नसिध्यति नासौ पशुस्तत्पूर्वभाव्यतोऽस्य पृथगेव समिष्टयजूंषि जुहुयादित्यभिधानं, तस्य पशोः समाप्तिरूपत्वात् हृदयशूलेनावभृथमभ्यवेयुरिति प्रतिपादनं, हृदयशूलमुद्वास्य प्रत्येत्य वैश्वकर्मणानि जुहूयादित्यभिधानम् ।
वैश्वकर्मणहोमः--तत्र च तेषां वैश्वकर्मणानां होमस्योपयोगकथनं, वैश्वकर्मणानीति शब्दस्य पक्षद्वयेन व्युत्पत्तिकथनं, तेषां वैश्वकर्मणानां प्रशंसनं, सावित्रवैश्वकर्मणानां प्रायेणोदयनात्मकत्वेनैव तेषामुभयेषामपि होमस्यावश्यकर्तव्यत्वनिरूपणं, वैश्वकर्मणानां सावित्रवदेव संख्यासम्बन्धात्प्रायणवदेवोदयनमपि सम्पाद्यत इत्यभिधानं, तत्र सावित्रेषु सन्ततामाहुतिं जुहुयादिति विधानं, वैश्वकर्मणेषु पुनः स्रुवेण स्वाहाकृत्यार्थात्प्रत्याहुति विच्छिद्य जुहूयादिति प्रतिपादनं, तत्र वैश्वकर्मणानां होमेऽष्टौ मन्त्रान्विनियुज्य क्रमेण तेषां व्याख्यानं, एतेषां वैश्वकर्मणानां संख्यायाः प्रशंसनम् ।
चित्याग्नेर्नामकरणम्--तत्र च वैश्वकर्मणहोमानन्तरमस्याग्नेर्नामकरणं विदध्यादिति साभिप्रायं कथनम् ।
चित्याग्नेरुपस्थानम्-तत्र नामकरणानन्तरमस्याग्नेरुपस्थानस्य सप्रयोजनं विधानं, विहिते उपस्थाने मन्त्रं विधाय तस्य व्याख्यानं एतन्मन्त्रगतछन्दसः प्रशंसनं, उपस्थानानन्तरं कर्तव्यस्य प्रयोगस्याभिधानम् ।
मैत्रावरुणीपयस्या--तत्र उदवसानीयानन्तरं मैत्रावरुण्या पयस्यया सप्रयोजनं यागकरणविधानं, तस्यैव पयस्यायागस्य प्रकारान्तरेण प्रशंसनं, अस्मिन्नग्नौ पयस्यया होमेन प्रजापतौ रेतोनिधानं भवतीत्यभिधानं, एतस्याः पयस्याया मित्रावरुणदेवतासम्बन्धस्य प्रशंसनं, इत्थं देवताविशेषसम्बन्धमुपपाद्य हविषः पयस्यात्मकत्वमुपपाद्य चास्य यज्ञात्मकत्वोपपादनं, अस्य यज्ञस्योपांशुधर्मकत्वमभिधायान्तेऽनुष्ठेयत्वस्य कारणविधानं, एतस्मिन् यागे कालविशेषे दक्षिणादानस्य विधानम् , तत्र माहित्थेर्मतस्यानुवदनं, एकवारमग्निं चितवतो यजमानस्य पश्चात्क्रियमाणे क्रतौ इष्टकावैधुर्यदोषस्य निरूपणं, पश्चात्क्रियमाणे क्रतौ स्वयमातृण्णा एवोपदधीत न पुनरिष्टकान्तरमित्यादि सोपपत्तिकं प्रतिपादनं, अथवा पक्षान्तरेण ऋतव्या विश्वज्योतिषो वा पुनश्चितिमेव वोपदधीतेत्यादिनिरूपणम् ,
गार्हपत्यस्य पुनश्चितिः--तत्र च पुनश्चितिमेवोपदधीतेति सोपपत्तिकमभिधानं, उक्त्वाऽपि पक्षानितरस्य प्रकारान्तरदर्शनेन विवक्षितसिद्धिर्भवतीति प्रतिपादनं, अस्याग्नेः संवत्सरभरणमवश्यं क्रियत इति प्रदर्शनं, तत्र षण्मास्यभरणरूपपक्षान्तरकथनं, असंवत्सरभरणपक्षे महदुक्थशंसनमृगशीतिभिः संपाद्यमित्याक्षिप्यैतमग्निं भूयोऽपि विकर्षेदिति प्रतिपाद्य च पुनः संवत्सरासंवत्सरोभयभरणपक्षेऽपि सर्वमेव महदुक्थं शंसेदिति निगमनं, अग्निभरणविषये अन्यानपि कांश्चित्पक्षान्दर्शयितुमुपोद्घातकथनं, पूर्वं संवत्सरमग्निं भृतवतः--संवत्सरं सोममभिषविष्यतः-संवत्सरमग्निहोत्रं हुतवतः-द्वादश मासान्गर्भे उषित्वा प्रसूतस्य च यजमानस्य यथाकाममेतस्याग्नेर्भरणं न तत्र संवत्सरादिनियम इत्यादिनिरूपणं, प्रसङ्गात्प्राणस्य जातवेदस्त्वस्य प्रदर्शनं, उक्तार्थवेदिताऽपि सद्योभृतमपि तं चिन्वीतेत्यभिधानं, तदेवास्य यथा सर्वस्मिन्सञ्चिते पक्षपुच्छवति शाण्डिलेऽग्नौ या आहुतयो हुता एवमेवास्यैता आहुतयो हुता भवन्तीति प्रतिपादनं चेत्यादि.


ब्राह्मण २

२ सर्वचित्यन्तसाधारणोपस्थानम् --तत्रादौ च इन्द्रदृष्टेन " वार्त्रहत्याय शवसे" इत्यादिसप्तर्चेनोपस्थानं न्यूनातिरिक्तान्यथाऽकरणादिदोषपरिहारलक्षणप्रयोजनाय विधातुमुपोद्घातकथनं, अनेनोपस्थानेनाग्न्यादीनां त्रयाणां समृद्धिर्भवतीति निरूपणं, तथैव विदुषोऽविदुषो वा यष्टुर्न्यूनातिरिक्तादिदोषनिबर्हणद्वारा यत्किञ्चनानाप्तं तत्सर्वमाप्तं भवति--मंत्रगतानुच्छन्दसि यः कामः सोऽपि प्राप्तो भवति--नाष्ट्राणां रक्षसामपहननं भवति--नो हैनमनुव्याहारिणः स्तृण्वते अतः काममेवंविदाऽग्निचयनं कर्तव्यमित्याद्यमिधानं, विहिते उपस्थाने सप्त मन्त्रान्विनियुज्य तेषां मन्त्राणामभिप्रायनिरूपणं, उपस्थानमन्त्रगतसप्तत्वसंख्यायाः प्रशंसनं, एकेषां मतेनाष्टर्चेनोपस्थानं कर्तव्यमित्यभिधाय तामष्टमीमृचं च प्रदर्श्य तेन मिलितामष्टत्वसंख्यां प्रशस्य तथा न कुर्यादिति तत्प्रतिषिध्य सप्तर्चेनैवोपस्थानं विधेयमिति सकारणं प्रतिपादनं, तत्रैन्द्राग्नीभिरुपस्थानकरणस्य प्रशंसनं, एतच्चोपस्थानमेकेषां मतेन कर्मणः कर्मणः प्रतिपदं विधेयमिति पुनरेकेषां मतेन पुरीषवतीं चितिं कृत्वा कर्तव्यमिति पक्षद्वयं प्रतिपाद्य तत्र यथा कामयेत तथा कुर्यादिति प्रतिपादनं, "अग्निर्यजुषां-महाव्रतं साम्नां महदुक्थमृचां" एते त्रयः समुद्राः इत्यभिधाय य एतानि परस्मै करोति तस्योत्तरोत्तरं पापीयस्त्वं फलं भवति-यश्चैतानि परस्मै न करोति तस्योत्तरोत्तरं श्रेयस्त्वं फलं भवतीति सोपपत्तिकं सदृष्टान्तमभिधानं, तच्चैके कृत्वा कुर्वते प्रतिकारयन्ते वा तत्रैषा प्रायश्चित्तिरिति कथयित्वा तथा न कुर्यान्नैतस्य प्रायश्चित्तिरस्तीति सदृष्टान्तं सफलमभिधानं, आख्यायिकया प्रश्नपूर्वकमग्निचित्याया लोक्यत्वस्य सोपपत्तिकं सम्पादनं चेत्यादि.