शबरभाष्यम्/द्वितीयोऽध्यायः/प्रथमः पादः

सू.2.1.1 भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते।।1।।

प्रथमोऽध्याये प्रमाणलक्षणं वृत्तम्। तत्र विध्यर्थवादमन्त्रस्मृतयस्तत्त्वतो निर्णीताः। गुणविधिर्नामधेयञ्च परीक्षितम्। सन्दिग्धानामर्थानां वाक्यशेषादर्थाध्यवसानमुक्तम्। तन्न प्रस्मर्त्तव्यम्। अनन्तरं प्रधानाप्रधानानि परीक्षिष्यन्ते। भिन्नान्यभिन्नानि च इति एष एवाऽर्थो वर्णनीयो नान्यः। एष एव चाध्यायसम्बन्धः। तदिह षड्विधिः कर्म्मभेदो वक्ष्यते- शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयमिति । वक्ष्यमाणमनुसङ्कीर्त्यते। प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यते इति श्रोतुश्च बुद्धिः समाधीयते। तदेतन्नानाकर्म्मलक्षणमित्यध्यायमाचक्षते, एतत्तात्पर्येणातोऽन्यदुपोद्घातप्रसक्तानुप्रसक्तं चेति।।

तत्र प्रथमं तावदिदञ्चिन्त्यते। प्रथमऽध्याये इदमुक्तं- चोदनालक्षणोऽर्थो धर्म्म इति। चोदना च क्रियाया अभिधायकं वाक्यं च पदानामर्थाः। तत्र किं पदेन पदेन धर्म्म उत सर्वैरेक एवेति। किं तावत् प्राप्तम्। प्रतिपदं धर्म्म इत्येवं प्राप्ते, उच्यते। यदा एकस्मादऽपूर्वं, तदाऽन्यत् तदर्थं भविष्यति। एवमल्पीयसी अदृष्टानुमानप्रसङ्गकल्पना भविष्यति। तस्मादेकमपूर्वम्।।

यदा एकं, तदा। सन्देहः। किं भावशब्देभ्यः उत द्रव्यगुणशब्देभ्य इति। कः पुनर्भावः, के ते पुनर्भावशब्दा? इति। यजतिददातिजुहोतीत्येवमादयः। ननु यागदानहोमशब्दा एते, न भावशब्दाः। नैतदेवम्। यागादिशब्दाश्चैते भावशब्दाश्च। यज्याद्यर्थश्चातोऽवगम्यते, भावयेदिति च। तथा यजेत यथा किञ्चिद् भवतीति। तेनैते भावशब्दाः। द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः अतस्ते न भावशब्दा इति। किं तावत् प्राप्तम्? अविशेषणेति। तत उच्यते। भावार्थाः कर्म्मशब्दास्तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः। कुतः। भावार्थत्वादेव। य आहुः- किमपि भावयेदिति, ते स्वर्गकामपदसम्बन्धात् स्वर्गं भावयेदिति ब्रूयुः। तस्मात् तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिरिति। ते च यागदानहोमसम्बद्धाः। स्वर्गस्योत्पतिं्तवदन्ति। कुतः? ह्यर्थो ह्यर्थो विधीयते। यथा, यागादिना, स्वर्गकामः केन भावयेत् स्वर्गंम्? यागादिने इति। यस्य च

शब्दस्यार्थेन फलं साध्यते, तेनाऽपूर्वे कृत्वा, नान्यथेति ततोऽपूर्वं गम्यते। अतो यस्तस्य वाचकः शब्दस्ततोऽपूर्वं प्रतीयते इति। तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः। न तु कश्चिच्छब्दः साक्षादपूर्वस्य वाचकोऽस्ति। भावार्थैः किमपि

भावयितव्यं, स्वर्गकामस्य च केनापि भाव्यतेति। तयोर्नष्टाश्वदग्धरथवत् सम्प्रयोगः, यजेत इत्येवमादयः साकाङ्क्षाः। यजेत किं केन कथमिति, स्वर्गकाम इत्यनेन प्रयोजनेन निराकाङ्क्षाः। नैव द्रव्यगुणशब्दाः। तस्माद् भावार्था कर्म्मशब्दा अपूर्वं चोदयन्तीति। अथ कस्मादुभयं सूत्रितं- भावार्थाः कर्म्मशब्दा इति। उच्यते। भवन्ति केचित् कर्म्मशब्दाः, न भावार्थाः। यथा श्येनैकात्रिकादयः। केचिद् भावार्थाः, न कर्म्मशब्दाः। यथा भवनं भावो भूतिरिति। किं पुनरिहोदाहरणम्। श्येनेनाभिचरन् यजेत, चित्रया यजेत पशुकाम इति। किं

श्येनेनाभिचरन्नुत यजेताभिचरन्निति। तथा चित्रया पशुकामः, उत पशुकामो यजेतेति। स्थिते एतस्मिन्नधिकरणे गुणविधिः, नामधेयमिति विचारो भविष्यति। तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति दर्शः कालः, पूर्णमास इति च किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति। दर्शपूर्णमासाभ्यामिति च, श्येनेनेति च, चित्रयेति च। नैते भाववचनाः। न चैषामर्थिना कश्चित् सम्बन्धोऽस्ति, विभक्तिकत्वात्। तस्मान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति।।1।।

सू.2.1.2

सर्वेषां भावोऽर्थ इति चेत्।।2।।

एवं चेद् भवान् पश्यति, अभावशब्दत्वान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावोऽर्थः। स्वर्गकामो दर्शपूर्णमासाभ्यामित्येतयोः सम्बन्धं यजेतेति वक्ष्यति, श्येनेन अभिचरन्नित्येतयोश्च। तथा, चित्रया पशुकाम इति।

तस्मादेतेऽपि साकाङ्क्षत्वाद् भाववचनाः। सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्म्मशब्दा एवापूर्वस्य विधायका, न द्रव्यगुणशब्दा इति।।2।। आ0।।

सू.2.1.3

येषामुत्पत्तौ स्वे प्रयोगे रूपोलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगे।।3।।

येषां शब्दानामुच्चारणोत्पत्तौ स्वे अर्थे प्रयुज्यमानानां रूपमुपलभ्यते, यत् सकृदुत्पन्नं कालान्तरं तिष्ठति न क्रियेवोत्पन्नमात्रं विनश्यतीत्यर्थः। तानि नामानि। ते द्रव्यगुणशब्दाः। ईदृशो द्रव्यगुणशब्दानामर्थः। ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्। अतो नामानीत्येषां पर्य्यायशब्दः। कथं गम्यते, यत एषां विभक्तयो नामिक्य उच्यन्ते। कतमास्ताः। वृक्षः वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः। तस्मात् सम्यक् सूत्रितम्। यत एषां न क्षणिकोऽर्थस्ततस्तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यते इति। नैषामुत्पत्ति कर्त्तव्या। भूतत्वात् स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वादित्यर्थः।।3।।

सू.2.1.4

येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि तस्मात्तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य ।।4।।

येषां तु शब्दानामुच्चारणोत्पत्तौ स्वे अर्थे प्रयोगो न विद्यते। प्रयोगकाले येषामर्थो

नोपलभ्यते इत्यर्थः, तान्याख्यातानीति भावशब्दान् पर्य्यायशब्देनोपदिशति। कथं पर्य्यायशब्दता भावशब्दानाम्। यत एषां विभक्तय आख्यातिक्य इत्युच्यन्ते। कतमस्ताः? पचति पचतः पचन्ति इत्येवमादयः। तस्मात्तेभ्योऽपूर्वं प्रतीयेत। भव्यार्थास्ते भूतार्थैः समुच्चरिताः। भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनवत उत्पत्तिरर्थवती। सा च भूतेन क्रियते इति दृष्टोऽर्थः। भव्यस्य पुनर्भूतार्थतायां न किञ्चिद् दृश्यते, कल्प्यते चादृष्टम्। तस्मान्न यागो द्रव्यार्थः।।

किञ्च, आश्रितत्वात् प्रयोगस्य।। एतेषां प्रयोगः पुरषेणाश्रितो भवति, पुरुषसम्बद्धा भावना उच्यते। पुरुषं हि वदति भावयेदिति। तेन स्वर्गकामो यजेतेति पुरुषोऽपि प्रतीयते, यागोऽपि सम्बन्धोऽपि। स्वर्गकामो द्रव्येणेति द्रव्यं प्रतीयते पुरुषश्च, न तु सम्बन्धः। नन्वेतदुक्तं भवति। अर्थिनश्च द्रव्यस्य च सम्बन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेदिति। अतो द्रव्येण अर्थस्य भावना गम्येत, आकाङ्क्षा चेति। सत्यं गम्यते। द्रव्येण भावयेदिति तु वाक्येन यागेन भावयेदिति तु श्रुत्या। यदा तु, यागेन भावयेदिति यागसम्बन्धो विधीयते, न तदा, द्रव्येण

भावयेदिति द्रव्यसम्बन्धः। न च द्रव्यसम्बन्धे विधीयमाने यजेतेत्यनेन सम्बन्धः। अनूद्यमाने तु सम्भवति। न च यौगपद्येन विध्यनुवादौ सम्भवतः। तस्माच्छ्ररुतिवाक्ययोर्विरोधः। विरोधे च श्रुतिर्बलीयसी। तेनार्थिना न द्रव्यसम्बन्धः। तत्र द्रव्यमऽसति स्वर्गकामसम्बन्धे स्वर्गार्थं भविष्यतीत्यनुपपन्नम्। एष विनिगमनायां हेतुर्येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति। यदा यागेन कुर्य्यादिति यागवचनमेव भवति। दर्शपूर्णमासाभ्यामिति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति।।4।। आशङ्कानिरासः।। अपूर्वस्याऽऽख्यातपदप्रतिपाद्यताऽधिकरणम्।।1।।

कथं पुनरिदमवगम्यते, अस्ति तदपूर्वमिति। उच्यते।

सू.2.1.5

चोदना पुनरारम्भः।।5।।

चोदनेत्यपूर्वं ब्रूमः। अपूर्वं पूनरस्ति, यत आरम्भः शिष्यते, स्वर्गकामो यजेतेति। इतरथा हि विधानमनर्थकं स्यात्। भाङ्गित्वाद् यागस्य। यद्यन्यदनुत्पाद्यं यागो विनश्येत्, फलमसति निमित्ते न स्यात्। तस्मादुत्पादयतीति। यदि पुनः फलवचनसामर्थ्यात्तदेव न विनश्यतीति कल्प्यते। नैवं शक्यम्। न हि

कर्म्मणोऽन्यद् रूपमुपलभामहे। यदाश्रयं देशान्तरं प्रापयति, तत् कर्मेत्युच्यते। न तदात्मनि समवेतम्। सर्वगतत्वादात्मनः। सर्वत्र कार्य्योपलम्भः सर्वत्र भावे लिङ्गम्। न तु तदेव देशान्तरादागमनस्य। न ह्यसति आगमने किञ्चिद्विरुद्धं दृश्यते। यत्र समवेतमासीत्, तद्विनष्टं द्रव्यम्। तस्य विनाशात्तदपि विनष्टमित्यवगम्यते। आश्रयोऽप्यविनष्ट इति चेन्न भस्मोपलम्भनात्। सत्यपि भस्मन्यस्तीतिचेन्न। विद्यमानोपलम्भनेऽप्यदर्शनात्। फलक्रिया लिङ्गमिति चेत्। एवं सत्यदर्शने समाधिर्वक्तव्यः।

सौक्ष्म्यादीनामन्यतरमद्भविष्यतीति यदि चिन्त्यते, कल्पितमेवं सति किञ्चिद् भवतीति।

तत्रापूर्वं वा कल्प्येत, तद्वा? इति। अविशेषकल्पनायामस्ति हेतुः, न विशिष्टकल्पनायाम्। अनाश्रितं कर्म्म भविष्यतीति चेत्। तदपि तादृशमेव। स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति तादृशमेव। तस्माद् भङ्गी यजिः, तस्य

भङ्गित्वादपूर्वमस्तीति। किं चिन्तायाः प्रयोजनम्। यदि द्रव्यगुणशब्दा अप्यपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिरुपादातव्यः यथा तर्हि पूर्वः पक्षो, यथा तर्हि सिद्धान्तः। द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोऽनुष्ठातव्य इति।। अपूर्वस्यास्तिताधिकरणम्।।2।।

सू.2.1.6

तानि द्वैधं गुणुप्रधानभूतानि।।6।।

अवगतमेतद् भावशब्दाः कर्म्मणो वाचका इति। बहुषप्रकाराश्च भावशब्दाः। यजति, जुहोति, ददातीत्येवम्प्रकाराः। दोग्धि, पिनष्टि, विलापयतीत्येवमादयश्च। तेषु सन्देहः। किं सर्वे प्रधानकर्म्मणो विधायका, उत केचित् संस्कारकर्म्मण इति। भावार्थत्वाविशेषात् सर्वे प्रधानकर्म्मणो वाचका इति प्राप्तम्। ततो ब्रूमः। तानि द्वैधं भवितुमर्हन्तीति द्विप्रकाराणि, कानिचित् प्रधानकर्म्मणो वाचकानि, कानिचित् संस्कारकर्म्मणः। एवमपि सर्वाण्यर्थवन्ति अर्थवत्त्वे सति सर्वेभ्यो न शक्यपूर्वं कल्पयितुम्। अतो न सर्वाणि प्रधानकर्म्मणो वाचकानि।।6।।

सू.2.1.7

यैर्द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात्।।7।।

एवं सति अल्पीयसी अदृष्टकल्पना न्याय्या, न तु विनिगमनायां हेतुरवगच्छामः। कुतोऽपूर्वं, कुतो नेति। तदुच्यते। यैर्भावकर्मभिर्न द्रव्यं संस्कर्तुमिष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्म्मणो वाचकानि। द्रव्यस्य गुणभूतत्वात्। द्रव्यं हि गुणभूतं, कर्म्मनिर्वृत्तेरीप्सिततमत्वात्।।7।। प्रधानकर्मलक्षणम्।।

सू.2.1.8

यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयते तस्य द्रव्यगुणप्रधानत्वात्।।8।।

यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत कर्म्म। कुतः। तस्य द्रव्यप्रधानत्वात्। प्रत्यक्षं यजेतेत्येवमादिभिर्द्रव्यं न चिकीर्ष्यते। तस्मात्तानि प्रधानकर्म्मणो वाचकानि द्रव्यस्य गुणभूतत्वात्। पिनष्टीत्येवमादिभिर्द्रव्यं संस्क्रियते। तस्मात्तानि गुणकर्मवचनानि। एष एव विनिगमनायां हेतुः। प्रयोजनन्तु

पूर्वस्मिन् पक्षे प्रैयङ्गवेऽपि चरौ व्रीहय उत्पाद्या अवघातार्थत्वेन सिद्धान्ते नोत्पाद्याः।।8।। गुणकर्मलक्षणम्।। कर्मणां गुणप्रधानभावविभागाधिकरणम्।।3।।

सू.2.1.9

धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत्।।9।।

स्रुचः संमाÐष्ट, अÏग्न समाÐष्ट, परिधिं समाÐष्ट, पुरोडाशं पर्य्यग्निकरोतीति श्रूयते। तत्र सन्देहः। किं पर्य्यग्निकरणं, सम्मार्जनञ्च प्रधानकर्म्म, उत गुणकर्म्मेति।

किं तावत् प्राप्तम्। तदुच्यते। कर्म्ममात्रम्। एवं जातीयकमपर्य्याप्तं यत् प्रयोजनस्य दृष्टस्य, तद्धर्ममात्रमिति ब्रूमः। तत्र प्रधानकर्म्मत्वं स्यात्। कस्मात्। अनिर्वृत्तेरुपकारस्य। न ह्येवञ्जातीयकं द्रव्यस्योपकारकम्। द्रव्यं त्वेवञ्जातीयकमभिनिर्वर्त्तयद् गुणभूतम्। तस्य गुणभूतत्वादिदं प्रधानभूतम्।।9।।पूर्व0।।

सू.2.1.10

तुल्यश्रुतित्वाद्वा इतरैः सधर्मः स्यात्।।10।।

वा-शब्दः पक्षं व्यावर्त्तयति। इतरैर्गुणकर्म्मभिः सधर्म्मः स्यादेवञ्जातीयकः। यथा व्रीहिनवहन्ति, तथा। कुतः। तुल्यश्रुतित्वात् तुल्या हि द्वितीयाश्रुतिरेषां द्रव्येषु। यथा व्रीहीनवहन्तीति। एवम्, अÏग्न संमाÐष्ट, पुरोडाशं पर्य्यग्निकरोतीति। किं गुणकर्म्मणि द्रव्ये द्वितीया दृष्टेति। यतो द्वितीयादर्शनादिहापि सामान्यतो दृष्टेन गुणकर्म्मता। नेति ब्रूम। द्वितीया विभक्तिः कर्त्तुरीप्सिततमे स्मर्यते। सा चेह द्वितीया विभक्तिः। तत एव तदीप्सिततममिति गम्यते। तच्चेदीप्सिततमं, कर्म्म गुणभूतम्। यद्यपि प्रत्यक्षादिभिर्गुणभावो न गम्यते

प्रमाणान्तरेण शब्देन गम्यते। तस्माद् गुणभूतमेवञ्जातीयकमिति।।10।।सिद्धान्तः।।

सू.2.1.11

द्रव्योपदेशः।।11।।

इति चेत् पश्यसि, द्वितीयादर्शनात् प्रधानभूतमत्र द्रव्यमिति। नैतदेवम् गुणभूतेऽपि द्वितीया भवति। तथाहि दृश्यते।

सक्तूञ्जुहोति, मारुतं जुहोति, एककपालं जुहोतीति।।12।। आशङ्का।।

सू.2.1.12

न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात्।।12।।

न गुणभूतेऽपि द्वितीया। एवं ह्यभियुक्ता उपदिशन्ति- कर्म्मणि द्वितीया, कर्त्तुरीप्सिततमं कर्म्मेति। न च लोके गुणभूते क्वचिद् द्वितीयां पश्यामः। यदपि च तण्डुलानोदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्विति। ईप्सिता एव तण्डुलाः। बल्वजान् शिखण्डकान् कुर्विति। बल्वजा एव तेनाकारेण सम्बद्धा ईप्सिता इति तत्राभिप्रायः। लौकिकश्च प्रयोगः शब्दार्थपरिच्छेदे हेतुर्न वैदिकः। यत्तु लौकिके जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुमीप्सिततमे एव स प्रयोग इति। तण्डुलानद्य जुहुधि, तण्डुलानद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा। अन्यायश्चाऽनेकार्थत्वम्। तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत। वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति। द्वितीयानिर्देशात् प्रधान्यमेवावगच्छामः। एवमवगते प्राधान्ये बलीयसा हेतुना नास्ति प्राधान्यमित्यवगम्यते। कुतः। न होमस्य केनचित् प्रकारेण सक्तर्थताऽवकल्प्यते। कुतः। सक्तूनां निष्प्रयोजनत्वात्। न सक्तूनामन्यत् प्रयोजनं दृश्यते श्रूयते वा। यदि वा होमस्तदर्थो होमोऽपि निष्प्रयोजनः। अथाऽऽरादुपकारको होमस्ततः प्रयोजनवान्। ज्योतिष्टोमप्रकरणे पाठाद् गम्यते

प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्। प्रयोगवचनेन हि स आकाङ्क्ष्यते। ननु सक्तूनामपि प्रकरणपाठात् प्रयोजनवत्त्वं भविष्यति। को वा ब्रूते- नेति। प्रयोजनवत्तैव। प्रयोजनवत्त्वन्तु होममभिनिर्वर्त्तयतां नान्येन प्रकारेण। ननु तेऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते। तदुच्यते। न द्रव्यं तेनाकाङ्क्ष्यते। इतिकर्त्तव्यतां हि स आकाङ्क्ष्यति। होमश्चेतिकर्तव्यता, न द्रव्यम्। ननु होमे कृते सक्तुभ्योऽदृष्टं निष्पत्स्यते। नास्त्यत्र प्रमाणम्। ननु द्वितीयाविभक्तिः प्रमाणम्। न हि द्वितीया विभक्तिर्होमस्य सक्तर्थतां ज्ञापयति। न सक्तवः प्रयोजनवन्त इति भवेद्धोमः सक्तर्थः। होमसम्बद्धाः सक्तवः स्युरिति। भवन्ति होमे कृते सक्तवो होमसम्बद्धाः। न होमस्य सक्तर्थता निष्प्रयोजनेषु सक्तुषु घटते। सक्तर्थतावचनन्तु न पुरुषस्योपकारकं न क्रतोः। तदनर्थकमेव स्यात्। यतो न

तद्वचनाच्छक्यमन्यतरत् कल्पयितुम्। स एष द्वितीयान्तः सक्तूनां होमस्य च सम्बन्धं करोति। सम्बन्धे च सति द्रव्याणां कर्म्मसंयोगे गुणत्वेनाभिसम्बन्ध इति भूतत्वाद्, गुणभावे च तृतीया। तेनोच्यते तृतीयायाः स्थाने द्वितीयेति। तेन तदर्थत्वाद्धोमार्थत्वात् सक्तूनां न प्राधान्यं द्वितीयासंयोगेऽपि। एवं सत्यर्थवद्वचनम्। न चार्थवत्त्वे सति आनर्थक्यमित्युच्यन्ते। तस्य पुरोडाशादेर्यागादिषु शेषभावः, तेन प्रयोजनवन्तः। तत्र संस्कारो नानर्थकः। न स दृष्टोपकारयेति चेत्। अदृष्टार्थो भविष्यति। अदृष्टोऽपि संस्कारोऽस्तीति अवगम्यते लोके यथा ग्रामान्तरादागतानां पुरुषाणां पर्य्यग्निकरणेनादृष्ट उपकारः क्रियते इत्युच्यते। लोके च नानुपपत्तिः।।

प्रयोजनं च वरुणप्रधासेषु श्रूयते। शमीमय्यः स्रुचो भवन्ति। हिरण्मय्यो वेति प्रकृतौ नानावृक्षस्रुक्सम्मार्गसाध्यमपूर्वमिति। नानावृक्षस्रुच उत्पादयितव्यः सम्मार्गार्थत्वेन यथा पूर्वपक्षः। यथा तर्हि सिद्धान्तः, शमीमय्य एव हि हिरण्मय्यो वा सम्मार्ष्टव्याः। तथा यत्र बाणवन्तः परिधयस्तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे सिद्धान्ते बाणवन्त एव सम्मार्ष्टव्याः। अवभृथे च पूर्वपक्षे उत्पादयितव्योऽग्निः सम्मार्गाय सिद्धान्ते चापः सम्मार्जनीयाः। तथा षट्त्रिशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया इति श्रूयते। तत्रापि पिष्टमयः पुरोडाश उत्पादयितव्यः पर्य्यग्निकरणार्थत्वेन पूर्वपक्षे। सिद्धान्ते मांसमया एव पर्य्यग्निकर्त्तव्या इति।।12।। आशङ्कानिरासः।। सम्मार्जनादीनमप्रधानताधिकरणम्।।4।।

सू.2.1.13

स्तुतशास्त्रयोस्तु संस्कारो याज्यावद्देवताऽभिधानत्वात्।।13।।

प्रउगं शसन्ति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्ठैः स्तुवते इति गुणवचनं स्तवनं शंसनञ्च। यथा इन्द्रस्य तु वीर्य्याणि प्रवोचमिति। यदेतद् गुणवचनं श्रूयते, किमेतद् गुणभूतं देवतां प्रति, उत प्रधानमिति। तत्रोच्यते। स्तुतशास्त्रे संस्कारकर्मणी इति। कुतः। देवताभिधानत्वात्। गुणवचने निर्वर्त्त्यमाने गुणिनो देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति। तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशेन च प्रत्यक्ष उपकारो

यागसिद्धिः। तस्मात् संस्कारकर्म्मणी याज्यावत्। यथा याज्यामन्वाह, पुरोऽनुवाक्यामन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत् तद्वदेतदपीति।।13।।पूर्व0।।

सू.2.1.14

अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात्।।14।।

यदि संस्कारकर्मणी एव स्तोत्रशास्त्रे, अर्थेनापकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वाद् देवतीर्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत। तत्र क्रमसन्निधी उपरुध्येयाताम्। तस्मादेष दुष्टः पक्ष इति पर्य्युदसितव्यः। कतमः पुनरसौ मन्त्रः, अभि त्वा शूरेत्यैन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधावाम्नातो, यत्रेन्द्रस्तत्रापकृष्येत।।14।। सिद्धान्तः।

सू.2.1.15

वशावद्वा गुणार्थं स्यात्।।15।।

न पर्युदसिष्याम इमं पक्षं, संस्कारकर्म्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वादेव। यत्तूक्तं, प्रगाथस्योत्कर्ष इति तन्न। इन्द्रशब्देन महेन्द्रोऽभिधायिष्यते, स एवैन्द्रो महत्वेन गुणेन महेन्द्र इत्युच्यते। प्रत्यक्षं हीन्द्रशब्दं देवतावचनमुपलभामहे, महत्त्ववचनं च महच्छब्दम्। यथा, राजा महाराजः, ब्राह्मणो महाब्राह्मणः इति।। वशावत्।। यथा, सा एषा सर्वदेवत्या यदजा वशा, वायव्यामालभेतेत्यजावशाशब्देन चोदिते कर्म्मणि छागशब्देन निगमा भवन्ति तद्वत् सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति। तेन न भविष्यत्युत्कर्ष इति।।15।। आशङ्का।।

सू.2.1.16

न श्रुतिसमवायित्वात्।।16।।

नैतदेवम्। इन्द्रोऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत। न चास्य महत्वपेक्षमाणस्य तद्धितसंयोग उपपद्यते। तद्धितसंयोगाऽपेक्षस्य वा महत्त्वसम्बन्धात् समासकल्पना। न च तद्धितार्थे वृत्तस्य तद्धितसंबन्धः। न चाऽस्मिन्नेव प्रयोगे समासार्थे वृत्तिरिष्यते एतस्मिन्नेव तद्धिताऽर्थे। न चायमिन्द्रशब्दोऽविहितवत् स्वार्थं तद्धितार्थेन सम्बद्ध्येत विहितवच्च परार्थं महत्त्वेन सम्बद्धमनूद्येत। विस्पष्टश्चायमन्योऽर्थो महेन्द्रो भवति। महानिन्द्रो

भवतीति महेन्द्रः। अन्यश्चेन्द्रो हविषो देवता भवतीति सकृदुच्चारणे च नोभयं शक्येत। तस्मान्नेन्द्रो देवता महत्वविशिष्टः। महेन्द्रशब्दात्तु तद्धित उत्पन्नः। तस्मात्तत्प्रातिपदिकमर्थवदिति गम्यते, न त्ववयवसम्बन्धेन। तस्माद्देवतान्तरमिन्द्रान्महेन्द्रः। तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति। अतः पर्य्युदसितव्य एष पक्षः। यदप्युच्यते, इन्द्रस्य वृत्रमवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वाऽयमभूद् यो वृत्रमधीदिति। तथा वेदस्यादिमत्तादोषः प्रसज्ज्येत। अतोऽन्य इन्द्रो महेन्द्रात्।।16।। आशङ्कानिरासः।।

सू.2.1.17

व्यपदेशभेदाच्च।।17।।

व्यपदेशभेदश्च भवति। बहु दुग्धीन्द्राय देवेभ्यो हविरिति, बहुदुग्धि महेन्द्राय देवेभ्यो हविरिति। अतोऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्प स्यात्।।17।।

सू.2.1.18

गुणश्चानर्थकः स्यात्।।18।।

यदा विधिशब्दादवगतमेतद्भवति, इन्द्रो देवतेति, तदाऽस्य गुणान्वाख्याने किं प्रयोजनम्। महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम्। कथं तस्यै देवतायै दीयते? इति। गुणेऽपि हि विहिते सति तस्यै एव देवतायै दीयतेऽवहितेऽपि। तस्माद् गुणविधानमनर्थकम्। अथोच्येत, योऽस्मिन् ग्रहे इन्द्रः स महानिति। नैवम्। ग्रहसम्बन्धस्याप्रसिद्धत्वाद् विशेषणं नात्र कल्प्यते, गुणसम्बन्धस्य चाप्रसिद्धत्वाद् गुणेन विशेषणमनवक्लृप्तम्। तस्मादपि देवतान्तरम्।।18।।

सू.2.1.19

तथा याज्यापुरोरुचोः।।19।।

एवं सति याज्यापुरोऽनुवाक्ययोर्भेदेन दर्शनमुपपद्यते। ऐन्द्र सानसिं रयिमित्यैन्द्रयाज्यापुरोऽनुवाक्याद्वयं, महान् इन्द्रो य ओजसेति भेदेन माहेन्द्रं दर्शयति। तदेकत्वे विकल्प्येत। तत्र, पक्षे बाधः स्यात्।।19।।युक्तिः।।

सू.2.1.20

वशायामर्थसमवायात्।।20।।

यदुक्तम्, अजावशाशब्देन चोदिते कर्म्मणि छागशब्देन निगमामवन्तीति। तद् युक्तम्। वशायामर्थसमवायित्वं वयं

प्रत्यक्षमवगच्छामः। छागस्य वपाया मेदसोऽनुब्रूहीति। यैव वशा यैव छागेति। तस्मात् प्रगाथस्योत्कर्षः संस्कारपक्षे। अतः प्रधानकर्म्मणी इति।।20।। उपसंहारः।।

सू.2.1.21

यच्चेति वाऽर्थवत्त्वात् स्यात्।।21।।

वाशब्दः पक्षं व्यावर्त्तयति संस्कारकर्म्मणी एव स्तोत्रशस्त्रे। यच्चैतत्- प्रगाथस्योत्कर्ष इति, उत्कृष्यताम्। यत्रैन्द्रस्तत्र प्रगाथः। लिङ्गेन हि क्रमसन्निधी बाधितव्यावेव।।21।। आशङ्का।।

सू.2.1.22

न त्वाम्नातेषु।।22।।

अपरेषां मन्त्राणामुत्कृष्टानामन्यत्रार्थवत्ता नास्ति तेषामानर्थक्यं स्यात्। यथा, याम्याः शंसन्ति शिपिविष्टवर्ती पितृदेवत्यामाग्निमारुते, कुषुम्भकसूक्तम्, अक्षसूक्तं , मूषिकासूक्तमित्येवमादीनाम्।।22।। आशङ्कानिरासः।।

सू.2.1.23

दृश्यते।।23।।

तदुच्यते। सर्वेषामर्थवत्ताऽस्ति। मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्यां, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूँषि सर्वाणि सामानि वाचस्तोमे पारिप्लवमश्वमेधे शंसतीति। यथा, यस्याश्विने शस्यमाने सूर्यो नोदियादपि सर्वा दाशतयीरनुब्रूयादिति। तस्मादस्त्यर्थवत्ता उत्कृष्टानाम्। अतः संस्कारकर्म्मणी स्तोत्रशस्त्रे इति।।23।। आशङ्का।।

सू.2.1.24

अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पतिं्त विदध्याताम् ।।24।।

अपि वा प्रधानकर्म्मणी स्तोत्रशस्त्रे स्याताम्। कुतः ?। श्रुतिसंयोगात्। सप्तमीश्रुतिसंयोगो हि भवति। कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते इति । यदि स्तुतिस्ततः कवत्यक्षरेष्वाहिता। यदि प्रकाशनं, ततो देवतायाम्। तत्र करणं कवत्यस्तृतीयया अश्रोष्यं, न सप्तम्या।। अपि च, श्रुतिसंयोगो भवति। प्रउगं शंसति, निष्केवल्यं शंसतीति। अतः स्तुतिरभिनिर्वर्त्तयितव्या तेन मन्त्रेण। गुणवचनशब्दः स्तुतिनिर्वर्त्तनार्थोऽदृष्टमर्थं करिष्यति। तस्मात् प्रधानकर्म्मणी। अपि च श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः। यथा इन्द्रस्य तु वीर्य्याणि प्रवोचयति। तेन देवताशब्दः स्तुतिसंबन्धार्थं इत्युच्यते। देवताभिधानार्थे प्रातिपदिकार्थत्वात् प्रथमा स्यात्। अथ यत् प्रथमान्तं, तद्देवतार्थं भवितुमर्हति। यथा, इन्द्रो यातो वसितस्य राजेति। नेत्युच्यते। तदपि वाक्यसंयोगात् स्तुत्यर्थमेव। ननु वाक्याल्लिङ्गं बलीयः। सत्यम्। एतदपि लिङ्गं, यत् स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम्। तथाप्युभयथा लिङ्गेऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषादेव, न देवताभिधानार्थं इति। देवताभिधानार्थ इत्येतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षावचनमनर्थकमेव स्यात्। तस्माददृष्टार्थत्वात् स्तुतिवचनस्य प्रधानकर्म्मणी स्तोत्रशस्त्रे। अपिच, स्तौतिशंसतीति साक्षाद्गुणवचनौ लक्षणया अभिधानार्थौ स्याताम्। तस्मात् क्रियोत्पत्तिमपूर्वोत्पतिं्त विदध्यातामिति। 24।। आशङ्कानिरासः।।

सू.2.1.25

शब्दपृथक्त्वाच्च।।25।।

शब्देन पृथक्त्वमेव गम्यते। द्वादशस्तोत्रशस्त्रोऽग्निष्टोमः। इतरथा हि द्वादशत्वं न स्यात्। स्तोत्राणां शस्त्राणाञ्च एकमेव शंसनं स्तवनञ्च। अथ भेद आश्रीयते, ततो न द्वादशत्वेऽवतिष्ठते।।25।।

सू.2.1.26

अनर्थकञ्च तद्वचनम्।।26।।

अग्निष्टुति श्रूयते, आग्नेया ग्रहा भवन्ति इति। तत्र पुनरुच्यते- आग्नेयीषु स्तुवन्ति, आग्नेयीषु शंसन्तीति। तन्न विधातव्यमेव, यदि संस्कारकर्म्म। तस्मादपि प्रधानकर्मणी इति।।26।।

सू.2.1.27

अन्यश्चार्थः प्रतीयते।।27।।

संबद्धे वै स्तोत्रशस्त्रे वा इति। यद्यन्यत् सोत्रमन्यच्छस्त्रं, ततस्तयोः सम्बन्धः। यदि वा अपूर्ववचनेन ततोऽन्यत्

स्तोत्रमन्यच्छस्त्रम्। इतरथा यदेव स्तोत्रं तदेव शस्त्रं स्यात्।।27।।

सू.2.1.28

अभिधानं च कर्मवत्।।28।।

प्रधानकर्म्मण इव चाभिधानं भवति द्वितीयासंयोगेन। प्रउगं शंसतीति निष्केवल्यं शंसतीति।।28।।

सू.2.1.29

फलनिर्वृत्तिश्च।।29।।

फलनिर्वृत्तिदर्शनं च भवति। स्तुतस्य स्तुतमसीत्येवमादि। इन्द्रवन्तो मनेमहि भक्षीमहि प्रजामिषं सा मे सत्याशीर्याज्ञस्य भूयादिति स्तोत्रफलमनूद्यते, न देवतायाः। तस्मात् प्रधानकर्मणी स्तोत्रशस्त्रे। अन्यत्र सूत्रबद्धं प्रयोजनम्। दशमेऽध्याये ग्रहाणां देवताऽन्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वादधिकारः स्यात्।।29।। युक्तिः।।

स्तोत्रादिप्राधान्याऽधिकरणम्।।5।।

सू.2.1.30

विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात्।।30।।

इदं समाम्नायते। न ता नशन्ति, न दभाति, तस्करो नासाम्। आ मित्रोव्यथिरा दधर्षति। देवांश्च याभिर्यजते, ददाति च ज्योग् इत्ताभिः स च ते गोपतिः सह इति। यजते ददतीत्युदाहरणम्। किं यद्वद् ब्राह्मणे भावशब्दो विधायकस्तद्वन्मन्त्रेऽपि, उत मन्त्रेऽभिधायकः? इति। किं तावत् प्राप्तम्। विधौ मन्त्रे चाम्नायमानस्य

भावशब्दस्य एव एवार्थः स्यात्। ऐकशब्द्यात्। स एवायमेकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुमित्यनुपपन्नम्। तस्माद् विधायकः।।30।।पूर्वपक्षः।।

सू.2.1.31

अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात्।।31।।

अपि वेति पक्षो व्यावर्त्त्यते। एवञ्जातीयको मन्त्रोऽभिधानवाची स्यात्। प्रयोगसामर्थ्यात्। प्रयोगे क्रियमाणे अस्य सामर्थ्यं विद्यते, गोदानं गोयागञ्च प्रत्याययितुं, न विधातुम्। कुतः? विहितत्वाद् गोदानस्य दक्षिणाविधाने, गोयागस्य त्वनुबन्ध्यायाम्। कर्मान्तरं भविष्यतीति चेन्न। असकृदप्युच्यमाने तत्प्रत्ययादेव। स्तुत्यर्थकल्पनायामप्यानर्थक्यं, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वात् यागस्य। तस्मान्न यन्त्रगतो भावशब्द एवञ्जातीयको विधायकः इति।।31।। सिद्धान्तः। मन्त्राविधायकत्वाधिकरणम्।।6।।

सू.2.1.32

तच्चोदकेषु मन्त्राख्या।।32।।

मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम्। कोऽयं मन्त्रो नामेति। उच्यते। अज्ञाते मन्त्रे तद्वतो भावशब्दः कथं विचारित इति इदमर्थतोऽधिकरणं पूर्वं द्रष्टव्यम्। कथं लक्षणो मन्त्र इति। तच्चोदकेषु मन्त्राख्या। अभिधानस्य चोदकेष्वेवञ्जातीयकेष्वभियुक्ता उपदिशन्ति- मन्त्रानधीमहे, मन्त्रानध्यापयामः, मन्त्रा वर्तन्ते इति। प्रायिकमिदं लक्षणम्। अनभिधायका अपि केचिन्मन्त्रा इत्युच्यन्ते। यथा वसन्ताय कपिञ्जलानालभते इति, न शक्यं पृष्ठाकोटेन तत्र तत्रोपदेष्टुमिति लक्षणमुक्तम्।।

ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः।

लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः।।

उदाहरणं, मेधोऽसीत्येवमादयोऽस्यन्ताः, इषे त्वेत्येवमादयस्त्वान्ताः, आयुर्दा असि इत्याशीः, अग्निर्मूर्द्धा इति स्तुतिः, सङ्ख्या एको मम इति, प्रलपितम् अक्षी ते इन्द्र पिङ्गले दुलेरिवेति, परिवेदनम् अम्बे अम्बिके इति, प्रैषः अग्नीदग्नीन् इति, अन्वेषणं कोऽसि कतमोऽसीति, पृष्ठं पृष्ठामि त्वा इति, आख्यानम् इये वेदिरिति, अनुषङ्गः अच्छिद्रेण पवित्रेणेति, प्रयोगः त्रैस्वर्यं चातुस्वर्यञ्च, सामर्थ्यमभिधानम्। तच्चैतद्वृत्तिकारेणोदाहरणोपदेशेनाख्यातम्। एतदपि प्रायिककमेव। असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश्चासि वन्द्यश्च वाजिन्निति, त्वामध्याश्च-तत्त्वा यामि इति। आशीर्ब्राह्मणमपि, सोऽकामयत प्रजाः सृजेय इति, स्तुतिरपि वायुर्वै क्षेपिष्ठा देवता इति, प्रलापो न चैतद्विद्मो यदि ब्राह्मणा वा स्मोऽब्राह्मणाः स्मो वा इति, परिवेदनं ये मामधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैषः अमुतः सोममाहर इति, अन्वेषणम् इह वा स इह वेति,

प्रश्नः वेद कर्णवतीं सूर्मिमिति। प्रतिवचनं विद्मो वा इति, अनुषङ्गः हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षस इति। प्रयोगः त्रैस्वर्य्यञ्चातुस्वर्य्यञ्चेति, सामर्थ्यं स्तुवेण अवद्यति द्रवेष्विति। लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान्न वक्तव्यं लघीयसी प्रतिपत्तिर्लक्षणेन।

आक्षेपेष्वपवादेषु प्राप्त्या लक्षणकर्मणि।

प्रयोजनं न वक्तव्यं यश्च कृत्वा प्रवर्तते।।

आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्यामुत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम्। अस्ति वेदे मन्त्रशब्दो यस्यायमर्थः परीक्षितः। अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा विदुः ऋचः सामानि यजूंषि इति।।32।। मन्त्रनिरवचनाधिकरणम्।।

सू.2.1.33

शेषे ब्राह्मणशब्दः।।33।।

अथ किंलक्षणं ब्राह्मणम्? मन्त्राश्च ब्राह्मणञ्च वेदः। तत्र मन्त्रलक्षणे उक्ते परिशेषसिद्धत्वात् ब्राह्मणलक्षणमवचनीयम्। मन्त्रलक्षणवचनेनैव सिद्धम्। यस्यैतल्लक्षणं न भवति, तद् ब्राह्मणमिति परिशेषसिद्धं

ब्राह्मणम्। वृत्तिकारस्तु शिष्यहितार्थं प्रपञ्चितवान्-इति करणबहुलम्, इत्याहोपनिबद्धमाख्यायिकास्वरूपम्। हेतुः शूर्पेण जुहोति तेन ह्यन्नं क्रियते इति निर्वचनं तद् दध्नो दधित्वम्। निन्दा, उपवीता वा एतस्याग्नयः। प्रशंसा,

वायुर्वै क्षेपिष्ठा देवतेति। संशयः, होतव्यं गार्हपत्ये न होतव्यमिति। विधिः, यजमानसम्मिता उदुम्बरी भवति। परकृतिः माषानेव मह्यं पचतीति। पुराकल्पः, उल्मुकैहं स्म पूर्वे समाजग्मुरिति। व्यवधारणकल्पना, यावतोऽश्वान् प्रतिगृह्णीयादिति।।

हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः।

परक्रिया पुराकल्पो व्यवधारणकल्पना।।

उपमानं दशैते तु विधयो ब्राह्मणस्य तु।

एतद्वै सर्ववेदेषु नियतं विधिलक्षणम्।।

एतदपि प्रायिकम्। इतिकरणबहुलो मन्त्रोऽपि कश्चिद्, इति वा इति मे मनः। इत्याहोपनिबद्धश्च, भगं भक्षीत्याह। आख्यायिकास्वरूपञ्च, उग्रे ह भुज्यमिति। हेतुः इदं वो वामुशन्ति हि। निर्वचनं, तस्मादापोनुस्थना इति। निन्दा, मोघमन्नं विन्दते अप्रचेता इति। प्रशंसा, अग्निर्मूर्द्धा इति। संशयः, अधः स्विदासीदुपरि स्विदासीदिति। विधिः, पृणीयादिन्नाधमानायेति। परकृतिः सहस्रमयुताददत्। पुराकल्पः, यज्ञेन यज्ञमयजन्त देवा इति।।33।। ब्राह्मणनिर्वचनाधिकरणम्।।8।।

सू.2.1.34

अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः।।34।।

ऊहप्रवरनामधेयेषु संशयः-मन्त्राः, उत नेति। अभिधायकत्वान्मन्त्रा इति प्राप्ते ब्रूमः। अनाम्नातेषु मन्त्रत्वं न स्यादभिधायकेष्वपि। नाभिधायकत्वं मन्त्रत्वं हेतुः। किं तर्हि, अभियुक्तप्रयोगः। ये अभियुक्तैर्मन्त्रा नोच्यन्ते, न ते मन्त्राः। नचैवमादयो मन्त्रसमाम्नाये सन्ति। तस्माद् अमन्त्राः। प्रयोजनं, मन्त्रे दुष्टे यत् प्रायश्चित्तममन्त्रेषु तन्न।।34।। ऊहाद्यमन्त्रताधिकरणम्।।9।।

सू.2.1.35

तेषामृग्यत्रार्थवशेन पादव्यवस्था।।35।।

ऋच इत्यस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा विदुः ऋचो यजूंषि सामानीति। कथं लक्षणिका ऋचः? । तेषामृग्यत्रार्थवशेन पादव्यवस्था। यत्र पादकृता व्यवस्था स मन्त्र ऋग्नामा। यथा अग्निमीले इति। एवञ्जातीयकेषु मन्त्रेषु अभियुक्ता उपदिशन्ति, ऋचोऽधीमहे, ऋचोऽध्यापयामः, ऋचो वर्तन्ते इति। यद्यर्थवशेनेत्युच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति। अग्निः पूर्वेभिर्ऋषिभिरिति। यतो न अर्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थं, किं तर्हि। अनुवाद एष प्रदर्शनार्थः। अवश्यञ्चैतदेवं विशेयम्। वृत्तादिनिवृत्त्यर्थे सति वाक्यं भिद्येत। तस्माद् यत्र पादकृता व्यवस्था, सा ऋगिति।।35।। ऋग्लक्षणाधिकरणम्।।10।।

सू.2.1.36

गीतिषु समाख्या।।36।।

अथ साम्नः किं लक्षणम्। विशिष्टा काचिद्भीतिः सामेत्युच्यत्। प्रगीते हि मन्त्रवाक्ये सामशब्दमभियुक्ता उपदिशन्ति। सामान्यधीमहि, सामान्यध्यापयामः, सामानि वर्तन्ते इति। अभियुक्तोपदेशश्च नः प्रमाणम्। यथा अम्लं दधि, मधुरो गुड इति। गीतिविशिष्टे तावन्मन्त्रे गीतिशब्दः। गीतिसम्बन्धान्मन्त्रे सम्प्रत्यय इत्यवगन्तव्यम्।।36।। सामलक्षणाधिकरणम्।।11।।

सू.2.1.37

शेषे यजुःशब्दः।।37।।

अथ यजुषः किं लक्षणमिति। यजुषो लक्षणं न वक्तव्यम्। ऋग्लक्षणसामलक्षणाभ्यामेव यजुर्विज्ञास्यते वैपरीत्येनया न गीतिर्न च पादबद्धं, तत् प्रश्लिष्टपठितं यजुरिति।।37।। यजुर्लक्षणाऽधिकरणम्।।12।।

अथ निगदो नाम किं यजूंषि, उत यजोषोऽन्य इति।

सू.2.1.38

निगदो वा चतुर्थः स्याद्धर्मविशेषात्।।38।।

निगदा न यजूंषि। कुतः। धर्मविशेषात्। उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा,

उच्चैर्निगदेनेत्येष धर्मविशेषः। उच्चैर्निगदेनेत्यनूद्यते यदि यजुषो निगदत्वं स्याद्, न च तस्योच्चैस्त्वं धर्मो दृश्येत। दृश्येत तु। तस्माच्चतुर्थं मन्त्रजातं निगदो नाम।।38।। पूर्व0

सू.2.1.39

व्यपदेशाच्च।।39।।

व्यपदेशोऽपि भवति, यजूंषि वर्तन्ते, न निगदाः निगदा वर्तन्ते, न यजूंषीति। तस्मादपि मन्त्रान्तरम्।।39।। युक्तिः।।

सू.2.1.40

यजूंषि वा तद्रूपत्वात्।।40।।

यजूंष्येव वा निगदाः। कुतः। तद्रूपत्वात्। तदेवैषां रूपं, यद् यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च।।4।। सिद्धान्तः।।

सू.2.1.41

वचनाद्धर्मविशेषः।।41।।

वचनात् प्रत्यायनसामर्थ्यात्। अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषाञ्चिद् यजुषाम्।।42।। ।। उपसंहारः।।

सू.2.1.42

अर्थाच्च।।42।।

अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनं, नोपांशुच्चार्य्यमाणाः पुरुषान्तरं प्रत्याययेयुः। तस्माद् धर्मविशेषोऽर्थवान्। यानि च यजूंषि उच्चैरुच्चार्यन्ते ते निगदाः। कुतः। निशब्दः प्रकर्षस्य वक्ता। यथा प्रकर्षेण रक्तं नितरां रक्तमित्युच्यते। गदतिर्गदनार्थः पाठवचनः। एष एव हि प्रकर्षे यदुच्चैस्त्वावच्छिन्नत्वम्। ननु वाचनिको गुणो यजुषामुपांशुत्वम्। नेति ब्रूमः। गुणो नाम स भवति, यः स्वकार्यं कुर्वतामुपकारे वर्तते। न च परसम्बोधनार्थानां यजुषामुपांशुत्वं साहाय्ये वर्तते। तद्धि स्वकर्मक्रियाविघातं करोति। तेन पुरुषान्तरसम्बोधनार्थमुच्चैस्त्वं गुणः। इतरार्थं तु वचनं भविष्यति। इतराणि यानि यजूंषि न परसम्बोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते।।42।। ।।युक्तिः।।

सू.2.1.43

गुणार्थो व्यपदेशः।।43।।

अथ यदुक्तं व्यपदेशः इति स चैकत्वेऽपि गुणतो भवति। यथा, इतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति। एवमुच्चैस्त्वेन गुणेन तान्येव यजूंषि व्यपदिक्ष्यन्ते, निगदा इति।।43।। ।।आ0।।

सू.2.1.44

सर्वेषामिति चेत्।।44।।

यदि च उच्चैर्गद्यते स निगदः ऋगपि निगदः प्राप्नोति।।44।।आ0।।

सू.2.1.45

न ऋग्व्यपदेशात्।।45।।

न ऋचो निगदा व्यपदिश्यन्ते। अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपेशा भवन्ति। उच्यति। व्यपदेशां लिङ्गं, प्राप्तिरुच्यतामिति। अपादबद्धे गदतिर्वर्तते, अपादबद्धो हि गद्य इत्युच्यते।।45।। आ0 नि0।। निगदानां यजुष्ट्वाधिकरणम्।।13।।

सू.2.1.46

अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्धिभागे स्यात्।।46।।

अथ प्रश्लिष्टपठितेषु यजुःषु कथमवगम्येत, इयदेकं यजुरिति यावता पदसमूहेनेज्यते तावान् पदसमूह एकं यजुः। क्रियता चेज्यते। यावता क्रियाया उपकारः प्रकाश्यते तावद् वक्तव्यत्वाद् वाक्यमित्युच्यते तेनाभिधीयते-अर्थैकत्वादेकं वाक्यमिति। एतस्माच्चेत् कारणादेकवाक्यता भवति तस्मादेकार्थः पदसमूहो

वाक्यम्। यदि च विभज्यमानं साकाङ्क्षं पदं भवति। किमुदाहरणम्? देवस्य त्वा सवितुः प्रसवे इति। ननु पदं पदमत्रैकार्थम्। सत्यं न तु तद्विभागे साकाङ्क्षम्। न तर्ह्यर्थैकत्वमुपपद्यते। बहुत्वात् पदार्थानाम्। पदसमुदायस्य च पृथगर्थो नास्तीत्युक्तम्। भेदः संसर्गो वा वाक्यार्थं इति यद्युच्यते, तथाप्येकार्थता न स्यात्। बहुपदे भेदानां संसर्गाणां च बहुत्वात्। एकप्रयोजनत्वादुपपन्नम्। यथा तावद् देवस्य त्वेति निर्वापप्रकाशनम्। तस्य विशिष्टस्य वाचक एतावान् पहसमूहः तद् वाक्यम्।

नन्वत्र देवस्य त्वा सवितु प्रसवे निर्वपामीत्येकं वाक्यम्। अश्विनोर्बाहुभ्यां निर्वपामीत्यपरम्। एवं बहूनि वाक्यानि। यदि निर्वपामीत्यनुषङ्गस्ततो बहूनि वाक्यानि। न त्वेवमनुषङगो भवति। यदि गुणभूतो निर्वपीमीति, तदा प्रतिप्रधानं भिद्येत। न च निर्वापो देवस्य त्वेत्येवमादीनामर्थेनोच्यते। साधनप्राधान्ये हि अदृष्टार्थता वचनस्य स्यात्। निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्। तत् सर्वैर्विशेषणैर्विशिष्टमुच्यते। तस्मादविरोधः। यथा च पदं पदेन विशेष्यते। यथोक्तं, तद्भूतानामिति। तस्मादेकं वाक्यम्।।

अथ किमर्थमुभयं सूत्रितम्-अर्थैकत्वादिति च, विभागे साकाङ्क्षत्वादिति च। उच्यते। भवति किञ्चिदेकार्थं, न तु विभागे साकाङ्क्षम्। यथा भगो वां विभजतु, अर्यमा वां विभजत्विति। एकार्थाः सर्वे विभागमभिदधति। ननु भगविशिष्टाद् विभागादर्य्यमविशिष्टोऽन्यो विभागः। नेत्युच्यते। विभागसामान्येनास्य प्रयोजनं, न विशेषेण। सामान्ये हि दृष्टोऽर्थो भवति, न विशेषे। विभागे तु न साकाङ्क्षम्। तस्माद्भिन्नमिदं वाक्यं विभागे विकल्प्यते। तथा, स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं कल्पयामि। तस्मिन् सीदाऽमृते प्रथितिष्ठ व्रीहीणां मेधः समुनस्यमान इति विभागे साकाङ्क्षम्। द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनञ्च। तस्माद् भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं पुरोडाशप्रतिष्ठापने। तस्मात् सम्यक् सूत्रितं, न सूत्रोपालम्भो भवति।।46।। एकवाक्यत्वलक्षणाधिकरणम्।।14।।

सू.2.1.47

समेषु वाक्यभेदः स्यात्।।47।।

इषे त्वा, ऊर्जे त्वेति। तथा आयुर्यज्ञेन कल्पनां, प्राणो यज्ञेन कल्पतामिति। अत्र सन्देहः। किमेवमादिषु भिन्नं वाक्यमुतैकमिति। एकमिति ब्रूमः। इषे त्वेत्येवमुक्ते, न किञ्चिद् दृष्टं प्रयोजनं, तथा ऊर्जे त्वेत्यपि च वचनसामर्थ्याददृष्टम्। तदुभाभ्यामेकं कल्पयितुं न्याय्यम्। एवमल्पीयसी अदृष्टानुमानकल्पना भविष्यति। तस्मादेकं वाक्यम्। एवं प्राप्ते ब्रूमः। समेषु वाक्यभेदः स्यात्। समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते। इषे त्वेत्यनेन एकोऽर्थः क्रियते, ऊर्जे त्वेत्यनेनापरः। नन्विदानीमेवोक्तं नात्र दृष्टोऽर्थ इति। यद्यपि प्रत्यक्षादिना प्रमाणेन नोपलक्ष्यते,श्रुत्या तु गम्यते- इषे त्वेति छिनत्ति, ऊर्ज्जे त्वेत्यनुमार्ष्टीति। तथा आयुर्यज्ञेन कल्पतां, प्राणो यज्ञेन कल्पतामित्यायुःक्लृप्तेरन्या प्राणक्लृप्तिः। ननु सामान्यमात्रमिष्टं तद् न विशेषणभेदाद् भेदमर्हतीति। यथा, अग्नये जुष्टं निर्वपामीति निर्वाप एक तस्य विशेषाः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिति, न तेषां भेदान्निर्वापस्य भेद इष्यते। एवमिहापि क्लृप्तिर्नामैकोऽर्थः, नासावायुरादिभिर्विशेषैर्भिन्नो भविष्यतीति। उच्यते। इह क्लृप्तिर्वाचयतीति बह्व्यः क्लृप्तयः श्रूयन्ते। ताश्च वक्तव्याः तत्रैकामायुःक्लृप्तिम्, आयुर्यज्ञेन कल्पतामित्येष मन्त्रः शक्नोति वदितुम्। प्राणो यज्ञेन कल्पतामित्ययमपि प्राण क्लृप्तिमपराम्। एवन्तु सर्वे क्लृप्तिविशेषवचनाः। तच्च दृष्टं प्रयोजनम्। तस्मादनेकार्थत्वात्तत्रापि वाक्यभेद इति। ननु सामान्यवचनादेकत्वं यथा

विभागे। नैतदेवम्। विभागे दृष्टार्थे सामान्यमिह न। अपि च क्लृप्तिर्वाचयतीति विहितम्,आयुर्यज्ञेन कल्पतामिति चायुः क्लृप्त्यभिधानम्। अभिनिवर्त्त्यते प्रत्यक्षं, प्राणो यज्ञेन कल्पतामिति च प्राणक्लृप्तेः। तस्माद्वाक्यभेदः।।47।।वाक्यभेदाधिकरणम्।।25।।

सू.2.1.48

अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्।।48।।

या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा,उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत् स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशया इति।अत्र सन्देहः। तनूर्वर्षिष्ठेति किं सर्वेष्वनुषक्तव्यम्।आहोस्विल्लौकिको वाक्यशेषः कर्त्तव्य इति। किं प्राप्तम्। या ते अग्ने रजाशयेत्येतस्य तनूर्वर्षिष्ठेति न वाक्यशेषः। न ह्ययमस्मात्

परः प्रयुज्यते। एवं प्राप्ते ब्रूमः। अनुषङ्गो वाक्यसमाप्तिः स्यात्तनूर्वर्षिष्ठेति। यथैव ह्ययं, या ते अग्नेऽयाशयेत्येतस्यानन्तरमेव या ते अग्ने रजाशया, या ते अग्ने हराशयेत्येतयोरपि। हराशयेत्येतस्य व्यवहित इति चेत्। तन्न। समुदायस्याव्यवधानात्। अव्यवहितो रजाशयेति समुदायः। समुदायेन च वाक्यशेषस्य सम्बन्धाभावात् समुदायिभ्यां सम्बन्धः। समुदायिसम्बन्धे च न गम्यते विशेषः। तस्मात् सर्वत्रानुषङ्गः।। अपि च साकाङ्क्षस्य सन्निधौ परस्तात् पुरस्ताद्वा परिपूरणसमर्थः श्रूयमाणो वाक्यशेषो भवति। कियाँस्तु कालः सन्निधिरिति। उच्यते।यावति शक्नोत्युभावप्यपेक्षितुम्। कश्चाऽसौ । आनन्तर्येसम्बन्धिपदव्यवायो वा। तावति हि शक्नोत्युभावप्यपेक्षितुम्।सम्बन्धिपदव्यवाये हि सम्बन्धादेव पूर्वसंस्कारो नापैति। यत्राप्यपरेण साकाङ्क्षेण व्यवायस्तत्राप्यस्ति सम्बन्धः। द्वयोरपि हि कार्यं वक्तव्यमिति। परः पूर्वमपेक्षते, अनपेक्षमाणेऽन्यतरः प्रमादपाठः स्यात्। शक्यते चासावपेक्षितुम्। तस्माद् यथैवायमेकस्य सन्निधावेवमपरस्य द्वयोरप्यसम्बद्धैः पदैरव्यवहितत्वात्, द्वयोरप्याकाङ्क्षतोरेतावच्च वाक्यशेषसम्बन्धे कारणं नानन्तर्यम्। अव्यवधाने विच्छेदेऽपि भवति सम्बन्धः। तस्मादनुषङ्गः।। अथेह कथं भवितव्यम्, यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते। यथा, चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्य त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्य्यस्य

रश्मिभिरिति। अत्र हि पुनात्वन्तानि परिपूर्णानि न किञ्चिदाकाङ्क्षन्ति। नन्वच्छिद्रेणेत्यतदाकाङ्क्षिष्यति। सत्यमाकाङ्क्षति। आकाङ्क्षदप्येतदेकमाकाङ्क्षेत। एकेनैव तन्निराकाङ्क्षं सम्पद्यते इति। एकेन हि निराकाङ्क्षीकृतो नेतरावाकाङ्क्षिष्यति। अनर्थकत्वादाकाङ्क्षति। एकेन च सम्बद्धो नानर्थको भवति। तस्मान्नेतरावाकाङ्क्षतीति। इतरावपि परिपूर्णत्वान्न तमाकाङ्क्षतः।नन्वेतस्य वाक्यशेषस्य एकमप्याकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते,केन वा नेति,तेनानवगम्यमाने विशेषे सर्वैः सह सम्भन्त्स्यते। आह। नैतदेवम्। येनास्य प्रत्यक्षमानन्तर्य्यमुपलभामहे तेन सह सम्भन्त्स्यते इति गम्यते विशेषः। तस्मात्तेनानन्तरेण सह सम्भन्त्स्यते इति नास्ति सर्वत्रानुषङ्ग इति। आह।नैतदेवम्। पुनातुशब्देनास्य प्रत्यक्षमानन्तर्य्युमुपलभामहे। पुनातुशब्दस्यापि चित्पतिस्त्वेत्येवमादिभिः। एकश्चासौ पुनातुशब्दः पुनः पुनरुच्चरितः। तेनावगच्छामः। यत्र पुनातुशब्दः प्रयुक्तस्तत्र तेनैकवाक्यत्वाद् अच्छिद्रेणेत्ययमपि प्रयोक्तव्यः। तथा च सति, चित्पतिस्त्वेत्येवमादयो विना पुनातुशब्देन साकाङ्क्षाः। ते च पुनातुशब्दमाकाङ्क्षन्ति, स च पुनातुशब्दोऽच्छिद्रेणेत्यनेन विशिष्टाः। तेन पुनातुशब्देन सानुषङगेण नियोगतः सर्वे निराकाङ्क्षीकर्त्तव्याः। तस्मात् सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिरनुषज्ज्यते।।48।।अनुषङ्गाधिकरणम्।।16।।

सू.2.1.49

व्यवायान्नानुषज्ज्येत।।49।। सं ते वायुर्वातेन गच्छतां, सं यजत्रैरङ्गानि, सं यज्ञपतिराशिषा इति। वायुर्वातेन गच्छतामित्येष सं यजत्रैरङ्गानीति बहुवचनान्तेन व्यवहितत्वात्, सं यज्ञपतिराशिषेत्यत्र नानुषज्ज्यते। एकेन साकाङ्क्षेण व्यवेतो गच्छतामिति शेषः।ततो बहुवचानान्तेन सं यजत्रैरङ्गानीत्येतेन सम्बन्धमनुपेत्य व्यवेतत्वात् परेण न सम्बद्ध्यते,गम्यते हि तदा विशेषः, एकेन व्यवेत इति। गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते। तस्माद् बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्त्तव्य इति।।49।। व्यवेताननुषङ्गाधिकरणम्।।17।।इति श्रीशबरस्वामिकृतौ मीमांसाभाष्ये द्वितीयस्याऽध्यायस्य प्रथमः पादः।।2।।1.।उपोद्धातपादोऽयम्।।