४.१.२ अन्तर्यामग्रहः
अन्तर्यामग्रहः
उपांशुग्रहः


प्राणो ह वा अस्योपांशु । व्यान उपांशुसवन उदान एवान्तर्यामः - ४.१.२.[१]

अथ यस्मादन्तर्यामो नाम । यो वै प्राणः स उदानः स व्यानस्तमेवास्मिन्नेतत्पराञ्चं प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति सोऽस्यायमुदानोऽन्तरात्मन्यतस्तद्यदस्यैषोऽन्तरात्मन्यतो यद्वैनेनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम - ४.१.२.[२]

तमन्तःपवित्राद्गृह्णाति । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति सोऽस्यायमुदानोऽन्तरात्मन्हित एतेनो हास्याप्युपांशुरन्तःपवित्राद्गृहीतो भवति समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ ह्येतेनो हैवास्यैषोऽपीतरेषु ग्रहेष्वनाक्षिद्भवति - ४.१.२.[३]

अथ यस्मात्सोमं पवित्रेण पावयति । यत्र वै सोमः स्वं पुरोहितं बृहस्पतिं जिज्यौ तस्मै पुनर्ददौ तेन संशशाम तस्मिन्पुनर्ददुष्यासैवातिशिष्टमेनो यदीन्नूनं ब्रह्म ज्यानायाभिदध्यौ - ४.१.२.[४]

तं देवाः पवित्रेणापावयन् । स मेध्यः पूतो देवानां हविरभवत्तथो एवैनमेष एतत्पवित्रेण पावयति स मेध्यः पूतो देवानां हविर्भवति - ४.१.२.[५]

तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा अदितिस्तस्या अदः प्रायणीयं हविरसावादित्यश्चरुस्तद्वै तत्पुरेव सुत्यायै सा हेयं देवेषु सुत्यायामपित्वमीषेऽस्त्वेव मेऽपि प्रसुते भाग इति - ४.१.२.[६]

ते ह देवा ऊचुः । व्यादिष्टोऽयं देवताभ्यो यज्ञस्त्वयैव ग्रहा गृह्यन्तां देवताभ्यो हूयन्तामिति तथेति सोऽस्या एष प्रसुते भागः - ४.१.२.[७]

तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा उपयाम इयं वा इदमन्नाद्यमुपयच्छति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्य इतो वा ऊर्ध्वा देवा दिवि हि देवाः - ४.१.२.[८]

तद्यदुपयामेन ग्रहा गृह्यन्ते । अनयैव तद्गृह्यन्तेऽथ यद्योनौ सादयतीयं वा अस्य सर्वस्य योनिरस्यै वा इमाः प्रजाः प्रजाताः - ४.१.२.[९]

तं वा एतम् । रेतो भूतं सोममृत्विजो बिभ्रति यद्वा अयोनौ रेतः सिच्यते प्र वै तन्मीयतेऽथ यद्योनौ सादयत्यस्यामेव तत्सादयति - ४.१.२.[१०]

प्राणोदानौ ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरम्प्राणोदानयोर्व्याकृत्यै प्राणोदानावेवैतद्व्याकरोति तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते प्राण इति चोदान इति च - ४.१.२.[११]

अहोरात्रे ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरमहोरात्रयोर्व्याकृत्या अहोरात्रे एवैतद्व्याकरोति - ४.१.२.[१२]

अहः सन्तमुपांशुम् । तं रात्रौ जुहोत्यहरेवैतद्रात्रौ दधाति तस्मादपि सुतमिस्रायामुपैव किंचित्ख्यायते - ४.१.२.[१३]

रात्रिं सन्तमन्तर्यामम् । तमुदिते जुहोति रात्रिमेवैतदहन्दधाति तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति तेनेमाः प्रजास्त्राताः - ४.१.२.[१४]

अथातो गृह्णात्येव । उपयामगृहीतोऽसीत्युक्त उपयामस्य बन्धुरन्तर्यच्छ मघवन्पाहि सोममितीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्निति पाहि सोममिति गोपाय सोममित्येवैतदाहोरुष्य राय एषो यजस्वेति पशवो वै रायो गोपाय पशूनित्येवैतदाहेषो यजस्वेति प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति - ४.१.२.[१५]

अन्तस्ते द्यावापृथिवी दधामि । अन्तर्दधाम्युर्वन्तरिक्षं सजूर्देवेभिरवरैः परैश्चेति तदेनं वैश्वदेवं करोति तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवोऽन्तर्यामे मघवन्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णात्यन्तस्त्वात्मन्दध इत्येवैतदाह - ४.१.२.[१६]

तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति तं न सादयत्युदानो ह्यस्यैष तस्मादयमसन्न उदानः संचरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वोदानं सादयामीति - ४.१.२.[१७]

स यद्युपांशुं सादयेत् । अथैनं सादयेद्यद्युपांशुं न सादयेन्नैनं सादयेद्यद्युपांशुमपिदध्यादप्येनं दध्याद्यद्युपांशुनापि दध्यान्नैनमपिदध्याद्यथोपांशोः कर्म तथैतस्य समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.१.२.[१८]

ता उ ह चरकाः । नानैव मन्त्राभ्यां जुह्वति प्राणोदानौ वा अस्यैतौ नानावीर्यौ प्राणोदानौ कुर्म इति वदन्तस्तदु तथा न कुर्यान्मोहयन्ति ह ते यजमानस्य प्राणोदानावपीद्वा एनं तूष्णीं जुहुयात् - ४.१.२.[१९]

स यद्वा उपांशुं मन्त्रेण जुहोति । तदेवास्यैषोऽपि मन्त्रेण हुतो भवति किमु तत्तूष्णीं जुहुयात्समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.१.२.[२०]

स येनैवोपांशुं मन्त्रेण जुहोति । तेनैवैतं मन्त्रेण जुहोति स्वांकृतोऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्यायेत्युक्तो यजुषो बन्धुः - ४.१.२.[२१]

अथ हुत्वावाञ्चं ग्रहमवमार्ष्टि । इदं वा उपांशुं हुत्वोर्ध्वमुन्मार्ष्ट्यथात्रावाञ्चमवमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति - ४.१.२.[२२]

अथ नीचा पाणिना । मध्यमे परिधौ प्रत्यगुपमार्ष्टीदं वा उपांशु हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्ट्यथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सोऽसावेव बन्धुः - ४.१.२.[२३]

तं प्रत्याक्रम्य सादयति । उदानाय त्वेत्युदानो ह्यस्यैष तानि वै संस्पृष्टानि सादयति प्राणोदानावेवैतत्संस्पर्शयति प्राणोदानान्त्संदधाति - ४.१.२.[२४]

तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तस्मादिमे मनुष्याः स्वपन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमे मनुष्याः सुप्त्वा प्रबुध्यन्ते तेऽनिशिताश्चराचरा यज्ञस्यैवैतद्विधामनु वय इव ह वै यज्ञो विधीयते तस्योपांश्वन्तर्यामावेव पक्षावात्मोपांशुसवनः - ४.१.२.[२५]

तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तायते यज्ञ एति वै तद्यत्तायते
तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमानि वयांसि समासं पक्षावायुवानानि पतन्ति यज्ञस्यैवैतद्विधामनु - ४.१.२.[२६]

इयं ह वा उपांशुः । प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो ह्युपांशुसवनोऽन्तरिक्षं ह्येव व्यनन्नभिव्यनिति - ४.१.२.[२७]


सम्पाद्यताम्

अन्तर्यामोपरि वैदिकसंदर्भाः

टिप्पणी

अन्तर्याम

१.अन्तर्यामोऽपान एव। कौ १२,४।।

२. अपानो (रेतो [काठ २७,२; क ४२, २J)ऽन्तर्यामः । काठ २७,३; क ४२,३ ।

३. असावैवान्तर्यामः (द्यौः) । माश ४,१,२,२७।

४. उदान एवान्तर्यामः (यज्ञस्य) । माश ४,१,१,१।।

५. प्रजा यतास्तस्मादन्तर्यामो नाम । माश ४, १,२,२।।

६. ते देवा अन्तर्याममपश्यंस्तमगृह्णत, तेनासुरानेभ्यो लोकेभ्योऽन्तरदधत । मै ४,५,६ ।

७. दक्षिणतोऽन्तर्यामम् (जुहुयात्) । क ४२,१ ।।

८. पशवो वा अन्तर्यामः । काठ २८,७; क ४४, ७ ।

[ °म- अन्तरिक्ष- १३ द्र. ]।

अन्तर्याम-पात्र

१. अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते । माश ४,५,५,३

२. अपानाय त्वेत्यन्तर्यामपात्रम् (सादयति) । काठ २७, २; क ४२,२ ।

३. यदन्तर्यामपात्रं प्रयुज्यतेऽवीरेव तेन पशूनां दाधार । काठ २८,१०; क ४५,१ ।

४. सोमो देवता त्रिष्टुप् छन्दोऽन्तर्यामस्य पात्रमसि । तैसं ३,१, ६,२

[त्र- अजा- १२ द्र.] ।।

अन्तर्यामिन्

वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयतीति । माश १४,६,७,३


अन्तर्यामm. a सोम libation performed with suppression of the breath and voice VS. S3Br. &c; speaking to oneself, unheard by another.

Is this meaning of Monier Williams correct? - Namaskaram. Kalyanaraman