शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ७

ब्राह्मणम् १

१ रुक्मप्रतिमोकं विधाय तद्धारणस्य बहुधा प्रशंसनं, रुक्मस्य कृष्णाजिने शुक्लकृष्णलोमरेखयोपरि त्रिवृता शाणसूत्रेण निस्यूतत्वस्य सार्थवादं विधानं, रुक्मधारणप्रदेशं विधाय तस्य बहुधा प्रशंसनम् , उख्याग्ने रुक्मस्योपरिधारणं विधाय तत्राप्यासन्द्यां धारणं कर्तव्यमिति सार्थवादं विधानम् , आसन्द्या औदुम्बरीत्वं विधाय तत्प्रशंस्य च तस्याः परिमाणविशेषस्याकारविशेषस्य च सार्थवादं प्रतिपादनं, स्तावकार्थवादातिदेश-सहितमासन्द्याः त्रिवृन्मौञ्जीभी रज्जुभिर्व्यूतत्वस्य मृदादिग्धत्वस्य च सप्रयोजनं प्रदर्शनं, आसन्द्यामप्युख्याग्नेः शिक्येन धारणं विधाय तस्याधिदेवताध्यात्मभेदेन प्रशंसनं, तत्र प्रसङ्गाच्छिक्यशब्दनिर्वचनं. शिक्यरूपकल्पनायाः प्रयोजनकथन- शिक्यपाशानां मौञ्जत्वत्रिवृत्त्वयोः प्रदर्शनं च, उख्यैवाग्नेर्धारणं प्रशंस्योखायाः स्वशब्दप्रवृत्तिनिमित्तद्वारा स्वगताक्षरसंख्यया पर्यायान्तरं समुच्चित्य तद्गताक्षरसंख्यया च प्रशंसनम् , उख्याग्नेरिण्ड्वाभ्यां परि. ग्रहं विधाय तयोरिण्ड्वोरहोरात्रात्मना द्युपृथिव्याख्यलोकद्वयात्मना च प्रशंस्य स्तावकार्थवादातिदेशसहितमिण्ड्वयोर्मुञ्जविधृतित्वत्रिवृत्त्वयोर्विधानं, धर्तव्यस्याग्नेः सावनभूतपदार्थगतसंख्यायाः प्रशंसनं, प्रधानपदार्थगतसंख्यासंपत्कथनानंतरं सर्वविषयायाः संपत्तेः 'प्रदर्शनं चेति.


ब्राह्मणम् २

२ रुक्मप्रतिमोचनविष्णुक्रमवात्सप्रेषु स्थितत्वप्रागुदङ्मुखत्वादिधर्मविशेषकथनं, तत्र रुक्मप्रतिमोके मन्त्रं विनियुज्य तस्य व्याख्यानम् , उख्याग्नेरिण्ड्वाभ्यां परिग्रहणे मन्त्रं विनियुज्य तस्य व्याख्यानं, शिक्यपाशप्रतिमुञ्चनं विधाय तत्र मन्त्रं विनियुज्य तस्य व्याख्यानम् , उख्याग्नेर्विकृतिछन्दस्केन मन्त्रेण सार्थवादं विकरणं विधाय तन्मन्त्रव्याख्यानं, प्रसङ्गात्केषाञ्चिन्मतेन द्रोणचितादिचयनपक्षानुदाहृत्य तान्प्रत्याख्याय च स्वकीयः सुपर्णचितचयनपक्षस्य निगमनं, विकृतिछन्दस्केनैव मन्त्रेणोर्ध्वं प्राञ्चमुख्याग्नेः सार्थवादं सप्रकारकं प्रग्रहणं विधाय स्तावकातिदेशसहितं नाभेरुपर्युपावहरणपूर्वकं धारणविधानं, सप्रकारकं विष्णुक्रमक्रमणं विधाय तस्य निर्वचनद्वारेण प्रशंसनं, तत्र मन्त्रचतुष्टयं विनियुज्य तस्य व्याख्यानं, मन्त्रव्याख्यानप्रसङ्गेन तत्तत्क्रमणे प्रकारविशेषकथनं चेति.


ब्राह्मणम् ३

३ प्रागुक्तस्य विष्णुक्रमेणाग्नेरूर्ध्वोद्ग्रभणस्योर्ध्वबाहुना धारणप्रकारं हस्तेनाभिनीय तस्य सार्थवादं विधानं, तत्र मंत्रं विनियुज्य तस्य व्याख्यानम् , ऊर्ध्वं धृतस्याग्नेरवरोहणं सार्थवादं विधाय पुनस्तस्यैव प्रकारान्तरेण प्रशंसनं, तत्रावरोहणे मंत्रचतुष्टयं विनियुज्य सोपपत्तिकं सार्थवादं मंत्रचतुष्टयस्य संग्रहेण तात्पर्यार्थप्रदर्शनम् , उपरि नाभिधृतस्याग्नेरभिमंत्रणं विधाय तत्र मंत्रं विनियुज्य च तस्य व्याख्यानं, शिक्यपाशरुक्मपाशयोः सार्थवादमुन्मोचनं विधाय तत्र मंत्रं विनियुज्य तस्य तात्पर्यार्थप्रदर्शनं, पूर्ववत्सार्थवादं सप्रकारकं प्रग्रहणं विधाय तत्र मंत्रं विनियुज्य तस्य व्याख्यानम्, एतस्योख्याग्नेः सोपपत्तिकं साभिप्रायं त्रिभिर्मन्त्रैरुपस्थानविधानं चेत्यादि.


ब्राह्मणम् ४

४ साभिप्रायं पुनरेतस्योख्याग्नेर्वात्सप्रेण सूक्तेनोपस्थानविधानं, प्रसङ्गादस्य वात्सप्रसूक्तस्य यज्ञाद्बहिर्भूततया जातस्यायुष्यकरणफलस्य काम्यप्रयोगस्य प्रदर्शनं, वात्सप्रप्रसङ्गात्प्रागभिहितायाः "सुपर्णोऽसि" इत्येतस्या विकृत्या अपि यज्ञाद्बहिर्भूततया जातस्यैव वीर्यवत्त्वफलकस्य काम्यप्रयोगस्य प्रदर्शनं, वात्सप्रोपस्थाने एकादशर्चं सूक्तं विधाय तत्रादिमस्य तृचस्य विभज्य व्याख्यानं, उक्तस्य तृचव्याख्यानस्योत्तरास्वृक्षु समानत्वाभिधानं, विष्णुक्रमवात्सप्रयोः समुच्चित्य लोकतदधिष्ठातृदेवतादिसकलजगदुत्पादकतया प्रशंसनं, पुनर्विष्णुक्रमणस्य स्वर्गप्राप्तिसाधनात्मना वात्सप्रस्य तदवसानात्मना च प्रशंसनं, दीक्षाप्रथमदिवसे विष्णुक्रमवात्सप्रयोः समसनविधानं, विहिते विष्णुक्रमवात्सप्रे एकस्मिन्दिने विष्णुक्रमाः अपरस्मिंस्तु दिने वात्सप्रमित्येवं क्रमेण कर्तव्ये इत्येतत्सार्थवादं विधानं, उक्तप्रकारेण संवत्सरपर्यन्तमनुष्ठितवतः फलितप्रदर्शनं, आद्यन्तयोरह्नोरुभयोर्विष्णुक्रमवात्सप्रस्थानीयत्वं, तयोः समुच्चित्यानुष्ठानं विधाय प्रशंसनं, 'अहर्वै विष्णुक्रमो रात्रिर्वात्सप्रम् " इत्यत्र शङ्कासमाधानप्रतिपादनं, आदावन्ते च समासकरणस्य सकारणमभिधानं, चरमदिवसे विधेयानुष्ठानाभिधानं, दीक्षान्त्य दिवसस्य पक्षे विष्णुक्रमीयत्वं पक्षे वात्सप्रीयत्वं च भवति तदाऽनुष्ठानप्रकारस्य विभज्य प्रदर्शनं चेत्यादि.