शतश्लोकी (समूलम्)
शङ्कराचार्यः
१९१०

 अन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ १२ ॥
वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या-
 दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान् ॥
नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णः
 साक्षादित्थं विजानन्व्यवहरति परात्मानुसन्धानपूर्वम् ॥ १३ ॥
नैर्वेद्यं ज्ञानगर्भं द्विविधमभिहितं तत्र वैराग्यमाद्यं
 प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः ॥
अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्यात्
 प्रव्रज्याऽपि द्विधा स्यान्नियमितमनसां देहतो गेहतश्च ॥ १४ ॥
यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतोः
 देहेऽहन्ता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ॥
जानन्रोगाभिघाताद्यनुभवति यतोऽनित्यदेहात्मबुद्धि-
 भर्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥
तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षुः
 देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ॥
आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
 देहाद्यं सर्वमेव प्रविदितविषयो यश्च तिष्टत्ययत्नः ॥ १६ ॥
शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्रजन्स्वीयगेहात्
 छायां मार्गद्रुमोत्थां पथिक इव मनाक् सश्रयेद्देहसंस्थाम् ॥
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्ष्यमन्नं
 स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेदेहतोऽपि ॥ १७ ॥
कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं
 तद्गृहातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च ॥
प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्यात्
 सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगात् ॥ १८ ॥

दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाऽक्रोधसञ्ज्ञा
 श्रद्धाऽऽस्तिक्यं च सत्यं सदिति परमतः सेतुसञ्ज्ञं चतुष्कम् ॥
तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भिः
 तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥

अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं
 यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य ॥
लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्यात्
 त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥

लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय
 यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः ॥
सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
 संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ २१ ॥

स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तः
 जीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्नबोधे ।
विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्वत्
 शुक्तौ रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ २२ ॥

तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासीत्
 किंत्वाभ्यामन्यदासीद्व्यवहृतिगतिसन्नास लोकस्तदानीम् ॥
किंत्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः ।
 शर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः ॥ २३ ॥
बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासीत्
 यद्वद्रात्रिर्दिने वा न भवति तरणौ किन्तु दृग्दोष एषः ॥
अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसञ्ज्ञं ।
 तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥
प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यं

 क्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य ॥
कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः सम्प्रवृत्तात्
 रेतोरूपैर्मनोभिः प्रथममनुगतैः सन्ततैः कार्यमाणैः ॥ २५ ॥

चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषा
 माया वा पेशला स्यादघटितघटनापाटवं याति यस्मात् ॥
स्यादारम्भे घृतास्या श्रुतिभववयुनान्येवमान्छादयन्ती
 तस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठतोऽर्थप्रतीत्या ॥ २६ ॥

एकस्तत्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टो
 विस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत् ॥
बुद्धयाऽन्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक-
 स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ २७ ॥

नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले
 यत्सोऽखण्डोऽस्ति लैंगं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक् ॥
तत्कार्श्यं स्थूलतां वा न भजति वपुषः किन्तु संस्कारजाते
 तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैस्सहैव ॥ २८ ॥

आसीत्पूर्वं सुबंधुर्भृशमवनिसुरो यः पुरोधाः सनाते-
 र्ब्राह्मचात्कूटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम् ॥
तद्भ्राता श्रौतमन्त्रैः पुनरनयादिति प्राह सूक्तेन वेदः
 तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा ॥ २९ ॥

एको निष्कंप आत्मा प्रचलति मनसा धावमानेन तस्मिन्
 तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः ॥
यद्वत्पाथस्तरङ्गः प्रचलति परितो धावमानैस्तदन्तः
 प्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत् ॥ ३० ॥

एकाक्यासीत्स पूर्वं मृगयति विषयानानुपूर्व्याऽन्तरात्मा
 जाया मे स्यात्प्रजा वा धनमुपकरणं कर्म कुर्वस्तदर्थम् ॥

क्लेशैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय-
 स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याऽकृतार्थः ॥ ३१ ॥

नासीत्पूर्वं न पश्चादतनुदिनकराच्छादको वारिवाहः
 दृश्यः किं त्वन्तराऽसौ स्थगयति स दृशं पश्यतो नार्कबिम्बम् ॥
नो चेदेवं विनाऽर्कं जलधरपटलं भासते तर्हि कस्मात्
 तद्वद्विश्वं पिधत्ते दशमथ न परं भासकं चालकं स्वम् ॥ ३२ ॥

भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयः
 राज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः ॥
स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायी
 तद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेच्चेत् ॥ ३३ ॥

स्वप्नावस्थाऽनुभूतं शुभमथ विषमं तन्मृषा जागरे स्यात्
 जाग्रत्यां स्थूलदेहव्यवहृतिविषयं तन्मृषा स्वापकाले ॥
इत्थं मिथ्यात्वसिद्धावनिशमुभयथा सज्जते तत्र मूढः
 सत्ये तद्भासकेऽस्मिन्निह हि कुत इदं तन्न विद्मो वयं हि ॥ ३४ ॥

जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्नकाले निरीक्ष्य
 निर्वेदं यात्यकस्मान्मृतममृतममुं वीक्ष्य हर्षं प्रयाति ॥
स्मृत्वाऽप्येतस्य जन्तोर्निधनमसुयुतिं भाषते तेन साकं
 सत्येवं भाति भूयोऽल्पकसमयवशात्सत्यता वा मृषात्वम् ॥ ३५ ॥

स्वाप्नस्त्रीसङ्गसौख्यादपि भृशमसतो या च रेतश्चुतिः स्यात्
 सा दृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पम् ॥
स्वप्ने सत्यः पुमान्स्याद्युवतिरिह मृषैवानयोः संयुतिश्च
 प्रातः शुक्रेण वस्त्रोपहतिरिति यतः कल्पनामूलमेतत् ॥ ३६ ॥

पश्यन्त्याराममस्य प्रतिदिवसममी जन्तवः स्वापकाले
 पश्यत्येनं न कश्चित्करणगणमृते मायया क्रीडमानम् ॥
जाग्रत्यर्थव्रजानामथ च तनुभृतां भासकं चालकं वा

 नो जानीते सुषुप्तौ परमसुखमयं कश्चिदाश्चर्यमेतत् ॥ ३७ ॥

स्वप्ने मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधे
 स्वप्नादेव प्रसादादभिलषितफलं सत्यतां प्रातरोति ।
सत्यप्राप्तिस्त्वसत्यादपि भवति तथा किञ्च तत्स्वप्रकाशं
 येनेदं भाति सर्वं चरमचरमथोच्चावचं दृश्यजातम् ॥ ३८ ॥

मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्त्यग्निसूर्यादयोऽमी
 वागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः ।
तेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्तिकारौप्यकल्पः
 प्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ ३९ ॥

नोऽकस्मादामेधः स्पृशति च दहनः किन्तु शुष्कं निदाघा-
 दार्द्रं चेतोऽनुबन्धैः कृतसुकृतमपि स्वोत्कर्मप्रजार्थैः ।
तद्वज्ञानाग्निरेतत्स्पृशति न सहसा किन्तु वैराग्यशुष्कं
 तस्माच्छुद्धो विरागः प्रथममभिहितस्तेन विज्ञानसिद्धिः ॥ ४० ॥

यत्किन्चिन्नामरूपात्मकमिदमसदेवोदितं भाति भूमौ
 येनानेकप्रकारैर्व्यवहरति जगद्येन तेनेश्वरेण ।
तद्वत्प्रच्छादनीयं निभृतरशनया यद्वदेष द्विजिह्व-
 स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽन्यद्धनाद्यम् ॥ ४१ ॥

जीवन्मुक्तिर्मुमुक्षोः प्रथममथ ततो मुक्तिरात्यान्तिकी च
 तेऽभ्यासज्ञानयोगाद्गुरुचरणकृपाऽपांगसगेन लब्धात् ।
अभ्यासोऽपि द्विधा स्यादधिकरणवशादैहिको मानसश्च
 शारीरस्त्वासनाद्यो ह्युपरतिरपरो ज्ञानयोगः पुरोक्तः ॥ ४२ ॥

सर्वानुन्मूल्य कामान् हृदि कृतनिलयान्क्षिप्तशङ्कूनिवोच्चैः
 दीर्यद्देहाभिमानस्त्यजति चपलतामात्मदत्तावधानः ।
यात्यूर्ध्वस्थानमुच्चैः कृतसुकृतभरो नाडिकाभिर्विचित्रं

 नीलश्वेतारुणाभिः स्रवदमृतभरं गृह्यमाणात्मसौख्यः ॥ ४३ ॥

प्रापश्यद्विश्वमात्मेत्ययमिह पुरुषः शोकमोहाद्यतीतः
 शुक्रं ब्रह्माध्यगच्छत्स खलु सकलवित्सर्वसिद्ध्यास्पदं हि ।
विस्मृत्य स्थूलसूक्ष्मप्रभृतिवपुरसौ सर्वसङ्कल्पशून्यो
 जीवन्मुक्तस्तुरीयं पदमधिगतवान्पुण्यपापैर्विहीनः ॥ ४४ ॥

यः सत्त्वाकारवृत्तौ प्रतिफलति युवा देहमात्रावृतोऽपि
 तद्धर्मैर्बाल्यवाद्धर्थादिभिरनुपहतः प्राण आविर्बभूव ।
श्रेयान्साध्यस्तमेतं सुनिपुणमतयः सत्यसङ्कल्पभाजो
 ह्यभ्यासादेवयन्तः परिणतमनसा साकमूर्ध्वं नयन्ति ॥ ४५ ॥

प्रायोऽकामोऽस्तकामो निरतिशयसुखायात्मकामस्तदाऽसौ
 तत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्य देहावसाने ।
प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानीं
 कायं जीवो विलीनो लवणमिव जलेऽखंड आत्मैव पश्चात् ॥ ४६ ॥

पिंडीभूतं यदन्तर्जलनिधिसलिलं याति तत्सैंधवाख्यं
 भूयः प्रक्षिप्तमस्मिन्विलयमुपगतं नामरूपे जहाति ।
प्राज्ञस्तद्वत्परात्मन्यथ भजति लयं तस्य चेतो हिमांशौ
 वागग्नौ चक्षुरर्के पयसि पुनरसृग्रेतसी दिक्षु कर्णी ॥ ४७ ॥

क्षीरान्तर्यद्वदाज्यं मधुरिमविदितं तत्पृथग्भूतमस्मात्
 भूतेषु ब्रहा तद्वद्व्यवहृतिविदितं श्रान्तविश्रान्तिबीजम् ।
यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीतिः
 सान्द्रानंदं यदन्तः स्फुरति तदमृतं विद्धयतो ह्यन्यदार्तम् ॥ ४८ ॥

ओतः प्रोतश्च तन्तुष्विह विततपटश्चित्रवर्णेषु चित्रः
 तस्मिञ्जिज्ञास्यमाने ननु भवति पटः सूत्रमात्रावशेषः ।
तद्वद्विश्वं विचित्रं नगनगरनरग्रामपश्वादिरूपं
 प्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम् ॥ ४९ ॥

रूपं रूपं प्रतीद प्रतिफलनवशात्प्राप्तिरूप्यं प्रपेदे
 ह्येको द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः ।
इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मात्
 जीवत्वं यात्यकस्मादतिविमलतरे बिम्बितं बुद्ध्युपाधौ ॥ ५० ॥

तज्ज्ञाः पश्यन्ति बुद्धया परमबलवतो माययाऽक्तं पतङ्गं
 बुद्धावन्तःसमुद्रे प्रतिफलितमरीच्यास्पदं वेधसस्तम् |
यादृग्यावानुपाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथाऽऽस्यं
 प्राप्तादर्शानुरूपं प्रतिफलति यथाऽवस्थितं सत्सदैव ॥ ५१ ॥

एको भानुस्तटस्थः प्रतिफलनवशाद्यस्त्वनेकोदकान्त-
 र्नानात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत्परात्मा ।
भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा-
 वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः ॥ ५२ ॥

यद्वत्पीयूषरश्मौ दिनकरकिरणैबिम्बितैरेति सान्द्रं
 नाशं नैशं तमिस्रं गृहगतमथवा मूर्च्छितैः कांस्यपात्रे ।
तद्वद्बुद्धौ परात्माद्युतिभिरनुपदं बिम्बिताभिः समन्ता-
 द्भासन्ते हीन्द्रियास्यप्रभृतिभिरनिशं रूपमुख्याः पदार्थाः ॥ ५३ ॥

पूर्णात्मानात्मभेदात्त्रिविधमिह परं बुद्ध्यवच्छिन्नमन्यत्
 तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति ।
अम्भोऽवन्छिन्नमस्मिन्प्रतिफलितमतः पाथसोंऽतर्बहिश्च
 पूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ ५४ ॥

दृश्यन्ते दारुनार्यो युगपदगणिताः स्तन्भसूत्रप्रयुक्ताः
 संगीतं दर्शयन्त्यो व्यवहृतिमपरां लोकसिद्धां च सर्वाम् ।
सर्वत्रानुप्रविष्टादभिनवविभवाद्यावदर्थानुबन्धात्
 तद्वत्सूत्रात्मसंज्ञाद्वयवहरति जगद्भूर्भुवस्स्वर्महान्तम् ॥ ५५ ॥

तत्सत्यं यत्रिकालेष्वनुपहतमदः प्राणदिग्व्योममुख्यं

 यस्मिन्विश्रान्तमास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम् ।
नास्त्यन्यत्किञ्च यद्वत्परमधिकमतो नाम सत्यस्य सत्यं
 सच्च त्यच्चेति मूर्ताद्युपहितमवरं सत्यमस्यापि सत्यम् ॥ ५६ ॥

यत्किंचिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पम्बुमुख्यं
 तद्वै सत्याश्रयेणत्ययमिह नियमः सावधिर्लोकसिद्धः ।
तद्वत्सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासीत्
 मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति ॥ ५७ ॥

यत्राकाशावकाशः कलयति च कलामात्रतां यत्र कालो
 यत्रैवाशावसानं बृहदिह हि विराट् पूर्वमर्वागिवास्ते ।
सूत्रं यत्राविरासीन्महदपि महतस्तद्धि पूर्णाच्च पूर्णं
 सम्पूर्णादर्णवादेरपि भवति यथा पूर्णमेकार्णवाम्भः ॥ ५८ ॥

अन्तः सर्वोषधीनां पृथगमितरसैर्गंधवीर्यैर्विपाकै-
 रेकं पाथोदपाथः परिणमति यथा तद्वदेवान्तरात्मा ।
नानाभूतस्वभावैर्वहति वसुमती येन विश्वं पयोदो
 वर्षत्युच्चैर्हुताशः पचति दहति वा येन सर्वान्तरोऽसौ ॥ ५९ ॥

भूतेष्वात्मानमात्मन्यनुगतमखिलं भूतजातं प्रपश्येत्
 प्रायः पाथस्तरंगान्वयवदथ चिरं सर्वमात्मैव पश्येत् ।
एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानाऽस्ति किञ्चित्
 मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत् ॥ ६० ॥

प्राक्पश्चादस्ति कुम्भाद्गगनमिदमिति प्रत्यये सत्यपीदं
 कुंभोत्पत्तावुदेति प्रलयमुपगते नश्यत्तीत्यन्यदेशम् ।
नीते कुंभेन साकं व्रजति भजति वा तत्प्रमाणानुकारौ
 इत्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्वतस्तद्वदात्मा ॥ ६१ ॥

यावपिंडो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावान्
 यावान्कर्पूरपिण्डः परिणमति सदामोद एवात्र तावान् ।

विश्वं यावद्विभाति द्रुमनगनगरारामचैत्याभिरामं
 तावच्चैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम् ॥ ६२ ॥

वाद्यान्नादानुतिर्यदपि तदपि सा नूनमाघातगम्या
 वाद्याघातध्वनीनां न पृथगनुभवः किन्तु तत्साहचर्यात् ।
मायोपादानमेतत्सहचरितमिव ब्रह्मणाऽऽभाति तद्वत्
 तस्मिन्प्रत्यक्प्रतीते न किमपि विषयीभावमाप्नोति यस्मात् ॥ ६३ ॥

दृष्टं साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्मा
 विज्ञातः स्थाणुरेको गगनवदभितः सर्वभूतान्तरात्मा ।
दृष्टं ब्रह्मातिरिक्तं सकलमिदमसद्रूपमाभासमात्रं
 शुद्धं ब्रह्माहमस्मीत्यविरतमधुनाऽत्रैव तिष्ठेदनीहः ॥ ६४ ॥

इन्द्रेद्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति-
 स्तस्यामानंदसांद्रं पदमतिगहनं यत्स आनंदकोशः ।
तस्मिन्नो वेद किंचिनिरतिशयसुखाभ्यतरे लीयमानो
 दुःखी स्याद्बोधितः सन्निति कुशलमतिर्बोधयेन्नैव सुप्तम् ॥ ६५ ॥

सर्वे नंदन्ति जीवा आधिगतयशसा गृह्णता चक्षुरादीन्
 अन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः ।
एतेषां किल्बिषस्पृग्जठरभृतिकृते यो बहिर्वृत्तिरास्ते
 त्वक्चक्षुः श्रोत्रनासारसनवशमितो याति शोकं च मोहम् ॥ ६६ ॥

जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान्विधास्यन्
 श्राम्यत्सर्वेद्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम् |
विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि
 सुखं सर्वोत्तमं स्यात्परिणतिविरसादिन्द्रियोत्थात्सुखाच्च ॥ ६७ ॥

पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशं
 लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य ।
दुःसंकल्पैर्विकल्पैर्विषयमनु कदर्थीकृतं चित्तमेतत्

 खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान्प्रसार्य ॥ ६८ ॥

आश्लिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यं
 यद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम् ।
यात्यस्तं तत्र लोकव्यवहतिरखिला पुण्यपापानुबन्धः
 शोको मोहो भयं वा समविषममिदं न स्मरत्येव किञ्चित् ॥ १९ ॥

अल्पानल्पप्रपञ्चप्रलय उपरतिश्चेन्द्रियाणां सुखाप्ति-
 जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किन्तु तत्रास्ति भेदः ।
प्राक्संस्कारात्प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धो
 नश्यत्संस्कारजातो न स किल पुनरावर्तते यश्च मुक्तः ॥ ७० ॥

आनन्दान्यश्च सर्वाननुभवति नृपः सर्वसंपत्समृद्धः
 तस्यानंदः स एकः स खलु शतगुणः संप्रदिष्टः पितॄणाम् ।
आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्युः
 ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ ७१ ॥

यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एते
 यत्राप्ताः सर्वकामाः स्युरखिलविरमात्केवलीभाव आस्ते ।
मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोमपीयूषपूर्णां
 धारामिंद्राय देहीत्यपि निगमगिरो भ्रूयुगान्तर्गताय ॥ ७३ ॥

आत्माऽकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती
 स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् ।
चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धिः
 तस्या यावस्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ ७३ ॥

यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्यात्
 स्थैर्यं यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ ।
नित्यानंदः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यं
 नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ ४ ॥

श्रान्तं स्वान्तं सबाह्यव्यवहृतिभिरिदं ताः समाकृष्य सर्वा-
 स्तत्तत्संस्कारयुक्तं ह्युपरमति परावृत्तमिच्छन्निदानम् ।
स्वप्रान्संस्कारजातप्रजनितविषयान्स्वाप्रदेहेऽनुभूतान्
 प्रोज्झ्यन्तः प्रत्यगात्मप्रवणमिदमगाद्भूरि विश्राममस्मिन् ॥ ७५ ॥
 
स्वप्रे भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमाने
 स्वाप्रं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत् ।
तत्सामग्र्या अभावात्कुत इदमुदितं तद्धि सांकल्पिकं चेत्
 तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ ७६ ॥

भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मात्
 स्वप्नेऽप्यंगेऽनुबंधं त्यजति न सहसा मूर्च्छितेऽप्यन्तरात्मा ।
पूर्वं ये येऽनुभूतास्तनुयुवतिहयव्याघ्रदेशादयोऽर्था-
 स्तत्संस्कारस्वरूपान्सृजति पुनरमूञ्श्र्चित्य संस्कारदेहम् ॥ ७७ ॥

सन्धौ जाग्रत्सुषुप्त्योरनुभवविदिता स्वाप्न्यवस्था द्वितीया
 तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि ।
संवेश्य स्थूलदेहं समुचितशयने स्वीयभासाऽन्तरात्मा
 पश्यन्संस्काररूपानभिमतविषयान्याति कुत्रापि तद्वत् ॥ ७८ ॥

रक्षन्प्राणैः कुलायं निजशयनगतं श्वासमात्रावशेषै-
 -र्मा भूत्तत्प्रेतकल्पाकृतिकमिति पुनः सारमेयादिभक्ष्यम् |
स्वप्ने स्वीयप्रभावात्सृजति हयरथानिम्नगाः पल्वलानि
 क्रीडास्थानान्यनेकान्यपि सुहृदबलापुत्रमित्रानुकारान् ॥ ७९ ॥

मातंगव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचित्प्रेयसीभिः
 क्रीडन्नास्ते हसन्वा विहरति कुहचिन्मृष्टमश्नाति चान्नम् ।
म्लेच्छत्वं प्राप्तवानस्म्यहमिति कुहचिच्छंकितः स्वीयलोका-
 दास्ते व्याघ्रादिभीत्या प्रचलति कुहचिद्रोदिति ग्रस्यमानः ॥ ८० ॥

यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्गतात्मस्वरूपा-

 ऽविज्ञानोत्पद्यमानः स्फुरति ननु यथा शुक्तिकाऽज्ञानहेतुः ।
रौप्याभासो मृषैव स्फुरति च किरणज्ञानतोऽभो भुजङ्गो
 रज्ज्वज्ञानान्निमेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम् ॥ ८१ ॥

मायाऽध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मत्स्था-
 न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये ।
शुक्त्यंशस्तेन भूतान्यपि मयि ने वसन्तीति विष्वग्विनेता
 प्राहास्माद्दृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम् ॥ ८२ ॥

हेतुः कर्मैव लोके सुखतदितरयोरेवमज्ञोऽविदित्वा
 मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ ।
यत्कर्मैवोचतुः प्राग्जनकनृपगृहे चक्रतुस्तत्प्रशंसां
 वंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ ८३ ॥

वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणिनोद्यस्तथाऽपि
 प्रायोऽन्नं तृप्तिहेतुस्तदपि निगदितं कारणं भोक्तृयत्नः ।
प्राचीनं कर्म तद्वद्विषमसमफलप्राप्तिहेतुस्तथाऽपि
 स्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेरकोऽस्यान्तरात्मा ॥ ८४ ॥

स्मृत्या लोकेषु वर्णाश्रमविहितमदो नित्यकाम्यादि कर्म ।
 सर्वं ब्रह्मार्पणं स्यादिति निगमगिरः सगिरन्तेऽतिरम्यम् ।
यन्नासानेत्रजिह्वाकरचरणशिरः श्रोत्रसन्तर्पणेन
 तुष्येदंगीव साक्षात्तरुरिव सकलो मूलसन्तर्पणेन ॥ ८५ ॥

यः प्रैत्यात्मानभिज्ञः श्रुतिविदपि तथाकर्मकृत्कर्मणोऽस्य
 नाशः स्यादल्पभोगात्पुनरवतरणे दुःखभोगो महीयान् ।
आत्माभिज्ञस्य लिप्सोरपि भवति महान्शाश्वतः सिद्धिभोगो
 ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः ॥ ८६ ॥

सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रं
 सूर्यात्सूर्यप्रतीतिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात् ।

अग्नेरग्नेश्च किन्तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्तात्
 आत्मज्योतिस्ततोऽयं पुरुष इह महो देवतानां च चित्रम् ॥ ८७ ॥

प्राणेनाम्भांसि भूयः पिबति पुनरसावनमश्नाति तत्र
 तत्पाकं जाठरोऽग्निस्तदुपहितबलो द्राक् शनैर्वा करोति ।
व्यानः सर्वांगनाडीष्वथ नयति रसं प्राणसन्तर्पणार्थं
 निस्सारं पूतिगन्धं त्यजति बहिरयं देहतोऽपानसज्ञः ॥ ८८ ॥

व्यापारं देहसंस्थः प्रतिवपुरखिलं पञ्चवृत्त्यात्मकोऽसौ
प्राणः सर्वेन्द्रियाणामधिपतिरनिशं सत्तया निर्विवादम् ।
यस्येत्थं चिद्घनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षी
 प्राणस्य प्राण एषोऽप्यखिलतनुभृतां चक्षुषश्चक्षुरेषः ॥ ८९ ॥

यं भान्तं चिद्घनैकं क्षितिजलपवनादित्यचन्द्रादयो ये
 भासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति ।
विद्युत्पुंजोऽग्निसंघोऽप्युडुगणविततिर्भासयेत्किं परेशं
 ज्योतिश्शान्तं ह्यनंतं कविमजममरं शाश्वतं जन्मशून्यम् ॥ ९० ॥

तद्ब्रह्मैवाहमस्मीत्यनुभव उदितो यस्य कस्यापि चैद्वै
 पुंसः श्रीसद्गुरूणामतुलितकरुणापूर्णपीयूषदृष्टया ।
जीवन्मुक्तः स एव भ्रमविधुरमना निर्गतेऽनाद्यपाधौ
 नित्यानन्दैकधाम प्रविशति परमं नष्टसन्देहवृत्तिः ॥ ९१ ॥

नो देहो नेंद्रियाणि क्षरमतिचपलं ना मनो नैव बुद्धिः
 प्राणो नैवाहमस्मीत्यखिलजडमिदं वस्तुजातं कथं स्याम् ।
नाहंकारो न दारा गृहसुतसुजनक्षेत्रवित्तादि दूरं
 साक्षी चित्प्रत्यगात्मा निखिलजगदधिष्ठानभूतः शिवोऽहम् ॥ ९२ ॥

दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताधनेकं
 सर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम् ।

तद्दृश्यं मानसं दृक्परिणतविषयाकारधीवृत्तयोऽपि

दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ ९२ ॥

रज्ज्वज्ञानाद्भुजंगस्तदुपरि सहसा भाति मंदांधकारे स्वात्माज्ञानात्तथाऽसौ भृश्यमसुखमभूदात्मनो जीवभावः । आप्तोक्त्याऽहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथाऽहं कूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम् ॥ ९४ ॥

किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादिरात्रौ स्यादेवं भानुदीपादिकपरिकलने किं तव ज्योतिरस्ति । चक्षस्तन्मीलने किं भवति सुतरां धीर्धियः किं प्रकाशे तत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम् ॥ ९५ ॥

कंचिन्त्कालं स्थितः कौ पुनरिह भजते नैव देहादिसङ्घं यावत्प्रारब्धभोगं कथमपि स सुखं चेष्टतेऽसङ्गबुद्ध्या । निर्द्वन्द्वो नित्यशुद्धो विगलितममताऽहंकृतिर्नित्यतृप्तो ब्रह्मानन्दस्वरूपः स्थिरमतिरचलो निर्गताशेषमोः ॥ ९६ ॥

जीवात्मब्रह्मभेदं दलयति सहसा यत्प्रकाशैकारूपं विज्ञानं तच्च बुद्धौ समुदितमातुलं यस्य पुंसः पवित्रम् । माया तेनैव तस्य क्षयमुपगमिता संसृते कारणं या नष्टा मा कार्यकत्री पुनरपि भविता नैव विज्ञानमात्रात् ॥ ९७ ॥

विश्वं नेति प्रमाणाद्विगलितजगदाकारभानस्त्यजेद्वै पीत्वा यद्वत्फलांभस्त्यजति च सुतरां तत्फलं सौरभाढ्यम् । सम्यक्सच्चिद्घनैकामृतसुखकवलास्वादपूर्णौ हृदाऽसौ ज्ञात्वा निस्सारमेवं जगदखिलमिदं स्वप्रभः भातचित्तः ॥ ९८ ॥

क्षीयन्ते चास्य कर्माण्यपि खलु हृदयग्रन्थिरुद्भिद्यते वै छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे । तस्मिंश्चिन्मात्ररूपे गुणमलरहिते तत्वमस्यादिलक्ष्ये

 कूटस्थे प्रत्यगात्मन्यखिलविधिमनोऽगोचरे ब्रह्मणीशे ॥ ९९ ॥

आदौ मध्ये तथाऽन्ते जनिमृतिफलदं कर्ममूलं विशालं
 ज्ञात्वा संसारवृक्षं भ्रममदमुदिताशोकताऽनेकपत्रम् ।
कामक्रोधादिशाखं सुतपशुवनिताकन्यकापक्षिसंघं
 छित्त्वाऽसंगासिनैनं पटुमतिरभितश्चितयेद्वासुदेवम् ॥ १०० ॥

जातं मय्येव सर्वं पुनरपि मयि तत्संस्थितं चैव विश्वं
 सर्वं मय्येव याति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि |
यस्य स्मृत्या च यज्ञाद्यखिलशुभविधौ सुप्रयातीह कार्यं
 न्यूनं संपूर्णतां वै तमहमतिमुदैवाच्युतं संनतोऽस्मि ॥ १०१ ॥


इति शतश्लोकी समाप्ता॥

"https://sa.wikisource.org/w/index.php?title=शतश्लोकी_(समूलम्)&oldid=289439" इत्यस्माद् प्रतिप्राप्तम्