शबरभाष्यम्/तृतीयोऽध्यायः/द्वितीयः पादः

अथ तृतीयेऽध्याये द्वितीयः पादः।।3।।2।। अर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात्।।1।।

इह मन्त्रा उदाहरणं,बर्हिर्देवसदनं दामीत्येवमादयः।किं मुख्ये एवाऽभिधेये मन्त्राणां विनियोगः?उत गौणेऽपीति। क पुनर्मुख्यः,को वा गौण इति।उच्यते।यः शब्दादेवावगम्यते,स प्रथमोऽर्थो मुख्यः।मुखमिव भवतीति मुख्य इत्युच्यते।यस्तु खलु प्रतीतादर्थात् केनचित् सम्बन्धेन गम्यते,स पश्चाद्भावाज्जधनमिव भवतीति जघन्यः। गुणसम्बन्धाञ्च गौण इति।यद्येवं सर्व एव मुख्यः।सर्वो हि शब्दाद् गम्यते।यथैव ह्यग्निज्र्ज्वलतीत्युक्तं ज्वलन सम्प्रत्ययः,एवमेवाग्निर्माणवक इति शब्द एव उच्चारिते माणवके सम्प्रत्ययः। अथोच्यते,यस्मिन् निरुपपदाच्छब्दात् सम्प्रत्ययः स मुख्यः,यस्मिन् सोपपदात् स गौण इति। नैतद् युक्तम्।यस्य हि शब्दस्य रूपं कस्यचिदर्थस्य निमित्तं,सोपपदस्यापि तदेव रूपं,निरुपपदस्यापि। न च शक्यं निमित्तं सति नैमित्तिकेन न भवितुम्। किमतः।यद्येवम्,इदं न शक्यते वदितुम्। उपपदादृते न सोऽर्थो भवति। उपपदे तु सञ्जाते सोऽर्थः सञ्जनिष्यते इति। न चासौ समुदायार्थः शक्यते विज्ञातुम्। अन्वयव्यतिरेकाभ्यां हि विभागोऽवगम्यते।अत वाक्यार्थोऽयमित्युच्यते। नैवं शक्यम्। न ह्यनन्वितः पदार्थो भवति वाक्यार्थः तदेवं दृश्यताम्। अग्निशब्द एवायं ज्वलनवचनः।अग्निशब्द एव माणवकस्याभिघातेति।तस्मान्न गौणो मुख्य इति कश्चिद्विशेषः।

अथोच्यते,यः सुष्ठु प्रसिद्धः स मुख्यः यो मनागिव स गौणः इति।इदमपि नोपपद्यते।प्रसिद्धिर्नाम प्रज्ञानम्,न च प्रज्ञाने कश्चिद्विशेषोऽस्ति।अथोच्येत,यस्य बहुशः प्रयोगोऽस्ति स मुख्यः। अल्पशः प्रयुज्यमानो गौण इति।नैतदेवम्। अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत्।अतः सोऽपि शब्दात् प्रतीयते इति मुख्य एव। अत्रोच्यते।अस्त्यत्र विशेषः।माणवको नाग्निशब्दात् प्रतीयते। कथमवगम्यते। उक्तम्,अन्यायश्चानेकाक्थत्वमिति।कथं न विपर्ययः। उच्यते। अनादृत्यैव माणवकप्रत्ययं ज्वलनमग्निशब्दात् प्रतीयन्तो दृशयते,न त्वनादृत्य ज्वलनं,माणवकमग्वनिशब्दात् प्रतियन्ति। कुत एतत्। यो योऽग्निसदृशो विवक्ष्यते,तत्र तत्राग्निशब्दो नियत इति।अत एव विगतसादृश्यादयं तु दृश्यते।अतोऽग्निसादृश्यमस्य प्रवृत्तौ निमित्तम्। न च ज्वलने अप्रतीते तत्सादृश्यं प्रतीयते। तस्माज्ज्वलनस्याग्निशब्दो निमित्तं,न माणवकस्य। तस्माज्ज्वलने मुख्यो,न माणवके।एवमेव तृणाप्रत्ययस्य बर्हिशब्दो निमित्तं,न तृणसदृशप्रत्ययस्य। तदेवं द्वैते सति मुख्यपरता शब्दस्य,उत गौणपरताऽपीति युक्तो विचारः।किं तावत् प्राप्तम्। मुख्ये गौणे च विनियोगः ।कुतः। उभयस्य शक्यत्वादुभयमपि बर्हिःशब्देन शक्यते प्रत्याययितुम्,तृणं च तृणसदृशं च,तृमं साक्षात्,तृणसदृशं तृणप्रत्ययेन।यच्च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिः शब्देन शक्यते प्रत्याययितुं तत् सर्वं प्रत्याययितव्यम्। विनिगमनायां हेत्वभावात्।अपि चैवमाश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमायाभ्यां नोत्कृष्यन्ते।तत्रैव गौणेनाभिधानेन प्रकृतां देवतामभिवदिष्यन्ति।।

एवं प्राप्ते ब्रूमः।मुख्ये एव विनियोक्तव्यो मन्त्रो, न गौणे इति कुतः।उभयाशक्यत्वात्।प्रकरणे हि समाम्नानात् प्रधानेनैकवाक्यतामुपैति।तत्रैतदापतति,यच्छक्नुयादनेन मन्त्रेण साधयितुं,तथा साधयेदिति। स चासावर्थाभिधानसंयोगाच्छक्नोत्युपकर्तुं न गौणमर्थं शक्नोत्यभिधातुम्। तस्मान्न गौणे विनियोगः

ननु मुख्यप्रत्ययाच्छक्यते गोणः प्रत्याययितुम्। सत्यमेतत्। मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निवृत्तेति न गौणं प्रति विनियोगे किञ्चित् प्रमाणमस्ति। मुख्ये विनियोगेन त्वानर्थक्यं परिह्रियते।परिहृतं आनर्थक्ये न

गौणाभिधानमापतात। न ह्यनभिधाय मुख्यं,गौणमभिवदति शब्दः। अतः प्रमाणाभावान्न गौणे विनियुज्येत। अपि च,गौमस्य प्रत्यायने सामर्थ्याद् बहवोऽभ्युपायाः प्राप्नुवन्ति।सामर्थ्ये च शब्दैकदेश इत्युक्तम्,अर्थाद्वा कल्पनैकदेशत्वादिति। तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमाने उपायान्तरं,विना प्रमाणेन बाध्येत।मन्त्राम्नातं प्रमाणमिति चेद्?न तस्योपायान्तरनिवृत्तौ सामर्थ्यमस्ति।ननु मुख्येऽपि विनियुज्यमानस्यैष एव दोषः।नेत्युच्यते। यदि मुख्येऽपि न विनियुज्येत,नैव प्रधानस्योपकुर्यात्।तत्र चास्योत्पत्तरनर्थिकैव स्यात्।तस्मादस्ति गौणे मुख्ये च विशेषः। अपि च,यो गौण मन्त्रं विनियुङ्क्ते स वक्तव्यः-किमर्थं मुख्यं प्रत्याययसीति। स चेत् ब्रूयाद्,नोन्यथा गौणप्रत्ययोऽस्तीति। प्रतिब्रूयादेनम्-अन्येऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति। अथ स एवमभियुक्तः प्रतिब्रूयाद्-मुख्यप्रत्ययोऽपि पाक्षिकोऽभ्युपाय इति ब्रूयादेनं- न तर्हि नियोगतो गौणे विनियोजनीयः।यदा गौणप्रत्ययाय मुख्यमुपादत्ते,तदैतदापतितं भवति। मुख्य एव विनियोग इति। अर्थेन च प्रतीतेन प्रयोजनं,न प्रत्यायकेन मन्त्रेण।अतोऽन्येनाप्युपायेन गौणः प्रत्याययितव्यः। न स एव मन्त्र आदर्त्तव्यः।अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात् तथापि मुख्यप्रत्ययनेनैव निर्वृत्तं प्रयोजनमिति नतरां गौण विनियुज्येत।तस्मान्मुख्यगौणयोर्मुख्ये

कार्यसम्प्रत्यय इति सिद्धम्।।1।।

संस्कारकत्वादचोदितेन स्यात्।।2।।

अथ यदुक्तं-पूषाद्यनुमन्त्रणादीनामुत्कर्षो न भविष्यतीति। युक्तस्तेषामुत्कर्षः।संस्कारो हि मन्त्रः। सोऽसति संस्कार्येऽनर्थकं इति यत्रार्थवान् तत्र नाययिष्यते। न च कश्चिद्दोषो भविष्यति।।2।।आ0 नि0।।लवनप्रकाशकमन्त्राणां मुख्ये विनियोगाधिकरणम्।।1।।बर्हिर्न्यायः।।

वचनात्त्वयथार्थमैन्द्री स्यात्।।3।।

अग्नौ श्रूयते-निवेशनः सङ्गमनो वसूनामित्यैन्र्द्या गार्हपत्यमुपतिष्ठते इति।तत्र सन्देहः।किमिन्द्रस्योपस्थानं कर्त्तव्यमुत गार्हपत्यस्येति।कुतः पुनर्गार्हपत्यमुपतिष्ठते इत्येवं विस्पष्टे वचने संशय इति।उच्यते। यद्धि वाक्येनोपस्थानं तत् स्तुतुवचनेन संस्करणं,न समीपस्थानमात्रम्।न चैन्द्रेण मन्त्रेणाग्नेरभिधानं शक्यते कर्तुम्।अतो,गार्हपत्यमुपतिष्ठत इति न गार्हपत्यार्थमुपस्थानमेतदिति जायेत शङ्का। गार्हपत्ये उपस्थानार्थो भवेदिति। तादृशश्च शब्दो नास्ति,तृतीयान्तः सप्तम्यन्तो वा।तस्माद् विचारः,कथमुपपन्नं भवतीति। किं तावत् प्राप्तम्। सामर्थ्यादिन्द्रोपस्थानम्। अशक्यत्वाच्च गार्हपत्योपस्थानस्य। कथं द्वितीया विभक्तिरिति चेत्। अविवक्षितेप्सितार्था वा सम्बन्धमात्रप्रधाना।यद्धोपस्थानविशेषणं सम्बन्धाद् गार्हपत्यशब्दः। तस्माद् गार्हपत्यविशिष्टमुपस्थानमिन्द्रार्थं कर्त्तव्यमिति। गार्हपत्यश्च देशेन विशिंष्यान्मुख्यमेव कार्यं मन्त्राणाम्। एवं प्राप्ते ब्रूमः। वचनात्त्वयथार्थमैन्द्री स्यात्। नैतदस्ति,इन्द्रार्थमुपस्थानमिति,अयथार्थमैन्द्री स्यात्।कुतः।वचनसामर्थ्यात् वचनमिदं भवति,ऐन्र्द्या गार्हपत्यमुपतिष्ठते इति।गार्हपत्ये द्वितीया विभक्तिः प्राधान्यमाह किमिव वचनं न कुर्यात्।नास्ति वचनस्यातिभारः। तस्माद् गार्हपत्यार्थमुपस्थानम्।।3।।

गुणाद्वाप्यभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात्।।4।।

अत्राह।नन्वेतदुक्तं-नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति। उच्यते।वचनाद् भविष्यति।आह। न वचनशतेनापि शक्यमेतत्। इन्द्रशब्देनाÏग्न प्रत्याययेदिति ब्रुवन् विहन्येत।यथा अग्निना सिञ्चयेदिति,उदकेन दीपयेदिति। न हि शास्त्रहेतुकः शब्दार्थयोः सम्बन्धो भवति। नित्योऽसौ लोकतोऽवगम्यते इत्युक्तम्। औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति।ननु शब्दलक्षणोऽपि भवति शब्दार्थयोः सम्बन्ध कृत्रिमः। यथा देवदत्तो यज्ञदत्त इति। भवति कश्चित् यत्र सम्बन्धधस्य विधायकं वाक्यं भवति,न त्वेतद्वाक्यं शब्दार्थयोः सम्ब्नधस्य विधायकं ,गार्हपत्यस्येन्द्रशब्दो नामेति। कथं तर्हि। प्रसिद्धसम्बन्धेन इन्द्रशब्देन गार्हपत्यमुपतिष्ठते इति।न च शक्यते परशब्देन परो वदितुम्। किमत्र वचनं करिष्यति। अत्रोच्यते। गुणाद् वाप्यभिधानं स्यात् सम्बन्धस्याऽशास्त्रहेतुत्वादिति। यद्यपि नेदं वाक्यं शब्दार्थसम्बन्धस्य विधाने हेतुभूतं,तथाप्यनेनेन्द्रशब्देन शक्यं कर्तुं गार्हपत्याभिधानम्।कुतः।गुणसंयोगाद् गौणमिदमभिधानं भविष्यति। भवति हि गुणादप्यभिधानम्।यथा,सिंहो देवदत्त,अग्निर्माणवक इति।एवमिहाप्यनिन्द्रे गार्हपत्ये इन्द्रशब्दो भविष्यति। अस्ति तु चास्येन्द्रसादृश्यम् यथैव इन्द्रो यज्ञसाधनमेवं गार्हपत्योऽपीति। अथवा इन्द्रतेरैश्वर्यकर्मण इन्द्रो भवति। भवति च गार्हपत्यस्यापि स्वस्मिन् कार्ये ईश्वरत्वम्। तस्मादिन्द्रशब्देन यः प्रत्याय्यतेऽर्थः स प्रतीतः सादृश्याद् गार्हपत्यं प्रत्याययिष्यति,ऐश्वर्य्याद् वा

प्रत्याययिष्यतीति न दोषः।।4।।आ0 नि0।।इन्द्रप्रकाशकमन्त्राणां गार्हपत्ये विनियोगाधिकरणम्।।2।।गार्हपत्यन्यायः।।

तथाह्वानमपीति चेत्।।5।।

स्तो दर्शपूर्णमासौ,तत्रेदं समाम्नायत्ते।हविष्कृदेहीति त्रिरवध्नन्नायतीति।तत्र सन्देहः। किमेष मन्त्रोऽवहÏन्त प्रत्युषदिश्येत उत हन्तिरस्य कालं लक्षयतीति। कथं हÏन्त प्रत्युपदिश्यते,कथं वा कालं लक्षयेत्?यद्येवं सम्बन्धः क्रियेत-हविष्कृदेहीत्यवघ्नन्निति,ततो हÏन्त प्रत्युपदिश्यते। अथावघ्नन्नाह्वयतीति।ततोऽस्य कालं लक्षयतीति। किं तावत् प्राप्तम्।तथा आह्वानमपि। यथा ऐन्द्री गार्हपत्यं प्रत्युपदिश्यते,एषमेष मन्त्रो हÏन्त प्रत्युपदिश्यते। एवं श्रुतिरनुगृहीता भवति। इतरथा लक्षणा स्यात्।हन्तिकालस्य मन्त्रस्य च सम्बन्धो भवेत्। न हन्तेर्मन्त्रस्य।एवं च सत्याह्वयतीत्ययमनुवादः। आह्वानं करोति। यो हि, एहीति ब्रूते स आह्वयति।तत्र केनचिद् गुणेन मन्त्रो हÏन्त प्रत्याययिष्यति।तस्मान्नाह्वाने विनियोक्तव्यः।।5।।पूर्वपक्षः।।

न कालविधिश्चोदितत्वात्।।6।।

नैतदस्ति,हÏन्त प्रत्युपदिश्यते इति।किं तर्हि।काललक्षणा स्यात्।कुतः।त्रिराह्वयतीति त्रित्वमत्र विधीयते। यद्यस्मिन्नेव वाक्ये मन्त्रो विधीयेत,अनेकगुणविधानाद् वाक्यम्भिद्येत। तस्मान्नैवमभिसम्बन्ध एवमवध्नन्निति। कथं तर्हि।

अवघ्नन्नाह्वयतीति।नन्वस्मिन्नपि पक्षे मन्त्रो विधीयते कालश्च।तत्र स एव दोषो भवेत्। नेति ब्रूमः।अवहननकाल एवार्थेन हविष्कृदाह्वातव्या।तत्रायमेष सम्बन्धोऽनूद्यते,केवला तु त्रिरावृत्तिर्विधीयते। यत्तु काललक्षणाऽर्थः शब्द इति। नैष दोषः।लौकिकी हि लक्षणा,मन्त्रोऽपि च रूपादेवाह्वाने प्राप्तः, सोऽप्यनूद्यते एव।चोदितश्च वाक्यान्तरेणाऽवघात शक्नोति कालं लक्षयितुम्। तस्मादाह्वाने विनियोक्तव्यम् इति।।6।।सि0।।

गुणाभावात्।।7।।

इदं पदोत्तरं सूत्रम्। अथ कस्मान्न गुणादवहÏन्त ब्रूते।हविष्करोति हि अवहन्तिः। तस्माद् हविष्कृत् किमेवं भविष्यति।रूपादेवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिरावृत्तिमेव वक्ष्यति,न भविष्यति वाक्यभेद इति। अत्रोच्यते।गुणभावाद् गौणमभिधानमवहन्तौ न सम्भवतीति। न ह्यसौ आहूतोऽस्मीत्यवगच्छति।तत्र अदृष्टाऽर्थमाह्वानं स्यात्।यजमानस्य पत्न्यां हविष्कृति दृष्टार्थमाह्वानम्।तस्मान्न हन्तिमन्त्र इति।।7।।आ0 नि0।।

लिङ्गाच्च।।8।।

लिङ्गं च भवति।वाग्वै हविष्कृद्वाचमेवैतदाह्वयतीति। न च वाचोऽवहन्तिना सादृश्यमस्ति।अस्ति तु यजमानस्य पत्न्या।सा हि स्त्री।वागिति च स्त्रीलिङ्गः। अवहन्तिस्तु न स्त्री,न पुमान्,न नपुंसकमिति। नन्ववहन्तेरपि स्त्रीलिङ्गः शब्दोऽस्ति,क्रिया इति।अत्र ब्रूमः। न नियोगतोऽवहन्तेः स्त्रीलिङ्गः शब्दः।पुँल्लिङ्गेऽपि तस्याऽस्ति अवघात इति।नपुंसकलिङ्गोऽपि,कर्मेति। अपि च ,पत्न्याः स्वरूपेण सादृश्यम्,अवहन्तेः पररूपेण शब्देन।तस्मात् पत्न्यां हविष्कृति लिङ्गमनुरूपतरं भवति।।8।।

विधिकोपश्चोपदेशे स्यात्।।9।।

अवहन्तिमन्त्रे सति अस्मिन्मन्त्रे विध्यन्तरकोपः स्यात्।अपहतं रक्ष इत्यवहन्ति,अपहृता यातुधाना इत्यवहन्तीति।तत्र पक्षे अभावान्नित्यवच्छ्ररुतिरुपरुद्ध्येत।तस्मादवघ्नन्निति काललक्षणार्थ इति।।9।।युक्तिः।।आह्वानप्रकाशकमन्त्राणाम् आह्वाने विनियोगाऽधिकरणम्।।3।।

तथोत्थानविसर्जने।।10।।

ज्योतिष्टोमे श्रूयते-उत्तिष्ठन्नन्वाह,अग्नीदग्नीन् विहरेति।तथा,व्रतं कृणुतेति वाचं विसृजतीति। तत्र सन्देहः।किमुत्थानं वाग्विसर्जनं च प्रतिमन्त्रयोरुपदेशः,उत कालार्थः संयोग इति।अत्र पूर्वाधिकरणन्यायोऽतिदिश्यते।यस्तत्र पूर्वः पक्षः स इह पूर्वः पक्षः। यस्तत्र सिद्धान्तः स इह सिद्धान्तः।अग्नीदग्नीनित्येवमुत्तिष्ठन्नन्वाहेति।व्रतं कृणुतेत्येवं वाचं विसृजतीति पूर्वः पक्षः। लक्षणाऽभावादुत्तिष्ठन्नन्वाहेति सिद्धान्ते सम्बन्धः। व्रतं कृणुतेत्युच्यमाने वाचं विसृजतीति वाक्येन पूर्वः पक्षः।लिङ्गेन सिद्धान्तः।यद्यपि च शक्यते,उत्थानक्रिययाऽग्नीदग्नीन् विहरेति वक्तुम्।

उत्थानेनाग्निरिध्यते,विह्रिश्च विह्रियते इति।व्रतं कृणुतेति च वागभिधानम्।तथाप्यदृष्टार्थं वचनं भवतीति न मन्त्रवोरुत्थानविसर्जनार्थता कल्प्येत। कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत।याः पशूनामृषभो वाच इति।अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानावदृष्टार्थौ स्यात्म्। प्रेषणे तु दृष्टार्थौ। तत्, लक्षणैवात्र न्याय्या।।10।।अग्निविहिरणादिप्रकाशकमन्त्राणां तत्रैव विनियोगाऽधिकरणम्।।4।।

सूक्तवाके च कालविधिः परार्थत्वात्।।11।।

दर्शपूर्णमासयोः श्रूयते,सूक्तवाकेन प्रस्तरं प्रहरतीति। तत्र सन्देहः।किं सूक्तवाकः प्रस्तरप्रहरणं प्रत्युपदिश्यते,उत इयं काललक्षणेति। तदुच्यते। काललक्षणेति। कुतः। सूक्तवाकस्य देवतासङ्कीर्त्तनार्थत्वात्।प्रस्तरप्रहरणं च प्रत्यशक्तेः,प्रस्तरस्य च स्रुग्घारणार्थत्वात्।।11।।पूर्वपक्षः।।

उपदेशो वा याज्याशब्दो हि नाकस्मात्।।12।।

उपदेशो वा प्रस्तरप्रहरणं प्रति मन्त्रस्य स्यात्।एवं श्रुतिविहितोऽर्थो भवति।सूक्तवाकेनेति करणविभक्तिसंयोगात्।इतरथा लक्षमा स्यात्,सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेदिति। एवञ्च कृत्वा याज्याशब्द उपपन्नो भवति।सूक्तवाक एव याज्या,प्रस्तर आहुतिरिति।।12।।सिद्धान्तः।।

स देवतार्थस्तत्संयोगात्।।13।।

यदुक्तं-देवतासङ्कीर्त्तने सूक्तवाकः समर्थो,न प्रस्तरप्रहरणे इति।उच्यते। न।देवतावचनं प्रहरेण न सम्बन्ध्यते।प्हरणं हि यजिः।मान्त्रवर्णिको देवताविधिः।एवमभिसम्बन्धः। अग्निरिदं हविरजुषतावीवृघत इत्येवं देवतामनुक्रम्य,आशास्तेऽयं यजमान

इत्युक्ता,इदमिदमशास्ते इति च।यदनेन हविषा आशास्ते तदस्य स्यादिति प्रस्तरं हविर्निर्दिशति। अग्न्यादीश्च देवताविशेषान्।तेन प्रहरतिर्यजतिः।एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते,यदि प्रहरतिर्यजतिरग्न्यादिदेवताकश्च।तस्मात् सूक्तवाकस्य हरतिसंयोगेऽपि देवतार्थता घटते एव।यदि,अग्निरिदं हविरजुषतावीवृघत इत्येवमापद्येव श्रूयेत,न आशास्तेऽयं यजमान इत्येवमादीनि अपराणि,ततोऽग्न्यादय एवेष्टानान्तरिताः इत्येव पर्यवसितं वाक्यं भवेत् यतस्तु खलु आशास्तेऽयं यजमान इत्येवमादीन्यपराणि श्रूयन्ते,तेनेह पर्यवसानम्। अग्न्यादयः पुरोडाशादिभिरिष्टाः अपर तु यजमान आशास्ते। तदनेन प्रस्तरेण प्राप्नुयादिति।ननु सत्स्वप्येतेषु देवतासङ्कीर्त्तने एव पर्यवस्येत्,पुरोडाशादिभिरिष्टा अग्न्यादयः। तत एव यजमान आयुरादीन्याशासानः प्राप्नुयादिति।उच्यते।उभयथा सम्बन्धे सति प्रहरणे विनियोक्तव्यः।लिङ्गं च न बाधितं भविष्यति।वाक्यं चानुग्रहीष्यते इति।।अथ वाऽग्निरिदं हविरजुषतेति प्रस्तर एव हविर्विर्दिश्यते एवमिदमिति। सन्निहितवचनमुपपन्नं भविष्यतीति।।13।।पूर्वपक्षनिरासः।।

प्रतिपात्तारातचत् स्विष्टकृद्वदुभयसंस्कारः स्यात्।।14।।

अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रहरणं प्रतिपात्तिरित्युच्यते। तत्र प्रतिवचनं,स्विष्टकृद्वदतत् स्यादिति।यथेज्यार्थात् पुरोडाशाद्,वचनप्रामाण्यात् स्विष्टकृदिज्यते,यागश्च स भवति।प्रतिपाद्यते च पुरोडाशः, एवं प्रतिपाद्येतैव हि प्रस्तरो यागश्च निर्वर्त्यते इति न दोषः।प्रतिपाद्यमानोऽपि हि त्यज्यते।प्रत्यक्षतः प्रतिपाद्यते।वचनादिज्यां साधयतीत्येवं गम्यते।तस्मात् सूक्तवाकः प्रहरतिमन्त्र इति।।14।।आशङ्कानिरासः।।सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणम्।।5।।प्रस्तरप्रहरणन्यायः।।

कृत्स्नोपदेशादुभयत्र सर्ववचनम्।।15।।

दर्शपूर्णमासयोः,सूक्तवाकेन प्स्तरं प्रहरतीति श्रूयते।तत्र सन्देहः। किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः,कृतस्नोऽमावास्यायाम्,उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति।तदुच्यते। उभयत्र सर्ववचनमिति।कुतः।कृत्स्नो हि मन्त्रः सूक्तवाक इत्युच्यते। स पदेनापि विना,सूक्तवाको न स्यात्।तत्र सूक्तवाकेन न प्रहृतं भवेत्।तस्मादुभयत्र कृत्स्नः सूक्तवाको वदितव्यः।।15।।पूर्वपक्षः।।

यथार्थं वा शेषभूतसंस्कारात्।।16।।

ये पौर्णमासीदेवतावाचिनः शब्दास्ते पौर्णमास्यां प्रयोक्तव्या,नाऽमावास्यायाम्।ये अमावास्यादेवतावाचिनस्ते अमावास्यायां,न पौर्णमास्याम्।शेषभूतमर्थं सस्कुर्वन्तो मन्त्रा उपकुर्वन्ति,नान्यथेत्युक्तम्।तस्माद् ये यत्रोपकुर्वन्ति,ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्यां,न कृत्स्नश्चामावास्यायामिति।।16।।सि0।।

वचनादिति चेत्।।17।।

अथ यदुक्तं वचनमिदं भविष्यति,सूक्तवाकेन प्रहरतीति। तत्र पदेनापि ऊनेन न सूक्तवाकेन प्रहृतं भवेत्।कृत्स्नस्य हि सूक्तवाकस्योपदेश इति।।आशङ्का।।

तदुच्यते।।

प्रकरणाविभागादुभये प्रति कृत्स्नशब्दः।।18।।

उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः।उभयोः प्करणात्। उभयोरसौ कृत्स्न उच्यते,अवयवेऽवयवे इति।।नैतदेवम्। न हि सापेक्षाणाम् इति कर्त्तव्यतया सम्बन्धः। न हि इति कर्त्तव्यता एतद्विशिष्टा श्रूयते। इति कर्तव्यताविशिष्टस्त्वेते गम्यन्ते।कुतः। न हि इतिकर्त्तव्यतां प्रति कर्मणि विधीयन्ते। फलं प्रति तेषां विधिः।इतिकर्त्तव्यता तु कर्मणां विधीयते। तत्र सन्निधानाविशेषात्,कस्य किं विधीयते,कस्य नेति न गम्यते विशेषः। साधनत्वेन च सर्वेषां निर्द्देशादितिकर्त्तव्यतायाः सन्निधानाञ्च,वचनाञ्चास्य,प्रकरणलिङ्गस्याविशेषात् एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य न, सहायामपेक्षमाणस्य।तस्मादेकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते।संविभागेऽपि प्रधानानां,कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि,तान्यपि तत्र प्रयोक्तव्यानि।अदृष्टाय भविष्यन्ति। सूक्तवाकेन प्रहरतीति वचनात्। नास्ति वचनस्यातिभारः। गुणेन वा केनचिदभिधानं तासां देवतानां निर्वर्त्तयिष्यन्तीति।अत्रोच्यते नैतदेवम्।उक्तम्।मुख्यमेव कार्य्यं मन्त्राणां,न गौणमिति।संस्कारार्थत्वादेवोत्कर्षो न्याय्यः। न गौणमभिधानमिति। कस्तर्हि कृत्स्नसंयोगस्य समाधिरुच्यते? इति। एष समाधिः. न ह्येतदेकं वाक्यं यः कृत्स्नः सूक्तवाकः।बहून्येतानि वाक्यानि।येषां प्रधानदेवताभिधायीनि पदानि मध्ये,साधारणानि तन्त्रपदानि पुरस्तादुच्चार्यन्ते,तथा परस्तात्।यथा परस्तात्।यथाऽग्निरिदं हविरजुषतावीवृघत

महोज्यायीकृताग्नीषोमाविदं हविरजुषेतामवीवृधेतामित्येवमादीनि। तेषां पुरस्तात्तन्त्रम्।यथा,इदं द्यावापृथिवी इति।परस्तादपि,यथा,अस्यामृधेदिति।तान्येतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभन्ते। न च,तेषां समुदायः कञ्चिदर्थं वदति। तस्मान्न समुदायः सूक्तवाकः।न च साक्षात्साधनम्।सूक्तवाकसामान्यस्यैकत्वात्।सूक्तवाको वर्त्तते इत्येकवचनं भवति। सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित् सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति। तस्मान्न समुदायः सूक्तवाकः। यत्तु अमावास्यादेवतावाचीनि पदानि,न पौर्णमास्यां प्रयुज्यन्ते,न तत्र सूक्तवाकशब्दो बाध्यते।प्रकरणं तत्र लिङ्गेन बाधितम्।तच्च न्याय्यमेव तस्मात् पौर्णमास्याममावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति।।18।।आ0नि0।।सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणम्।।6।।सूक्तवाकन्यायः।।

लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नातम्।।19।।

इह काम्ययाज्यानुवाक्याकाण्डमुदाहरणम्।।इन्द्राग्नी रोचना दिवः,प्रहर्षणिभ्यः,इन्द्राग्नीनवति पुरः श्लथद्वृत्रमित्येवमाद्या ऋचः। अपरा अपि काम्या इष्टव्यः।ऐन्द्राग्नमेकादशकपालं निर्वपेत्,यस्य सजाता वियायुः,ऐन्द्राग्नमेकादशकपालं निर्वपेद् भ्रातृव्यवान् अग्नये वैश्वानराय द्वादशकपालं निर्वपेद् रुक्कामः।अग्नये वैश्वानराय द्वादशपकालं निर्वपेत् सपत्नमभिद्रोष्यन्नित्येवमाद्याः।तदेता याज्यानुवाक्याः प्रति सन्देहः। किं यावत् किञ्चिदैन्द्राग्नं कर्म,तत्र सर्वत्रानेन ऐन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्,उतैतस्यामेव ऐन्द्राग्न्यामिष्टौ काम्यायामिति।एवं वैश्वानरीययोर्याज्यानुवाक्ययोः।एवं सर्वत्र।किं तावत् प्राप्तम्।यावत् किञ्चिदैन्द्राग्नं वैश्वानरीयमग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः।कुतः।लिङ्गात्। ननु क्रमसमाख्याने विशेषके भवितव्यः। सत्यम्। तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुमिति।एवं प्राप्ते ब्रूमः।लिङ्गक्रमसमाख्यानात् तास्वेव काम्यास्वेता याज्यानुवाक्या इति गम्यते। य एव हि लिङ्गक्रम एषां कर्म्मणां,स एवासां याज्यानुवाक्यानाम्। तेन तासामेव ताः शेषबूता इति।।

ननु लिङ्गं बलवत्तरमित्युक्तम्।सत्यमेतत्।इह तु समाख्या बलीयसी। न ह्येताः समाख्यानादृते एषां काम्यानां कर्म्मणां प्राप्नुवन्ति।न भिन्नदेशानां कर्म्मणाम्। कुतः। समाख्यामन्तरेण आसाम् ऋचां याज्यानुवाक्यात्वमेव न विज्ञायते,कुतो भिन्नदेशानां कर्म्मणां याज्यानुवाक्या भविष्यन्ति?इति।या चैषां समाख्या सा काम्यानामेव याज्यानुवाक्यात्वमाचष्टे,न सर्वेषाम्।यदि समाख्या नाद्रियते।याज्यानुवाक्यात्वमेवैषां न भवति। यदि आद्रियते,तदा काम्यानामेव।एवं हि तत् समाख्यायते,काम्ययाज्यानुवाक्याकाण्डमिति।।

अथ किमर्थमुभयमुपदिश्यते,लिङ्गक्रमादिति।समाख्यानादिति च।अस्ति तत्र पार्थिकृतीयं व्रातपतीयं च कर्म्म।सामिधेनीकार्यमप्यस्ति। याज्यानुवाक्याकार्यमपि।यदि लिङ्गक्रमादित्येतावदेवोच्येत,सामिधेनीकार्येऽपि लिङ्गेन तासां विनियोगः स्यात्।अथ किमर्थं लिङ्गक्रमौ व्यपदिश्येते।सर्वा याज्यानुवाक्याकार्ये एव विनियुज्येरन्,सामिधेनीषु विनियोगो न स्यात्।अथ पुनः समाख्यानाल्लिङ्गक्रमाच्च निर्वृत्ते याज्यानुवाक्याकार्ये,सामिधेनीषु विनियोगः सिद्धो भवति,यथा आग्निवारुण्या इष्टेः क्रमेऽतीते सौमारौद्रीणामनागते,मनोर्ऋचस्ताः सामिधेनीषु धान्या इत्युच्यन्ते।तथा,पृथुयाजास्तं सम्बाधे इति द्वे धान्ये कल्प्येते। तस्मादुभयं व्यपदेष्टव्यमिति।।19।.काम्ययाज्यानुवाक्याकाण्डानां काम्यमात्राङ्गताऽधिकरणम्।।7।।

अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात्।।20।।

ज्योतिष्टोमे श्रूयते।आग्नेय्या आग्नीध्रमुपतिष्ठते,ऐन्र्द्या सदः,वैष्णव्या हविर्धानमिति।तत्र सन्देहः। किं प्रकृताभिरेवँल्लिङ्गवतीभिरुपस्थातव्यम्,उत दाशतयीभ्यः एवँल्लिङ्गा आगमयितव्याः?इति।किं तावत् प्राप्तम्।प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः,आग्नेयीत्येवमादिभिर्हि शक्या दाशताय्योऽभिवदितुम्।यश्चायं प्रकृतः,स कार्यान्तरे विनियुक्तो,न इहाप्युपदेशमर्हति। उपदिष्टोपदेशो हि न न्याय्य एवञ्जातीयकस्य। कथञ्जातीयकस्य?।यः कÏस्मश्चिद्विशेषेणोपदिष्टः।नासौ सामान्येन लिङ्गेन अन्यत्रोपदेशमर्हति।कथम्।यदि तत् लिङ्गं तस्य लक्षणत्वेन ,ततः स विशिष्टो लक्ष्येत,येनानेनैवँल्लिङ्गेनैतत् करोतीति।ततो नोपदिष्टो भवति।अथोपदिश्यते,एवँल्लिङ्गेन करोतीति।ततो न लक्ष्यते,तेनोपदिष्टस्यैञ्जातीयकस्यैवञ्जातीयकः पुनरुपदेशो न न्याय्यः। तस्माद् दाशतयीलिङ्गवन्तो मन्त्रा ग्रहीतव्याः।ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः। नेत्युच्यते।लिङ्गं हि प्रकरणाद् वलीयः।आह। विरोधे सति लिङगेन प्रकरण बाध्येत।न चैतयोर्विरोधः न वयं प्रकरणमनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तमुपाददाना लिङ्गमुपबाधेमहि।यदि तु प्रकृतं विलिङ्गमुपाददेमहि,ततो बाधेमहि लिङ्गम्।उबयं सम्पादयिष्यामः प्रकरणं लिङ्गश्च।नैतदेवम्।लिङगेन प्रत्ययो

भवति।दाशतयेनापि हि आग्नेयीशब्देन शक्यन्ते वदितुम्।स प्रत्ययो लिङ्गजनितो यन्मिथ्येति कल्प्यते,तत् प्रकरणानुरोधात्।स चेत् प्रकरणमनुरुद्ध्यते,मिथ्येति कल्प्यते।अथ नानुरुद्ध्यते सम्यगिति,तस्माद् विरेधः।विरोधे च प्रकरणदौर्बल्यम्।।

उच्यते। तल्लिङ्गवत्ताऽनेनोपस्थानेनानुग्रहीतव्या,न दाशतयी मन्त्रव्यक्तिः।सा च प्रकृते मन्त्रे उपादीयमाने निरवशेषा उपात्ता भवति।दाशतय्यां पुनर्मन्त्रव्यक्तौ उपादीयमानायां प्रकरणाद् या मन्त्रव्यक्तिः प्राप्नोति,सा बाधिता भवत्यऽसति विरोधे।न च इह लिङ्गप्रकरणयोर्विरोधः,प्रकरणाद् व्यक्तिः प्रतीयते,लिङ्गात् सामान्यम्। अन्या च व्यक्तिरन्यत् सामान्यम्। तस्मात् प्रकृतो लिङ्गवानुपादेय इति। उच्यते।सत्यमेवमेतत्।प्रकृते उपादीयमाने प्रकरणं न बाधितं भवति लिङ्गमप्यमुगृहीतम्। लिङ्गजनितस्तु प्रत्ययः कश्चिन्मिथ्येति कल्पितो भवति। ननु व्यक्तिरपदार्थः।कथं व्यक्तावनुपादीयमानायां प्रत्ययो बाध्येत।उच्यते।एतदेव न विजानीमो,लिङ्गवत्ताऽत्राङ्गं न वेति।किन्तु तद्वितनिर्देशोऽयम्।तत्र देवताया मन्त्रो लक्ष्यते।मन्त्रव्यक्तिर्हि साधनं,न सामान्यं नाम किञ्चिदपरम्।देवतैवात्र सामान्यं,यया साधनं क्षयितव्यम्। न च गम्यते विशेषः-अयमसौ मन्त्रो,नायमसाविति।अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति।दाशतय्यामपि मन्त्रव्यक्तौ भवति प्रत्ययः।स प्रकरणानुरोधेन बाध्येतेत्यन्याय्यम्।एवं सति न दाशतय्य एवोपादातव्या भवन्ति।प्रकृतमप्युपाददीरन्।नन्वेतदुक्तं-कार्य्यान्तरे प्रकृतस्योपदेशो नासावर्थान्तरे उपदेक्ष्यते इति।उच्यते। न नियोगतः स एवार्थान्तरे वर्त्तते। स चान्यश्च सामान्येन लिङगेन।नैवं सति किञ्चिद् दुष्यति।नन्वेतद् दुष्यति। न।उभयमनुगृहीतं भवति लिङ्गं प्रकरणाञ्च।सत्यम्।नानुगृहीत भवति।किन्त्वननुग्राह्यमेव प्रकरणं लिङ्गप्रत्ययविरुद्धात्।अपि च,न लिङ्गं प्रकरणं वा अनुग्रहीतव्यमिति।तत्परिच्छिन्ने प्रवृत्तिर्भवति।यदवगम्यते,एतत् फलवदिति। तत्र प्रवर्त्तते।किमतो यद्येवम्।एतदतो भवति।न लिङ्गमनुगृहीतं क्वचिदित्यपरÏस्मस्तत्परिच्छिन्ने न प्रवृत्तिर्भवितुमर्हति।तस्माद्वाशतय्यो ग्रहीतव्या इति गम्यते।।20।।पूर्व0।।

तदाख्यो वा प्रकरणोपपत्तिङ्याम्।।21।।

तदाख्यो ज्योतिष्टोमसमाख्यात एव ग्रहीतव्यः.कुतः।प्रकरणोपपत्तिभ्याम्।प्रकृतो हि असौ।

प्रकृतप्रत्ययश्च न्याय्यः।कथम्।न ज्योतिष्टोमं प्रति मन्त्रस्य

व्यापारविधानमुपपद्यते।प्राप्तत्वादेव।व्यापारविशेषविधानं तूपपद्यते।अप्राप्तत्वाद् व्यापारविशेषस्य। अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत।उपस्थानञ्च कुर्य्यात्।तच्चैवं लिङ्गेनेति।।21।।सि0।।

अनर्थकश्चोपदेशः स्यादसम्बन्धात् फलवता न ह्युपस्थानं फलवत्।।22।।

ननु च प्रकरणाज्ज्योतिष्टोमस्योपकारकं स्यात्।यद्युपस्थानज्योतिष्टोमसम्बन्धो विवक्ष्येत,तदोपस्थानं ज्योतिष्टोमे उपदिश्येत।प्रकरणात्तेनैकवाक्यतामियात्।यदा तु खलूपस्थानस्य मन्त्रसम्बन्धो विवक्ष्यते सर्वोपस्थानेषु,तदामन्त्रः प्राप्नोति प्रकरणं बाधित्वा न प्रकरणं विशेषकं भवितुमर्हति।उभयसम्बन्धे वाक्यभेदः। अस्मत्पक्षे न पुनरयं दोषः।योनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते,तेनोपस्तानव्यापारविशेषः।तदा ज्यौतिष्टोमिको विधीयते,अन्यत् सर्वमनूद्यत इति,न दोषो भवति। अथवा आग्नीध्र-हविर्धानसदःसमबन्धमात्रं विधीयते,उपतिष्ठते इत्ययमनुवादः।अनेन मन्त्रेण आग्नीध्रमुपतिष्ठते इति समासीदति इत्यर्थः।तस्मात् प्रकृता मन्त्रा एवञ्जातीयका उपादातव्या इति।।22।।

सर्वेषां चोपदिष्टत्वात्।।23।।

यदप्युक्तमुपादिष्टा हि ते प्रकृताः कार्य्यान्तरे इति।तदुच्यते।उक्तोत्तरमेतत्। अपि च न केनचिद् नेपदिष्टाः,सर्वे वाचस्तोभे आश्विने शस्यमाने सूर्येऽनूद्यति।तेन न प्रकृते कश्चिद्विशेषः।तस्मात् प्रकृतस्यैव ग्रहणम्।।23।।

युक्तिः।।आग्नीघ्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणम्।।8।।

लिङ्गसमाख्यानाभ्यां भक्षार्थताऽनुवाकस्य।।24।।