५.२.१ यूपारोहणम्

अथ स्रुवं चाज्यविलापनीं चादाय । आहवनीयमभ्यैति स एता द्वादशाप्तीर्जुहोति वा
वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः - ५.२.१.[१]

स जुहोति । आपये स्वाहा स्वापये स्वाहाऽपिजायं स्वाहा क्रतवे स्वाहा वसवे स्वाहाऽहर्पतये स्वाहाऽह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा विनंशिन आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहेत्येता द्वादशाप्तीर्जुहोति द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यैवास्याप्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते - ५.२.१.[२]

अथ षट्कॢप्तीः । जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव
बन्धुः - ५.२.१.[३]

स वाचयति । आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतामित्येताः षट्कॢप्तीर्वाचयति षड्वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यैवास्य कॢप्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते - ५.२.१.[४]

अष्टाश्रिर्यूपो भवति । अष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दो देवलोकमेवैतेनोज्जयति सप्तदशभिर्वासोभिर्यूपो वेष्टितो वा विग्रथितो वा भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.२.१.[५]

गौधूमं चषालं भवति । पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयमत्वगेते वै पुरुषस्यौषधीनां नेदिष्ठतमां यद्गोधूमास्तेषां न त्वगस्ति मनुष्यलोकमेवैतेनोज्जयति - ५.२.१.[६]

गर्तन्वान्यूपोऽतीक्ष्णाग्रो भवति । पितृदेवत्यो वै गर्तः पितृलोकमेवैतेनोज्जयति। सप्तदशारत्निर्भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.२.१.[७]

अथ नेष्टा पत्नीमुदानेष्यन् । कौशं वासः परिधापयति कौशं वा चण्डातकमन्तरं दीक्षितवसनाज्जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रसादयिष्यन्भवत्यस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेर्मेध्या वै दर्भास्तद्यदेवास्या अमेध्यं तदेवास्या एतद्दर्भैर्मेध्यं कृत्वाथैनां प्राचीं यज्ञं प्रसादयति तस्मान्नेष्टा पत्नीमुदानेस्यन्कौशं वासः परिधापयति कौशं वा चण्डातकमन्तरं दीक्षितवसनात् - ५.२.१.[८]

अथ निश्रयणीं निश्रयति । स दक्षिणत उदङ् रोहेदुत्तरतो वा दक्षिणा दक्षिणतस्त्वेवोदङ्रोहेत्तथा ह्युदग्भवति - ५.२.१.[९]

स रोक्ष्यञ्जायामामन्त्रयते । जाय एहि स्वो रोहावेति रोहावेत्याह जाया तद्यज्जायामामन्त्रयतेऽर्धो ह वा एष आत्मनो यज्जाया तस्माद्यावज्जायां न विन्दते नैव तावत्प्रजायतेऽसर्वो हि तावद्भवत्यथ यदैव जायां विन्दतेऽथ प्रजायते तर्हि हि सर्वो भवति सर्व एतां गतिं गच्छानीति तस्माज्जायामामन्त्रयते - ५.२.१.[१०]

स रोहति । प्रजापतेः प्रजा अभूमेति प्रजापतेर्ह्येष प्रजा भवति यो वाजपेयेन यजते - ५.२.१.[११]

अथ गोधूमानुपस्पृशति । स्वर्देवा अगन्मेति स्वर्ह्येष गच्छति यो वाजपेयेन यजते - ५.२.१.[१२]

तद्यद्गोधूमानुपस्पृशति । अन्नं वै गोधूमा अन्नं वा एष उज्जयति यो वाजपेयेन
यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते तस्माद्गोधूमानुपस्पृशति - ५.२.१.[१३]

अथ शीर्ष्णा यूपमत्युज्जिहीते । अमृता अभूमेति देवलोकमेवैतेनोज्जयति - ५.२.१.[१४]

अथ दिशोऽनुवीक्षमाणो जपति । अस्मे वो अस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मेवर्चांसि सन्तु व इति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः सोऽस्य सर्वस्य यश इन्द्रियं वीर्यं संवृज्य तदात्मन्धत्ते तदात्मन्कुरुते तस्माद्दिशोऽनुवीक्षमाणो जपति- ५.२.१.[१५]

अथैनमूषपुटैरनूदस्यन्ति । पशवो वा ऊषा अन्नं वै पशवोऽन्नं वा एष उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते तस्मादेनमूषपुटैरनूदस्यन्ति - ५.२.१.[१६]

आश्वत्थेषु पलाशेषूपनद्धा भवन्ति । स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत तस्मादाश्वत्थेषु पलाशेषूपनद्धा भवन्ति विशोऽनूदस्यन्ति विशो वै मरुतोऽन्नं विशस्तस्माद्विशोऽनूदस्यन्ति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.२.१.[१७]

अथेमामुपावेक्षमाणो जपति । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्या इति बृहस्पतेर्ह वा अभिषिषिचानात्पृथिवी बिभयांचकार महद्वा अयमभूद्योऽभ्यषेचि यद्वै मायं नावदृणीयादिति बृहस्पतिर्ह पृथिव्यै बिभयांचकार यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति न पुत्रो मातरम् - ५.२.१.[१८]

बृहस्पतिसवो वा एष यद्वाजपेयम् । पृथिव्यु हैतस्माद्बिभेति महद्वा अयमभूद्योऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति न पुत्रो मातरम् - ५.२.१.[१९]

अथ हिरण्यमभ्यवरोहति । अमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति - ५.२.१.[२०]

अथाजर्षभस्याजिनमुपस्तृणाति । तदुपरिष्टाद्रुक्मं निदधाति तमभ्यवरोहतीमां वैव - ५.२.१.[२१]

अथास्मा आसन्दीमाहरन्ति । उपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति - ५.२.१.[२२]

औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरी भवति तामग्रेण हविर्धाने जघनेनाहवनीयं निदधाति - ५.२.१.[२३]

अथाजर्षभस्याजिनमास्तृणाति । प्रजापतिर्वा एष यदजर्षभ एता वै प्रजापतेः प्रत्यक्षतमां यदजास्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति तत्प्रजापतिमेवैतत्करोति तस्मादजर्षभस्याजिनमास्तृणाति - ५.२.१.[२४]

स आस्तृणाति । इयं ते राडिति राज्यमेवास्मिन्नेतद्दधात्यथैनमासादयति यन्तासि
यमन इति यन्तारमेवैनमेतद्यमनमासां प्रजानां करोति ध्रुवोऽसि धरुण इति ध्रुवमेवैनमेतद्धरुणमस्मिंलोके करोति कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वेति साधवे त्वेत्येवैतदाह - ५.२.१.[२५]