शबरभाष्यम्/प्रथमोऽध्यायः/प्रथमः पादः

महान् पाठः।।मीमांसादर्शनम् ।।

।।जैमिनीयसूत्रभाष्यम् ।

।।शबरस्वामिविरचितम् ।।

प्रथमः अध्यायः, प्रथमः पादः ।

सू.1.1.1

अथातो धर्मजिज्ञासा ।।1।।

लोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं, नाऽध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा। एवं वेदवाक्यान्येव एभिर्व्याख्यायन्ते। इतरथा वेदवाक्यानि व्याख्येयानि, स्वपदार्थाश्च व्याख्येया इति प्रयत्नगौरवं प्रसज्ज्येत। तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः। न चेह किञ्चिद् वृत्तमुपलभ्यते। भवितव्यन्तु तेन, यस्मिन् सत्यऽनन्तरं धर्मजिज्ञासाऽवकल्प्यते। तथाहि प्रसिद्धपदार्थकः स कल्पितो भवति। तत्तु वेदाध्ययनम्। तस्मिन् हि सति साऽवकल्प्यते। नैतदेवम्। अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात्। उच्यते, मादृशां तु धर्मजिज्ञासामधिकृत्य अथशब्दं प्रयुक्तवानाचार्य्यः । या वेदाध्ययनमन्तरेण न सम्भवति। कथम्। वेदवाक्यानामनेकविधो विचार इह वर्त्तिष्यते । अपि च नैव वयमिह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः, परस्ताच्चानन्तर्य्यम् । न ह्येतदेकं वाक्यं पुरस्ताच्च वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच्चानन्तर्य्यं प्रकरिष्यति । भिद्येत हि तथा वाक्यम् । अन्या हि वचनव्यक्तिरस्य पुरस्ताद् वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधत ; अन्या च परस्तादानन्तर्य्यमुपदिशतः । वेदानधीत्य इति एकस्यां विधीयतेऽनूद्य आनन्तर्य्यं, विपरीतमन्यस्याम् । अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति । किञ्चाधीते वेदे द्वयमापतति, गुरुकुलाच्च समावर्त्तितव्यं, वेदवाक्यानि च विचारयितव्यानि । तत्र गुरुकुलान्मा समावर्त्तिष्ट, कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः । यद्येवं, न तर्हि वेदाध्ययनं पूर्वं गम्यते । एवं हि समामनन्ति, वेदमधीत्य स्नायादिति । इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमानः इयमाम्नायमतिक्रामेत् । न चाम्नायो नाम अतिक्रामितव्यः । तदुच्यते - अतिक्रमिष्याम इयमाम्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम । दृष्टो हि तस्यार्थः कर्मावबोधनं नाम । न च तस्याध्ययनमात्रात् तत्र भवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामनन्तीव, तत्रापि, द्रव्यसंस्कारकर्मसु परार्थत्वात्

फलश्रुतिरर्थवादः स्यादित्यर्थवादतां वक्ष्यति । न चाऽधीतवेदस्य स्नानानन्तर्य्यमेतद् विधीयते । न ह्यत्रानन्तर्य्यस्य वक्ता कश्चिच्छब्दोऽस्ति । पूर्वकालतायां क्त्वा स्मर्य्यते, न आनन्तर्य्ये । दृष्टार्थता वाऽध्ययनस्य आनन्तर्य्ये व्याहन्येत । लक्षणया त्वेषोऽर्थः स्यात् । न वा इदं स्नानमदृष्टार्थं विधीयते । किन्तु लक्षणया अस्नानादिनियमस्य पर्य्यवसानं वेदाध्ययनसमकालमाहुः । वेदमधीत्य स्नायाद्, गुरुकुलान्मा समावर्त्तिष्ठेति - अदृष्टार्थतापरिहारायैव । तस्माद् वेदाध्ययनमेव पूर्वमभिनिवर्त्यानन्तरं धर्मो जिज्ञासितव्य इति अथशब्दस्य सामर्थ्यम् । न च ब्रूमोऽन्यस्य कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्येति, किन्तु वेदमधीत्य त्वरितेन न स्नातव्यम् । अनन्तरं धर्मो जिज्ञासितव्य इति अथशब्दस्यार्थः ।।

अतः शब्दो वृत्तस्यापदेशको हेत्वर्थः । यथा, क्षेमसुभिक्षोऽयम् अतोऽहमस्मिन् देशे प्रतिवसामीति । एवम् अधीतो वेदो, धर्मजिज्ञासायां हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्य इति अतः शब्दस्य सामर्थ्यम् । धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयाद्, अतः उ एतस्मात् कारणादनन्तरं धर्मं जिज्ञासितुमिच्छेदित्यतः शब्दस्यार्थः ।।

धर्माय जिज्ञासा धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छा । स कथं जिज्ञासितव्यः, को धर्मः, कथं लक्षणः, कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति । तत्र को धर्मः, कथं लक्षण इति एकेनैव सूत्रेण व्याख्यातं - चोदनालक्षणोऽर्थो धर्म इति । कानि अस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन व्याख्यातम् क्व पुरुषपरत्वं, क्व वा पुरुषो गुणभूत इत्येतासां प्रतिज्ञानां पिण्डस्यैतत् सूत्रम्,

अथाऽतो धर्मजिज्ञासेति । धर्मः प्रसिद्धो वा स्याद्, अप्रसिद्धो वा । स चेत् प्रसिद्धो, न जिज्ञासितव्यः ।

अथाऽप्रसिद्धो, नतराम् । तदेतदनर्थकं धर्मजिज्ञासाप्रकरणम् । अथवाऽर्थवत् । धर्मं प्रति हि विप्रतिपन्ना बहुविदः । केचिदन्यं धर्ममाहुः, केचिदन्यम् । सोऽयमविचार्य्य प्रवर्त्तमानः कञ्चिदेवोपाददानो विहन्येत, अनर्थं च ऋच्छेत् । तस्माद्धर्मो जिज्ञासितव्य इति । स हि निःश्रेयसेन पुरुषं संय्युनक्तीति प्रतिजानीमहे । तदभिधीयते ।।1।।

धर्मजिज्ञासाऽधिकरणम् ।।1।।

सू..1.1.2

चोदनालक्षणोऽर्थो धर्मः ।।2।।

चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः । आचार्य्यचोदितः करोमीति हि दृश्यते । लक्ष्यते येन तल्लक्षणं, धूमो लक्षणमग्नेरिति हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन सँय्युनक्तीति प्रतिजानीमहे । चोदना हि भूतं, भवन्तं, भविष्यन्तं, सूक्ष्मं, व्यवहितं, विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम् । नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किञ्चन लौकिकं वचनं, नद्यास्तीरे फलानि

सन्ति इति । तत् तथ्यमपि भवति, वितथमपि भवतीति । उच्यते । विप्रतिषिद्धमिदमुच्यते, ब्रवीति वितथञ्चेति । ब्रवीति- इति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति । यस्मश्च निमित्तभूते सति अवबुध्यते सोऽवबोधयति । यदि च चोदनायां सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते कथमुच्यते न तथा भवतीति । अथ न तथा भवतीति कथमवबुध्यते । असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम् । न च, स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते, भवति वा स्वर्गो, न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते, नैतदेवमिति, स मिथ्याप्रत्ययः । न चैष कालान्तरे, पुरुषान्तरे, अवस्थान्तरे, देशान्तरे वा विपर्य्येति । तस्मादवितथः । यत्तु लौकिकं वचनं, तच्चेत् प्रत्ययितात् पुरुषात्, इन्द्रियविषयं वा अवितथमेव तत् । अथाऽप्रत्ययिताद् अनिन्द्रियविषयं वा तावत् पुरुषबुद्धिप्रभवप्रमाणम्। अशक्यं हि तत् पुरुषेण ज्ञातुं, ऋते वचनात्। अपरस्मात् पौरुषेयाद्वचनात् तदवगतमिति चेत्। तदपि तेनैव तुल्यम्। नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति,जात्यन्धानामिव वचनं रूपविशेषेषु। न च विदुषामुपदेशो नाऽवकल्प्यते। उपदिष्टवन्तश्च मन्वादयस्तस्मात् पुरुषात् सन्तो विदितवन्तश्च। यथा चक्षुषा रूपमुपलभ्यते इति दर्शनादेवावगतम्। उच्यते। उपदेशा हि व्यामोहादपि भवन्ति। असति व्यामोहे वेदादपि भवन्ति अपि च पैरुषेयाद्वचनात् एवमयं पुरुषो वेदेति भवति प्रत्ययां, नैवमयमर्थ इति। विप्लवते हि खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः। न तुवेदवचनस्य मिथात्वे किञ्जन प्रमाणमस्ति। ननु सामान्यतो दृष्टं पौरुषेयं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते। न । अन्यत्वात्। न ह्यन्यस्य वितथभावेऽन्यस्य वैतथ्यं भवितुमर्हति, अन्यत्वादेव। न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति। अपिच पुरुषवचनसाधर्म्याद् वेदवचनं वितथमिति अनुमानं व्यापदेशादवगम्यते। प्रत्यक्षस्तु वेदवचनेन प्रत्ययः। न चानुमानं प्रत्यक्षविरोधि प्रामाणं भवति। तस्माच्चोदनालक्षणोऽर्थः श्रेयस्करः। एवं तर्हि श्रेयस्करो जिज्ञासितव्यः। किं धर्मजिज्ञासया। उच्यते। य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यताम्। यो हि यागमनुतिष्ठति , तं धार्मिकं इति समाचक्षते। यश्च यस्य कर्त्ता स तेन व्यपदिश्यते। यथा , पावकः, लावकः इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्देनोच्यते। न केवलं लोके, वेदेऽपि ,यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् इति यजतिशब्दवाच्यमेव धर्मं समामनन्ति। उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्चेति। कोऽर्थः। यो निःश्रेयसाय, ज्योतिष्टोमादिः। कोऽनर्थः। यः प्रत्यवायाय, श्येनो , वज्रः, इषुरित्येवमादिः। तत्र , अनर्थो धर्म उक्तो मा भूदिति अर्थग्रहणम्। कथं पुनरसावनर्थः। हिंसा हि सा। हिंसा च प्रतिषिद्धेति । कथं पुनरनर्थः कर्त्तव्यतयोपदिश्यते। उच्यते। नैव श्येनादयः कर्त्तव्या विज्ञायन्ते। यो हि हिंसितुमिच्छेत् ,तस्यायमभ्युपाय इति हि तेषामुपदेशः। श्येनेनाऽभिचरन् यजेतेति हि समामनन्ति, न अभिचरितव्यमिति। नन्वऽशक्तमिक्तमिदं सूत्रम् इमावर्थावभिवदितुम् - चोदनालक्षणो धर्मः , न इन्द्रियादिलक्षणः , अर्थश्च धर्मः , न अनर्थः इति । एकं हीदं वाक्यं, तदेवं सति भिद्येत। उच्यते। यत्र वाक्यादर्थोऽवगम्यते, तत्रैवम्। तत्तु वैदिकेषु , न सूत्रेषु।

अन्यतोऽवगतेऽर्थे, सूत्रम्, एवमर्थमिदमित्यवगम्यते। तेन च, एकदेशः सूर्त्यत इति सूत्रम्। तत्र भिन्नयोरेव वाक्ययोरिमावेकदेशावित्यवगन्तव्यम्। अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमुच्यते इत्येकार्थमेवेति।।2।।

धर्मलक्षणाऽधिकरणम्।।2।।

सू..1.1.3

तस्य निमित्तपरीष्टिः।।3।।

उक्तमस्माभिः, चोदनानिमित्तं धर्मस्य ज्ञानमिति। तत् प्रतिज्ञामात्रेणोक्तम्, इदानीं तस्य निमित्तं परीक्षिष्यामहे । किं चोदनैवेति,अन्यदपीति। तस्मान्न तावन्निश्चीयते चोदना लक्षणोऽर्थो धर्म इति। तदुच्यते ।।3।।

धर्मप्रमाण्यपरीक्षाऽधिकरणम्।।3।।

सू.1.1.4

सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् ।।4।।

इदं परीक्ष्यते । प्रत्यक्षं तावदनिमित्तम् । किं कारणम् । एवंलक्षणकं हि तत् । सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म, तत् प्रत्यक्षम् । सति इन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर्जायते, तत् प्रत्यक्षम् । भविष्यँश्च एषोऽर्थो न ज्ञानकालेऽस्तीति । सतश्चैतदुपलम्भनं, नासतः । अतः प्रत्यक्षमनिमित्तम् । बुद्धिर्वा, जन्म वा, सन्निकर्षो वेति नैषां कस्यचिदधारणार्थमेतत् सूत्रम् । सति इन्द्रियाऽर्थसम्प्रयोगे, नासति इत्येतावदवधार्य्यते। अनेकस्मिन्नवधार्य्यमाणे भिद्येत वाक्यम्। प्रत्यक्षपूर्वकत्वाच्चानुमानोपमानार्थापत्तीनामप्यकारणत्वमिति।।4।।

धर्मे प्रत्यक्षस्याऽप्रामाण्याऽधिकरणम्।।4।।

अभावोऽपि नास्ति यतः ।

औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं सू.1.1.5

बादरायणस्यानपेक्षत्वात् ।।5।।

औत्पत्तिक इति नित्यं ब्रूमः । उत्पत्तिर्हि भाव उच्यते लक्षणया । अवियुक्तः शब्दार्थयोर्भावः सम्बन्धो, नोत्पन्नयोः पश्चात् सम्बन्धः । औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिरनवगतस्य । कथम्। उपदेशो हि भवति। उपदेश इति विशिष्टस्य शब्दस्य उच्चारणम् । अव्यतिरेकश्च ज्ञानस्य । न हि तदुत्पन्नं ज्ञानं विपर्य्येति । यच्च नाम ज्ञानं न विपर्य्येति, न तच्छक्यते वक्तुं, न एतदेवमिति। यथा विज्ञायते, न तथा भवति यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये, अन्यद्वाचि स्यात् । एवं वदतो विरुद्धमिदं गम्यते, अस्ति, नास्ति वेति तस्मात् तत् प्रमाणमनपेक्षत्वात् । न ह्येवं सति प्रत्ययाऽन्तरमपेक्षितव्यं, पुरुषान्तरं वापि । अयं प्रत्ययो ह्यसौ । बादरायणग्रहणं बादरायणस्येदं सतं कीर्त्यते बादरायणं पूजयितुं, नात्मीयं मतं पर्य्युदासितुम् ।।

वृत्तिकारस्तु अन्यथेमं ग्रन्थं वर्णयाञ्चकार, तस्य निमित्तपरीष्टिरित्येवमादिम् । न परीक्षितव्यं निमित्तं, प्रत्यक्षादीनि हि प्रसिद्धानि, प्रमाणानि, तदन्तर्गतं च शास्त्रम्, अतस्तदपि न परीक्षितव्यम् । अत्रोच्यते । व्यभिचारात् परीक्षितव्यम् । शुक्तिका हि रजतवत् प्रकाशते यतः, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच्चानुमानादीन्यपि तत्रापरीक्ष्य प्रवर्तमानोऽर्थाद् विहन्येत, अनर्थं चाप्नुयात् कदाचित् । नैतदेवं यत् प्रत्यक्षं, न तद् व्यभिचरति, यद् व्यभिचरति, न तत् प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् । तत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम् । यद्विषयं ज्ञानं तेनैव संप्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम्, यदन्यविषयज्ञानमन्यसंप्रयोगे भवति, न तत् प्रत्यक्षम्। कथं पुनरिदमवगम्यते - इदं तत्संप्रयोगे, इदमन्यसंप्रयोगे इति। यद् न अन्यसंप्रयोगे, तत् तत्संप्रयोगे, एतद्विपरीतमन्यसंप्रयोगे इति। कथं ज्ञेयम्? यच्छुक्तिकायामपि रजतं मन्यमानो रजतसंनिकष्टं मे चक्षुरिति मन्यते। बाधकं हि यत्र ज्ञानमुत्पद्यते, नैतदेव; मिथ्याज्ञानमिति तत् अन्यसंप्रयोगे। विपरीतं तत्संप्रयोगे इति। प्राग्बाघकज्ञानोत्तेः कथमवगम्यते, यदा न तत्काले सम्यग्ज्ञानस्य मिथ्याज्ञानस्य वा कश्चिद्विशेषः। यदा हि चक्षुरादिभिरुपहतं मन भवति, इन्द्रियं वा तिमिरादिभिः,

सौक्ष्म्यादिभिर्बाह्यो वा विषयः ततो मिथ्याज्ञानम्। अनुपहतेषु हि सम्यग्ज्ञानम्। इन्द्रियमनोऽर्थसंनिकर्षो हि सम्यग्ज्ञानस्य हेतुः। असति तस्मिन्मिथ्याज्ञानम्। तदुभयगतो दोषो मिथ्याज्ञानस्य हेतुः। असति

तस्मिन्मिथ्याज्ञानम्। तदुभयगतो दोषो मिथ्याज्ञानस्य हेतुः। दुष्टेषु हि ज्ञानं मिथ्या भवति। कथमवगम्यते। दोषापगमे संप्रतिपत्तिदर्शनात्। कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेमहि, प्रमाणाभावाददुष्टमिति मन्येमहि। तस्माद् यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो, नान्य इति।।

ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः। प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः स्वप्ने। जाग्रतोऽपि, स्तम्भ इति वा, कुड्य इति वा प्रत्यय एव भवति। तस्मात् सोऽपि निरालम्बनः। उच्यते। स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति। स्वप्नेप्येवमेव सुपरिनिश्चिताऽऽसीत्। प्राक् प्रबोधनात्, न तत्र कश्चिद्विशेष इति। न। स्वप्ने विपर्ययदर्शनात्। अविपर्ययाश्च इतरस्मिन्। तत्सामान्यादितरत्रापि भविष्यतीति चेत्। यदि प्रत्ययत्वात् स्वप्नप्रत्ययस्य मिथ्याभावः,

जाग्रत्प्रत्ययस्यापि तथा भवितुमर्हति। अथ प्रतीतिस्तथाभावस्य हेतुः, न शक्यते प्रत्ययत्वाद् अयमन्य इति वक्तुम्।

अन्यतस्तु स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययादवगतः। कुत इति चेत्। सनिद्रस्य मनसो दौर्बल्यान्निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च। सुषुप्तस्याभाव एव। अचेतयन्नेव हि, सुषुप्त इत्युच्यते। तस्माज्जाग्रतः प्रत्ययो न मिथ्येति।। ननु जाग्रतोऽपि करणदोषः स्यात्। यदि स्याद्, अवगम्येत। स्वप्नदर्शनकालेऽपि नावगम्यते इतिचेत्। तत्र प्रबुद्धो ह्यवगच्छति निद्राकान्तं मे मन आसीदिति।।

शून्यस्तु। कथम्। अर्थज्ञानयोराकारभेदं नोपलभामहे। प्रत्यक्षा च नो बुद्धिः। अतस्तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति पश्यामः। स्यादेतदेवं, यद्यर्थाकारा बुद्धिः स्याद्, निराकारा तु नो बुद्धिः। आकारवान् बाह्योऽर्थः। स हि बहिर्देशसंबद्धः प्रत्यक्षमुपलभ्यते। अर्थविषया हि प्रत्यक्षबुद्धिः, न बुद्ध्यन्तरविषया। क्षणिका हि सा, न बुद्ध्यन्तरकालमवस्थास्यते इति। उत्पद्यमानैवासौ ज्ञायते। ज्ञापयति च अर्थान्तरं, प्रदीपवदिति यद् उच्यते। तन्न। न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते। ज्ञाते तु अनुमानादवगच्छति। तत्र यौगपद्यमनुपपन्नम्। ननूत्पन्नायामेव बुद्धौ, ज्ञातोऽर्थ इत्युच्यते, नानुत्पन्नायाम्। अतः पूर्वं बुद्धिरुत्पद्यते, पश्चाज्ज्ञातोऽर्थः। सत्यम्। पूर्वं बुद्धिरूत्पद्यते, न तु पूर्वं ज्ञायते। भवति हि कदाचिदेतद्, यज्ज्ञातोऽप्यर्थः सन् अज्ञातः इत्युच्यते। न चार्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम्। तस्मान्नव्यपदेश्या बुद्धिः, अव्यपदेश्यं च नाप्रत्यक्षम्। तस्मादप्रत्यक्षा बुद्धिः। नापि च काममेकरूपत्वे बुद्धेरेवाभावः, नार्थस्य प्रत्यक्षस्य सतः। न च ऐकरूप्यम्। अनाकारामेव हि बुद्धिमनुमिमीमहे, साकारं चार्थं प्रत्यक्षमेवावगच्छामः। तस्मादर्थालम्बनः प्रत्ययः। अपि च, नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः। इतरथा तन्त्वादानेऽपि कदाचिद् घटबुद्धिरविकलेन्द्रियस्य स्यात्। न चैवमस्ति। अतो न निरालम्बनः प्रत्ययः। अतो न व्यभिचरति प्रत्यक्षम्।।

अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः। तत्तु द्विविधं- प्रत्यक्षतोदृष्टसंबन्धं, सामान्यतोदृष्टसंबन्धम् च। प्रत्यक्षतोदृष्टसंबन्धं यथा, धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम्। सामान्यतोदृष्टसंबन्धं यथा, देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्यगतिस्मरणम्। शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्।।

उपमानमपि, सादृश्यम् असन्निकृष्टेऽर्थे बुद्धिमुत्पादयति। यथा गवयदर्शनं गोस्मरणस्य। अर्थापत्तिरपि - दृष्टः, श्रुतो वार्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना। यथा, जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना।।

अभावोऽपि प्रमाणाभावो, नास्ति- इत्यस्यार्थस्यासन्निकृष्टस्य।। तस्मात् प्रसिद्धत्वान्न परीक्षितव्यं निमित्तम्।।

ननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम्। कुतः? अनिमित्तं विद्यमानोपलम्भनत्वात्। अनिमित्तम्। अप्रमाणं शब्दः। यो ह्युपलम्भनविषयो नोपलभ्यते, स नास्ति यथा शशस्य विषाणम्। उपलम्भकानि चेन्द्रियाणि पश्वादीनाम्

न च, पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते। अतो नेष्टिः पशुफला कर्मकाले च फलेन भवितव्यम्। यत्कालं हि मर्द्दनं, तत्कालं मर्द्दनसुखम्। कालान्तरे फलं दास्यति इति चेन्न। न कालान्तरे फलमिष्टेः - इत्यवग्छामः।

कुतः? यदा तावदसौ विद्यमाना आसीत् तदा फलं न दत्तवती। यदा फलमुत्पद्यते, तदाऽसौ नास्ति। असति कथं दास्यति? अपि च तत्काल एव फलं श्रूयते, यागः करणमिति वाक्यादवगम्यते, कारणं चेदुत्पन्नं, कार्येण भवितव्यमिति।।

प्रत्यक्षं च फलकारणमन्यदुपलभामहे। न च दृष्टे कारणे सति, अदृष्टं कल्पयितुं शक्यते। प्रमाणाभावात्। एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे। दृष्टविरुद्धमपि भवति किञ्चिद्वचनम्। पात्रचयनं विधायाह - स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गे लोकं यातीति प्रत्यक्षं शरीरकं व्यपदिशति। न च तत् स्वर्गे लोकं यातीति। प्रत्यक्षं हि तद्दह्यते। न चैष याति इति विधिशब्दः। एवञ्जातीयकं प्रमाणविरुद्धं वचनमप्रमाणम्। अम्बुनि मञ्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते इति यथा। तत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासः। तस्मान्न चोदनालक्षणोऽर्थे धर्मः।।

औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानम्। तुशब्दः पक्षं व्यावर्त्तयति। अपौरुषेयः शब्दस्यार्थेन संबन्धः। तस्य अग्निहोत्रादिलक्षणस्यार्थस्य ज्ञानं प्रत्यक्षादिभिरनवगम्यमानस्य। तथाच चोदनालक्षणः सम्यक् संप्रत्यय इति। पौरुषेये हि शब्दे यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत। परप्रत्ययो हि तदा स्यात्। अथ शब्दे ब्रुवति कथं मिथ्येति?। न हि तदानीमन्यतः पुरुषाद् अवगतिमिच्छामः। ब्रवीतीत्युच्यते-बोधयति बुद्ध्यमानस्य निमित्तं भवतीति शब्दे च निमित्ते स्वयं बुद्ध्यते। कथं विप्रलब्धं ब्रूयाद्, नैतदेवमिति। नचास्य चोदना, स्याद्वा न इति सांशयिकं प्रत्ययमुत्पादयति। न च मिथ्यैतदिति कालान्तरे, देशान्तरेऽवस्थान्तरे, पुरुषान्तरे वा पुनरव्यपदश्यप्रत्ययो भवति। योऽप्यस्य प्रत्ययविपर्य्यासं दृष्ट्वाऽत्रापि विपर्य्यसिष्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन विरुद्ध्यमानो बाध्यते।

तस्माच्चोदनालक्षण एव धर्मः।।

स्यादेतदेवं, नैव शब्दस्यार्थेन सम्बन्धः, कुतोऽस्य पौरुषेयता अपौरुषेयता वेति। कथम्? स्याच्चेदर्थेन सम्बन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्। यदि संश्लेषलक्षणं सम्बन्धमभिंप्रेत्योच्यते। कार्य्यकारणनिमित्तनैमित्तिकाऽऽश्रयाश्रयिभावसंयोगादयस्तु सम्बन्धाः शब्दस्यानुपपन्ना एवेति।।

उच्यते। यो ह्यत्र व्यपदेश्यः सम्बन्धः, तमेकं न व्यपदिशति भवान्, प्रत्याय्यस्य, प्रत्यायकस्य च यः सङ्गासङ्गिलक्षण इति। आह। यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते। सर्वत्र नो दर्शनं प्रमाणम्। प्रत्यायक इति हि प्रत्ययं दृष्टाऽवगच्छामो, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययमदृष्टा। यावत्कृत्व श्रुतेन, इयं संज्ञा, अयं संज्ञीत्यवधारितं भवति, तावत्कृत्वः श्रुतादर्थावगम इति। यथा चक्षुर्द्रष्ट. न बाह्येन प्रकाशेन विना प्रकाशयतीत्यद्रष्टृ न भवति। यदि प्रथमश्रुतो न प्रत्याययति, कृतकस्तर्हि शब्दस्यार्थेन सम्बन्धः। कुतः। स्वभावतो ह्यसम्बन्धावेतौ शब्दार्थौ, मुखे हि शब्दमुपलभामहे, भूमावर्थम्। शब्दोऽयं न त्वर्थः, अर्थोऽयं न शब्द इति च व्यपदिशन्ति। रूपभेदोऽपि भवति। गौः इतीमं शब्दमुच्चारयन्ति, सास्नादिमन्तमर्थमवबुध्यन्ते इति। पृथग्भूतयोश्च यः सम्बन्धः स कृतको दृष्टो, यथा रज्जुघटयोरिति।।

अथ, गौः इत्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः, श्रोत्रग्रहणे हि अर्थे लोके शब्दशब्दः प्रसिद्धः। ते च श्रोत्रग्रहणाः। यद्येवम्, अर्थप्रत्ययो नोपपद्यते। कथम्। एकैकाक्षरविज्ञानेऽर्थो नोपलभ्यते। न चाक्षरव्यतिरिक्तोऽन्यः कश्चिदस्ति समुदायो नाम, यतोऽर्थप्रतिपत्तिः स्यात्। यदा गकारः, न तदा औकारविसर्जनीयौ। यदौकारविसर्जनीयौ. न तदा गकारः। अतो गकारादिव्यतिरिक्तोऽन्यो गोशब्दोऽस्ति, यतोऽर्थप्रतिपत्तिः स्यात्। अन्तर्हिते शब्दं स्मरणादर्थप्रतिपत्तिश्चेन्न। स्मृतेरपि क्षणिकत्वादक्षरैस्तुल्यता। पूर्ववर्णजनितसंस्कारसंहितोऽन्त्यो वर्णः प्रत्यायक इत्यदोषः।।

नन्वेवं, शब्दादर्थं प्रतिपद्यामहे इति लौकिकं वचनमनुपपन्नं स्यात् उच्यते। यदि नोपपद्यते, अनुपपन्नं नाम। न हि लौकिकं वचनमनुपपन्नमित्येतावता प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्नोत्युपगन्तुम्। लौकिकानि वचनान्युपपन्नार्थानि, अनुपपन्नार्थानि च दृश्यन्ते। यथा, देवदत्त ! गामभ्याज इत्येवमादीनि, दश दाडिमानि षडपूपा इत्येवमादीनि च।।

ननु च शास्त्रकारा अप्येवमाहुः- पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति, पचति इत्युपक्रमप्रभृत्यऽपवर्गपर्य्यन्तमिति यथा। न शास्त्रकारवचनमप्यऽलमिममर्थमप्रमाणकमुपपादयितुम्। अपिच,

नैवैतद् अनुपपन्नार्थम्। अक्षरेभ्यः संस्काराः, संस्कारादार्थप्रतिपत्तिरिति सम्भवति अर्थप्रतिपत्तौ अक्षराणि निमित्तम्। गौण एवार्थप्रतिपत्तौ शब्द इति चेद्, न गौणोऽक्षरेषु निमित्तभावः। तद्भावे भावात्, तदऽभावे चाऽभावात्।।

अथापि गौणः स्यात्। न, गौणः शब्दो मा भूदिति प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्यः परिकल्पयितुम्। न हि, अग्निर्माणवक इत्युक्ते, अग्निशब्दो गौणे मा भूदिति ज्वलन एव माणवक इत्यध्यवसीयते। न च प्रत्यक्षो गकारादिभ्योऽन्यो गोशब्द इति। भेददर्शनाभावात्, अभेददर्शनाच्च। गकारादीनि हि प्रत्यक्षाणि। तस्माद् "गौः" इति

गकारादिविसर्जनीयान्तं पदम् अक्षराण्येव। अतो न तेभ्यो व्यतिरिक्तमन्यत् पदं नामेति। ननु संस्कारकल्पनायामप्यऽदृष्टकल्पना। उच्यते। शब्दकल्पनायां सा च, शब्दकल्पना च। तस्मादक्षराण्येव पदम्।।

अथ, गौः- इत्यस्य शब्दस्य कोऽर्थः। सास्नादिविशिष्टाऽऽकृतिरिति ब्रूमः। नन्वाकृतिः साध्याऽस्ति वा, न वा? इति। न प्रत्यक्षा सती साध्या भवितुमर्हति। रुचकः, स्वस्तिको, वर्द्धमानक इति हि प्रत्यक्षं दृश्यते। व्यामोह इति चेन्न। न, असति प्रत्ययविपर्यासे व्यामोह इति शक्यते वक्तुम्। असत्यप्यर्थान्तरे एवञ्जातीयको भवति प्रत्ययः - पङ्कितः, यूथं, वनमिति यथेति चेत्। न। असम्बद्धमिदं वचनमुपन्यस्तम्। किम्, असति वने वनप्रत्ययो भवतीति? प्रत्यक्षमेवाक्षिप्यते, वृक्षा अपि न सन्तीति। यद्येवं, प्रत्युक्तः समाहाजानीकः पक्षः। अथ किमाकृतिसद्भाववादी उपालभ्यते, सिद्धान्तान्तरं ते दुष्यति इति, वनेऽपि सति वनप्रत्ययःप्राप्तोतीति। एवमपि, प्रकृतं दूषयितुमषशक्नुवतस्ततूसिद्दान्तान्तरदूषणो निग्रहस्थानमापंघते। असाघकत्वात्। स हि वक्ष्यति-दुष्यतु, यदि दुष्यति, किं तेन दुष्टेन, अदुष्टेन वा प्रकृतं त्वया साघितं भवति, मदीयो वा पक्षो दूषितो भवति? इति। न च वृक्षव्यतिरिक्तं वनं यस्मान्नोपलक्ष्यते, अतो वनं नास्तीत्यवगम्यते। यदि वने अन्येन हेतुना सद्रावविपरीतः प्रत्यय उत्पघते, मिथ्यैव वनप्रत्यय इति। ततो, वनं नास्तीत्यवगच्छामः। न च गवादिषु प्रत्ययो विपर्येति। अतो वैषम्यम्। अथ वनादिषु नैव विपर्यति न ते न सन्तीति। तस्मात् असंबन्द्दः पङ्क्तिवनोपन्यासः। अत उपपन्नं जैमिनिवचनम्- आकृतिः शब्दार्थ इति। यथा च आकृतिःशब्दार्थस्तथोपरिष्टान्निपुणतरमुपपादयिष्याम इति।।

अथ सम्बन्धः क इति। यत्, शब्दे विज्ञातोऽर्थे विज्ञायते। स तु कृतक इति पूर्वमुपपादितुम्। तस्मान्मन्यामहे

केनापि पुरुषेण शब्दानामर्थेः सह सम्बन्धं कृत्वा संव्यवहर्तुं वेदाः प्रणीता इति। तदिदानीमुच्यते, अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति। कथं पुनरिदमवगम्यते, औपौरुषेय एष सम्बन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्याभावात्, तत्पूर्वकत्वाच्चेतरेषाम्। ननु चिरवृत्तत्वात् प्रत्यक्षस्याविषयो भवेदिदानीन्तनानाम्। न हि चिरवृत्तः सन् न स्मर्थ्येत। न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति। पुरुषवियोगो हि तेषु भवति, देशोत्सादेन कुलोत्सादेन वा। न च शब्दाऽर्थव्यवहारवियोगः पुरुषाणामस्ति। स्यादेतत्- सम्बन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणमनाद्रियमाणा विस्मरेयुरिति। तन्न। यदि हि पुरुषः कृत्वा सम्बन्धं व्यवहारयेत् व्यवहारकाले अवश्यं स्मर्त्तव्यो भवति। संप्रतिपत्तौ हि कर्तृव्यवहारकाले सिद्ध्यति, न विप्रतिपत्तौ। न हि वृद्धिशब्देन अपाणिनेर्व्यवहारत आदैचः प्रतीयेरन्, पाणिनिकृतिमननुमन्यमानस्य वा। तथा मकारेण अपिङ्गलस्य च सर्वगुरुस्त्रिकः प्रतीयेत, पिङ्गलकृतिमननुमन्यमानस्य वा। तेन कर्तृव्यवहर्त्तारौ संप्रतिपद्येते। तेन वेदे व्यवहरद्भिरवश्यं स्मरणीयः सम्बन्धस्य कर्त्ता स्यात्, व्यवहारस्य च। न हि विस्मृते, वृद्धिरादैच् इत्यस्य सूत्रस्य कर्त्तरि, वृद्धिर्यस्याचामादिरिति किञ्चिता प्रतीयेत।।

तस्मात् कारणादवगच्छामो- न, कृत्वा संबन्धं व्यवहरार्थं केनचिद् वेदाः प्रणीता इति। यद्यपि च विस्मरणमुपपद्येत, तथापि न प्रमाणमन्तरेण संबन्धारं प्रतिपद्येमहि। यथा, विद्यमानस्याप्यनुपलम्भनं भवतीति, नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्यामहे। तस्मादपौरुषेयः शब्दस्यार्थेन संबन्ध इति।।

नन्वऽर्थापत्त्या संबन्धारं प्रतिपद्येमहि। न ह्यकृतसंबन्धाच्छब्दादर्थं प्रतिपद्यमानान् उपलभामहे। प्रतिपद्येरंश्चेत्, प्रथमश्रवणेऽपि प्रतिपद्येरन्। तदनुपलम्भनादवश्यं भवितव्यं संबन्ध्रेति चेन्न। सिद्धवदुपदेशात्।

यदि संबन्धुरभावाद् नियोगतो नाऽर्था उपलभ्येरन्, ततोऽर्थापत्त्या सम्बन्धारमवगच्छामः। अस्ति तु अन्यः प्रकारः। वृद्धानां स्वार्थेन संव्यवहरमाणानामुपश्रृण्वन्तो बालाः प्रत्यक्षमर्थं प्रतिपद्यमाना दृश्यन्ते। तेऽपि वृद्धा यदा

बाला आसंस्तदाऽन्येभ्यो वृद्धेभ्यः, तेऽप्यन्येभ्य इति, नास्त्यादिरित्येवं वा भवेत्। अथवा न कश्चिदेकोऽपि शब्दस्यार्थेन सम्बन्ध आसीत्, अथ केनचित् सम्बन्धाः प्रव्रर्तिता इति। अत्र वृद्धव्यवहारे सति नार्थादापद्येत सम्बन्धस्य कर्ता। अपि च व्यवहारवादिनः प्रत्यक्षमुपदिशन्ति कल्पयन्ति इतरे सम्बन्धारम्। न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी। तस्मात् सम्बन्धुरभावः।।

अव्यतिरेकश्च। यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्वपि बहवः सम्बन्धारः कथं सङ्गस्यन्ते। एको न शक्नुयात्। अतो नास्ति सम्बन्धस्य कर्ता। अपर आह, अव्यतिरेकश्च। न हि सम्बन्धव्यतिरिक्तः कश्चित् कालोऽस्ति, यस्मिन् न कश्चिदपि शब्दः केनचिदर्थेन सम्बद्ध आसीत्। कथम्। सम्बन्धक्रियैव हि नोपपद्यते। अवश्यमनेन सम्बन्धं कुर्वता केनचिच्छब्देन कर्त्तव्यः। येन क्रियेत, तस्य केन कृतः। अथान्येन केनचित् कृतः, तस्य केनेति, तस्य केनेति? नैवावतिष्ठते। तस्मादवश्यमनेन सम्बन्धं कुर्वता अकृतसम्बन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः। अस्ति चेत् व्यवहारसिद्धिः, न नियोगतः सम्बन्ध्रा भवितव्यमिति अर्थापत्तिरपि नास्ति।।

स्यादेतत्, अप्रसिद्धसम्बन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्ते इति। नास्ति दृष्टेऽनुपपन्नं नाम। दृष्टा हि बाला वृद्धेभ्यः प्रतिपद्यमानाः। न च प्रतिपन्नसम्बन्धाः सम्बन्धस्य कर्तुः। तस्माद्वैषम्यम्।।

अर्थेऽनुपलब्धे। अनुपलब्धे च देवदत्तादावर्थेऽनेऽनर्थकं संज्ञाकरणम्। अशक्यं च। विशेषान् प्रतिपत्तुं हि संज्ञाः क्रियन्ते। विशेषाश्चोद्दिश्य, तद्विशेषेष्वज्ञायमानेषु उभयमप्यनवक्लृप्तम्। तस्माद् अपौरुषेयः शब्दस्यार्थेन सम्बन्धः। अतश्च तत् प्रमाणमनपेक्षत्वात् । न चैवं सति पुरुषान्तरं प्रत्ययान्तरञ्चापेक्ष्यते। तस्माच्चोदनालक्षण एव धर्मो, नान्यलक्षणः। बादरायणग्रहणमुक्तम्।।

अथ यदुक्तम्- अनिमित्तं शब्दः, कर्मकाले फलादर्शनात्, कालान्तरे च कर्माभावात् प्रमाणं नास्तीति। तदुच्यते। न स्यात् प्रमाणं, यदि पञ्चैव प्रमाणान्यभविष्यन्। येन येन हि प्रमीयते तत्तत् प्रमाणम्। शब्देनापि प्रमीयते, ततः शब्दोऽपि प्रमाणम्। यथैव प्रत्यक्षम्। न च प्रमाणेनावगतं प्रमाणान्तरेणानवगतमित्येतावता अनवगतं भवति। न चैवं श्रूयते कृते कर्म्मणि तावतैव फलं भवति, किन्तु, कर्मणः फलं प्राप्यते इति। यच्च - कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमस्तीति। नैष दोषः। तच्चैव हि तत्र कारणं शब्दश्चेति।।

यत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तं - स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरकं व्यपदिशतीति। तदुच्यते, शरीरसम्बन्धात्। यस्य तच्छरीरं सोऽपि तैर्यज्ञायुधैर्यज्ञायुधीत्युच्यते।।

आह- कोऽसावन्यो? नैनमुपलभामहे। प्राणाऽऽदिभिरेनमुपलभामहे। प्राणाऽऽदिभिरेनमुपलभामहे, योऽसौ प्राणिति, अपानिति, उच्छ्वसिति, निमिषति इत्यादि चेष्टितवान्, सोऽत्र शरीरे यज्ञायुधी इति। ननु शरीरमेव प्राणिति अपानिति च। न। प्राणादयः शरीरगुणविधर्माणः। अयावच्छरीरभावित्वात्। यावच्छरीरं, तावदस्य गुणा रूपादयः। प्राणादयस्तु सत्यपि शरीरं न भवन्ति। सुखादयश्च स्वयमुपलभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापीति। तस्माच्छरीरगुणवैधर्म्यादन्यः शरीराद् यज्ञायुधीति।।

आह- कुत एष संप्रत्ययः, सुखादिभ्योऽन्यस्तद्वानस्तीति? न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपमुपलभामहे। तस्माच्छशविषाणवदसौ नास्ति। अथोच्यते, तेन विना कस्य सुखादय इति? न कस्यचिदपीति वक्ष्यामः। न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम्। यस्य संबन्धोऽप्युपलभ्यते, सम्बन्धी च तस्यायं सम्बन्धीति गम्यते। न हि चन्द्रमसम्, आदित्यं वोपलभ्य सम्बन्धान्वेषणा भवति, कस्यायमिति। न कस्य चिदपीत्यवधार्यते। तस्मान्न सुखादिभ्योऽन्यस्तद्वानस्तीति। अथ, उपलब्धस्यावश्यं कल्पयितव्यः सम्बन्धी भवति। तत आत्मानमप्यनेन प्रकारेणोपलभ्य, कस्यायमिति सम्बन्ध्यन्तरमन्विष्येम। तमपि कल्पयित्वाऽन्यमपि कल्पयित्वा, अन्यमित्यव्यवस्थैव स्यात्। अथ कञ्चित् कल्पयित्वा न सम्बन्ध्यन्तरमपि कल्पयिष्यसि, तावत्येव विरंस्यसि, तावता च परितोष्यसि, ततो विज्ञाने एव परितुष्य तावत्येव विरन्तुमर्हसि।।

अत्रोच्यते। यदि विज्ञानादन्यो नास्ति कस्तर्हि, जानाति - इत्युच्यते? ज्ञानस्य कर्तृरभिधानमनेन

शब्देनोपपद्यते। तदेष शब्दोऽर्थवान् कर्तव्य इति ज्ञानाद् व्यतिरिक्तमात्मानं कल्पयिष्याम इति।

आह- वेदा एनं शब्दमर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं प्रमंस्यन्ते। बहवः खल्विह जनाः, अस्ति आत्मा, अस्ति आत्मा इत्यात्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो भवन्ति, तथापि नाऽऽत्मसत्तां कल्पयितुं घटन्ते किमङ्ग पुनः, जानाति -

इति परोक्षशब्ददर्शनात्। तस्माद् असदेतत्।।

उच्यते। इच्छया आत्मानमुपलभामहे। कथमिति? उपलब्धपूर्वे हि अभिप्रेते भवतीच्छा। यथा, मेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रति अस्माकमिच्छा भवति। नो खल्वन्येन पुरुषेणोपलब्धेऽपि विषयेऽन्यस्योपलब्धुरिच्छा भवति। भवति च अन्येद्युरुपलब्धे अन्येद्युरिच्छा। तेन उपलम्भनेन समानकर्त्तृका सा इत्यवगच्छामः। यदि विज्ञानमात्रमेवेदमुपलम्भकमभविष्यत्, प्रत्यस्ते तस्मिन् कस्यापरेद्युरिच्छाऽभविष्यत्? अथ नु विज्ञानादन्यो विज्ञाता नित्यः। तत एकस्मिन्नहनि य एवोपलब्धाऽपरेद्युरपि स एवैषिष्यतीति। इतरथा हीच्छा नोपपन्ना स्यात्।

अत्रोच्यते- अनुपपन्नमिति नः क्व संप्रत्ययः? यन्न प्रमाणेनाऽवगतम्। विज्ञानात्तावदन्यं नोपलभामहे, यन्नोपलभामहे तच्छशविषाणवदेव नास्तीत्यवग्च्छामः। न च तस्मिन्नसति विज्ञानसद्भावोऽनुपपन्नः। प्रत्यक्षावगतत्वादेव। क्षणिकत्वं चाऽस्य प्रत्यक्षपूर्वकमेव। न च ज्ञातरि विज्ञानादन्यस्मिन्नसति, ज्ञाने चाऽनित्ये अपरेद्युरिच्छा अनुपपन्ना प्रत्यक्षावगतत्वादेव। न खल्वप्येतद् दृष्टं, य एवान्येद्युरुपलब्धा स एवान्येद्युरेषिता इति। इदं तु दृष्टं, यत् क्वचिद् अन्येन दृष्टमन्य इच्छति, क्वचिन्न। समानायां सन्ततावन्य इच्छति सन्तत्यन्तरेणेच्छतीति। तस्मान्न सुखादिव्यतिरिक्तोऽन्योऽस्तीति।।

अत्रोच्यते। न ह्यस्मर्तार इच्छन्तीत्युपपद्यते, न वा अदृष्टपूर्वे स्मृतिर्भवति। तस्मात् क्षणिकविज्ञानस्कन्धमात्रे स्मृतिरनुपपन्नेति।।

अत्राह- स्मृतिरपि इच्छावत् पूर्वज्ञानसदृशं विज्ञानं, पूर्वविज्ञानविषयं वा, स्मृतिरित्युच्यते। तच्च द्रष्टरि विनष्टेऽपि अपरेद्युरुत्पद्यमानं नानुपपन्नम्। प्रत्यक्षावगतत्वादेव। अन्यस्मिन् स्कन्धधनेऽन्येन स्कन्धधनेन यज्ज्ञानं, तत्सन्ततिजेनान्येनोपलभ्यते, नातत्सन्ततिजेनान्येन। तस्माच्छून्याः स्कन्धधना इति। अथास्मिन्नर्थे ब्राह्मणं भवति - विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवाऽनुविनश्यति, न प्रेत्य संज्ञास्तीति। उच्यते। नैतदेवम्। अन्येद्युर्दृष्टेऽपरेद्युरहमिदमऽदर्शमिति भवति प्रत्ययः। प्रत्यगात्मनि चैतद्भवति, न परत्र। अपरो ह्यसावऽन्येद्युर्दृष्टवान्। तस्मात् तद्व्यतिरिक्तोऽन्योऽस्ति, यत्राऽयम् अहं शब्दः।।

आह- परत्राप्यहंशब्दो भक्त्या दृश्यते। यथा, अहमेव पुत्रः, अहमेव देवदत्तः, अहमेव गच्छामीति। अत्रोच्यते। न वयम् अहमितीमं शब्दं प्रयुज्यमानमन्यस्मिन्नर्थे हेतुत्वेन व्यपदिशामः। किं तर्हि - शब्दाद् व्यतिरिक्तं प्रत्ययं प्रतीमो वयम्।

इममर्थं वयमेवान्येद्युरुपलभामहे, वयमेवाद्य स्मराम इति। तस्माद् वयमिममर्थमवगच्छामो वयमेव ह्यः, वयमेवाद्य इति। ये ह्यः, अद्य च, न ते विनष्टाः। अथाऽप्यस्मिन्नर्थे ब्राह्मणं भवति, स वा अयमात्मेति प्रकृत्य आमनन्ति। असीर्यो न हि शीर्य्यते इति। तथा, अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा इति। विनश्वरं च विज्ञानम्। तस्माद्विनश्वरादन्यः स इत्यवगच्छामः। न च शक्यमेवगन्तुं - यथोपलभ्यन्ते अर्थाः न तथा भवन्तीति, यथा तु खलु नोपलभ्यन्ते तथा भवन्तीति। तथा हि सति शशो नास्ति, शशस्य विषाणमस्तीत्यवगम्येत। न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्। बाधकप्रत्ययाभावात्। तस्मात् सुखादिभ्यो व्यतिरिक्तोऽस्ति। एवञ्चेत् स एव, यज्ञायुधी इति व्यपदिश्यते।।

आह- यदि विज्ञानादन्यदस्ति विज्ञातृ, विज्ञानमपास्य तन्निदर्श्यताम् - इदं तद् ईदृशं चेति न च तन्निदर्श्यते। तस्मान्न ततोऽन्यदस्तीति। अत्रोच्यते। स्वसंवेद्यः स भवति, नासावन्येन शक्यते द्रष्टुं कथमसौ निदर्श्येतेति। यथा च कश्चिच्चक्षुष्मान् स्वयं रूपं पश्यति, न च शक्नोत्यन्यस्मै जात्यन्धाय तन्निदर्शयितुम्। न च, तद् न शक्यते निदर्शयितुमित्येतावता, नास्तीत्यवगम्यते। एवमसौ पुरुषः स्वयमात्मानमुपलभते, न चान्यस्मै शक्नोति दर्शयितुम्। अन्यस्य द्रष्टुस्तं पुरुषं प्रति दर्शनशक्त्यभावात्। सोऽप्यन्यः पुरुषः स्वयमात्मानमुपलभते, न च परात्मानम्। तेन सर्वे स्वेन स्वेनात्मना आत्मानमुपलभमानाः सन्त्येव, यद्यपि परपुरुषं नोपलभन्ते इति।

अथाऽस्मिन्नर्थे ब्राह्मणं भवति, शान्तायां वाचि किं? ज्योतिरेवायं पुरुषः आत्मज्योतिः सम्राडिति होवाचेति। परेण

नोपलभ्यते इत्यत्राऽपि ब्राह्मणं भवति अगृह्यो न हि गृह्यते इति। परेण न गृह्यते इत्येतदभिप्रायमेतत्। कुतः? स्वयञ्ज्योतिष्टवचनात्। अथापि ब्राह्मणं भवति, अत्रायं पुरुषः स्वयञ्ज्योतिर्भवति। केन पुनरुपायेन अयमन्यस्मै कथ्यते इति। तत्राप्युपाये ब्राह्मणं भवति, स एष नेति नेत्यात्मेति होवाचेति। असौ एवंरूप इति न शक्यते निदर्शयितुम्। यच्च परः पश्यति, तत्प्रतिषेधस्तस्योपदेशोपायः। शरीरं परः पश्यति, तेनात्मा उपदिश्यते। शरीरं नात्मा, अस्ति शरीरादन्य इति। स चात्मेति शरीरप्रतिषेधेनोपदिश्यते। तथा प्राणादयो नात्मान, तत्प्रतिषेधेन तेभ्योऽन्य उपदिश्यते। तथा परस्थाः सुखादयः परेण लिङ्गैरुपलक्ष्यन्ते। तेऽपि नात्मान इति तत्प्रतिषेधेनान्य उपदिश्यते। यः स्वयं पश्यति, न ततोऽन्यः पुरुष इत्येतदपि पुरुषववृत्त्याऽनुमीयते। यदाऽसौ पुरुषः पूर्वेद्युः सामिकृतानामर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते। अतः प्रवृत्याऽवगम्यते - नूनमसावनित्यान् नित्यमवगच्छतीति।।

उपमानाच्चोपदिश्यते, यादृशं भवान् स्वयमात्मानं पश्यति, अनेनोपमानेनावगच्छ - अहमपि तादृशमेव पश्यामीति। यथा कश्चिदात्मीयां वेदनां परस्मा आचक्षीत, दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुद्ध्यमानस्येव मे भवतीति। अतः स्वयमवगम्यमानत्वादस्ति तद्व्यतिरिक्तः पुरुषः इति।।

यदुच्यते- विज्ञानमपास्य तद् निदर्शयतामिति। यद्युपायमेव निषेधसि, न शक्यमुपायमन्तरेणोपेयमुपेतम्। अयमेवाभ्युपायो ज्ञातव्यानामर्थानां यो यथा ज्ञायते स

तथेति। तद् यथा, कः शुक्लो नाम यत्र शुक्लत्वमस्ति। किं शुक्लत्वं नाम। यत्र शुक्लशब्दप्रवृत्तिः। क्व तस्य प्रवृत्तिः। यच्छुक्लशब्दे उच्चरिते प्रतीयते। तस्मान्न विज्ञानं प्रत्याख्याय कस्यचिद्रूपं निदर्शयितुं शक्यम्। न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति। अप्रतीतेऽपि हि प्रत्ये सति अर्थः प्रतीयते एव। न हि विज्ञानं प्रत्यक्षम्। विज्ञेयोऽर्थः प्रत्यक्ष इति। एतत् पूर्वमेवोक्तम्। तदवश्यकर्तव्येऽपह्नवे कामं विज्ञानमपह्नूयेत, नार्था इत्येतदुक्तमेव। तस्मादस्ति सुखादिभ्योऽन्यो नित्यः पुरुष इति।।

अथ यदुक्तं, विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति इति। अत्रोच्यते। अत्रेव मा भगवान् मोहान्तमपीपददिति परिचोदनोत्तरकाले अपह्नुत्य मोहाऽभिप्रायमस्य वर्णितवान् - न वा अरे मोहं ब्रवीमि अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा, मात्रासंसर्गस्त्वस्य भवतीति। तस्मान्न विज्ञानमात्रं, तस्माद्वैषम्यम्।।

यदुक्तं, न चैषयातीति विधिशब्द इति। मा भूद्विधिशब्दः, स्वर्गकामो यजेतेति वचनान्तरेणावगतमनुवदिष्यते। तस्मादविरोधः।।5।।

धर्मे वेदप्रामाण्याऽधिकरणम्।।5।।

सू.1.1.6

कर्मैके तत्र दर्शनात्।।6।।

उक्तं, नित्यः शब्दार्थयोः सम्बन्धः इति। तदनुपपन्नम्। शब्दस्यानित्यत्वात्। विनष्टः शब्दः पुनरस्य क्रियमाणस्यार्थेन

अकृतकः सम्बन्धो नोपपद्यते। न हि प्रथमश्रुताच्छब्दात् कश्चिदर्थं प्रत्येति। कथं पुनरनित्यः शब्दः। प्रयत्नादुत्तरकालं दृश्यते यतः। अतः प्रयत्नानन्तर्यात्, तेन क्रियते इति गम्यते। नन्वभिव्यञ्ज्यात् स एनम्। नेति ब्रूमः। न हि अस्य प्रागभिव्यञ्जनात् सद्भावे किञ्चन प्रमाणमस्ति। संश्चाभिव्यज्यते, नासन्।।6।।

सू.1.1.7

अस्थानात्।।7।।

नो खल्वप्युच्चरितं मुहूर्तमप्युपलभामहे। अतो विनष्ट इत्यवगच्छामः। न च सन्, नोपलभ्यते। अनुपलम्भकारणानां व्यवधानादीनामभावेऽप्यनुपलम्भनात्। न चासौ विषयमप्राप्तः। आकाशविषयत्वात्। कर्णच्छिद्रेऽप्यनुपलम्भनात्।।7।।

सू.1.1.8

करोतिशब्दात्।।8।।

अपिच, शब्दं कुरु, मा शब्दं कार्षीरिति व्यवहर्तारः प्रयुञ्जते। न त नूनमवगच्छन्ति, स एवायं शब्द इति।।8।।

सू.1.1.9

सत्त्वान्तरे च यौगपद्यात्।।9।।

नानादेशेषु च युगपच्छब्दमुपलभामहे। तदेकस्य नित्यस्यानुपन्नमिति असति विशेषे नित्यस्य नानेकत्वं कार्याणान्तु बहूनां नानादेशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसम्बन्धः तस्मादप्यनित्यः।।9।।

सू.1.1.10

प्रकृतिविकृत्योश्च।।10।।

अपिच, दध्यत्र इत्यत्र इकारः प्रकृतिः, यकारो विकृतिरित्युपदिशन्ति। यद्विक्रियते, तदनित्यम्। इकारसादृश्यं च यकारस्योपलभ्यते। तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते।।10।।

सू.1.1.11

वृद्धिश्च कर्तृभूम्नाऽस्य।।11।।

अपि च बहुभिरुच्चारयद्भिर्महान् शब्दः श्रूयते। स यदि अभिव्यज्यते, बहुभिरल्पैश्चोच्चार्यमाणस्तावानेवोपलभ्येत। अतो मन्यामहे नूनमस्य एकैकेन कश्चिदवयवः क्रियते, यत्प्रचयादयं महानुपलभ्यते।।11।। ।।पूर्वपक्षः।।

सू.1.1.12

समं तु तत्र दर्शनम्।।12।।

तु शब्दात् पक्षो विपरिवर्तते। यदुक्तं, प्रयत्नादुत्तरकाले दर्शनात् कृतकोऽयमिति। यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः। ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यते इति भविष्यति। यदि प्रागुच्चारणादनभिव्यक्तः प्रयत्नेनाभिव्यज्यते। तस्मादुभयोः पक्षयोः सममेतत्।।12।।

सू.1.1.13

सतः परमदर्शनं विषयानागमात्।।13।।

यदपरं कारणमुक्तम्। उच्चारितप्रध्वस्त इति। अत्रापि यदि शक्ष्यामो नित्यतामस्य विस्पष्टं वक्तुं. ततो नित्यप्रत्ययसामर्थ्यात् कदाचिदुपलम्भं, कदाचिदनुपलम्भं दृष्ट्वा किञ्चिदुपलम्भस्य निमित्तं कल्पयिष्यामः। तच्च संयोगविभागसद्भावे सति भवतीति, संयोगविभागावेवाभिव्यञ्जकाविति वक्ष्यामः। उपरतयोः संयोगविभागयोः श्रूयते इति चेत्। नैतदेवम्। न नूनमुपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति। न हि ते प्रत्यक्षा इति।।

यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति, न कुर्वन्ति, आकाशविषयत्वाच्छब्दस्य। आकाशस्यैकत्वाद् य एवायमत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति स्रुघ्नस्थैः संयोगविभागैरभिव्यक्तः पाटलिपुत्रेऽप्युपलभ्येत। यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद् वायुष्वेव करिष्यन्ति। यथा तन्तवस्तन्तुष्वेव पटम्। तस्य पाटलिपुत्रेष्वनुपलम्भो युक्तः, स्रुघ्नस्थत्वात्तेषाम्। यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः। दूरे सत्याः कर्णशष्कुल्याः अनुपकारकाः संयोगविभागाः। तेन दूरे यच्छ्रोत्रं. तेन नोपलभ्यते इति। नैतदेवम्। अप्राप्ताश्चेत् संयोगविभागाः श्रोत्रस्योपकुर्युः, सन्निकृष्टविप्रकृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम्। न च युगपदुपलभेते। तस्मान्नाप्राप्ता उपकुर्वन्ति। न चेदुपकुर्वन्ति, तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागाविति।।

नैतदेवम्। अभिघातेन हि प्रेरिता वायवस्तिमितानि वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्ति, यावद्वेगमभिप्रतिष्ठन्ते। ते च वायोरप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते। अनुपरतेष्वेव तेषु शब्द उपलभ्यते, नोपरतेषु। अतो न दोषः। अत एव चानुवातं दूरादुपलभ्यते शब्दः।।13।।

सू.1.1.14

प्रयोगस्य परम्।।14।।

यदपरं कारणमुक्तं - शब्दं कुरु, मा कार्षीरिति व्यवहर्त्तारः प्रयुञ्जते। यद्यसंशयं नित्यः शब्दः

शब्दप्रयोगं कुर्विति भविष्यति। यथा गोमयान् कुर्विति संवाहे।।14।।

सू.1.1.15

आदित्यवद्यौगपद्यम्।।15।।

यत्तु, एकदेशस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमिति। आदित्यं पश्य देवानाम्प्रिय ! एकः सन्ननेकदेशावस्थित इव लक्ष्यते। कथं पुनरवगम्यते, एक आदित्य इति। उच्यते। प्राङ्मुखो देवदत्तः पूर्वाह्ने सम्प्रति पुरस्तादादित्यं पश्यति, तस्य दक्षिणतोऽवस्थितो न द्वौ पश्यति। आत्मनश्च सम्प्रति न तिरश्चीनं देवदत्तस्यार्जवे। तस्मादेक आदित्य इति। दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः। एवं शब्दोऽपि व्यामोहादनवधारणं देशस्य। यदि श्रोत्रं संयोगविभागदेशमागत्य शब्दं गृह्णीयात्, तथापि तावदनेकदेशता कदाचिदवगम्येत। न च तत् संयोगदेशमागच्छति। प्रत्यक्षा हि कर्णशष्कुली तद्देशा गृह्यते। वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्ते इति नानुपपन्नम्। अत एव

व्यामोहो, यन्नानादेशेषु शब्द इति। आकाशदेशस्य शब्द इति। एकं च पुनराकाशम्। अतोऽपि न नानादेशेषु। अपि च, ऐकरूप्ये सति देशभेदेन कामं देशा एव भिन्ना, न तु शब्दः। तस्माद् अयमप्यदोषः।।15।।

सू.1.1.16

वर्णान्तरमविकारः।।16।।

न च दध्यत्र इत्यत्र प्रकृतिविकारभावः। शब्दान्तरम् इकाराद् यकारः। न हि यकारं प्रयुञ्जाना इकारमुपाददते। यथा कटं चिकीर्षन्तो वीरणानि। न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर्विकृतिर्वा उच्यते। न हि दधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावोऽवगम्यते। तस्मादयमप्यदोषः। 16।।

सू.1.1.17

नादवृद्दिपरा।17।।

यच्चैतद् बहुभिर्भेरीमाध्मनद्भिः शब्दमुच्चारयद्भिर्म्महान् शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते। नैवम्। निरवयवो हि शब्दः। अवयवभेदानवगमाद्, निरवयवत्वाच्च महत्वानुपपत्तिः। अतो न वर्द्धते शब्दः। मृदुरेकेन। बहुभिश्चोच्चार्यमाणे तान्येवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वो नेमि व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येणानेकशो ग्रहणान्महानिव , अवयववानिवोपलभ्यन्ते। संयोगविभाग नेरन्तर्येण क्रियमाणाः शब्दमभिव्यञ्जन्तो नादशब्दवाच्याः। तेन नादस्यैषा वृद्धिः, न शब्दस्येति।।17।। उत्तरम्।।

सू.1.1.18

नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्।।18।।

नित्यः शब्दो भवितुमर्हति। कुतः। दर्शनस्य परार्थत्वात्। दर्शनमुच्चारणं, तत् परार्थे, परमर्थं प्रत्याययितुम्। उच्चारितमात्रे हि विनष्टे शब्दे न चोऽन्योऽन्यान् अर्थे प्रत्याययितुं शक्नुयात्। अतो न परार्थमुच्चार्येत। अथ न विनष्टः, ततो बहुश उपलब्धत्वादर्थावगम इति युक्तम्। अर्थवत्सादृश्यादर्थावगम इति चेत्। न कश्चिदर्थवान्, सर्वेषां नवत्वात्। कस्यचित् पूर्वस्य कृत्रिमः संबन्धो भविष्यतीति चेत्। तदुक्तम्। सदृश इति चावगते व्यामोहात् प्रत्ययो व्यावर्तेत; मालाशब्दान्मालाप्रत्यय इव। यथा गावीशब्दात् सास्नादिमति प्रत्ययस्यानिवृत्तिः, तद्वदभविष्यतीति चेत्। न हि , गोशब्दं तत्रोच्चारयितुमिच्छा। नेहान्यशब्दोच्चिचारयिषा। न चैकेनोच्चारणायत्नेन संव्यवहारश्चार्थसंबन्धश्च शक्यते कर्तुम्। तस्माद्दर्शनस्य परार्थत्वान्नित्यः शब्दः।।18।। सिद्घान्तः।।

सू.1.1.19

सर्व्वत्र यौगपद्यात्।।19।।

गोशब्दे उच्चरिते सर्वगवीषु युगपत् प्रत्ययो भवति। अतः आकृतिवचनोऽयम्। न चाऽऽकृत्या शब्दस्य संबन्धः शक्यते कर्त्तुम्। निर्दिश्य ह्याकृतिं कर्त्ता संबध्नीयात्। गोपिण्डे च बहूनामाकृतीनां सद्भावाच्छब्दमन्तरेण गोशब्दवाच्यां विभक्तामाकृतिं केन प्रकारेणोपदेक्ष्यति?। नित्ये तु सति गोशब्दे बहुकृत्व उच्चरितः श्रुतपूर्वश्चाऽन्यासु गोव्यक्तिष्वन्वयव्यतिरेकाभ्यामाकृतिवचनमवगमयिष्यति।तस्मादपि नित्यः। 19।।

सू.1.1.20

संख्याऽभावात्।।20।।

अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति , नाऽष्टौ गोशब्द इति। किमतो? यद्येवम्। अनेन वचनेनावगम्यते , प्रत्यभिजानन्तीति। वयं तावत् प्रत्यभिजानीमो , न नः करणदौर्बल्यम्। एवमन्येऽपि प्रत्यभिजानन्ति , स एवायमिति। प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद् वयमिवान्येपि , नान्य इति वक्तुमर्हन्ति। अथ मतम्, अन्यत्वे सति सादृश्येन व्यामूढाः, सा - इति वक्ष्यन्ति। तन्न हि ते सदृश इति प्रतियन्ति , किं तर्हि स एवायमिति। विदिते च स्फुटेऽन्यत्वे , व्यामोह इति गम्यते। न च , अयमन्य इति प्रत्यक्षमन्यद्वा प्रमाणमस्ति ।।

स्यादेतत्। बुद्धिकर्म्मणी अपि ते प्रत्यभिज्ञायेते , ते अपि नित्ये प्राप्नुतः । नैष दोषः। न हि ते प्रत्यक्षे। अथ प्रत्यक्षे नित्ये एव। ह्यस्तनस्य शब्दस्य विनाशब्दान्योऽद्यतन इति चेत्। नैष विनष्टः। .यत एनं पुनरुपलभामहे। न हि प्रत्यक्षदृष्टं मुहूर्त्तमदृष्ट्वा पुनरुपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति। परिकल्पयन्तो , द्वितीयसंदर्शने मातरि , जायायां , पितरि वा नाऽऽश्वस्युः। न ह्यनुपलभ्यमात्रेण नास्तीत्यवगम्य ,नष्ट इत्येव कल्पयन्ति। अप्रमाणतायां विदितायां , नास्तीत्यवगच्छामः। न हि प्रमाणे प्रत्यक्षे सति , अप्रमाणता स्यात्। अस्तीति पुनरव्यामोहेनावगम्यमाने , न क्वचिदप्यभावः। न चाऽसिद्धे अभावे

व्यामोहः। न च सिद्धोऽभावः। तस्मादसति व्यामोहे , नाभावः। तदेतदानुपूर्व्या सिद्धम्। तस्मात् पुरस्तादनुच्चरितमनुपलभाना अपि न विनष्ट इत्यवगन्तुमर्हन्ति। यथा गृहान्निर्गताः सर्वगृहजनमपश्यन्तः पुनः प्रविश्योपलभमाना अपि , न प्राक् प्रवेशाद् विनष्टा इत्यवगच्छन्ति। तद्वदेनमपि , न अन्य इति वक्तुमर्हन्ति। येऽपि सर्वेषां भावानां प्रतिक्षणं विनाशमभ्युपगच्छन्ति , तेऽपि न शक्नुवन्ति शब्दस्य वादितुम्। अन्ते हि क्षयदर्शनात् ते मन्यन्ते । न च शब्दस्यान्तः। न च क्षयो लक्ष्यते। स इति प्रत्यक्षः प्रत्ययः , सदृश इत्यनुमानिकः। न च प्रत्यक्षविरुद्धमनुमानमुदेति ,स्वकार्यं वा साधयति। तस्मान्नित्यः।।20।।

सू.1.1.21

अनपेक्षत्वात्।।21।।

येषांमनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषाञ्चिदनित्यता गम्यते येषां विनाशकारणमुपलभ्यते यथाऽभिनवं पटं दृष्ट्वा न चैनं क्रियमाणमुपलब्धवान्। अथवा अनित्यत्वमवगच्छति रूपमेव दृष्ट्वा। तन्तुव्यतिषङ्गजानितोऽयं तन्तुव्यतिषङ्गविनाशात् तन्तुविनाशाद्वा विनश्यतीत्यवगच्छति, नैवं शब्दस्य किञ्चित् कारणमवगम्यते , याद्वनाशाद्विनङ्क्ष्यतीत्यवगम्यते।।21 ।।

सू.1.1.22

प्रख्याभावाच्च योगस्य।।22।।

इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम्। ननु वायुकारणकः स्यादिति वायुरुद्गतः संयोगविभागैः शब्दो भवतीति। तथाच शिक्षाकाराः आहुः -वायुरापद्यते शब्दतामिति। नैतदेवम्। वायवीयश्चेच्छब्दो भवेद् वायोः सन्निवेशविशेषः स्यात्। न च वायवीयान्

अवयवान् शब्दे सतः प्रत्यभिजानीमो ,यथा पटस्य तन्तुमयान्। न चैवं भवति। स्यच्चेदेवं,स्पर्शनेनोपलभेमहि। न च वायवीयानवयवान् शब्दगताम् स्पृशामः। तस्मान्न वायुकारणकः। अतो नित्यः।।22।।

सू.1.1.23

लिङ्गदर्शनाच्च।।23।।

लिङ्गं चैवं भवति, वाचा विरूपनित्ययेति। अन्यपरं हीदं वाक्यं वाचो नित्यतामनुवदति। तस्मान्नित्यः

शब्दः।।23।।हेतुः।।

शब्दनित्यताऽधिकरणम्।।6।।

सू.1.1.24

उत्पत्तौ वाऽवचनाः स्युरर्थस्यातन्निमित्तत्त्वात्।।24।।

यद्यप्यौत्पत्तिको नित्यः शब्दोऽर्थसंबन्धश्च तथापि , न चोदनालक्षणो धर्म्मः। चोदना हि वाक्यम्। न हि ,अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यतो वाक्यादन्यतामस्मात् पदाद् , अग्निहोत्रात् स्वर्गो भवतीति गम्यते। गम्यते तु पदत्रये उच्चरिते। न चाऽत्र चतुर्थः शब्दोऽस्त्यन्यदतः पदत्रयसमुदायात्। न चाऽयं समुदायोऽस्ति लोकं,यतोऽस्य

व्यवहारादर्थोऽवगम्यते। पदानि अमूनि प्रयुक्तानि , तेषां नित्योऽर्थः। अप्रयुक्तश्च समुदायः तस्मात् समुदायस्यार्थः कृत्रिमो व्यामोहो वा। न च पदार्थः एव वाक्यार्थः। सामान्ये हि पदं प्रवर्त्तते विशेषे वाक्यम्। अन्यच्च सामान्यम् , अन्यो विशेषः। न च पदार्थाद्वाक्यार्थावगतिः,असंबन्धात्। असति चेत् सम्बन्धे ,कस्मिश्चित् पदार्थेऽवगतेऽऽर्थान्तरमवगम्यते , एकस्मिन्नवगते सर्वमवगतं स्यात्। न चैतदेवं भवति। तस्मादन्यो वाक्यार्थः।।

स्यादेतत्, अप्रयुक्तादपि वाक्यादसति सम्बन्धे स्वभावादर्थाऽवगम इति। यदि कल्प्येत- शब्दो धर्ममात्मीयं व्युत्क्रामेत्। न चैष शब्दधर्मो, यदाऽप्रयुक्तादपि शब्दादर्थः प्रतीयते। न हि प्रथमश्रुतात् कुतश्चिच्छब्दात् केचिदर्थं प्रतियन्ति। तदभिधीयते - पदधर्मोऽयं , न वाक्यधर्मः। वाक्याद्धि प्रथमावगतादपि प्रतियन्तोऽर्थे दृश्यन्ते। नैतदेवम्। यदि प्रथमश्रुतादवगच्छेयुः , अपि तर्हि सर्वेऽवगच्छेयुः पदार्थविदोऽन्ये च। न त्वपदार्थविदोऽवगच्छन्ति। तस्मान्नैतदेवम्।। ननु पदार्थविद्भिरप्यवगच्छद्भिरकृत एव वाक्यार्थसंबन्धो भविष्यति, पदार्थवेदनेन हि संस्कृताः अवगमिष्यन्ति, यथा तमेव पदार्थ द्वीतीयादिश्रवणेनेति। नेति ब्रूमः। यदि वाक्येऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्योऽर्थान्तरं प्रत्याययति , उपकारस्तु तदानीं पदार्थज्ञानादवकल्प्यते। तस्मात् कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा , न पदार्थद्वारेण संभवति वाक्यार्थज्ञानमिति।।

नन्येवं भविष्यति सामान्यवाचिनः पदस्य ,गौरिति वा,अश्व इति वा , विशेषकं शुक्ल इति वा , कृष्ण इति वा पदम् अन्तिकादुपनिपतति यदा तदा वाक्यार्थोऽवगम्यते। तन्न। न हि कथमिव गौरिति वा, अश्व इति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिरुपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्त्तेत। न च शुक्ल इत्यादेर्विशेषवचनस्य कृष्णादिनिवृत्तिर्भवति शब्दार्थः। न चानर्थको मा भूदित्यर्थपरिकल्पना शक्या। अतो न पदार्थजनितो वाक्यार्थः। तस्मात् कृत्रिमः। पदसङघाताः खल्वेते सङ्घाताश्च पुरुषकृता दृश्यन्ते। यथा , नीलोत्पलवनेष्वद्य चरन्तश्चारुसंरवाः। नीलकौशेयसंवीताः प्रणश्यन्तीव कादम्बाः। अतो वैदिका अपि पुरुषकृता इति।।24।।पूर्वपक्षः।।

सू.1.1.25

तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात्।।25।।

तेष्वेव पदार्थेषु भूतानां वर्तमानानां पदानां क्रियाऽर्थेन समुच्चारणम्। न अनपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यार्थान्तरप्रसिद्धम्। कुतः। प्रमाणाभावात्। न किञ्चन प्रमाणमस्ति , येन प्रमिमीमहे। न ह्यनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्कारसहितस्य शक्तिरस्ति पदार्थेभ्योऽर्थान्तरे वर्त्तितुमिति।।

नन्वर्थापत्तिरस्ति, यत् पदार्थव्यतिरिक्तमर्थमवगच्छामः। न च शक्तिमन्तरेण

तदवकल्प्यते इति। तन्न। अर्थस्य तन्निमित्तत्वात्. भवदर्थापत्तिर्यद्यसत्यापि शक्तौ नाऽन्यन्निमित्तमवकल्प्येत। अवगम्यते तु निमित्तम्। किम्?।पदार्थाः। पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि अथेदानीं पदार्था अवगताः सन्तो वाक्याऽर्थे गमयन्ति ।कथम्। यत्र हि, शुक्ल इति वा, कृष्ण इति वा गुणः प्रतीतो भवति, भवति खल्वसावलं गुणवति प्रत्ययमाधातुम्। तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति, संपत्स्यते एषां यथासंकल्पितोऽभिप्रायः। भविष्यन्ति विशिष्टार्थसंप्रत्ययः। विशिष्टार्थसंप्रत्ययश्च वाक्यार्थः। एवं चेद्, अवगम्यते अन्यत एव वाक्याऽर्थः। को जातुचिद् ,अदृष्टा पदसमुदायस्य शक्तिरर्थाद् अवगम्यत इति वदिष्यति। अपिचाऽन्वयव्यतिरेकाभ्यामेतदवगम्यते।भवति हि कदाचिदियमवस्था मानसादप्याघाताद् यदुच्चरितेभ्यः पदेभ्यो न पदार्था अवधार्यन्ते, तदानीं नियोगतो वाक्यार्थं नावगच्छेयुः, यद्यस्य अपार्थगर्थ्यमभविष्यत्, नियोगतस्तु नावगच्छन्ति। अपिचाऽन्तरेणापि पदोच्चारणं यः शौक्ल्यमवगच्छति,अवगच्छत्येवाऽसौ शुक्लगुणकम्। तस्मात् पदार्थप्रत्यये एव वाक्यार्थो, नास्य पदसमुदायेन सम्बन्धः।

यत्तु- श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्त्तितुमर्हतीति। सत्यम्। एवमेतत्। यत्र केवलः

पदार्थः प्रयुज्यमानः प्रयोजनाभावदनर्थकः सञ्जायते इत्यवगत भवति, तत्र वाक्यार्थोऽपि तावद्भवत्विति विशिष्टार्थताऽवगम्यते,न सर्वत्र। एवञ्च सति,गुणान्तरप्रतिषेधो न शब्दार्थ इत्येतदपि परिहृतं भवति। अपि च प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः,प्रातिपदीकार्थो विशेषक इत्याह। सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत। यच्च,एते पदसङ्गाताः पुरुषकृता दृश्यन्ते इति ,परिहृतं तदस्मरणांदिभिः। अपिचैवञ्जातीयकेऽर्थे वाक्यानि संहर्त्तुं न किंञ्चन पुरुषाणां बीजमस्ति।।

सू.1.1.26

लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात्।।26।।

लौकिकेषु पुनरर्थेषु प्रत्यक्षेणार्थमुपलभ्य,सन्नियमः सन्निबन्धनं शक्यं तत्र संहर्त्तुम्। एवञ्जातीयकानि वाक्यानि, नीलोत्पलवनेष्वद्येति। तस्माद्, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येतेभ्य एव पदेभ्यो ये अर्था अवगतास्तेभ्य एवैतदवगम्यते, अग्निहोत्रात् स्वर्गो भवतीति। पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति।।26।। उत्तरम्।। सिद्धान्तः।।

वेदस्याऽर्थप्रत्यायकत्वाऽधिकरणम्।।7।।

सू.1.1.27

वेदांश्चैके सन्निकर्षं पुरुषाख्याः।।27।।

उक्तं , चोदनालक्षणोऽर्थो धर्म इति। यतो न पुरुषकृतः शब्दस्याऽर्थेन सम्बन्धः। तत्र पदवाक्याश्रय आक्षेपः परिहृतः। इदानीमन्यथाऽऽक्षेप्स्यामः। पौरुषेयाश्चोदना इति वदामः। सन्निकृष्टकालाः कृतका वेदा इदानीन्तनाः। ते च चोदनानां समूहाः। तत्र

पौरुषेयाश्चेद्वेदाः,असंशयं पौरुषेयाश्चोदनाः। कथं पुनः,कृतका वेदा इति केचिन्मन्यन्ते। यतः पुरुषाख्याः। पुरुषेण हि समाख्यायन्ते वेदाः- काठकं,कालापकं,पैप्पलादकं,मौहुलमिति। न हि सम्बन्धादृते समाख्यानम्। न

च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्त्ता पुरुष,कार्य्यः शब्द इति। ननु प्रवचनलक्षणा समाख्या स्यात्। नेति ब्रूमः। असाधारणं हि विशेषणं भवति। एक एव हि कर्त्ता,बहवोऽपि प्रब्रूयुः। अतोऽस्मर्यमाणोऽपि चोदनया कर्त्ता स्यात्। तस्मान्न प्रमाणं,चोदनालक्षणोऽर्थो धर्म इति।27।।

सू.1.1.28

अनित्यदर्शनाच्च।।28।।

जननमरणवन्तश्च वेदार्थाः श्रूयन्ते। बवरः प्रावाहणिरकामयत, कुसुरुविन्दः औद्दालकिरकामयतेत्येवमादयः। उद्दालकस्यापत्यं, गम्यते औद्दालकिः। यद्येवं, प्राग् औद्दालकिजन्मनो नाऽयं ग्रन्थो भूतपूर्वः। एवमित्यनित्यता।।28।।पूर्वपक्षः।।

सू.1.1.29

उक्तं तु शब्दपूर्वत्वम्।29।।

उक्तमस्माभिः,शब्दपूर्वत्वमध्येतृणाम्। केवलं आक्षेपपरिहारौ वक्तव्यः, सोऽभिधीयते।।29।।सिद्धान्तः।।

सू.1.1.30

आख्या प्रवचनात्।।30।।

यदुक्तं ,कर्तृलक्षणा समाख्या काठकाद्येति। तदुच्यते। नेयमऽर्थापत्तिः। अकर्तृभिरपि ह्येनामाचक्षीरन्। प्रकर्षेण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात्। तथापि हि समाख्यातारो भवन्ति। स्मर्यते च,वैशम्पायनः सर्वशाखाध्यायी,कठः पुनरिमां केवलां शाखामध्यापयाम्बभूवेति। स बहुशाखाध्यायिनां सन्निधावेकशाखाध्यायी अन्यां शाखामनधीयानः। तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम्।।30।।

सू.1.1.31

परन्तु श्रुतिसामान्यमात्रम्।।31।।

यच्च, प्रावाहणिरिति।तन्न। प्रवाहणस्य पुरुषस्यऽसिद्धत्वाद्,न प्रवाहणस्यापत्यं प्रावाहणिः। प्रशब्दः प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित् सिद्धः। इकारस्तु यथैवापत्ये सिद्धस्तथा क्रियायामपि

कर्त्तरि। तस्माद् यः प्रवाहयति, स प्रावाहणिः। बवरइति शब्दानुकृतिः। तेन यो नित्योऽर्थस्तमेवैतौ शब्दौ वदिष्यतः। अत उक्तं ,परन्तु श्रुतिसामान्यमात्रमिति।।31।।उत्तरम्।।

सू.1.1.32

कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात्।।32।।

अथ कथमवगम्यते - नायमुन्मत्तबालवाक्यसदृश इति।। तथाहि पश्यामः- वनस्पतयः सत्रमासत,सर्पाः सत्रमासतेति। यथा,जरद्गवो गायति मत्तकानि। कथं नाम

जरद्गवो गायेत्। कथं वा वनस्पतयः सर्पा वा सत्रमासीरन्निति। उच्यते। विनियुक्तं हि दृश्यते परस्परेण संबन्धार्थम्।कथम्। ज्योतिष्टोम इत्यभिधाय, कर्त्तव्य इत्युच्यते। केनेत्याकाङ्क्षिते, सोमेनेति। किमर्थमिति स्वर्गायेति। कथमिति। इत्थमनया इति कर्त्तव्यतयेति। एवमवगच्छन्तः,पदार्थैरेभिः संस्कृतं पिण्डितं वाक्यार्थे कथमुन्मत्तबालवाक्यसदृशमिति वक्ष्यामः?।।

नन्वनुपपन्नमिदं दृश्यते,वनस्पतयः सत्रमासतेत्येवमादि। नानुपपन्नम्। नानेन , अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः। अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नानुपपन्नाः। स्तुतयो ह्येताः सत्रस्य। वनस्पतयो नामाऽचेतना इदं सत्रमुपासितवन्तः, किं पुनर्विद्वासो ब्राह्मणाः। तद्यथा लोके, सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर्विद्वासो ब्राह्मणा इति। अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाशङ्क्येत उन्मत्तबालवाक्यसदृश इति।। तस्माच्चोदनालक्षणोऽर्थो धर्म इति सिद्धम्।।32।।

वेदस्यऽपौरुषेयत्वाधिकरणम्।।8।।

इति श्रीशबरस्वामिकृते मीमांसाभाष्ये प्रथमाऽध्यायस्य प्रथमः पादः।।1।।