शबरभाष्यम्/तृतीयोऽध्यायः/प्रथमः पादः

अथ तृतीयेऽध्याये प्रथमः पादः।।3।।1।। अथातः शेषलक्षणम्।।1।।

नानाकर्म्मलक्षणं वृत्तम्।अनन्तरं शेषलक्षणं वर्त्तयिष्यामः।कः शेषः,केन हेतुना शेषः,कथञ्च विनियुज्यते?इति।श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते।तेषां च बलवदबलवत्ता।एतत्तात्पर्य्येणान्यदप्युपोद्धातादिना।।1।।प्रतिज्ञादिकरणम्।।1।।

शेषः परार्थत्वात्।।2।।

इह सूत्रे शेषस्य लक्षणं,येन च हेतुना शेष इत्युच्यते,तदुभयमाख्यायते। यः परस्योपकारे वर्त्तते,स शेष इत्युच्यते।तद् यथा।ये परार्थास्ते वक्तारो भवन्ति,शेषभूता वयमिहेति। ननु योऽपि प्रधानभूतः सोऽपि कदाचित् परार्थे वर्त्तते।यथा उपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्त्तते। सत्यं वर्त्तते। यस्तु अत्यन्तं परार्थस्तं वयं शेष इति ब्रूमः। यथा,गर्भदासः कर्मार्थ एव स्वामिनोऽनङ्गाँश्च क्रीयते,वक्ष्यतीत्येव। ननु गर्भदासस्यापि स्वामी संविदधानोगुणभावमायात्।नेति ब्रूमः। आत्मन एवासौ संविदधानो गुणभावं गच्छन्ति। नान्तरीयकत्वाद् गर्भदासस्योपकरोति,अनडुहो वा। यस्त्वत्यन्तं परार्थस्तं वयं शेष इति ब्रूमः। अथ तत्र किं वृत्तम्। यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेतेति। थत्र अपूर्वार्थता व्यावर्तिता,दृष्टप्रयोजनानामाख्यातानाम्। इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते।।2।।शेषत्वकारणसहित-शेषलक्षणाधिकरणम्।।2।।

द्रव्यगुणसंस्कारेषु बादरिः।।3।।

बादरिराचार्योऽत्र द्रव्यगुणसंस्कारेष्वेव शेषशब्द इति मेने,न यागफलपुरुषेषु।द्रव्यं क्रियार्थं यदि प्रयोजनवती क्रिया,व्यक्तं सा द्रव्येण निर्वर्त्तयितव्या। तस्या निर्वृर्त्तिर्द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यमेषितव्यं भवति। तस्मात् क्रियार्थं द्रव्यम्।गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्।लक्षितेन च तेन प्रयोजनम्। विशिष्टस्य क्रियासाधनत्वात्,तस्मात् सोऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति क्रियार्थ एव।संस्कारो नाम स भवति यस्मिञ्जाते पदार्थो भवति योग्यः कस्यचिदर्थस्य।तेनापि क्रियायां कर्त्तव्यायां प्रयोजनमिति सोऽपि परार्थः। तस्माद् द्रव्यगुणसंस्काराः परार्थत्वाच्छेषभूता,न तु यागफलपुरुषाः। यागस्तावत् कर्त्तव्यः पुरुषस्य। न हि तस्मिन्निर्वर्त्तिते किञ्चिद् अपरमिति कर्त्तव्यम्। स हि पुरुषार्थः। यदन्यद् द्रव्यादि तत् तदर्थं तस्य शेषभूतम्। स तु न किञ्चिदभिनिर्वर्त्तयितुं क्रियते। फलमपि न तेन क्रियते। तÏस्मस्तु कृते स्वयमेव तद् भवति। तस्मिन् कृते फलमस्य भवतीत्येतावद् गम्यते। नास्ति शब्दो,यागेन क्रियते फलमिति। तस्मात् यागो न शेषभूत कस्यचिदर्थस्य। फलमपि न पुरुषं प्रत्युपदिश्यते। य स्वर्गं कामयते स यागं कुर्य्यादित्येतावच्छब्देनोपदिश्यते,नात्मनः,परस्य वेति। स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवन्ति। तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः। तस्मात् सोऽपि न शेषभूतः। न चेत् फलयागौ गुणभावेन चोद्येते ,कस्य पुरुषः प्रधानभूतो भवति प्रत्यक्षश्चास्य द्रव्यत्वात् कर्म्म प्रति गुणभावः। तस्माद् द्रव्यगुणसंस्कारेष्वेवशेषभावं बादारेर्मेने इति।।3।।

कर्माण्यपि जौमिनिः फलार्थत्वात्।।4।।

जैमिनिस्तु खल्वाचार्यः कर्माण्यपि शेषभूतानि मन्यते स्म,न बादरिरिवावधारणामनुमेने। स हि ददर्श, न यागः कर्त्तव्यतया चोद्यते।फलकामस्य तु तत्साधनोपायत्वेनेति। एवं श्रुतोऽर्थः परिगृहीतो भविष्यति। अर्थवाँश्चोपदेशः।एनमेवार्थं षष्ठेऽध्याये सूत्रैरेव साधयिष्यति। इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म। तस्मादनवधारणा द्रव्यगुणसंस्काराः शेषभूताः।यागोऽपि शेषभूतः फलं प्रतीति।।4।।

फलं च पुरुषार्थत्वात्।।5।।

फलमपि पुरुषं प्रत्युपदिश्यते।यः स्वर्गो मे भवेदित्येवं कामयते तस्य यागः। न यः स्वर्गं स आत्मानं लभेतेति।कुतः।आत्मनेपदप्रयोगात्। कर्त्रभिप्राये एतद् भवति।क्रियाफलमनुभवेत् कथं पुरुष इति यागः प्रयुज्यते। तस्मात् फलं पुरुषार्थं यागाच्छ्ररूयते,नात्मनिवृत्यर्थम्।

तस्माच्छेषभूतमिति।।5।।

पुरुषश्च कर्मार्थत्वात्।।6।।

पुरुषोऽप्यौदुम्बरीसम्मानादिषु गुणभूतः श्रूयते। तस्मादनवधारणा एषा। द्रव्यगुणसंस्कारेषु शेषत्वं बादर्र्मेने इति।।अथ इदानीमत्र शेषान् वृत्तिकारः परिनिश्चिकाय।द्रव्यगुणसंस्कारेष्वेव नियतो यजिं प्रति शेषभावः। आपेक्षिक इतरेषाम्।यागस्य द्रव्यं प्रति प्रधानाभावः,फलं प्रति गुणभावः। फलस्य यागं प्रति प्राधान्यं,पुरुषं प्रति गुणता। पुरुषस्य फलं प्रति

प्रधानता,औदुम्बरीसम्मानादि प्रति गुणत्वम्।तस्मात् संमता अवधारणा। द्रव्यगुणसंस्कारा यागम्प्रति नियोगतो गुणभूता एवेति।।6।।शेषलक्ष्याऽधिकरणम्।।3।।

तेषामर्थेन सम्बन्धः।।7।।

स्तो दर्शपूर्णमासौ। दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति। तत्र श्रूयन्ते धर्माः। निर्वपणं,प्रोक्षणम्,अवहननमित्येवमादय औषधधर्माः। तथोत्पवनविलापनग्रहणासादनादय आज्यधर्माः। तथा शाखाहरणं गवां प्रस्थापनं,गवां प्रस्तावनमित्येवमादयोऽपि सान्नाय्यस्य। तेषु सन्देहः। किं सर्वे,औषधे आज्ये सान्नाय्ये च कर्त्तव्याः उत ये यत्र क्रियमाणा अर्थवन्तस्ते तत्र कर्त्तव्या इति। ननु संयुक्ता एवं श्रूयन्ते।यथा,व्रीहीनवहन्ति,तण्डुलान् पिनष्टीति।बाढ संयुक्ताः। अवधातादयस्तु पदार्था विधीयन्ते श्रुत्या। वाक्येन एषां व्रीह्यादिसंयोगः। अतोऽस्ति संशयः। किं तावत् प्राप्तम्। तेषामर्थेन सम्बन्धः। अर्थेन प्रयोजनेन। ये यत्र क्रियमाणाः प्रयोजनवन्तस्ते तत्र कर्त्तव्याः। प्रथनादय आज्यसान्नाय्ययोरनुपकारका इति न तत्र करणीयाः। एवमुत्पवनादय औषधसान्नाय्ययोः। शाखाहरणादय आज्यौषधयोः। ननु श्रूयन्ते सर्वो सर्वत्र। एतदेव न जानीमः। श्रूयन्ते न श्रूयन्ते इति। तद्विचारयितव्यम्।यद्यपि श्रूयेरँस्तथाप्यनुपकारकत्वान्नैव कर्त्तव्या भवेयुः।।7।।

विहितस्तु सर्वधर्मः स्यात् संयोगतोऽविशेषात् प्रकरणाविशेषाच्च।।8।।

उच्यते। योऽर्थात् प्राप्तः स्यात् स यत्र प्रयोजनं तत्रैव क्रियेत। शब्देन तु सर्वेऽमी पदार्था विहिताः। तेन न यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते,तत्रैव कर्त्तव्याः। क्व तर्हि। यत्र यत्र विहिताः। ते चामी सर्वत्र विहिता गम्यन्ते। कुतः। संयोगतोऽविशेषात् प्रकरणाऽविशेषाञ्च। सर्वेषां तावदाज्यौषधसान्नाय्यानामपूर्वेण साध्यसाधनसंयोगोऽविशिष्टः। यत्र क्रियमाणा अपूर्वस्य कृता भवन्तीति विज्ञायते।तथा प्रकरणमविशिष्टम्।यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते। अतः सर्वे सर्वत्र कर्त्तव्याः। यत्त्वमी न सर्वत्रोपकुर्वन्तीति विधानसामर्थ्यात् सर्वत्रोपकारका इति गम्यते। स चायमदृष्ट उपकारो भविष्यति।।8।।पूर्वपक्षः।।

अर्थलोपादकर्म स्यात्।।9।।

नैतत्,सर्वे सर्वत्र करणीया इति।ये यत्र नोपकुर्वन्ति,न ते तत्र क्रियामर्हन्तीत्युक्तमेव। ननु विधानसामर्थ्यात् सर्वे सर्वत्रोपकरिष्यन्ति। नेति ब्रूमः।।9।।सिद्धान्तः।।

फलन्तु सहचेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात्।।10।।

नास्ति विधानं,येन सर्वे सर्वत्रोपकुर्वन्ति। न च प्रत्यक्षादिभिरुपकारकमवगच्छामः। अर्थापत्तिरपि नियोगतस्तत्रैव भवेत्। यत्रैव शब्देन चोदना भवति,नान्यथा।यदि च प्रथनादीनामाज्यसान्नाय्ययोरनुपकुर्वतामपि तत्प्रकरणे समाम्नायोऽनुपपन्नो भवेत्,ततोऽर्थाददृष्ट उपकारः कल्प्येत। ते त्ववश्यं समाम्नानीया औषधार्थम्। फलं हि सहचेष्टयाऽवहननादिकयावगम्यते तुषविमोचनादि। प्रयोजनं च तेन। न तस्मादृते पुरोडाशः सिद्ध्यति। सति चास्मिन् अर्थवान् प्रकरणे समाम्नायः। अर्थवति च तस्मिन्नादृष्टकल्पनायां प्रमाणमस्तीत्यतो न शक्यं कल्पयितुम्। यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत् ततो विप्रयोगे तण्डुलादीनामभावादुपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्त्तव्यमित्याज्यसान्नाय्ययोरपि क्रियमाणानामदृष्टमभविष्यत्।तस्माद् न प्रथनादयः सर्वत्र। एवम् उत्पवनादयः शाखाहरणआदयश्च। तस्मान्न सर्वे सर्वत्र कर्त्तव्याः। प्रथनादयो नाज्यसान्नाय्ययोः।

औषधे एव ते। उत्पवनादय आज्यस्य नौषधसान्नाय्ययोः। शाखाहरणादयश्च सान्नाय्यस्य नाज्यौषधयोरिति सिद्धम्।।10।।युक्तिः।।निर्वपणादीनामर्थाऽनुसारेण व्यवस्थितविषयताधिकरणम्।।4।।

द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत।।11।।

स्तो दर्शपूर्णमासौ। तत्र समामन्ति।स्फयश्च कपालानि च अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्यां च उलूखलञ्च मुसलञ्च दृषञ्चोपला च ।एतानि वै दश यज्ञायुधानीति।तत्र सन्दिह्यते। किं यो य इह शक्यते एभिः कर्तुं तस्मै तस्मै पदार्थायैतानि समाम्नातानि,उत यद्येन संयुक्तं तस्मा एवेति।

किं तावत् प्राप्तम्। यद्येन शक्यमिति।कुतः। एवं विधयो भविष्यन्ति तथार्थवन्तः। इतरथा ते अनुवादा निष्प्रयोजनाः। प्रकरणाविशेषश्च सर्वपदार्थान् प्रति। यज्ञायुधानीति च यज्ञसंयोगोऽविशिष्टः।तस्मात् सर्वे सर्वत्र इत्येवं प्राप्तम्।एवं प्राप्ते ब्रूमः। द्रव्यञ्चोच्पत्तिसंयोगात् तदर्थमेव चोद्येत। यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थस्तेनैव कर्त्तव्यः। यथा स्फ़ट्योनोद्धन्तीत्युद्धननार्थता स्फट्यस्य वाक्येन। तदुद्धननं न स्फट्यादन्येन कर्त्तव्यम्। यदा चैवं तदा प्राप्त एव स्फय।

तस्यायमनुवादो भवितुमर्हति। एतानि वै दश यज्ञायुधानीति। एवमेकैकस्यानुवादः। तेन तेन वचनेन प्राप्तस्य। यथा,कपालेषु श्रपयति,अग्निहोत्रहवण्या हवींषि निर्वपति,शूर्पेण विविनक्ति,कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति,शम्यां दृषद्युपदधाति,उलूखलमुसलाभ्यामवहन्ति,दृषदुपलाभ्यां पिनष्टीति। प्रकरणात् सर्वाणि सर्वत्र प्राप्नुयुः,वचनात्तु यथा वचनम्। यज्ञायुधशब्दोऽपि सामान्येन प्रयोजनं विदधत् तद् बाध्येतैव। परोक्षं हि सामान्यवचनेन विशेषविधानं भवति,प्रत्यक्षन्तु विशेषवचनेन विशेषविधानम्।तस्माद् यद् येनोत्पत्त्या संयुक्तं,तत् तत्रैव विनियुज्यते इति सिद्धम्।।11।।स्फयादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणम्।।5।।

अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्।।12।।

ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते,अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति। तत्र सन्देहः। किम् अरुणिमा कृत्स्नप्रकरणे निविशेत, उत क्रय एवैकहायन्यामिति।कथं पुनररुणया क्रीणातीत्येव विस्पष्टे क्रयसम्बन्धे गम्यमाने संशय इति।उच्यते।इह हि गुणम् अरुणिमानममूर्त्तं सन्तं क्रियायाः करणमिति शब्द उपदिशति। यत् करणाभिधायिन्या तृतीयाविभक्ता संयुज्य निर्द्दिशति, अरुणयेति।न चामूर्त्तोऽर्थः क्रियायाः साधनं भवितुमर्हति।अतोऽसम्बन्धं क्रीणातिनाऽरुणगुणस्यावगच्छामः। न च अशकनीयमर्थं प्रमाणभूतः शब्दोऽभिधास्यतीत्येवं प्रकल्पना कदाचिदुपपद्येताऽपि। केनचित् प्रकारेण सम्बन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर्भवति। तद् यदि परं विचारयन्तः क्रियासम्बन्धसामर्थ्यमवगमिष्यामः। एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः।अथ त्वप्रमाद्यद्भिरन्विष्यमाणो न कथञ्चन सम्बन्ध उपपत्स्यते,ततो वाक्यभेदमभ्युपगम्य प्रकरणधर्ममेनमध्यवसास्यामः।तस्मादवश्यं विचारणीयमेतदिति। किं तावत् प्राप्तम्। कृत्स्ने प्रकरणे निवेशः। कस्मात् संयोगतोऽविशेषात्,प्रकरणाविशेषाञ्च।ननु प्रकरणाद् वाक्यं बलीयो भवतीत्येकवाक्यत्वादरुणिमा क्रयेण सम्भन्त्स्यते इति। नैतदेवमवगम्यते। न हि वचनशतेनाप्यनारभ्योऽर्थः शक्यो विधातुम्। यो हि ब्रूयाद् उदकेन दग्धव्यमग्निना क्लेदयितव्यमिति,किं स वचनप्रयोजनसामञ्जस्यमश्नुवीत। न चामूर्त्तोऽर्थः क्रियायाः साधनमुपपद्यते। तस्मादरुणया क्रीणातीति सम्बन्धाभावादेकवाक्यता न भवतीति। ननु नैवायं गुणवचनः।किं तर्हि। द्रव्यवचनः कुतः।स्त्रीलिङ्गसम्बन्धात्।द्रव्यविशेषा ह्येते स्त्री पुमान् नपुसकमिति। स्त्रियां यत् प्रातिपदिकं वर्त्तते,तस्मात् स्त्रीप्रत्ययो भवतीति स्त्रीप्रत्ययञ्चारुणेयेत्युपलभामहे। तस्माद् द्रव्यवचनोऽरुणशब्द इति।तदेतदपेशलम्। तदेव हि द्रव्यमरुणिम्ना परिच्छिद्यमानमरुणाशब्दाभिधानीयतां लभते। तदेवान्यगुणकं नारुणशब्दः शक्नोत्यभिवदितुम्। अरुणिमानमेष शब्दो न व्यभिचरति। व्यभिचरति पुनर्द्रव्यम्।अव्यभिचारि च

कारणं कारणवतामिष्टम्। अतोऽस्य गुणः स्वार्थ इति गम्यते। तदस्य प्रत्यक्षतो गुणवतनता गम्यते। स्त्रीप्रत्ययदर्शनात्तु नूनम् अरुणा-प्रातिपदिकं द्रव्यवचनमित्यनुमानम्। प्रत्यक्षञ्चानुमानाद् बलीयः। तस्माद् गुणवचनः। कथं तर्हि स्त्रीप्रत्ययसम्बन्धः।भवति हि गुणवचनस्यापि स्त्रीलिङ्गता।यथा चाऽरुणा बुद्धिः,एवमरुणा इति। गुणवचनश्चेत् क्रीणातिनान सम्बद्ध्यते।तस्माद् वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्नेव सन्निवेश इति।।

अथ यदि क्रीणातिना न सम्बद्ध्यते तस्मिन्नेव वाक्ये एकहायनीशब्देन संभन्त्स्यते,न भविष्यति वाक्यभेद इति।तन्न।केवलं हि गुणमरुणशब्दोऽभिदधाति,न द्रव्यगुणौ। क्वलञ्च द्रव्यमेकहायनीशब्दो,न गुणसहितमिति तयो सम्बन्धस्य वाचिकां षष्ठीमन्तरेण कथं सम्बन्धो गम्यते। आह। अन्तरेणापि षष्ठीम् एकविभक्तिनिर्देशात् सामानाधिकरण्यमवगमिष्यामः। यथा नीलमुत्पलमिति। तदुपपन्नं,रूपादरुणशब्दस्य गुणवचनता कल्पीयन्त्वेकविभक्तिसंयोगादेकहायनीशब्दसन्निधानाञ्च तदेकवाक्यतामभ्युपगम्य एकहायनीशब्दसामानाधिकरण्यम्। न च लिङ्गाद्वाक्यं बलीयः।तस्मादसदेतत्।149तत्रोच्यते।यदा केवलगुणवचनतायां शब्दः प्रवत्तमानो न्यायेन सम्बन्धं लभते,तदाऽनुपदेशकत्वादानर्थक्यं मा भूदिति द्रव्यपरतामापद्येत।तस्यामवस्थाया#ेकविभक्तियुक्तेन एकहायनीशब्देन सन्निहितेनैकवाक्यतामापद्यमानः समानाधिकरणो भवति।तथा च कृत्वा,नीलमुत्पलमित्युपपद्यते।स चायमरुणाशब्दस्तस्यामवस्थायां वर्त्तते। न हि अस्य स्वार्थमभिदधत इतो विच्छिन्नस्य प्रकरणोऽप्यर्थवत्ता। कुतः।येनैव हेतुना सम्बद्ध्यते,क्रीणातिना न ।नामूर्त्तोऽर्थः क्रियायाः साधनं भवतीति। न च क्रियासाधनैर्द्रव्यैः।न हि केवलगुणवचनः शक्नोति द्रव्यमभिधातुमिति स एव हेतुः प्रकरणसम्बन्धाभावोऽपि।तत्रापि सम्बध्यमानः क्रियाभिर्वा सम्बद्ध्येत।तत्साधनैर्वा द्रव्यैः। तच्चोभयमप्यनुपपन्नम्।अतोऽनर्थकत्वपरिजिहीर्षया सन्निहितेनैकहायनीशब्देनारुणाशब्दः सम्बद्ध्यते।नास्ति वाक्यभेदः।नैतदेवम्। न ह्ययमरुणाशब्द एकहायनीविशेषणं भवितुमर्हति।किं कारणम्।करणविभक्त्या तृतीयया

समुच्चरितोऽयं,तेनैतेन तृतीयाश्रुतिसामर्थ्यात् क्रियाविशेषणेन भवितव्यम्।कारकाणां हि क्रियया सम्बन्धो न द्रव्येणेति।स एष श्रुतिसामर्थ्यात् क्रियाविशेषणमेकहायनीविशेषणम्।श्रुतिश्च वाक्याद् बलीयसी।तस्मान्नास्यैकहायनीविशेषणम्।ननु च गुणस्य क्रियासम्बन्धाभावादविवक्षिता कारकशक्तिरिति एकहायनीसम्बन्धोऽयमध्यवसितः।एवमपि नोपपद्यते। यदि कारकाभिधानमविवक्षितमिति गुणशब्देनैतेन द्रव्यमभिधातुमिष्यते,तदा प्राप्तिपदिकाऽर्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति। न हि तृतीयान्तस्तमभिसम्बन्धं शक्नोति वक्तुम्। न चान्यथानुपपत्तिरित्यन्योऽस्यानुपपपद्यमानोऽर्थः शक्यते कल्पयितुम्।यथा,अग्नौ तिष्ठति माणवक इत्युक्ते ज्वलनेऽनुपपद्यमानो न अश्वे गवि वा कल्प्यते।अग्निसमीपवचन एवाध्यवसीयते।तद्वदिहाप्यप्रथमान्तः शब्दो न कथञ्चिदप्यव्यतिरिक्ते प्रातिपदिकार्थे भवितुमर्हतीति। तस्मात् काममनर्थकोऽवगम्यतां,नास्यैकहायनीसम्बन्धोऽध्यवसातव्यः।आह।न ब्रूमो,न कारकमरुणाशब्देनाभिधीयते इति। व्यक्तमरुणगुणविशिष्टमेतेन कारकमभिधीयते। कदाचित्तु किञ्चित् विधित्सितं भवति,कदाचिदुपर्जनीभूतोऽर्थो विधित्सितः,प्रधानीभूतोऽनुवादः।तद्यथा,दण्डीत्युपसर्ज्जनीभूतदण्डकपुरुषप्रधानकः शब्दोऽवगम्यते। कदाचित्तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थमुच्चार्य्यते।दण्डी प्रैषानन्वाहेति।यथा,लोहितोष्णीषा ऋत्विजः प्रचरन्तीति।एवमिहापि यद्यनुपसर्ज्जनभूतोऽरुणो गुणः,प्रधानभूतं कारकम्।तथाप्यनूदिते कारकेऽरुणगुणविधानार्थं वचनं युज्यते।तस्माद् एकहायनीसम्बन्ध उपपद्यते,नास्ति वाक्यभेद इति।नैतत्सारम्।अत्र हि एकहायनीक्रीणात्योरनवबुद्धं सम्बन्धं बोधयितुमयमेकहायनीशब्द उच्चरितः।स एष कथमिवारुणाशब्देन सम्बद्ध्यते,तदेतदभिहितमपि पुनः पुनः पर्य्यनुयुज्यते। कथं पुनरेकहायनीशब्दस्य क्रीणातिना,अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना सम्बन्धोऽब्युपगमनीयो?न पुनरारुण्येनेति। शब्दप्रामाण्यात्।भवति हि क्रियासम्बन्धस्य वाचिका विभक्तिरेकहायनीशब्दमनुनिविष्टा,न तु गुणसम्बन्धस्य वाचिका। का पुनः क्रियासम्बन्धस्य

वाचिका,का वा गुणसम्बन्धस्येति। कारकलक्षणा,क्रियासम्बन्धे विविक्षिते भवति द्वितीयादिः। अविवक्षिते पुनः कारके सम्बन्धमात्रविवक्षायां षष्ठी। न चात्र षष्ठीं पश्यामः। पश्यामस्तु खलु तृतीयाम्।अतः क्रीणातिना सम्बन्धमभ्युपगच्छाम एकहायनीशब्दस्य,नारुणाशब्देनेति।कथं तर्हि भवत्यत्र सम्बन्धो,नीलमुत्पलमिति।उच्यते। भवति,न तु श्रुतिलक्षणः,किं तु वाक्यलक्षणः। उत्पलशब्दसन्निधाने तदपेक्षी नीलशब्दस्तेनैकवाक्यतामभ्युपगच्छन्नाजहत्स्वार्थवृत्तिरुत्पलविशेषाभिधानपर उच्चार्य्यमाणः सम्बन्धमभ्युपैति।

नन्विहापि वाक्यलक्षणस्तद्वदेवारुणिम्ना समं सम्बन्ध एकहायन्या युज्यते। नेति ब्रूमः।श्रुतिर्हि वाक्याद् बलीयसी श्रुतिश्चास्याः क्रियासम्बन्धमाह,न गुणसम्बन्धम्। यदि पुनः श्रुतिसामर्थ्यात् क्रियासम्बन्धोऽभ्युपगम्येत,एकवाक्यत्वादपि गुणसम्बन्धः। नैवं शक्यम्।यो ह्यन्येन सह सम्बन्द्धुमुच्चार्य्यते,न तत्समीपगतोऽप्यन्यस्तेन सह सम्बन्द्धुमर्हति। यथा,भार्य्या राज्ञः,पुरुषो देवदत्तस्येति भार्य्याविशेषणार्थमुच्चार्यमाणो राजशब्दो न पुरुषेण सम्बध्यते।तद्वदिह क्रियाविशेषमार्थम् उच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन सम्बन्धमर्हति।आह।सत्यमेवमेतत्।असत्यामाकाङ्क्षायामानन्तर्यमकारण्।सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते,नान्यथा। सामान्यवृत्ति हि पदं,विशेषवृत्ति वाक्यम्। सामान्येनाभिप्रवृत्तानां पदार्थानां यद्विशेषेऽवस्थानं स वाक्यार्थः।तदेतदुक्तं,तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वादिति। तत्र प्रत्यक्षादिभिः पदार्थो,वाक्यार्थः पुनरानुमानिकः।तदेतदवगम्यताम्। केवलस्वार्थवृत्ति पदमनुपदेशकमिति पदान्तरेण सन्निहितेनैकवाक्यत्वमभ्युपैति,नान्यथेति।तदिह यद्यप्येकहायनीशब्दः क्रीणातिना सम्बध्यमानः कृतार्थो न पदान्तरेण सम्बन्धमाकाङ्क्षति,अरुणशब्दस्तु पदान्तरेण सम्बन्धमलभमानोऽनर्थक इत्येकहायनीशब्देनैकवाक्यतामभ्युपैति।ननूक्त- क्रियासम्बन्धार्थो,नारुणासम्बन्धार्थ इति।आह।अरुणाशब्दस्यानर्थक्यपरिहारायोभयसम्बन्धार्थ इति वदामः। अन्यार्थमपि कृतमन्यार्थमपि शक्नोति कर्त्तुम्।तद् यथा,शाल्यर्थं कुल्याः प्रणीयन्ते,ताभ्यश्च पानीयं पीयते उपस्पृश्यते च।एवमिहापि क्रयसम्बन्धार्थमेकहायनीशब्द उच्चार्य्यमाणोऽरुणाशब्देन सह सम्भन्त्स्यते,न किञ्चिद् दुष्यति।तस्मान्न वाक्यभेद इति।नैतदस्ति।यद्यप्ययमरुणाशब्दोऽनर्थको मा भूदित्येकहायन्या सम्बद्ध्येत,तथापि सर्वस्मिन् प्रकरणे निवेष्टुमर्हति। न चैनं,सोमं क्रीणाति इत्येष शब्दः शक्नोति विशेष्टुम्। न ह्ययं विशेषमत्वेवोच्चार्यते,किं तर्ह्यपूर्वोऽयं विधीयते।

नन्वपूर्वोऽपि विधीयमान एकहायनीशब्दवदितरेण सम्भन्त्स्यते।कथम्।प्रयोजनाय ह्युच्चार्यमाणः शब्दो येनार्थस्तस्मै तावत् प्रयोजनायावकल्प्यते।सन्निहितश्च बुद्धौ भवति। तेन बुद्धौ सन्निहितेन शक्यते साकाङ्क्षः शब्दः सम्बन्धयितुमिति।नैतदेवम्।यो ह्यसम्बद्ध्यमानोऽनर्थको भवति स सम्बद्ध्यते,नान्यः।

कुत एतत्।सम्बध्यमाने हि सामान्यं विशेषे अवस्थाप्येत।तत्र वाक्येन श्रुतिः पीडिता स्यात्। न चायमसम्बद्ध्यमानः क्रीणातिनाऽर्थको भवति।प्रकरणगताभिरेकहायनीभिरभिसम्भन्त्स्यते।

नन्वेतदुक्तम्।प्रकरणेऽप्यस्य सम्बन्धोऽनुपपन्न इति।नानुपपन्नः। एकस्मिन् वाक्येऽन्योऽर्थो विधीयमानो नान्येन सम्बध्यते वचनव्यक्तिभेदात्।अन्या हि वचनव्यक्तिर्विधीयमानस्य,अन्यगुणेन सम्बद्ध्यमानस्य। अज्ञातवज्ज्ञाप्यते विधीयमानोऽर्थो ज्ञातवदनूद्यते गुणसम्बन्धार्थम्। न च सकृदुच्चार्यमाणो ज्ञातवदज्ञातवच्च भवितुमर्हति। एकहायनीशब्दः क्रये विधीयमानोऽज्ञातवत् स्यात्। अरुणाशब्देन सम्बध्यमानश्च ज्ञातवत्।वाक्यभेदे पुनर्न दोषो भवति,प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणि च प्राप्तानि। तैरिदं वाक्यान्तरविहितं सम्बद्ध्यते।तत्रान्यस्मिन् विधीयते,अन्यस्मिन् वाक्येऽनूद्यते इत्युपपन्नं भवति।तस्मात् संयोगतोऽविशेषात् प्रकरणाविशेषाच्च सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति।एवं प्राप्ते ब्रूमः। अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति।यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोस्तत्र द्रव्यगुणावेकस्मिन् पदार्थे नियम्येयाताम्। कुतः

ऐककर्म्यादेककार्य्यत्वात्। एकं हि कार्य्यं द्रव्यगुणयोः श्रूयते क्रयसम्बन्धः।कथमेतदवगम्यते। एकवाक्यत्वात्।कथमेकवाक्यत्वम्। अरुणया पिङ्गाक्ष्या एकहायन्येति अपर्यवसितोऽर्थः साकाङ्क्षत्वादभिघातृप्रतिपत्त्त्रोः।सोमं क्रीणातीति तु पर्यवस्यति। तयोरोव नैरुत्सुक्यात्।यद्येककार्य्यता,किमिति विकल्पो न भवति।नैतदेवम्।एकार्थास्तु विकल्पेरन्निति विकल्पधर्माणौ प्राप्नुत इत्यऽयुक्तोऽयं पर्य्यनुयोगः।कथम्। पर्य्यनुयोगो नाम स भवति,यः स्वपक्षं साधयति,विपक्षस्य च प्रतीपमाचरन्ति।न च विकल्पोऽस्मत्पक्षस्य प्रतीपमाचरति।क्रयेणारुणिमासम्बन्ध इत्येष नः पक्षः। न च विकल्पो नानाकार्य्यत्वात्। नन्विदानीमेवोक्तम्-एकं कार्य्यमिति। तच्चारि विरुद्धम्। एवं हि पूर्वमभिहितम्।अमूर्त्तत्वात्।गुणो न क्रियया सम्बद्ध्यते इति।इदानीं विपरीतमभिधीयते।उभावपि द्रव्यगुणावेकार्थौ क्रयमभिनिर्वर्त्तयत इति।उच्यते। नैतद्विरुद्धम्। न च विकल्पः,एकं कार्य्यम्। सामर्थ्यभेदस्तु।साक्षाद्हि द्रव्यं क्रियां प्रत्युपकरोति,गुणस्तु विशिष्टानां साधनम्।यद्येवं न तर्हि गुणः क्रियामभिनिर्वर्त्तयति,साधनस्यासौ विशेषक इति।नैतदेवम्।गुणस्य क्रियामभिनिर्वर्त्तयत एतदेव सामर्थ्यं,यत् साधनं विशिष्यात्।आकाङक्षति च क्रिया साधनविशेषणम्।चिह्नभूतो हि गुणः सादनं लक्षयति।असति चिह्ने न लक्ष्येत। कतमत् साधनं क्रियाया इति।ततः क्रियां नाध्यवस्येम कर्त्तुमिति भवति क्रियासाधनं गुणः।न चैवं सति विकल्पो भवति। यथाऽधिकरणस्य कर्त्रादीनाञ्च।अधिकरणं हि कर्त्रादीनि धारयति।तान्यधार्यमाणानि न शक्नुवन्ति क्रियामभिनिर्वर्त्तयितुम्।तथा कर्त्ता करणादीनि समाधत्ते। तान्यसमाहितानि न शक्नुवन्ति स्वं स्वमर्थमभिनिर्वर्त्तयितुम्।यÏस्मस्तु साधनोपकारो कार्ये तस्मिन्नेवोपकारेऽन्यत् साधनं विधीयते,तत्र विकल्पः। यथा व्रीहिभिर्यजेत,यवैर्यजेतेति।उभयेऽपि तण्डुलनिर्वृत्त्यर्थाः।एवं तर्हि तदेवेदं सञ्जातम्। भवत्येकहायनीवधानं,तद्विशेषणञ्चारुणो गुणः। तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति।न ब्रूमोऽरुणाशब्द एकहायनीशब्देन सम्बद्ध्यते इति,किं तर्हि -क्रीणातिनैव सम्बद्ध्यते। एवं हि श्रूयते-अरुणगुणेन क्रयमभिनिर्वर्त्तयेदिति। यथा च तेन निर्वर्त्तयेदिति।यथा च तेन निर्वत्र्त्यते,तथा यतितव्यं भवति।न चाविशिंषन् साधनं,गुणः क्रियामभिनिर्वर्त्तयतीत्यर्थात् साधनविशेषणतां प्रतिपद्यते। यथा स्थाल्यां पचेदिति क्रियासाधनत्वेन निर्द्दिष्टेऽर्थात् सम्भवने धारणे च स्थालीं व्यापारयति तद्वदिहापि द्रष्टव्यम्।तस्मान्नास्ति वाक्यभेदप्रसङ्ग इति।।

नन्वेवमपि वाक्यं भिद्येत।कथम्।प्रत्येकं वाक्यपरिसमाप्तिर्द्दृष्टेति।यथा देवदत्त-यज्ञदत्त-विष्णुमित्रा भोज्यन्तमिति प्रत्येकं भुजिः समाप्यते।यथा च,यस्य पिता पितामहः सोमं न पिबेदिति। एवमिहाप्यरुणया क्रीणाति,एकहायन्या क्रीणातीति।नैतदस्मत्पक्षस्य बाधकम्।एवमपि क्रयं एवारुणिमा निवेक्ष्यति,न सर्वस्मिन् प्रकरणे इति।सत्यमेष दोषो न भवति,किन्त्वनरुणयाप्येकहायन्या क्रयः प्राप्नोति,अरुणया चानेकहायन्या।तत्र यदुक्तं द्रव्यगुणयोर्नियम इति,सा प्रतिज्ञा हीयते।न तर्हि ब्रूमो वाक्यभेद इति।कथम्। क्रयस्य हि द्रव्यारुणिमानावुपदिश्येते,न क्रयस्तयोः। न च प्रधानं प्रतिगुणं भिद्यते,प्रतिप्रधानं हि गुणो भिद्यते इति।अस्ति चायं दृष्टान्तः ।समुदाये वाक्यपरिसमाप्तिरिति।यथा गर्गाः शतं दण्ड्यन्तामिति।तथआ अभिषुत्य हुत्वा भक्षयन्तीति। तस्मादुभयविशेषणविशिष्टः क्रयो विधीयते।कथं पुनस्तÏस्मश्चेतरÏस्मश्च दृष्टान्ते सति एकान्तेनावधार्य्यते।समुदाय एव वाक्यपरिसमाप्तिर्न प्रत्यवयवमिति।अत्र ब्रूमः। इह द्रव्यारुणिमानावुभावपि क्रियासम्बद्धावुपलभ्यते परस्परेणासम्बद्धौ।क्रयोऽपि द्रव्यारुणिमभ्यां विशिष्ट उपलभ्यते,नान्यतरेण। तत्र यदि द्रव्यपरमरुणिमपरं च भवति वचनमिदं,ततः प्रत्यवयवम् असंशयं क्रयसम्बन्धः।अथ क्रयविधित्सयाऽभिधीयते,ततो यथैवायम् एकहायनीविशिष्ट एवम् अरुणिमविशिष्ट इति नियमत उभयसम्बन्धोऽभ्युपगमनीयः। न चात्र

द्रव्यारुणिमानावीप्सितौ।ईप्सितस्तु क्रयः। तेन हि ज्योतिष्टोमद्रव्यं सोम परिप्राप्यते।द्रव्यारुणिमानौ क्रयार्थौ सन्तावीप्सितौ स्यातां,नान्यथा।तस्मात् क्रयो विधीयते। स च नान्यतरविशिष्टः प्रतीयते इति समुदाये वाक्यपरिसमाप्तिरिह

निश्चीयते।यदा चैवं तदा नैकहायनीं मुक्त्वाऽन्यद् द्रव्यं क्रयसाधनमस्ति।न च अरुणादन्यः साधनस्य विशेषको गुण इति नियमः सिद्धो भवति।अत्र वदामः। यदि क्रयस्य साधने गुणोऽभिसम्बन्धमुपैति,तदा वाक्ये भिन्नेऽपि क्रयसाधनत्वादरुणिमास्मिन् द्रव्ये न निवेक्ष्यते,किमर्थमेकवाक्यता प्रयत्नेन साध्यत?इति।तदेतदभिधीयते।भिन्ने हि वाक्ये एकहायनीसाधनकः क्रयोऽवबुद्धो भवति। अरुणासाधनमपि क्रयान्तरम्। न तस्मिन्नेवैकहायनीसाधने क्रये अरुणिमाविहितो भवति तत्र यत् क्रयान्तरमरुणगुणविशिष्टं तत्रार्थात् प्राप्तमन्यदपि साधनं भवति।तदपि विशिंषन्नरुणो गुणस्तेन सम्बध्येत। एकवाक्यत्वे तु तत् परिहृतं भवति।तस्मात् साधु अभिधीयते। अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति।12।।आरुण्यादिगुणानामसंकीर्णताऽधिकरणम्।।6।।आरुणिन्यायः।।

एकत्वयुक्तमेकस्य श्रुतिसंयोगात्।।13।।

अस्ति ज्योतिष्टोमः।य एवं विद्वान् सोमेन यजते इति।तत्र श्रूयते। दशापावत्रेण ग्रहं समार्ष्टीति।तथा अग्निहोत्रे श्रूयते,अग्नेस्तृणाम्यपचिनोतीति।तथा दर्शपूर्णमासयोः श्रूयते पुरोडाशं पर्यग्निकरोतीति। तत्र सन्देहः।किमेकस्य ग्रहस्य,एकस्य अग्नेः, एकस्य पुरोडाशस्यं च सम्मार्ज्जनादि कर्त्तव्यम्?उत सर्वेषां ग्रहाणां,सर्वेषामग्नीनां,सर्वेषां पुरोडाशानामिति।किं प्राप्तम्। एको ग्रहः,एकोऽग्निः,एकः पुरोडाश इह ग्रहीतव्यः। कुतः। श्रुतिसंयोगात्।एकत्वश्रुतिसंयुक्ता एते पदार्थाः। एकं हि द्रव्यमेषु श्रूयते। शब्दलक्षणे च हि कर्म्मणि यच्छब्द आह तदस्माकं प्रमाणम्।यथा पशुमालभेतेत्युक्ते एक एव पशुः पुमाश्चांलभ्यते।एवमत्राप्येको ग्रहः सम्मार्ज्जनीयः,एकस्य अग्नेस्तृणान्यपचेयानि,एकः पुरोडाशः पर्यग्निकर्त्तव्य इति।।13।।पूर्वपक्षः।।

सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम्।।14।।

नैतदस्ति।ग्रहादिष्वेकत्वयुक्तेष्वमी पदार्थाः कर्त्तव्या इति।सर्वे ग्रहाः संमार्ष्टव्याः,सर्वेभ्योऽग्निभ्यस्तृणान्यपचेयानि,पुरोडाशमात्रञ्च पर्य्यग्निकर्त्तव्यमिति।कुतः। ग्रहजात्या द्रव्यं लक्षयित्वा सम्मार्गादि विधीयते।अविशिष्टञ्च लक्षणं सर्वद्रव्येषु। तत्र न गम्यते विशेषः।को ग्रहः सम्मार्ष्टव्यः को नेति।सामान्यावगमाद्विशेषानवगमाञ्च सर्वप्रत्ययः तथाऽग्निपुरोडाशानामपि।नन्वेकवचनं श्रूयते,तद्विशेक्ष्यति।नैतदस्ति।एकत्वं हि श्रूयमाणं द्रहादिष्वेकत्वं ब्रूयाद्,न द्वितीयादीन् प्रतिषेधात्।एकत्वस्यासौ वाचको न द्वितीयादेः प्रतिषेधकः।तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं सम्मार्जनादि किमिति न क्रियेत।तत्रैतत् स्यात् एकवचनमिह श्रूयमाणं प्राप्ते एवैकस्मिन् द्रव्ये,द्वितीयादिषु च,किमन्यत् कुर्य्यादन्यतः परिसंख्यायाः।न चेदेकवचनं परिसञ्चक्षीत द्वितीयादीन्,अनर्थकमेव स्यात्।शक्नोति च द्वितीयादीन् निवर्त्तयितुम्।यथा,अश्वाभिधानीमादत्तं इति गर्द्दभाभिधानं परिसञ्चष्ट,एवमत्रापि द्रष्टव्यमिति।नैतदेवम्।तत्र मन्त्रस्याभिधान्याश्च यः सम्बन्धस्तदभिधानपरं वचनम्।इमामगृम्णन्नित्यश्वाभिधानीमिति।न अनेन मन्त्रेण,आदत्ते इति लिङ्गेनैवादाने प्राप्तत्वान्मन्त्रस्य परिसंख्या युक्ता। इह पुनर्यदेकवचनं द्रव्ये श्रूयते,तत् श्रूयमाणमप्यविधीयमानत्वेन न निवर्त्तकं भवितुमर्हति।यथा कश्चिदोदनं निर्दिश्य ब्रूयात्,य एनं भक्षयेत् कश्चित् श्वा मार्ज्जारो वा ,स निवारयितव्य इति।तत्र यदि भक्षणं निमित्तत्वेन विधीयते,न श्वमार्ज्जारसम्बन्धस्ततः काकोऽप्यागच्छन् निवार्य्यते श्रूयमाणेऽपि शुनि मार्ज्जारे वा श्वमार्ज्जारसम्बन्धस्य निमित्तत्वेनाविधीयमानत्वात्।एवमिहाप्येकत्वसम्बन्धस्य अविधीयमानत्वाच्छ्ररूयमाणेऽप्येकत्वे ग्रहमात्रं संमृज्येतेति। न चात्र द्रव्यैकत्वसम्बन्धविधायकः कश्चिच्छब्दोऽस्ति।ननु सम्मार्ष्टीति।न ह्येतद् द्रव्यैकत्वसम्बन्धस्य विधायकम्। कस्य तर्हि।द्रव्यसंमार्गसम्बन्धस्य विधायकम्।एवं श्रुत्या स्वपदार्थो विहितो भवति।इतरथा वाक्येन परपदार्थो विधीयेत।श्रुत्यसम्भवे च वाक्यं क्रमते,न सम्भवन्त्यां श्रुतौ।अतोऽविधीयमानं विशेषणत्वेन एकत्वं ,न द्वितीयादीन् प्रतिषेद्धुमर्हति।एवं सति न द्वितीयादौ सम्मार्गादि क्रियमाणमचोदितं भवति,प्रतिषिद्धं वा। यथैव हि तदेकस्य श्रुतमवगम्यते तथा द्वितीयादेरपि। अयं चापरो दोषः। न तदेकत्वं द्रव्यस्य सम्मार्गादौ विषये नियम्येत।न हि

सम्मार्गादिर्यस्मिन् द्रव्यं एकत्वं नियम्येत तस्य विशेषणत्वेन भवति।विधीयते ह्यत्र सम्मार्गादिः। न प्राप्ते लक्षणत्वेन द्रव्यस्याम्नायते। नहि योगपद्येन विधातुं शक्यते,लक्षणत्वेन चोच्चारयितुम्।प्रसिद्धसम्बन्धो हि शक्नोति लक्षयितुम्। व चाविहित एवञ्जातीयकः शब्दावगम्यः प्रसिद्धसम्बन्धो भवति। विधीयते च सम्मार्गादिः।तस्मान्न विशेषकः।न चेद्

विशेषकः,न द्रव्ये एकत्वं नियम्यते इति शक्यमाश्रयितुम्। अथैकत्वं सम्मार्गे उच्यते। तत्रापि द्वयि गतिः स्यात्।एकत्वं प्रधानं, सम्मार्गो वा।तच्चोभयमप्यनुपपन्नम् न। तावदेकत्वस्य सम्मार्गः शक्यते कर्तुम्। न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित् प्रकारेण। न चैकत्वस्योपकृतेन किञ्चिद् प्रयोजनमस्ति।न हि तद्गुणभूतं श्रुतम्।अथैकत्वं सम्मार्गं प्रति गुणभूतमिति।तदपि न।कथम्। अमूर्त्तत्वात्। न हि तत् सम्मार्गं निष्पादयति। यद्यप्यन्यदमूर्त्तं क्रियां निष्पादयति साधनं विशिंषत्,तथाप्योतन्न भवितुमर्हति।न ह्यत्र ग्रहः सम्मार्गार्थः,सम्मार्गोऽत्र ग्रहाय चोद्यते। स हि प्रयोजनवान्, कल्प्यप्रयोजनः सम्मार्गः। यदि ग्रहः सम्मार्गस्योपकुर्य्यात् तदुपकारिण उपकरोतीति सम्मार्गस्योपकारकमेकत्वं भवेत्। न त्वेतदेवम्।तस्मादेकत्वसम्मार्गयोरसम्बन्धः।ननु प्रधानभूतमपि ग्रहादि सम्मार्गं निष्पादयत्येव। अतस्तत्साधनं तच्च विशिंषत् तदुपकरिष्यति।यथा इज्यार्थे दधनि पयसि च प्रणीता धर्म्माः पाके उपकुर्वन्ति।परिधानार्थे च परिधौ यूपधर्म्मा बन्धने। तस्मादयम् असमाधिरिति।अत्रोच्यते।न ब्रूमः। अतदर्थे साधके न शक्नुवन्त्युपकर्तुमिति। किं तर्हि यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते,न तदकत्वस्य ग्रहादिना सम्बन्धो,न सम्मार्गादिनेति।कथम्। यावदिह लक्षणत्वेन किञ्चिदुच्यते,संवादस्तत्र भवति। न तु तद्विधीयते विज्ञानाय। किमर्थं तर्ह्युच्चार्यते।अन्यत्तस्य किञ्चिद् विधायिष्यते इति।तदेतद् ग्रहादि लक्षयित्वा तस्य सम्मार्गादि विधीयते।तद् यद्येकत्वसम्बन्धोऽपरो ग्रहद्रव्ये सम्मार्गादौ वा पदार्थे विधीयेत,द्वयोः सम्बन्धयोर्विधानाद् भिद्येत वाक्यम्। अथोच्यते,ग्रहादि लक्षयित्वा तस्यैकत्वसम्बन्धो विधीयते,न सम्मार्गादिसम्बन्ध इति।तथाच सम्मार्गादीनामध्ययनं प्रमाद इत्यभ्युपगतं स्यात्। नचैतदेवम्।तस्मादुभाभ्यामेकवचनस्यासम्बन्ध इति।एवमेतदेकत्वं ग्रहस्य न किञ्चिदुपकारं करोति,न सम्मार्गस्यैवमेव सदनूद्यते।तस्मान्नैतत् किञ्चिदपि कर्तुं विवक्ष्यते इति सर्वेषां ग्रहादीनां सम्मार्गादि कर्त्तव्यमिति। कुतः।संयोगतोऽविशेषात् प्रकरणाविशेषाच्च।यद्यविवक्षितमेकत्वं,कथं तर्ह्येकवचनमुच्चार्यते।ननु बहुषु विवक्षितेषु बुवचनेन भवितव्यम्।उच्यते। न वयमेतद्विचारयामः- एकवचनमुच्चारयितव्यं,नोच्चारयितव्यमिति।उच्चार्य्यमाणे सति किं प्रतिपत्तव्यम्।एकस्मिन्नेव सम्मार्गादि?उत सर्वेष्विति।तच्च सर्वेष्विति स्थापितम्।अपि च,न विभक्तेर्वतनमेवैकं प्रयोजनम्।किं तर्हि।कारकसम्बन्धोऽपि। अविवक्षिते एकत्वे कारकसम्बन्धार्थमयस्योच्चारणं भविष्यति।तस्मान्नानर्थकम्।

अपि च,ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः। किमतो यद्येवम्। एतदतो भवति।प्रातिपदिकार्थगतं हि विभक्तिः स्वमर्थं श्रुत्यैव वदति।अथैवं सति किं न सम्मार्गेण सम्भन्त्स्यते ?इति।तेन हि सम्बध्यमानं वाक्येन सम्बद्ध्येत।न च श्रुत्याऽन्येन सम्बध्यमानं वाक्येनाच्छिद्यान्येन सम्बन्धमर्हति। असम्बध्यमानस्त्वेकत्वेन सम्मार्गो यदि नैकत्वविशिष्टः क्रियते,न किञ्चिद् विपन्नं भवति।नचैकत्वविशिष्टः सम्मार्गादिर्ग्रहादिमात्रस्य च विधीयते इति किमिति द्वितीयस्य तृतीयस्य च न क्रियेतेति।।14।।

चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेत।।15।।

अथ यदुक्तं-यथा,पशुमालभेतेत्येक एव पशुः पुंपशुश्चालभ्यते,एवमिदमपीति। अस्त्यत्र वैपरीत्यम्।इह ग्रहार्थः सम्मार्गः।तत्रपुनर्यागार्थः पशुः।किमेवं सति भवति।यो यागार्थं परिच्छिनत्ति स यागस्योपकरोति।अपरिच्छिन्नेन न शक्यो यागः कर्तुमिति।न तु ग्रहेण केनचिद्विशिष्टेन सम्मार्गः कर्त्तव्यो यद् ग्रहं विशिंषत् सम्मार्गस्योपकुर्य्यात्।पशोश्चैतदेकत्वं यागं प्रत्युपदिश्यते। ननूक्तं,प्रातिपदिकार्थगतं स्वमर्थं विभक्तिः श्रुत्यैवाभिवदतीति।यागे एतद् वाक्येन विधास्यति। तत्र वाक्याच्छ्ररुतिर्बलीयसीत्युक्तम्।सत्यं,यत्र श्रौतोऽभिसम्बन्धो विवक्ष्यते।अविवक्ष्यमाणे च वाक्यावगतः

सन्नपर्य्युदसितव्यो भवति। तस्मादेकः पुंपशुश्चालभ्यते इति,ग्रहैकत्वं न सम्मार्गस्योपकरोतीति,न ग्रहं शक्नोति विशेष्टुम्।तस्मादऽविवक्षितमिति।।15।।आ0नि0।।सर्वेषां ग्रहादीनां सम्मार्गाद्यधिकरणम्।।7।।ग्रहैकत्वन्यायः।।

संस्काराद्वा गुणानामव्यवस्था स्यात्।।16।।

अस्ति ज्योतिष्टोमः।तत्र श्रूयते,दशापवित्रेण ग्रहं सम्मार्ष्टीति।तत्रैषोऽर्थोऽधिगतः,सर्वे ग्रहाः सम्मार्जितव्या इति।इदमिदानीं संदिह्यते।किं चमसा अपि सम्मार्ष्टव्या,उत नेति।किं तावत् प्राप्तम्।चमसाद्यपि सर्वं सम्मार्ज्यमिति।कुतः। संयोगतोऽविशेषात् प्रकरणविशेषाञ्चेति।यथैव हि ग्रहाणामपूर्वसम्बन्ध,एवं चमसानामपि।यथैव च ग्रहा अस्मिन् प्रकरणे,एवं चमसा अपि।तस्मात् सर्वत्र सम्मार्गः। ननु ग्रहाः श्रूयन्ते,ते चमसानां निवर्त्तका भविष्यन्ति।उच्यते।प्रदर्शनार्थं ग्रहग्रहणं भविष्यति। ग्रहादि सोमपात्रम्।यस्मिन् गृह्यमाणः सोमो व्यवसितच्येतेत्येवमाशङ्क्यते,तत् सर्वं सम्मार्जितव्यम्। यथा भोजनकाले वर्त्तते,स्थालानि सस्मृज्यन्तामित्युक्ते,यानि यानि भोजने उपयोगमर्हन्ति,तानि तानि सर्वाणि सम्मृज्यन्ते।स्थालग्रहणं लक्षणार्थमिति गम्यते।एवमिहापि द्रव्यमिति।उच्यते।लोकेऽर्थलक्षणः संव्यवहारः।येन येनार्थः

सम्मृष्टेन,उक्तोऽनुक्तो वा,स सम्मृज्येतैव।इह तु वेदे शब्दलक्षणः।शब्दश्च ग्रहस्य सम्मार्गमाह।तत्र किमर्थं श्रुतौ सम्भवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते। उच्यते। सम्मार्ष्टीति सम्मार्गे पुरुषप्रयत्नं विधातुमेष शब्दः शक्नोति श्रवणेनैव,ग्रहसम्बन्धे तु वाक्येन। श्रुतिश्च वाक्याद् बलीयसी। तस्माल्लक्षणया ग्रहशब्दो वर्ण्यते,न यथाश्रुत इति।तेन यो यः सम्मार्जनसंस्कारार्हः स स सम्मार्जितव्यः। न ग्रहेष्वेव व्यवतिष्ठेत,एवञ्जातीयको गुण इति।।16।।पूर्व0।।

व्यवस्था वाऽर्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात्।।17।।

व्यवतिष्ठेत वा ग्रहेष्वेव सम्मार्गो,न चमसेष्वपि प्रसज्ज्येतेति।कुतः।अर्थस्य श्रुतिसंयोगात्।श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः।उत्सृज्यमाने श्रुतिरेव बाध्यते ग्रहमिति।प्रमत्तगीतं तत्र भवतामित्यवगम्यते।न चैतन्न्याय्यम्।तस्माद् ग्रहशब्देन ग्रहं लक्षयित्वा तस्य सम्मार्गसम्बन्धो विधीयते।न चाविदधत् सम्मार्गं शक्नोति तत्सम्बन्धं विधातुम्। अतो विदधात्येवैष शब्दः सम्मार्गम्।न च श्रुतिर्बाधिष्यते।कुतः। सम्मार्ष्टीति सम्मृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम्। न तत्र कश्चिद्विशेषः।उत्पाद्यमाने वा सम्मृजौ, परेण वा सम्बध्यमाने इति।तेन न ग्रहसम्बन्धेऽपि श्रुतिर्बाधिता भवति।अतो ग्रहेष्वेव सम्मार्गो व्यवस्थातुमर्हतीति।

नन्वपूर्वसंयोगाविशेषात् प्रकरणाविशेषाञ्च चमसेष्वपि प्रसज्ज्यते,न ग्रहेष्वेवास्य विधानमित्युक्तम्। अत्रोच्यते।प्रकरणवद्भिरेकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्।नाऽकृत्वैकवाक्यताम्। सा च प्रकरणाद् अनुमीयते। इयं पुनर्ग्रहशब्देन सह प्रत्यक्षा। तस्मान्न प्रकरणे विधानम्।ग्रहैकत्वसम्बन्धे पुनरुत्सृज्य स्वार्थं,न शक्नोति विधातुम्। यदुक्तं,यथा स्थालानि सम्मृज्यन्तामिति लक्षणा,तद्वदिहापीति।परिहृतमेतत्।लोके कर्मार्थं लक्षणं,शब्दलक्षणं पुनर्वेद इति।।17।।सिद्धान्तः।।चमसादौ सम्मार्गाद्यप्रयोगाधिकरणम्।।8।।

आनर्थक्यात्तदङ्गेषु।।18।।

वाजपेये श्रूयते, सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति।तत्र सन्देहः।किं सप्तदशारत्निता वाजपेयस्य ऊर्ध्वपात्रे निविशते,उत पशोर्यूपे निविशते इति। किं तावत् प्राप्तम्। ऊर्ध्वपात्रे इति।कुतः। वाजपेयस्य यूपाभावात्।यद् वाजपेयस्यास्ति पात्रं यूपसदृशं तत्र भवितुमर्हति।अस्ति च षोडशिपात्रम्।तच्च खादिरत्वादूर्ध्वत्वाच्च यूपसदृशम्।तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति।इतरथा वाजपेयाङ्ग पशुयागे लक्षणया वाजपेयशब्दो वृत्त इति गम्यते।ननु त्वत्पक्षेऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे।उच्यते।सर्वथा वयं लक्षणाशब्दान्न मुच्यामहे। मत्पक्षे तु वाजपेयप्रकरणमनुगृह्यते तस्मादूर्ध्वपात्रे निवेश इति।।एवं प्राप्ते ब्रूमः।आनर्थक्यात् तदङ्गेषु।वाजपेयशब्दस्तावत् सोमयागविशेषवचनः।तस्य साक्षाद् यूपेन न प्रयोजनम्। अस्ति तु तस्याङ्गं पशुकामः। तस्य तु पशुं बन्द्धुं यूपेन कार्यम्।साक्षाद्वाजपेययूपस्य यदि सप्तदशारत्निता

विधीयते,तस्याभावादनर्थकमेव वचनं प्राप्नोति।तदनर्थकं मा भूदिति योऽस्य पशुयागे यूपस्तत्र निवेशमर्हति।ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात्। नन्वितरस्मिन्नपि पक्षे वाजपेयशब्दो लक्षणयेति।नेति ब्रूमः।वाजपेये एव वाजपेयशब्दो भविष्यति।शक्यति च स पशुयूपं विशेष्टुम्। सोऽस्याङ्गस्योपकारकः।यश्च यस्योपकारिण उपकरोति,भवति स तस्य सम्बद्धो मुख्येनैव सम्बन्धेन।न चैकान्तरितम् इति कृत्वाऽसम्बद्धो भवति।यथा देवदत्तस्य नप्ता इति पुत्रेण च असावन्तरितः। अथ च देवदत्तेन मुख्येनैव सम्बन्धेन सम्बद्ध्य। तस्मादेष एव पक्ष आश्रयणीयः। न हि एतस्मिन् पक्षे कश्चिदपि लक्षणशब्दो भवतीति।।18।।सप्तदशारत्नितायाः पशुधर्मताधिकरणम्।।9।।

कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात्।।19।।

दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते,अभिक्रामं जुहोत्यभिजित्या इति।तत्र सन्देहः।किमभिक्रमणं प्रयाजेष्वेव,निविशते,उत कृत्स्ने प्रकरणे इति।किं तावत् प्राप्तम्।कर्तृगुणेऽभिक्रमणे ब्रूमः।वाक्यभेदः स्यादिति।कर्मणा कर्मणोऽसमवायात्।अभिक्रमणं कर्म अमूर्त्तम्,न तत्कर्म हवनं साधयितुं शक्नोति,तस्मान्न तेनैकवाक्यतां याति।अतः सर्वस्मिन् प्रकरणे निविशते।संयोगतोऽविशेषात् प्रकरणाविशेषाञ्चेति।नन्वनेनैव हेतुनाऽन्यस्मिन्नपि न निवेक्ष्यते।उच्यते।अन्यत्र पुरुषैः सम्भन्त्स्यते।ननु प्रयाजेष्वपि पुरुषैः सम्बद्ध्येत।नैतदेवम्।जुहोतीति हवने एष शब्दः पुरुषप्रयत्नं विदधातुं शक्नोति,न पुरुषाभिक्रमणसम्बन्धम्।नन्वन्यत्रापि पुरुषाभिक्रमणसम्बन्धस्याविधानम्। नैष दोषः। अन्यत्र प्रकरणाम्नादङ्गभावे निर्ज्ञाते प्रयोगवचनोऽस्य कर्त्तव्यातां वक्ष्यति।तस्मात् सर्वस्मिन् प्रकरणेऽभिक्रमणस्य निवेश इति।।19।।पूर्वपक्षः।।

साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण।।20।।

नैतदस्ति।यदुक्तमभिक्रमणं प्रकरणे निविशते इति। प्रयाजेष्वेव भवितुमर्हति।कुतः।तैः सहास्यैकवाक्यता।यतः साकाङ्क्षमेतत्

पूर्वेण पदेनासमाप्तं वाक्यम्,अभिक्रामं जुहोतीत्यत्र पर्यवस्यति। प्रकरणाच्च वाक्यं बलवदिति प्रयाजेष्वेवाभिक्रमणं निविशते।नन्वभिक्रमणममूर्त्तत्वाद्होमनिर्वृत्तावसमर्थमित्युक्तम्।उच्यते।साक्षादसमर्थं कर्त्रा सम्बध्यमानं शक्ष्यति निर्वर्त्तयितुम्।कथम्। अभिक्रमणेन समासीदति आहवनीयं कर्त्ता,द्वयमभ्युपायभूतं हेमस्य।दूराद्वाऽभिप्रसार्य हस्तं जुहुयात्,समासीदेद् अन्वाभिक्रमणेन।तस्मादभिक्रमणमुपकरोति होमस्येत्यवगम्यते।अतः प्रयाजेष्वेव निवेश इति।।20।।सिद्धान्तः।।अभिक्रमणादीनां प्रयाजमात्राङ्गताऽधिकरणम्।।10।।

संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात्।।21।।

दर्शपूर्णमासयोः सप्तमाष्टमयोर्ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः,नवमे निविदः,दशमे काम्याः सामिधेनीकल्पाः।इदंकामस्यैतावतीरनुब्रूयात्,इदंकामस्यैतावतीरिति।एकादशे च यज्ञोपवीतमाम्नातम्।उपव्ययते देवलक्ष्ममेव तत् कुरुते इति।तत्र संदेहः। किं सामिधेनीरेवानुब्रुवाण उपव्ययते,उत प्रकरणे सर्वानेव पदार्थाननुतिष्ठता उपव्यातव्यमिति।कुतः संशयः।उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्,अथ निवृत्ते वा तासां प्रकरणे?इति न ज्ञायते।ननु दर्शपूर्णमासयोरेव प्रकरणमिदम्।परप्रकरणे सामिधेन्य श्रूयन्ते।,त्यं परप्रकरणे श्रूयन्ते,तथापि तासामवान्तरप्रकरणमपरम्। भवति हि,सामिधेनीरनुब्रूयादिति विशेषाकाङ्क्षं वचनम्।येन तत्सन्निधावभिधीयमानं तस्येति ज्ञायते।

कथं पुनर्निवृत्तं तासां प्रकरणमित्याशङ्क्यते।निवित्पदानि तासां प्रकरणं व्यवदधतीति।यद्येवं,कथमनुवर्त्तते प्रकरणमित्याशङ्का।परस्तान्निविदां सामधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते,यदनन्तरं यज्ञोपवीतमाम्नातं,तेनानिवृत्तं सामधेनीनां प्रकरणमिति भवति मतिः। अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति यथा द्वादशोपसत्ताऽहीनधर्म्मो ज्योतिष्टोमप्रकरणे इति।तेन भवति सन्देहः।अस्मिन् सन्देहे किं तावत् प्राप्तम्।सामिधेनीप्रकरणम् अनिवृत्तम्। तत्र उपवीतं समाम्नातमिति। कुतः।काम्यानां

सामिधेनीकल्पानामानन्तर्य्यवचनात्।हृदयमनुविपरिवर्त्तमानासु सामिधेनीषु उपवीतमामनन्ति।कर्तुश्च वासोविन्यासमात्रं गुणो भवत्युपवीतं नाम।किं कुर्वता तत् कर्त्तव्यमिति भवति तत्र पदार्थाकाङ्क्षा। तत्र बुद्धौ सन्निहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतामुपगम्य सामिधेनीषूपवतीतमुपव्ययते इत्येष शब्दो विदधातीति गम्यते। एवं प्राप्ते ब्रूमः।नास्मिन् सन्देहे यस्त्वयोक्तः स निर्णयः।अस्मिन् सन्देहे,वाक्यभेद इति निर्णय इति।कुत?।व्यवायात्।इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य,अस्य चोपव्ययते इति वचनस्य,निविदां विधायकेन सामिधेनीभिरसम्बद्धेन ग्रन्थेन वियवधानं भवति।यस्य च पर्य्यवसितेऽपि वचने तत्सम्बद्धमेवार्थान्तरं प्रक्रमन्ते,न तत्राननुवृत्तं प्रकरणम्।आगच्छति हि तत्सम्बद्धाभिधाने हृदयम्।यत्र तु पर्य्यवसिते वचने तदसम्बद्धमेवार्थान्तरं प्रक्रमन्ते ,न तत्र बुद्धौ पूर्वः पदार्थः सन्निधीयते।न च बुद्धावसन्निहितेनैकवाक्यता भवति द्वाभ्यां हि बुद्धाभ्यां पदार्थाभ्यां वाक्यार्थः सञ्जन्यते,नान्यतरेण।सन्निधौ समाम्नानस्यैतदेव प्रयोजनम्।कथमुभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिमुत्पादयेयुरिति।अनन्तरावबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्।असम्बद्धपदोच्चारणे च नानन्तरावबुद्धो भवति।तस्माद् व्यवहितेन सह नैकवाक्यता भवतीति। अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थमवगम्य वाक्यार्थं सञ्जनयेद्,अवैदिकः स पुरुषबुद्धिपूर्वको वाक्यार्थो भवेत्।यथाऽन्यस्मादनुवाकादाख्यातपदं गृहीत्वान्यस्माच्च नामपदं यो वाक्यार्थः सञ्जनयेत्।तस्मान्नासम्बद्धार्थव्यवधाना एकवाक्यता भवतीति निश्चीयते। तस्मान्न सामिधेनीभिरेकवाक्यता उपवीतस्येति।ननु सामिधेनीकल्पानामनन्तरबुद्धानां सन्निधावुपवीतमाम्नायते। तेन सामिधेनीभिः सम्भन्त्स्यते इति।नेकि ब्रूमः।अतिवृत्तमेवहि सामिधेनीनां प्रकरणम्। निवित्पदर्व्यवधानात्। वाक्येन हि सामिधेनीकल्पः काम्याः सम्बन्धमुपगच्छन्ति,न प्रकरणमनुवर्त्तते। न च पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति। न हि तत्र तासां वचनं,कर्त्तव्या इति।किं तर्हि,संख्याभिः सम्बन्धयितव्या इति।तदपि वाक्येन,न प्रकरणेन। तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यतां गुणस्य सामिधेनीभिर्नास्ति,न तस्य ताभिः।तस्मात् प्रकरणे तदनुष्ठेयं,तद् यज्ञोपवीतिनेति सिद्धम्।।21।।उपवीतस्य प्राकरणिकाङ्गताधिकरणम्।।11।।

गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्।।22।।

अग्न्याधेये वारण-वैकङ्कतपात्राण्यहोमार्थानि होमार्थानि च श्रूयन्ते- तस्माद् वारणे वै यज्ञावचारः स्यात्,न त्वेतेन जुहुयात्।वैकङ्कतो यज्ञावचरः स्यात्,जुहुयादेतेनेति।न च वारणवैकङ्कतानां पात्राणामग्न्याधेयेन सम्बन्धः।कुतः। यज्ञावचरवचनात्।यज्ञस्यैतानि पात्राणि,वाक्येन प्रकरणं बाधित्वा भवन्ति। तत्रैष सन्देहः। किं पवमानेष्टिषु निविशन्ते,उत दर्शपूर्णमासादिषु सर्वयागेष्विति।किं तावत् प्राप्तम्।पवमानहविःष्विति। कुतः।उक्तमेतत्।प्रधानेऽसम्भवन् पदार्थस्तद्गुणे

कल्प्यते इति। अग्न्याधेयप्रकरणे च समाम्नानात् पवमानहविषां तद्गुणता।तस्मात् पवमानहविःष्वित्येवं प्राप्तम्।।एवं प्राप्ते ब्रूमः।गुणानां समत्वात्।पवमानहविषामग्न्याधेयस्य च न परस्परेण सम्बन्धः।यथाऽऽआधानमग्नेर्गुणः संस्कारार्थ एवं पवमानहवींष्यप्यग्नेरेव गुणभूतानि। कस्तत्र परस्परेण सम्बन्ध इति।यदुक्तम्-आधानस्य प्रकरणे समाम्नायन्ते इति।यद्यपि समाम्नायन्ते तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर्भवन्ति।किमिह वाक्यम्।यदाहवनीये जुहोति तेन सोऽस्याभीष्टः प्रीतो भवतीति। नन्वाहवनीयोऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते।सत्यम्,अधिकरणमाहवनीयः।तथापि त्वाहवनीयार्थ एव यागः।प्रयोजनवत्वादाहवनीयस्य,निष्प्रयोजनत्वात् पवमानहविषाम्। कथमेषां निष्प्रयोजनता। फलाश्रवणात्।कल्प्यं फलमिति चेत्।सत्यं कल्प्यम्।अग्निसंस्कारस्तु तत् फलं,न स्वर्गः।स्वर्गे कल्प्यमाने द्विरदृष्टं कल्प्येत।होमाच्च स्वर्गो भवति। तस्य चाहवनीयेनापरोऽदृष्टः संस्कार इति। तस्मादग्न्यर्थतां पवमानहविषाम्। नैषामाधानेन सम्बन्धः। तस्मान्नाधाने श्रूयमाणं ,पवमानहविषां भवितुमर्हति।किं तर्हि?सर्वयागेषु दर्शपूर्णमासप्रभृतिष्वाधानस्य प्रधानभूतेषु निवेश इति।।22।।वारणवैकङ्कतादिपात्राणां कृत्स्नयागगुणताधिकरणम्।।12।।मिथोऽसंबन्धन्यायः।।

मिथश्चानर्थसम्बन्धात्।।23।।

दर्शपूर्णमासयोः श्रूयते।वार्त्रध्नी पौर्णमास्यामनूचेते,वृधन्वती अमावस्यायामिति।तत्र सन्देहः। किमनुवाक्या-द्वित्वस्य प्रधाने निवेशः?उताज्यभागयोरिति।किं तावत् प्राप्तम्।प्रधाने इति।कुतः पौर्णमासीसमभिव्याहारादमावास्यासमभिव्याहाराच्च।प्रधानं पौर्णमासी चामावास्या च,नाज्यभागौ।तस्मात् साक्षाद्वाक्यात् प्रधानस्येति प्राप्तम्। तत्र ब्रूमः।मिथः सह द्वाभ्यामनुवाक्याभ्यां न प्रधानस्य कार्य्यमस्ति। यत्र तु द्वे अनुवाक्ये,तत्र तयोर्वार्त्रध्नता वृधन्वता च विधीयते। प्रधाने चैका अनुवाक्या।तत्र द्वित्वं वार्त्रध्नतां वृधन्वतां च विदधद् वाक्यम्भिद्येत। आज्यभागयोस्तु द्वे प्राप्ते,आग्नेयी सौमी च।तत्र वार्त्रध्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम्। ननु प्रधानगामित्वेऽपि द्वयोः प्रधानयोर्द्वे अनुवाक्ये आग्नेयस्याग्नीषोमीयस्य चेति।उच्यते। एका वार्त्राध्नी आग्नेयी,एका सौमी।तथा वृधन्वत्यौ।तत्र या आग्नेयी सा विधीयमानासम्बध्येत,न सौमी।अमावास्यायां तावन्नास्त्येव,पौर्णमास्यामप्यग्नीषोमीये एव क्रियामाणे क्रियेत,तत्राप्येकदेवत्या न शक्नुयाद्देवताद्वित्वे कार्य्यं कर्तुम्।अथोभे अग्नीषोमीये प्राप्ते इति।नैकस्य यागस्य द्वाभ्यामनुवाक्याभ्यां प्रयोजनम्। उपादेयत्वेन ह्यनुवाक्याचोद्यते।तत्रैकत्वं विवक्षितम्।तेन तत्रापि न द्वे।तस्मादाज्यभागयोर्निर्वेश इति।।23।।वार्त्रध्न्याद्यनुवाक्यानामाज्यभागाङ्गताऽधिकरणम्।।13।।वार्त्रध्नीन्यायः।।

आनन्तर्य्यमचोदना।।24।।

ज्योतिष्टोमे श्रूयते-मुष्टीकरोति,वाचं यच्छति,दीक्षितमावेदयतीति। तथा ,हस्ताववनेनिक्ते,उलपराजिं स्तृणातीति। तत्र सन्देहः। किं मुष्टीकरणं वाग्यमश्च आवेदनार्थम्,उत कृत्स्नप्रकरणे निवेश इति।तथा हस्तावनेजनं किमुलपराजिं स्तरितुम्,उत प्रकरणे सर्वपदार्थान् कर्तुमिति।किं तावत् प्राप्तम्। हस्तावनेजनं हस्तसंस्कारार्थं,वाग्यमः पुरुषसंस्कारार्थः।आमन्त्रयमाण एकाग्रो भवतीति,पदार्थाननुतिष्ठति।तेन केषां पदार्थानामिमे संस्कारवित्याकाङ्क्षाऽस्ति।सत्यामाकाङ्क्षायामानन्तर्य्येण निराकाङ्क्षीकरणम्।तस्मादानन्तर्य्यादावेदनार्थो वाग्यमो मुष्टीकरणञ्च।हस्तावनेजनं चोलपराजिं स्तरितुम्।एवं प्राप्ते ब्रूमः।सर्वैः प्रकरणाधीतेः सम्बन्ध इति।कुतः।वाक्यभेदात्।कथं वाक्यभेदः।अथद्वयस्याभिधानात्।न हि दीक्षितमवेदयितुमित्यस्मिन्नर्थ,आवेदयतीति। न च स्तरितुमित्यस्मिन्नर्थे,स्तृणातीति।स्तरणमपि विधीयतेऽवनेजनं च।मुष्टीकरणं वाग्यमश्च विधीयते,अवेदनञ्च।न चैषां परस्परेण कश्चित् सम्बन्धोऽस्ति।न च पदार्थाकाङ्क्षायां सत्यामानन्तर्य्यमेकवाक्यत्वे कारणं भवति।तस्मात् प्रकरणधर्म्मा एवञ्जातीयकाः।।24।।सिद्धान्तः।।

वाक्यानाञ्च समाप्तत्वात्।।25।।

स्वेन स्वेन पदसमूहेन परिपूर्णमेकं वाक्यम्।तथा अपरं,तथा सर्वाणि यान्युदाहृतानि।तस्माद् विस्पष्टमर्थद्वयं,विभागे च निराकाङ्क्षता।तेन वाक्यभेदः।अतः संयोगतोऽविशेषात् प्रकरणाविशेषाञ्च कृत्स्ने प्रकरणे निवेश इति।।25।।युक्तिः।।मुष्टीकरणादीनां कृत्स्नप्राकरणिकाङ्क्षताधिकरणम्।।14।।

शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसम्बन्धात्।।26।।

दर्शपूर्णमासयोः समाम्नायते-आग्नेयं चतुर्धा करोतीति।तत्र सन्देहः।किमाग्नेयेग्नीषोमीये च ऐन्द्राग्ने च सर्वत्र चतुर्धाकरणं,किं वाऽऽग्नेये एवेति।किं प्राप्तम्।शेषश्चतुर्धाकरणम्,आग्नेयमिति देवतागुणसंयुक्तः साधारणः प्रतीयते।अग्नीषोमीयेऽपि

स्यादैन्द्राग्नेऽपि।कुतः।तावप्याग्नेयौ।यस्याग्निर्देवता,अन्या च भवत्यसावाग्नेयः। तद् यथा।या डित्थस्य डवित्थस्य च माता,सा डवित्थस्य भवत्येवमिहापि।यद्याग्नेयस्याग्नीषोमीयस्य च पुरोडाशस्य मिथः सम्बन्धो न भवेत्,तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत।भवति तु सम्बन्धः।तस्मादव्यवस्था।यथाग्नेयस्य मस्तकं विभज्य प्राशित्रमवद्यतीति सर्वेभ्यः प्राशित्रावदानमेवं चतुर्धाकरणमपि।।26।।पूर्वपक्षः।।

व्यवस्था वाऽर्थसंयोगाल्लिङ्गस्यार्थेन सम्बन्धाल्लक्षार्था गुणश्रुतिः।।27।।

वाशब्दः पक्षं व्यावर्तयति।व्यवतिष्ठेत वा चतुर्धाकरणमाग्नेये एव,न साधारणं भवितुमर्हति।कुतः।अर्थसंयोगात्।अग्निना देवतयाऽर्थेनैकदैवत्यस्य संयोगो,न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य चेति।कुतः। यस्य ह्यग्नीषोमौ देवता,उभयविशेषणविशिष्टः सङ्कल्पः क्रियते।तस्याग्निः सोममपेक्षमाणो देवता,न तस्मात्तद्धित उत्पद्यते।समर्थानां हि स उच्यते।सापेक्षं चासमर्थम्। तस्मान्न तद्धितान्तेन निरपेक्षाग्निदैवत्येन द्विदैवत्यस्याभिधानम्।अतो यत्र निरपेक्षोऽग्निर्देवता,तत्रैव चतुर्धाकरणमिति।देवतालिङगस्य हि सामर्थ्येन संयोगो

भवति तद्धितार्थस्य,नासति सामर्थ्ये।।

अथ यदुक्तं,यथा प्राशित्रावदानां सर्वेभ्यः क्रियते एवं चतुर्द्धा करणमपीति।युक्तं प्राशित्रावदानेन तत्रैवव सम्बन्धः क्रियते।आग्नेयस्य प्राशित्रमवद्यतीति। कथं तर्हि,आग्नेयस्य मस्तकं विभज्येति। एकं ह्येतद्वाक्यं प्राशित्रमवद्यतीति,द्वितीयमाग्नेयस्य मस्तकं विभज्येति।तत्राग्नेयस्य मस्तकादवद्यतीति गम्यते। अन्यस्य मस्तकादन्यस्माद्वेत्यनियमः। यदि तु तत्र केवलाग्निदैवत्यो नाभविष्यत्, तदाऽऽनर्थक्यपरिहाराय द्विदैवत्योऽप्यग्रहिष्यत।यत्तु-डित्थस्य मातेति।युक्तं तत्राव्यासङ्गि मातृत्वम्।ततो जातो डित्थः।एतावता सम्बन्धेन,मातेत्युच्यते।नात्र किञ्चिदपेक्ष्यते।स च तावास्तत्र सम्बन्धोऽस्तीति डित्थस्य मातेति युक्तं वचनम्।।27।।सिद्धान्तः।।चतुर्धाकरणस्याग्नेयमात्राङ्गताऽधिकरणम्।।15।।

इति श्रीभट्ट शबरस्वामिकृते मीमांसाभाष्ये तृतीयस्याध्यायस्य प्रथमः पादः।।3।।1।।