शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ९

← आह्निकम् ८ शब्दकौस्तुभः
आह्निकम् ९
[[लेखकः :|]]


अदर्शनं लोपः (पाoसूo1-1-60) ।।
स्थाने इत्यनुवर्त्तते। तदर्थश्च प्रसङ्गे, इति। प्रसक्तस्यानुच्चारणं लोपसंज्ञं स्यात्। संज्ञाप्रदेशा ``लोपो व्योर्वलि (पाoसूo6-1-66) इत्यादयः अर्थस्यैषा संज्ञा न तु शब्दस्य महासंज्ञाकरणसामर्थ्यात्। नन्वेवं प्रदेशेष्वेव लोप इति लौकिकोऽर्थो ग्रहीष्यते, पशुरपत्यं देवतेतिवत्। तत्किं संज्ञयेति चेत्? न, प्रसक्तस्येत्येवंरूपविशेषलाभाय सूत्रारम्भात्। अन्यथा `दधि, मधु' इत्यादौ तुगागमप्रसङ्गात्। अस्ति हि तत्र क्विपोऽदर्शनम्, तच्च लोप इति प्रत्ययलक्षणापत्तेः। नन्वेवं वार्तिकमते, भाष्यमते तु प्रत्ययलक्षणसूत्रं नियमार्थम्। तत्कथं दध्यादौ तुक्‌प्रसङ्गः? स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति, षष्ठीग्रहणस्य तत्रानुवर्त्तितत्वात्। अत एव `ग्रामणीः' इत्यादावण्कार्यं न भवति। तथाच भाश्यरीत्या `सीहितावसानयोर्लेकसिद्धत्वात्' इति वक्ष्यमाणन्यायेनेदं सूत्रे मास्त्विति चेत्? न, `घटङ्करोति' `ग्रामे तिष्ठति' इत्यादौ ``ल्यब्लोपे (काoवाo) इति पञ्चम्यापत्तेः' ``अग्निमीळे (ऋoसo1-1-1) इत्यादौ ``चादिलोपे इति निगातप्रतिषेदापत्तेश्च। आरब्धे तु सूत्रे तत्र शास्त्रतो लोकतो वा ज्यपश्चादीनां चाप्रसक्तत्वान्नोक्तदोषः। ननु वार्त्तिकमते प्रसक्तस्येत्युक्तेऽपि `ग्रामणीः' इत्यत्र वृद्धिः स्यात्, कर्मण्यणः प्रसङ्गसत्त्वादिति चेत्? न, वासरूपन्यायेन पक्षेऽणःसम्भवेऽपि क्विप्पक्षे तेनाण्प्रसङ्गस्य बाधितत्वात्। वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्राप्रामाण्यस्य शास्त्रसिद्धत्वात्।

प्रत्ययस्य लुक्‌श्लुलुपः (पाoसूo1-1-61)।।

अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते। लुक्‌श्लुलुप्शब्दौः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात्। संज्ञाप्रदेशा ``लुक्कतद्धितलुकि (पाoसूo1-2-49) ``जुहोत्यादिब्यः श्लुः (पाoसूo2-4-75) ``जनपदे लुप् (पाoसूo4-2-89) इति। विधिप्रदेशेषु भाविसंज्ञाविज्ञनान्नान्योन्याश्रयः। विशेषविहिता अप्येताः संज्ञा लोपसंज्ञां न बाधन्ते। एकसंज्ञांधिकारादन्यत्र सज्ञानां बाध्यबाधकभावो नास्तीति `आकडार' सूत्रे वक्ष्यमाणत्वात्। प्रत्ययस्येति शक्यमकर्त्तुम्। न चैवं ``लुक् तद्धितलुकि (पाoसूo1-2-49) इति विधीयमानमदर्शनं ``गोस्त्रियोः (पाoसूo1-2-46) इत्यनुवृत्तेर्गेशब्दस्यापि स्यादिति वाच्यम्, ``गोरुपसर्ज्जनस्य इति योगं विभज्य ``स्त्रिया ``लुक् तद्धितलुकि (पाoसूo1-2-49) इति सूत्रे स्त्रीग्रहणस्यैवानुवर्तनसंभवात्। अन्यथा प्रत्ययग्रहणे कृतेऽपि गमेर्डोर्लुक् स्यात्। ``कंसीयपरशव्ययोर्यञ्ञौ लुक् च (पाoसूo4-3-168) इति लुगपि प्रकृतेर्न भविष्यति ``ङ्याप्प्रातिपदिकात् (पाoसूo4-1-1) इत्यधिकारात्प्रातदिपदिकात्परस्य लुग्विधानात्। कृतेऽपि हि प्रय्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः। न चैयं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञञ्लुकां विकल्पः। वत्यनुक्तिस्तु यञञ्भ्यां मुक्त औत्सर्गिकस्य श्रवणं माभूदित्येवमर्थमिति वाच्यम्, यञ्ञ्लुकामेककालप्रतीतानामुद्देश्यविधेयभावासम्वात्। ``ट्‌युट्‌युलौ तुट्‌च (पाoसूoएo4-3-23) इत्यत्र तु ``घकालकनेषु (पाoसूo6-3-17) इति ``अनद्यतनेलङ् (पाoसूo3-2-111) इति च ज्ञापकाद्वाक्यबेदमाश्रित्य ट्‌युट्‌युलोस्तुड्‌विधीयते। तस्मादप्रत्ययनिवृत्तये तावत् प्रत्ययग्रहणं न कर्त्तव्यम्।
     स्थानिविशेषसमर्पणार्थमपि न। तथाहि, ``अत्रिभृगुकुत्स (पाoसूo2-4-65) इत्यत्र तावत् ``यस्कादिभ्यो गोत्रे (पाoसूo2-4-63) इत्यतो `गोत्रे' इत्यनुवर्त्तते। तेनात्र्यादिभ्यो यो विहितस्तस्य लुक् सिद्धः। ``जनपदे लुप् (पाoसूo4-2-81)क इत्यत्र तु ``ङ्याप्प्रातिपदिकात् (पाoसूo4-1-1) ``प्रत्ययः (पाoसूo3-1-1) इत्यनुवृत्तेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप्। ``लवणाल्लुक् (पाoसूo4-4-24) इत्यत्र प्रकृतत्वाठ्ठक एव। सर्वत्रापि इह `प्रत्ययः' इत्यस्य षष्ठी कल्पयिष्यते ``तस्मादित्युत्तरस्य (पाoसूo1-1-67) इति।
     स्यादेतत्। सर्वादेशार्थं प्रत्ययग्रहणम्। तेन ``यञ्ञोश्च (पाoसूo2-4-64) ``सुपो धातुप्रातिपदिकयोः (पाoसूo2-4-71) इत्यादिषु यत्रानेकाल् प्रत्ययस्यत्र ``अलोऽन्त्यस्य (पाoसूo2-4-71) इत्यादिषु यत्रानेकाल् प्रत्ययस्तत्र ``अलोऽन्त्यस्य (पाoसूo1-1-52) इति न भवति। तथा ``लवणाल्लुक् (पाoसूo4-4-24) इत्यादौ ``आदेः परस्य (पाoसूo1-1-54) इति न भवतीति। मैवम्, ज्ञापकादेव सर्वादेशत्वसिद्धेः। ``घोर्लोपो लेटि वा (पाoसूo7-2-7) इति हि लोपे प्रकृते ``लुग्वा दुह (पाoसूo7-3-73) इति लुग्ग्हणं ज्ञापयति लुगादयःक सर्वादेशा इति। अलोऽन्त्यस्य् ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम्। न च वैपरीत्यापत्तिः, असञ्जातविरोधित्वेन लोपेऽलोन्त्यपरिभाषायाः प्रवृत्तेः। सामान्येन लुमद्विषयं ज्ञापकं न तु लुङ्मात्रविषयमिति सर्वं सिद्धम्।
     स्यादेतत्। ``आगस्त्यकौण्डिन्ययोः (पाoसूo2-4-70) इत्यत्र ``लुगणिञोः (पाoसूoएo2-4-58) इत्यतो लुग्ग्रहणमनुवर्त्तते न वा? आद्ये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः, इति वैषम्याद्यथासङ्ख्या भावे एकैकस्य त्रय आदशाः पर्यायेण स्युः। ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयस्स्युः। लुक्च क्रियमाणो ज्ञापकात्सर्वादेश इति उभयत्रापि विभक्तिमात्रं क्षूयेत। अथ क्रियमाणो ज्ञापकात्सर्वादेश इति उभयत्रापि विभक्तिमात्रं श्रूयेत। अथ निवृत्तं ततोऽगस्तयः कुण्डिना इत्यत्र न कश्चिद्दोषः। किन्तु अगस्तीनां छात्राः `आगस्तीयाः' इत्यत्र प्राग्दीव्यतीये, अजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य निषेधाबावादनिवृत्ताववृद्धत्वाच्छो न स्यात्। प्रत्ययग्रहणे सति तु लुग्ग्रहणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्भवति, अवशिष्टभागयोर्यथासंख्यमगस्तिकुण्कडिनचौ। तेन `अगस्तयः' `कुण्डिनाः' इति सिद्धम्। प्राग्दीव्यतीये विवक्षिते तु ``गोत्रे लुगचि (पाo सूo4-1-89) इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशऽपि निवृत्ते आगस्त्यशब्दाद्वृद्धाच्चे कृते ``सूर्यतिष्य (पाoसूo6-4-149) इति यलोपे च आगस्तीयाः' इति सिद्ध्यति। कौण्डिन्ये तु नास्ति विशेषः। निवृत्तेऽपि, कुण्डिनजादेशे कौण्डिन्यशब्दादपि ``कण्वादिभ्यो गोत्रे (पाoसूo4-2-111) इत्यणि कृते, ``आपत्यस्य (पाoसूo6-4-151) इति यलोप `कौण्डिनाः' इत्येव भवितव्यम्। तस्माद् ``आगस्त्यकौण्डिन्ययोः (पाoसूo2-4-70) इत्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम्। ततश्चेह प्रत्ययग्रहणमपि कर्त्तव्यमेवेति। मैवम्, ``आगस्त्यकौण्डिन्ययोः (पाoसूo2-4-70) इत्यत्र ``यस्कादिभ्यो गोत्रे (पाoसूo2-4-63) इति गोत्रग्रहणमनुवर्त्त्य गोत्रे यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धेः। तस्मादत्र प्रत्ययग्रहणं माऽस्त्विति स्थितम्।
     स्यादेतत्। एवं सति लोपसंज्ञया सह लुगादिसंज्ञानां तुल्यव्यक्तिकत्वं स्यात्। तद्भावितस्य संज्ञेति चेत्? अविशेषाल्लोपेऽपि तथा स्यात्। उच्यते। असञ्जातविरोधित्वाल्लोपसंज्ञा तावददर्शनमात्रस्य भवति। उच्यते। असञ्चातविरोधित्वाल्लोपसं्ज्ञा तावददर्शनमात्रस्य भवति। लुगादिशंज्ञासु परमनेकसंज्ञाप्रणयनसामर्थ्यात्तद्भावितग्रहः। ततेन संज्ञासङ्करो नेत्युक्तम्। सति तु सङ्करे `हन्ति' इति शब्लुकि ``श्लौ (पाoसूo6-1-10) इति द्वित्वं स्यात्। `जुहोति' इत्यत्र श्लौ सति ``उतो वृद्धिर्लुकि हलि (पाoसूo7-3-89)क इति वृद्धिः स्यात्। न च तत्राभ्यस्तस्य न(1) इत्यनुवृत्तेः`योयोति' `नोनोति' इत्यादाविव वृद्धिर्न भविष्यतीति वाच्यम्, संज्ञासंकरपक्षे तदनुवृत्त्यसम्भवात्। अन्यथा सूत्रस्य निर्विषयतापत्तेः। न यौतिरौतीत्यादिरवकाशः। संज्ञासङ्करे तत्रापि द्वित्वस्य दुर्वारत्वात्। लोपसंज्ञा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम्। तेन `पञ्च' इत्यादौ प्रत्ययलक्षणं सिध्यतीति दिक्।
     भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण `पञ्च' इत्यादि सिद्धम्, तथापि `सुदृषद् ब्राह्मणः' इत्यत्र वक्ष्यमाणरीत्योत्तरपदाद्युदात्तत्वस्योपधादीर्गस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोऽवश्यं प्रवर्त्तनीयः। तथाच तत्र लुकः प्रत्ययसंज्ञाऽप्यादर्त्तव्येत्यवधेयम्।

प्रत्ययलोपे प्रत्ययलक्षणम् (पाoसूo1-1-62)।।
प्रत्यये लुप्तेऽपि तदाश्रयं कार्यं स्यात्। ``अल्विद्यर्थमिदम् इति वार्त्तिकमतम्। तथाहि, `अतृणेट्' इत्यत्र तिपो हल्ङ्यादिलोपे कृते ``तृणह इम् (पाoसूo 7-3-92) इति सूत्रेण विधीयमानो हलादिपित्सार्वधातुकनिमित्त इमागमोऽस्माद्वचनाद्भवति। स्थानिवत्सूक्षत्रेण तु न सिध्यति, अल्विधित्वात्। नन्वेवं प्रत्ययलक्षणमपि न स्यात्, ``वर्णाश्रये नास्ति ग्रत्ययलक्षणम् (पाoभाo21) इति निषेदादिति चेत्? न, नह्येवंरूपं वचनमस्ति, किन्तु प्रकृतसूत्रे प्रत्ययलोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्षणमित्यपि मास्तु, स्तानिवदित्यनुवृत्त्यैवेष्टसिद्धेः। एवं सति प्रत्ययलक्षणामित्युक्तेः फलं तत्पठ्यते। पुनः प्रत्ययग्रहणसामर्थ्याद्धि यत्कार्यं प्रति प्रत्ययस्यासाधारणं रूपं निमित्ततयाऽऽश्रीयते सुप्त्त्वतिङ्‌त्वादि, तदेव भवतीति लब्यते। तेन `गवे हितं गोहितम्' इत्यवादेशो न भवति, तद्विधावच्त्वमात्राश्रयणात्, तस्य च प्रत्ययाप्रत्ययसाधारण्यात्। अथात्र ``न लुपता (पाoसूo1-1-63) इति निषेधः। तर्हि `सुयशाः' इत्यत्र ``विसर्जनीयस्य सः (पाo सूo8-3-34) स्यात्, `सुवृड्' इत्यादौ ``खरि च (पाo सूo8-4-54) इति चर्त्तवं स्यादिति दिक्।
     इमागमे तु हलादौ सर्वधातुके इति प्रत्यय एव प्राधान्येनाश्रीयते इति वैषम्यम्। तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये त्वस्तीति विवेकः। अनेनैव न्यायेन ``न धातुलोपे (पाoसूo्1-1-4) इत्यत्र धातुलोप इति बहुव्रीहिणैव सिद्धे आर्द्धधातुकग्रहणसामर्थ्यात्तत्त्वेन निमित्तता लभ्यते। तेन `धिन्विकृण्व्योर्विचि' ``लोपो व्योः (पाoसूo6-1-66) इति वलोपस्य वल्निमित्तत्वात्तत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव। तेन, सुधे, शुधेनौ, सुधेनः' `सुकः, सुकर्णौ, सुकर्णः'क इत्यादि भविति। पठन्ति च---
     सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च राम।
     विशेषणे द्वे य इहादिकर्त्तुर्वदेदधीती स हि कैयटीयः ।। इति ।
     न च `तोतोर्त्ति' इत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्यात्कथं सामर्त्यमिति वाच्यम्, यङ्लुकश्चान्दसत्वात्। भाषाविषयत्वपक्षे त्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम्। नन्वेतत् ``ङ्किति च (पाoसूo1-1-5) इत्येतत्सूत्रस्थभाष्येण सह विरुद्धम्। पूर्वस्मिन्योगे यदार्द्धधातुकग्रहणं तदनवकाशमिति तत्रोक्तत्वादिति चेत्? न, अनास्थाया तथोक्तत्वादित्याहुः।
     तदुपष्टम्भेनात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम्।
     क्विपि तु ऊठ्। तेन `धिनूः' `धिन्वौ' `धिन्वः' `कृणूः' `कृण्वौ' `कृष्वः' इति भवति। `सुधी' `सुधिनौ, सुधिनः' `सुकीः, सुकृणौ, सुकृणः' इत्यादि तु न भवत्येवेत्याहुः।
     यङ्लुको भाषाविषयत्वे आर्द्धधातुकग्रहमस्य `तोतोर्ति' इत्यत्र चारितार्थ्यादावृत्तौ च मानाभावाद् गुणनिषेधप्रवृत्त्या `सुधी, `सुधिनौ' इत्येवास्तु। कृणोतेस्तु दीर्घ `सुकीः, सुकीर्णौ, सुकीर्णः' इत्यादि भवत्वित्यपि चिन्त्यम्।
     नन्वेवं `परिवीः' इत्यत्र तुग्दीर्घौ पर्यायेण स्याताम्। अनेनैवोभयविधाने पौर्वापर्याभावेन ``विप्रतिषेधे परम् (पाoसूo1-4-2) इत्यस्याप्रवृत्तेः। सत्यम्, शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणाददोषः। यद्वा, सति प्रत्यये यत्कार्यं भवितुमर्हति तदेवातिदिश्यते इति `परिवीय' इत्यादाविव `परिवीः' इत्यात्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेऽप्यदोषः।
     भाष्यकारास्त्वाहुः--तृणहइमर्थं तावन्नेदं सूत्रम्, स्थानिवत्सूत्रेणैव गतार्थत्वात्। न चाल्विधिरयम्, हलीत्यस्य निवर्त्तनात्। न चैवं `तृणहानि' इत्यात्रापीम् स्यादिति वाच्यम् ``नाभ्यस्त्स्याचि(पाoसूo7-3-87) इत्यतोऽचि नेत्यनुवत्तनात्। नापि `आशीः' इत्यत्र ``सासइदङ्हलोः (पाoसूo6-4-34) इतीत्वार्थमिदम्, आसासः क्वावुपसंख्यानेनैव सिद्धेः। तद्धि त्वयाऽपि वाच्यम्। ``शास इदङ्हलोः (पाoसूo6-4-34) इत्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थम्--आशासः क्वावेव यथा स्यात् `आशास्ते' इत्यादौ मा भूदिति। यस्माच्छासेरङ् विहितस्तस्यैवाङ्‌साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा `आशास्ते' इत्यादौ न भवति, तता क्विप्यपि न स्यादिति विध्यर्थम्। तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम्। प्रत्ययाप्रत्ययसाधारणं रूपमाश्रित्य यत्कर्यं विधीयते तन्निवृत्तिः फलम्। तेन शोभना दृषदोऽस्य प्रासादस्य सुदृशषत्। अत्र ``सोर्मनसीअलोमोषसी (पाoसूo6-1-117)इति सूत्रेण सुशब्दात्परस्य मन्नन्तस्यासन्तस्य चोत्तरपदस्य बहुव्रीहौ विधीयमानमाद्युदात्तत्वं न भवति। अत्र हि लुप्तेऽपि जसि स्तानिवद्भावेनासन्तमुत्तरपदमस्त्येव। किन्त्वस् इति रूपं प्रत्ययाप्रत्ययसाधारणम्, ``अनिनस्मन्‌ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति (पoभाo16) इति वक्ष्यमाणत्वात्। अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा। तथाच ``नञ्सुब्याम् (पाoसूo6-2-172) इत्यन्तोदात्तं पदं भवति।
     इदन्त्ववधेयम्। न केवलं स्वरार्थमेवेदं सूत्रम्। किन्तूक्तोदाहरणे एव प्राप्नुवन् ``अत्वसन्तस्य (पाoसूo6-4-14) इत्युपदादीर्घाऽपि उक्तनियमेनैवव्यावर्त्यः। वार्त्तिकमते तु उक्तस्वरस्य दीर्घव्यावृत्तेश्च सिद्धये उपायान्तरमन्वेषणीयमिति।
     ननु यदि नियमार्थं सूत्रं तर्हि `पञ्च' इत्यत्र प्रत्ययलक्षणेन पदत्वमितिवृत्तिः कथं योज्या? एवं ``समासत्वात्प्रातिपदिकत्वम् ``स्नुक्रमोः (पाo्सूo7-2-36) इतीट्' ``उभयप्राप्तौ कर्मणि (पाoसूo2-3-66) इतिकर्मणि षष्ठी इत्यादयोऽपि तत्रतत्राऽभियुक्तग्रन्थाः कथंक योज्या इति? अत्रोच्यते,योऽस्माकं नियमविधिः स मीमांसकरीत्यापरिसङ्ख्याविधिरिति तावत्सपष्टं विवरणादौ। तत्र दोषत्रयं--स्वार्थहानिः, परार्थपरिकल्पना, प्राप्तबाधश्चेति। तच्च यद्यगत्या सह्यते, इति पक्षस्तदा नियमविधेर्निषेध एवार्थः। प्रत्ययलक्षणशब्देन तद्भिन्नं लक्ष्यते, भवतीत्यनेन तु न भवतीति। तथाच स्थानेऽन्तरतमसूत्रे भाष्यम्-- ``नानेनान्तरतमा निवर्त्यन्ते `अपि तु' `अनन्तरतमा निवर्त्त्यन्ते इति। अत एव वार्त्तिककारोपि वक्ष्यति--``उभयप्राप्तौ कर्मणीति प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः (काoवाo) इति। अस्मिन्पक्षे ``उभयप्राप्तौ (पाoसूo203-66) इति परिशेतिता षष्ठीत्यादिक्रमेण व्याख्येयं, नतु विहितेति। यदि तु दोषत्रयगौरवपरिहारार्थं प्रत्ययलक्षणसूत्रं यथाश्रुतं व्याख्याय अतएव ज्ञापकात् स्थानिवत्सूत्रस्य प्रत्ययलोपेतरविषयकता कल्प्यते सामान्यपुरस्कारप्रवलृत्तस्य शास्त्रस्य विसेषतात्पर्यं हि त्वयाऽपि कल्प्यमेव। अन्यथा विकल्पापत्तेः। भाट्टमते ``न तौ पशौ करोति इत्यत्र यथा। ``पदे जुहोति इत्यादैबिराहवनीयविधेरिव विशेष विधिना सामान्यविधेः सङ्कोचसम्भवाच्च। न चैवं सामान्यस्य विशेषे उपसंहारापत्तिः, सामान्यशास्त्रप्रणयनवैय्यर्थ्यापत्तेः। वेदे तु न कश्चित्प्रणेता येनैवं पर्यनुयुज्येतेति चतुर्द्धाकरणस्याग्नेये उपसंहारो मीमांसायामभ्युपेतः। कल्पसूत्रकारास्तु तअत्रापि व्युत्था एव। तथाच भगवता कात्यायनेन सुत्रितम् ``अविशेषादुभौ वा (काoश्रौoसूo) इति। एवञ्च सामान्यशास्त्रस्य विशेषलक्षणायाक उभयवाच्यत्वात्तथै वोपपत्तौ दोषत्रयं न सोढव्यमिति पक्षस्तदोदाहृतग्रन्थाःक सम्यगेव। नैयायिकमते तु तात्पर्यसङ्कोचस्थले लक्षणा नास्त्येवेति निर्विवादम्, वलिशेषधर्मप्रकारकबोधस्योद्देश्यतायामेव तदभ्युपगमात्। सामान्यप्रकारकस्य विशेषविशेष्यस्यापि लक्षणां विना निर्वाहादिति सुधीभिराकलनीयम्।

न लुमताङ्गस्य (पाoसूo1-1-63)।।
 लुमता शब्देन प्रत्ययलोपे सति प्रत्ययलक्षणमह्गस्य कार्यं न स्यात्। वार्त्तिकमते पूर्वसूत्रप्राप्तस्यायं निषेधः। भाष्यमते तु स्थानिवत्सूत्रेप्राप्तस्य। नियमविधानां तात्पर्यसङ्कोचकत्वमात्रं न तु निषेधकतेति प्रागुक्तरीत्या तु भाष्यम तेऽपि पूर्वसूत्रेयण प्राप्तस्याय निषेध इत्यवदेयम्। एवमग्रेपि। `गर्गाः' `मृष्ट' `जुहुतः' इह यञ्शपोर्लुमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम्? कार्यते, हार्यते। ``णेरनिटि (पाoसूo6-4-51) इति णिलोपे कृते णिजपेक्षा वृद्धिर्भवत्येव। अमार्ट्। इल्ङ्यादिलोपे नित्यत्वात्कृतेऽपि वृद्धिः। अङ्गस्योति किम्? `पञ्च' `सप्त' अत्राङ्गस्येति स्वर्यते। तेनाङ्गाधिकारो गृह्यते `स्वरितेनाधिकारः (पाoसूo1-3-11) इति वचनादिति वार्तिककाराः। भाष्ये तु इदं दूषितम्। तताहि, एवं सति `उत्काम' इत्यत्र ``अतो हेः (पाoसूo6-4-105) इति हेर्लुकि कृते ``क्रमः परस्मैपदेषु (पाoसूo7-3-76) इति दीर्घो न स्यात्। तथा `जिगमिष' इत्यत्र ``गमेरिट् परस्मैपदेषु (पाoसूo7-2-58) इतीण् न स्यात्। तथा `विवृत्स' इत्यत्र ``न वृद्भ्यश्चतुर्ब्यः (पाoसूo7-2-59) इतीण्निषेधो न स्यात्। तस्मात् ``न लुमता (पाoसूo1-1-63) इत्यत्र नाङ्गधिकारः प्रतिनिर्दिश्यते, किन्तु लुमता लुप्ते प्रत्यये यदङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति। न चैवमुक्तदोषतादवस्थ्यमिति वाच्यम्, `उत्क्रम' इत्यत्र लुप्तं परस्मैपदम्। तदपेक्षया यदङ्गं शबन्तं न तस्य दीर्घो विधियते, किन्तु क्रमेः। स तु शपे प्रत्यङ्गं न तु लुप्तं प्रतीति निषेधाप्रवृत्तौ प्रत्ययलक्षणेन दीर्घप्रवृत्तेः। एवं `जिगमिष' `विवृत्स' इत्यत्रापि इटो विधिप्रतिषेधौ भवत एव। तौ हि लुमता लुप्ते परस्मैपदे यदङ्गं सन्नन्तं तस्य न क्रियते, किन्तु सकारदेः प्रत्ययस्य। स चाङ्गं नेति स्पष्टमेव।
     स्यादेतत्। पक्षद्वयेऽपि ``ञ्नित्यादिर्नित्यम् (पाoसूo6-1-197) ``कितः (पाoसूo6-1-165) ``पथिमथोः सर्वनामस्थाने (पाoसूo6-1-119) इति त्रिसूत्र्या विधीयमानाःक स्वरा लुकि कृतेऽपि प्राप्नुवन्ति। तर्याहि, गर्गाः, बिदाः, यञञोर्लुक्। उष्ट्रग्रीवाः। ``इवे प्रतिकृतौ (पाoसूo5-3-66) इति कनो ``देवंपथादिब्यश्च (पाoसूo5-3-100) इति लुप्। ततो ``ञ्नित्यादिः (पाoसूo6-1-197) इत्याद्युदात्तता प्राप्नोति। तता अत्रेरपत्यानि अत्रयः। ``इतश्चानिञः (पाoसूo4-1-122) इति ढकः ``अत्रिभृगुकुत्स (पाoसूo2-4-65) इत्यादिना लुक्। ततः कितस्तद्धितस्यान्त उदात्तो बवतीत्यन्तोदात्तता प्राप्नोति। सा हि प्रत्ययग्रहणे तदन्तग्रहणात्तद्धितान्तस्य विधीयते। न चसिद्धान्तेऽपि फिट्‌स्वरेणान्तोदात्ततया भाव्यमेवेति वाच्यम् ``राशादिभ्यां त्रिप् (उoसूo516) ``अदोस्त्रिनिश्च (उoसूo517) इत्युणादिसूत्रेण ह्यदेश्चकारानुकृष्टे त्रिप्‌प्रत्यये तस्य पित्त्वेनानुदात्तत्वादाद्युदात्तोऽत्रिशब्दः। तथाच प्रयुज्यते ``अत्रेरिव शृणुतं पूर्वस्तुतिम यथा ``शृणोरत्रेः कर्माणि कृण्वतः इति। तथा ढको लुक्यप्याद्युदात्त एव प्रयुज्यते, `अत्रीणां' सोममद्रिवः इति, ``अत्रीणां शृणुतं हवम् इति च। त्रिन्‌प्रत्ययान्तस्त्वन्तोदात्तो नकारान्तश्चेत्यन्यदेतत्। सोऽपि प्रयुज्यते ``दूरे वा ये अन्ति वा के चिदत्रिणः इति। तथा, पन्थाः प्रियो यस्य पथिप्रियः। ``सुपो धातु (पाoसूo6-1-119) इत्याद्युदात्तता प्राप्नोति। न ह्येषा त्रिसूत्री, अङ्गाधिकारस्था, येन ``न लुमता (पाoसूo 1-1-163) इति निषेधः, प्रहवर्त्तते। नाप्येतद्वस्तुतोऽकङ्गस्य कार्यत्वात्। नन्वस्तु ``कितः (पाoसूo6-1-165) िति तथा, ितरत्तु द्वयं `ञ्निति' `सर्वनामस्थाने' इति सप्तमीनिर्देशाद्वस्तुतोऽङ्गस्य कार्यम्भवत्येवेति चेत्? न, ञ्निदन्तस्यादेरित्यादिक्रमेण प्रत्ययान्तस्यैव तद्विधानात्, ``सौवर्य्यः सप्तम्यस्तदन्तसप्तम्यः इति सिद्धान्तात्। एतच्च ``भीहीभृहूमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति इति पूर्वग्रहणेन ज्ञाप्यते, इति तत्रैव भाष्येस्षष्टम्। अत एव ``उपोत्तमं रिति (पाoसूo6-1-218) इति चङ्न्तस्य। नचैवं ``चतुरश्शसि (पाoसूo6-1-167) इत्युदात्तत्वं शसन्तस्य स्यात्तथाच `षट्‌त्रिंशांश्च चतुरः कल्पयन्तः' इत्यादौ चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्ध्येदिति वाच्यम्, तत्र शस्‌ग्रहणसामर्थ्यात्तदन्तसप्तमीत्वबाधात्। इतरथा हि ``ऊडिदम्पदाद्यप्‌पुम्‌रैद्युचतुर्भ्यः इत्येव ब्रूयात्। तत्र ह्मसर्वनामस्थानग्रहणानुवृत्तेः शस एव भविष्यति, ``षट्‌त्रिचतुर्भ्योहलादिः (पाoसूo6-1-179) इति हलादेः सिद्धान्तेप्युदात्तंविधानात्। न चैवं स्वरविधिषु षष्ठ्येव निर्दिश्यतामिति वाच्यम्, रितश्चङ इत्याद्यपेक्षया रिति चङीत्युक्तावर्द्धमात्रालाघवसम्भवेन सप्तमीप्रयोगादिति।
     अत्रोच्यते। अङ्गधिकारनिर्देशपक्षे तावदुक्तदोषरिहारया वार्त्तिकमारभ्यते ``लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानम् (काoवाo) । ``सर्वामान्त्रितसिज्लुक्‌स्वरवर्जनम्(काoवाo)। प्रयोजनं ञिनि किल्लक्स्वराः ``पथिमथोः सर्वनामस्थानेलुकि इति। अस्यार्थः लुमति लमत्संज्ञया प्रतिपादितेऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयोयः स्वरस्तस्योपसंख्यानम्। प्रत्ययलक्षणेन प्राप्तोऽप्येकपदस्वरो न भवतीत्यर्थः। पदद्वयाश्रयस्तु स्यादेव। यथा `दधितिष्ठति' इत्यत्र ``पदस्य (पाoसूo8-1-16) `पदात्' (8-1-17) इत्यधिकृत्य विहितः ``तिङ्‌ङतिङः (पाoसूo8-1-28) इति निघातः। अत्र हि दधी इत्यस्य पदसंज्ञार्थं प्रत्यययलक्षणमपेक्ष्यते। तथा ` इहतिष्ठ' इत्यादौ तिङन्तत्वलाभायापि। नन्वेवं `सर्वस्तोमोऽतिरात्रः' इत्यत्र ``सर्वस्य सुपि (पाoसूo6-1-191) इत्याद्युदात्तत्वं न स्यात्। तथा `सर्पिंरागच्छ' `सप्तगच्छत' इत्यत्र ``आमन्त्रितस्य च (पाoसूo6-1-198) इति षाष्ठमाद्युदात्तत्वं न स्यात्। तथा `मा हि दातां, मा हि धाताम्' इत्यत्र ``आदिः सिचोऽन्यतरस्याम् (पाoसूo6-1-187) इत्याद्युदात्तत्वं न स्यादित्यत आह सर्वेत्यादि। इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः। न च `सर्वस्तोमः' इत्यत्र ``बहुव्रीहौ प्रकृत्या पूर्वपदम् (पाoसूo6-2-1) इति पदद्वयस्वरोऽयमिति वाच्यम् ``सर्वस्य सुपि (पाoसूo6-1-191) इति यदाद्युदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्त्तव्यम्, तथा च तत्प्राप्तिरवश्योपपादयितव्येति भावात्। न च सर्पिश्शब्दस्यामन्त्रितस्वरं विनाऽप्याद्युदात्तता लब्धुं शक्या ``अर्चिशुचिहुसृपिछादिछर्दिभ्यः (उoसूo273) इत्यौणादिके इसि प्रत्यये कृतेऽन्तोदात्तत्वात्। अव्युत्पत्तिपक्षेऽपि फिट्‌स्वरेण तथात्वात्। न च ``नब्विषयस्य (फिoसूo26)क इत्याद्युदात्तः `अनिसन्तस्य' इति पुर्युदासात्। कैयटेन तु सर्पिःशब्दस्य घृतादित्वं किमर्थं कल्पितमिति चिन्त्यम्। ननु सप्तशब्दःक ``सप्यशूभ्यां तुट् च (उoसूo163) इति कनिनन्तो व्युत्पादितः। तथाच नित्त्वात् आद्युदात्तः, अव्युत्पत्तिपक्षेऽपि तथैव ``न्रः संख्यायाः (फिoसूo28) इति वचनादिति चेत्? न, उभयथाऽपि घृतादित्वेनान्तोदात्तत्वात्। तथा च प्रयुज्यते ``सप्तद युञ्जन्ति रथमेकचक्रम् इति । इह सिज्लुग्ग्रहणं माऽस्तु। ``गातिश्था (पाoसूo2-4-77) इत्यत्र सिज्ग्रहणसामर्थ्याल्लुकि स्वरः सिद्धः। अन्यथा हि लाघवार्थं च्लेरेव लुकं विदध्यात्। एवं हि `अभूत्' `अपात्' इत्यादिसिद्धये ``अस्तिसिचोऽपृक्ते (पाoसूo8-3-96) इत्यत्र सकारान्तरप्रश्लेषक्लेशोऽपि नाश्रयणीय इति। न चैवं च्लेर्लुकि ``आतः (पाoसूo3-4-110) इति सूत्रं विध्यर्थमेव स्यान्न तु नियमार्थम्, तथाच तत्र लङ्निवृत्तेये च्लिलुकीति वक्तव्यं स्यादिति विपरीतगौरवापत्तिरिति वाच्यम्? ङित इत्यनुवृत्त्यैव लटो व्युदस्तत्वात्। तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम्। वार्त्तिकारम्भस्य प्रयोजनमाह--प्रयोजनमिति। ञिनिशब्दयोरिकार उच्चरणार्थः ``सुट्‌तिथोः (पाoसूo3-4-107) इतिवत्। एते स्वरा निवर्त्यमानतया प्रयोजनमित्यर्थः। प्रयोजनान्तरमाह-पथिमथोरिति। तदेवं वचनबलेन त्रिसूत्र्या अतिव्याप्तिरुद्धर्त्तव्येतीह सूत्रे स्थितम्।
     वस्तुतस्तु नैतदर्थं वचनं क्रियतदे ज्ञापकबलेनैव `बिदाः' `गर्गाः' इत्यादेः सिद्धत्वात्। तथाच ``संज्ञायामुपमानम् (पाoसूo6-1-204) इति सूत्रे वार्त्तकम्- ``उपमानस्याद्युदात्तत्ववचनं ज्ञापकमनुबन्धलयक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य इति। अस्मिश्च पक्षे ``पथिमथोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवति इति वचनमेव कर्त्तव्यम्। न ह्ययमनुबनधलक्षणः स्वरः, येनोक्तज्ञापकबलेन वार्येत। न च स्वरमायत्रविषयकं ज्ञापकमिति वाच्यम्, आमन्त्रितस्वरसिज्‌लुक्स्वरयोरसिद्धिप्रसङ्गात्। न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षमं न भवतीति ज्ञाप्य तामिति वाच्यं, `सर्वस्योमः' इत्यत्राद्युदात्ताऽसिद्धिप्रसङ्गात्। यद्वा, अस्तु सप्तमीनिर्दिश्टस्वरविशयकमेव ज्ञापकम्। ``सर्वस्य सुपि (पाoसूo6-1-191) इति सप्तमीमपनीय सुप इति षष्ठी पाठ्या। तताच पथिस्वरार्थं वचनं नारम्भणीयम् ञ्नित्कित्स्वरार्थं तूभयथाऽपि नारम्भणीयमिति सर्वं सुस्थम्। पक्षद्वयमपीदं ``संज्ञायामुपमानम् (पाoसूo6-1-204) इति सूत्रे भाष्यकारैः स्पष्टमुक्तम्। तदयं निर्गलितोर्थः-- त्रिसुत्र्यां शङ्कितस्यातिव्याप्तिदोशस्य वचनेनोद्धारमापातत उक्त्वा ज्ञापकेनैवैष्ट सिद्धिरिति निष्कर्षोऽग्रे कृत इति। एतच्च समाधानमङ्गाधिकारो निर्दिश्यत इति पक्ष इव वस्तुतोऽङ्गस्य यत्कार्यमिति निष्कृष्टक्षेऽपि तुल्यम्। अत एव ``संज्ञायामुपमानम् (पाoस्ूo6-1-204) इति सूत्रे भाष्यकारैः पक्षद्व्यसाधारण्येनैनोक्तज्ञापनवार्तिकं योजितम्। प्रकृतसूत्रस्थभाष्यकैयटयोस्तु निष्कृष्टपक्षे उत्तदोषप्रसङ्ग एव नास्तीति लभ्यते। तत्रेत्थमाशयमभियुक्ता वर्णयन्ति--ज्ञापकं द्विविधं सामान्यापेक्षं विशेषापेक्षं च। तत्र यदा ``भीह्री (पाoसूo6-1-192) इत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुदात्त इत्यलोऽन्त्यपरिभाषया प्रत्ययान्त एवोदात्तः स्यात्, सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदात्तः स्यादिति स्पष्टः फलभेदः। तथा ``उपोत्तमं रिति (पाoसूo6-1-217) ``चह्यन्यतरस्याम् (पाoसूo6-1-218) इत्यत्रापि। ``ञ्नित्यादिर्नित्यम् (पाoसूo6-1-197) ``पथिमथोः सर्वनामस्थाने (पाoसूo6-1-199) इत्यादौ तु नास्ति फलमेदः। तदन्तस्य हि कार्यित्वे प्रकृत्यादेरेवोदात्तत्वं, ञ्निदादिपूर्वस्यापि कार्यित्वे तथैवेति। तथाच तत्र सौवर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवेति। ``संज्ञायामुपमानम् (पाoसूo6-1-204) इत्यत्र भाष्यकैयटादिग्रन्थास्तु सामान्यापेक्षं ज्ञापकमाश्रित्य योजयितव्य इति। `अत्रय' इत्यत्र तु स्वपरो न भवति, लुकि कृते कार्यिणोऽभावात्। प्रत्ययलक्षणं हि यदन्यस्य कार्यं तत्प्रत्ययलोपेऽपि भवति, न तु प्रत्ययस्यैव यत्कार्यं तदपि। न च प्र (1)त्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति वाच्यम्। ``येन विधिः (पाoसूo1-1-72)क इतिसूत्रेणैव तल्लाभस्य वक्ष्यमाणत्वात्। विशेषणविशेष्यभावे च कामचारात्। नन्वेवमपि स्तानिवत्सूत्रेण स्यादेवोदात्ततेति चेत्? न, लोपस्याभावरूपतया तदीयान्तस्य तदुदात्ततायाश्च बाधात्। अत एव हि`अभूत्' इत्यादौ लुप्तस्य सिचो नेट्। न ह्यभावस्य भावोऽवयवः सम्बवति। भाष्यमते ``अनल्विधौ (पाoसूoएo1-1-56) इति निषेधाच्च। क्विब्विजादीनां तु ``नेड्‌वसि (पाoसूo7-2-8) इतीण्निषेदोऽप्यस्ति। न चैवं नखनिर्भिन्ने एस्प्रसङ्ग, तस्यापि लुकापहारादिति दिक्। वस्तुतो यदङ्गमिति व्याख्यानाद् `राजपुरुषः' इत्याद्यपि निर्बाधम्, भसंज्ञाया निषेधेनाल्लोपाभावात्, सुबन्तत्वप्रयुक्तपदसंज्ञया नलोपाच्च। तथा `अहर्ददाति' इत्यत्र रेफोऽपि सिद्धः। असुपीति निषेधो हि वस्तुतोऽह्गस्य कार्यमिति नेह प्रवर्त्तते। अङ्गाधिकारनिर्देशे तु प्रवर्त्तेतासौ। अत एव ``अह्रो रविधौ िति वचनमारभ्यते। न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम्, `दीर्घाहो निदाघः' इत्यादौ हल्‌ङ्यादिलोपेऽपि रेफापत्तेः। एतेन `असुपि' इति पर्युकदासमाश्रित्य `अहर्ददाति' इत्यत्र दाधातोः सुब्बिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम्, `दीर्गाहो निदाघः' इत्यत्रातिप्रसङ्गात्। यद्यपि रुत्वरत्वयोरसिद्धतया पूर्वं नलोपे कृतेऽकारस्यैव रुत्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विषये नलोपो नेष्यते, रुत्वरत्वोबयारभ्यसामर्थ्यात्। नह्यकारस्य रौ रे वा विशेषोऽस्ति। न च सम्बुद्धौ नलोपनिषेधाद् `हे अहर्गच्छ' `हे दीर्घाहो निदाघ' इत्यत्र चरितार्थता, एवमपि ``रूपरात्रि (काoवाo) इति रूत्वस्य वैयर्थ्यापत्तेः। नन्वे तदपि सम्बोधने चरितार्थमिति चेत्? सत्यम्, ``अहन् (पाoसूo8-2-68) इत्यावर्त्यैकेन नलोपाभावनिपातनात्सिद्धमिति दिक्।
     स्यादेतत्। परमवाचा, परमगोदुहा, परमलिहा, परमदण्डिना, परमदिवा, `परमकुमार्या' इत्यत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्योत्तरस्वण्डस्य पदसंज्ञा स्यात्। ततश्च ``चोः कुः (पाoसूo8-2-30) ``दादेर्धातोर्धः (पाoसूo8-2-32) ``होढः (पाoसूo8-2-31) ``नलोपः प्रातिपदिकान्तस्य (पाoसूo8-2-7) ``दिव उत् (पाoसूo6-1-131) ``इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (पाoसूo6-1-127) इत्येते विधयः प्रसज्येरन्। न च भसंज्ज्ञया पदसंज्ञाया बाधः, भिन्नावधिकत्वात्। भसंज्ञा हि समस्तस्य प्राप्ता पदसंज्ञा तूत्तरखण्डस्य। अत्र भाष्यम्। भसंज्ञासूत्रे ``सुप्तिङन्तम् (पाoसूo1-4-14) इति सूत्रात्सुबन्तमित्यनुवर्त्तनीयम्। तदयं सूत्रार्थः यजादौ असर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायोभसंज्ञो भवति, तदवयवभूतं सुबन्तं यद्यस्ति तर्हि तदपि भसंज्ञां स्यात् यजादावनन्तरे इति। इह च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवयवस्य त्वन्वाचयशिष्टा ``कर्त्तुः क्यङ् सलोपश्च (पाoसूo3-1-11) इति वत्। तेन `राज्ञः' इत्यादौ सुबन्तावयवाभावेऽपि भवति, सुबन्तावयवसत्त्वे तु तस्य समुदायस्य चेत्युभयोरपि भवतीति विवेकः। नन्वेवमपि `परमावाचौ' `परमवाचः' इत्यादौ भत्वाभावात्पदकार्यं स्यादेवेति चेत्? न, तत्र भत्वाभावेपि``असर्वनामस्थाने इति पदसंज्ञानिषेधात्। ``स्वादिष्वसर्वनामस्थाने (पाoसूo1-4-17) इत्यत्रापि हि सुबन्तमित्यनुवर्त्तते। प्रसज्यप्रतिषेधश्चायम्। तत्सामर्थ्यादनन्तरस्य विधिर्वेति न्यायो नाश्रीयते। तदययर्थः--सर्वनामस्थाने परतः पूर्वःसमुदायः पदं न स्यात्, तदवयवभूतं सुबन्तं च पदं न स्यादिति। तत्र समुदायः पदं न स्यात्, तदवयवभूतं सुबन्तं च पदं नु स्यादिति। तत्रसमुदायस्य ``स्वादिषु (पाoसूo 1-4-17) इति प्राप्ता, अवयवस्य तु सु (1) बन्तमिति प्राप्ता पदसंज्ञाऽनेन निषिद्धेति `परमवाचौ' इत्यादि सिद्धम्। नन्वेवं `्सुवाक् सुराजा' इत्यादौ कुत्वादि न स्यात्, सावपि समुदायस्यावयवस्य च प्राप्तयोर्द्वयोरपि पदसंज्ञयोर्निषेधादिति चेत्? न, असर्वनामस्थान इत्यत्रोत्तरसूत्राद्यचीत्यपकृकष्य यजादौ सर्वनामस्थाने उभयविधपदसंज्ञानिषेधात्। सौ तु द्विविधीपि पदसंज्ञा भवत्येव। नन्वेवं श्रूयमाणे सौपूर्वस्थ पदसंह स्यादिति चेत्? इष्टापत्तेः। नन्वेवम् ``एचोऽप्रगृह्यस्यादूराद्‌धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ (पाoसूo8-2-107) इति सूत्रे `बद्रङ्करोषि गौः' इत्यत्रातितप्रसङ्गं वारयितुं पदान्तग्रहणं कर्त्तव्यमिति वार्त्तिककृता वक्ष्यमाणं विरुध्यते, क्रियमाणेऽणि पदान्तग्रहणे दोषतादवस्थ्यादिति चेत्? न, तत्रान्तग्रहणमात्रं कृत्वा ``वाक्यस्य टेः (पाoसूo8-2-82) इत्यतो वाक्यग्रहणमनुवर्त्य वाक्यान्तस्येति व्याख्यानसम्भवात्। तदेवं समासे चरमभागस्य पदसंज्ञा यजादौ क्वापि नास्तीति स्थितमअ। क्वचिन्निषेधात्क्वचित्तु भत्वेन बाधादिति विशेषः। नन्वेवं `दूरान्मुक्तम्' इत्यादावलुङ् न स्यात्, `होतापोतारौ' इत्यत्राऽऽनङ् न स्यात्, उत्तरपदे तद्विधानादिति चेत्? न , उत्तरपदशब्दस्य समासोत्तरावयवे रुढतया पदसं्ज्ञाविरहेऽपि तत्प्रवृत्तेः। सर्वान्त एव चेयं रुढिः। तेन `होतृपोतृनेषोद्गातारः' इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्याऽऽनङ् नेति दिक्। नन्वेवं `दधिसेचौ, `दधिसेचः' इत्यत्र ``सात्पदाद्योः (पाoसूo8-3-111) इति षत्वनिषेधो न स्यादिति चेत्? न, पदादादिः पदादिस्तस्य षत्वं नेति व्याख्यानात्। न चैवं `रामेषु' `हरिषु इत्यत्रापि निषेधः स्यादिति वाच्यम् स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेर्नेति निषेधाप्रवृत्तेः। एतच्च सात्प्रतिषेधेन ज्ञाप्यते। उक्तञ्च-पदादादेर्नेत्येव व्याख्यानं न तु पदस्यादेरिति। तथा सति ``गतिकारकोपपदानाम् (पoभाo76) इति सुबुत्पत्तेः प्रागेव समासे `दधिसेक' इत्यादौ षत्वस्य दुर्वरतापत्तेः। नन्वेवमपि `बहुसेचौ, `बहुसेचः' इत्यत्र षत्वं स्यादेव बहुचोऽपदत्वेन षत्वप्रतिषेधाप्राप्तेरिति चेत्? सत्यम्, वचनमेवेह कर्त्तव्यम्--``बहुच्‌पूर्वस्य न इति। अत्रायं सूत्रान्यसः-- ``सातेः सः षत्वं न स्यात्। ततः ``बहुच्‌पदाभ्याम् आभ्यामुत्तरस्य सस्य षत्वं न स्यात्। ततः ``बहुच्‌पदाभ्याम् आभ्यामुत्तरस्य सस्य षत्वं न स्यात्। आदिग्रहणं न कर्त्तव्यम् `तस्मादित्युत्तरस्य (पाoसूo1-1-67) इत्येव सिद्धेः। तदिदं बहुज्‌ग्रहणमादिग्रहणेन निमितव्यमिति। वार्त्तिके तु ``उत्तरपदतेव् चापदादिविधौ इति वचनेनैव ` परमवाचः' इत्यादि साधितम्। उत्तरस्य समासोत्तरभागस्य पदत्वे कर्त्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात्। अतो न कुत्वादि। पदादि विधौ तु प्रत्ययलक्षणं स्यादेव तेन षत्वनिषेधाद् `दधिसेचा' इत्यादिसिद्धिः। अस्मिश्च पक्षे प्राक् सुबुत्पत्तेःसमासोऽत्र नाभ्युपगन्तव्यः `धनक्रीता' इत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात्। कैयटस्त्वाह--`दध्रः सेचौ' इति विग्रहे ``षष्ठी (पाoसूo2-2-8) इति समोसः न त्वयमुपपदसमासः। सोपपदात्तु विज् नास्ति, अनीभधानात्। अतः `दधिषेचौ' इत्यादि न भवत्येव। अस्मिन्नपि पक्षे ``बहुच्पूर्वस्य च इति वचनं कत्तर्व्यमेव। कृते हि बहुचि विशिष्टस्यार्थवत्त्वेन प्रातिपदिकत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यते इत्यर्थवत्सूत्रे वक्ष्यते। तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य प्राप्तं पदत्वं, तत्कुत्वादौ कर्त्तव्ये मा भूत्, षत्वनिषेध एव यथा स्यादिति। अत्रायं निष्कर्षः---पूर्व(1) सूत्रे एव स्थित्वा ``उत्तरपदत्वेच पदादिविधौ ``बहुच्‌पूर्वस्य च इति पाठ्यम्। पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थं चेदं वजनद्वयमिति व्याख्येयम्। एवञ्च नञ् न कर्त्तव्य इति लाघवम्। अस्मिन्पक्षे सौ पदत्वं नास्ति प्रागुक्तकुसृष्टेरभावात्। तदेतत्पक्षद्वयमभिप्रेत्य हल्‌ङ्यादिसूत्रे भाष्यकारैरुक्तम्-- ``अथ सावपि पदं भवति। एवमप्युभयतस्पाशा रज्जुः इति। नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोऽङ्कस्येति पक्षं च `अभूवन्' इत्यत्र जुस् प्राप्नोतीति चेत्? सत्यम्, ``आतः (पाoसूo3-4-110) इति परत्वात्तिबादिषु ननु `देवदत्तं याजयाञ्चकार' इत्यत्र लुकं बाधित्वा परत्वात्तिबादिषु कृतेषु ``आमः (पाoसूo2-4-81) इति तेषां लुकि प्रत्ययलक्षणेन तिङ्न्तत्वादामन्तस्य निगातः स्यात्ततः परस्य च न स्यादिति चेत्? न, लावस्थायामेव येननाप्राप्तिन्यायेन तिबादीन्बाधितावा लुक्‌प्रवृत्तेः। तदुक्तम् --आमि सिलोपात्तस्य चानिघातस्तस्माच्च निघात इति। ननु `दवेदत्तो युष्मत्पुत्रः' इत्यादौ षष्ठ्यन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत्? सत्यम्, स्थाग्रहणान्न भवन्ति। न च विभक्तौ परतः पूर्वभागमात्रस्य मा भूत्किन्तु विभक्तिविशिष्टस्येत्येतदर्थं स्थग्रहणं स्यादिति वाच्यम्, षष्ठीचतुर्थीद्वितीयानामिति निर्द्देशेनापि गतार्थत्वात् सर्वस्य पदस्येत्यनुवृत्तेश्च। तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेव स्थग्रहणम्। अवस्थानं हि श्रूयमाणास्वेव संभवति यद्वा, तिष्ठतिरहानौ वच्यम्, षष्ठीचतुर्थीद्वितीयानामिति निर्द्देशेनापि गतार्थत्वात् सर्वस्यपदस्येत्यनुवृत्तेश्च। तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेव स्थग्रहणम्। अवस्थानं हि श्रूयमाणास्वेव संभवति यद्वा, तिष्ठतिरहानौ वर्त्तते। यथा ``समये तिष्ठ सुग्रीव इति। समयं मा हासीरित्यर्थः। तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रूयमाणविभक्तिकत्त्वं स्पष्टमेव लभ्यते। इदन्त्ववशिष्यते। वस्तुतोऽङ्गस्येति सिद्धान्ते ``चिणो लुक् (पाoसूo6-4-104) इति तलोपे कृते इनि णिङादेशा न स्युः--`अवधि भवता दस्यु' `अगायि भवता ग्रामः' `अध्यगायि भवतानुवाकः' इति, लुङिपरतो ह्येते विधीयन्ते, इति चेत्? मैवम् लुङि यदार्द्धधातुकं तत्र हनि णिङादेशाविधानात्। तस्माद्वस्तुतोऽङ्गस्येति पक्षो निर्दुष्ट इति स्थिम्।

अचोऽन्त्यादि टि (पाoसूo1-1-64) ।।
अच इति निर्द्धारणे षष्ठी। जातौ एकवचनम्। अचां मध्ये योऽन्त्यस्तदादिशब्दरूपं टिसंज्ञां स्यात्। टिप्रदेशाः--``टित आत्मनेपदानां टेः (पाoसूo3-4-79) इत्यादयः। पचते, पचेते इत्यादि। अन्ते भवोऽन्त्यः। दिगादित्वाद्यत्। अन्त्य आदिर्यस्येति बहुव्रीहिः। नित्यसापेक्षत्वात्समासः।
     
अलोऽन्त्यात्पूर्व उपधा (पाoसूo1-1-65) ।।
अन्त्यादलः पूर्वो वर्णउपधासंज्ञः स्यात्। उपधागुणः--चेतति, च्योतति, वर्द्धत इत्यादि। ननु पूर्वस्याविशेषितत्वाच्छासिधातौ शा इति समुदायस्य संज्ञा स्यादिति चेत्? नचैवं ``शास इदङ्हलोः (पाoसूo6-4-34) इतीत्वं शा इति समुदायस्य स्यादिति वाच्यम्, अलोन्त्यपरिभाषयेष्टसिद्धेः। स्यादेतत्। ``नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु (पाoभाo 125) इति निषेधः प्राप्नोति। इह च `बिभर्ति' इत्यत्र ``भृञामित् (पाoसूo7-4-76) अन्त्यस्य यथा स्यादित्येतदर्थमनब्यासविकारेष्वित्युक्तम्। विकारो नाम वर्णात्मक आदेशः। अत एव `देहि' इत्यत्र लोपः सर्वादेश एव भवतीति। अत्रोच्यते। न तावदेश परिभाषा सूत्रकृतः सम्मता ``तस्य लोपः (पाoसूo1-3-9) इति सूत्रे ञिटुडूनां सर्वलोपार्थं तस्य ग्रहणात्। नापि भाष्यकारस्य सम्मता। एतत्प्रयोजनानामन्यथोपपत्तेर्भाष्ये उक्तत्वात्। तथाहि, ``अव्यक्तानुकरणस्य (पाoसूo6-1-98) इति तावदन्तादेशो न भवति ``नाम्रेडितस्यान्त्यस्य तु वा (पाoसूo6-1-99) इति ज्ञापकात्। इतरथा ह्याम्रेडितस्य वेत्येव ब्रूयात्। ``घ्वसोरेद्धौ' (पाoसूo6-4-119) इत्यत्रापि ``लोपो यि (पाoिसूo6-4-118) इति प्रकृते पुनर्लोपग्रहणसामर्थ्यात्सर्वादेशः। तथा चेत्थं सूत्रन्यासः-``घोरभ्यासस्य लोपः लोपशब्दान्तरस्यानुवृत्या सर्वलोपः स्यात्। `अस्तेश्चैत्' अस्तेर्घोश्चैद्भवति हाविति। अथवा, लोपश् इतिच्छेदः संज्ञ्ायां कृतोऽनुबन्दः संज्ञिनि फलति, यथा ङमुटि। भाष्ये तु द्विशकारको निर्देश इत्युक्तम्। तत्र लोपे इति भिन्नं पदम्। श् इत्यस्य चोपदेश एवेत्संज्ञा। तत्फलं तु प्रयोगे, सर्वत्रानुबन्धानां काकादिवदनवयवीभूयैव व्यावर्त्तकत्वादिति भावः। अस्मिन्नपि पक्षे झचचचचचचचलि परे यः संयोगस्तदादित्वात्सोर्लोपे एकशकारक एव पाठः सुवचः। स्पष्टार्थम् ``अन उपधालोपिनः (पाoसू4-1-28) इत्यादावकारस्येवेहापि सकारस्य लोपे माऽस्त्विति तु भाष्याशयः। `आभ्याम्' इत्यादौ ``हलि लोपः (पाoसूo7-2-113) इति सूत्रेणाककारस्येदम इदो विधीयमानो लोपोऽपि तर्ह्यन्त्यस्य स्यादिति चेत्? न, ``अनाप्यकः (पाoसूo7-2-112) इति सूत्रादानित्यनुवर्त्य तस्य हलीति सप्तम्या षष्ठीं प्रकल्प्य अन एव लोपविधानात्। तथाच तत्रालोन्त्यपरिभाषया नकारलोपे ``अतो गुणे (पाoसूo6-1-97) इति पररुपे च कृते ***भ्याम्' `एषाम्' इत्यादि सिद्धम्। ``अत्र लोपोऽभ्यासस्य(पाoसूo7-**58) इति सूत्रेऽपि अत्राभ्यासत्वाश्रये न तु तदेकदेशे इति व्याख्यानादत्रग्रहणसामर्थ्यात्सर्वलोपः। यद्यपि `सनि' इत्यपेक्षितं `ददौ, दधौ' इत्यां, वारणाय, `सादौ' इति च `जिज्ञपयिषति' इत्येतद्वारणाय, प्रकृतयो*** `पिपक्षति' इत्यादिवारणाय, विषयोऽप्यपेक्षितः ``मुचोऽकर्मकस्य गुणो वा (पाoसूo7-4-57) इति `मुमक्षति गाम्' इत्यादिवारणाय, तथापीदं सर्वमनुवृत्त्यैव सुलभमिति सर्वलोपार्थमेवात्रग्रहणं बोध्यम्। नन्वेवमपि ``विभाषा भवद्भगवदघवतामोच्चावस्य इति वार्त्तिकेन विधीयमान ओकारोऽन्त्यस्य् स्यादिति चेत्? न, वस्यति सिद्धे अवस्येति गुरुकरणसामर्थ्यात्सर्वादेशसिद्धेः। तस्मान्नानर्थक इति परिभाषा निष्फला सूत्रभाष्यासम्मता चेति स्तितम्। एवञ्च शासेः शाशब्दस्योपधात्वेऽपि `शिष्टः' इत्यादि सिध्यति। `संयोगोपधग्रहणं कृञर्थम्' इत्यादिव्यवहाराश्चास्मिन्पक्षे संगच्छन्ते इति दिक्। यद्वा, अवध्यवधिमद्भावः सजातीयानामेवेत्युत्सर्गः। लोके ह्यमीषां ब्र ह्मणानामन्त्यत्पूर्वमानयेत्युक्ते एक एवाऽन्त्यादव्यवहित पूर्व आनीयते न तु समुदायः। एवञ्चेहाप्यलोऽव्यवहितपूर्वोऽलेव संज्ञी न तु समुदायः, न वा व्यवहितोऽल्। संयोगोपधव्यवहारस्तु भाक्तः, अवयवधर्मस्य समुदाये उपचारात्। एवं स्थितेऽल इति जसन्तमपि सुवचम्। ``जात्वाख्यायाम् (पाoसूo1-2-58) इति बहुवचनम्। पूर्व इत्यपि जसन्तम्। अन्त्योऽप्यलेव साजात्याल्लभ्यते। यद्वा, अल इति निर्धारणे षष्ठी। जातौ चैकवचनम्। अलां मध्येऽन्त्यात्पूर्व इत्यर्थः। तथा चेहाल इति जस्‌ङसिर्ङस् वेति पक्षत्रयमपि स्थितम्।

तस्मिन्निति निर्दिष्टे पूर्वस्य ( पाoसूo1-1-66) ।।
सप्तमीनिर्देशेषु पूर्वस्यैव कार्यं स्यात्तच्च निर्दिष्टेऽप्यवहितोच्चारिते सतीत्यर्थः। निः शब्दो नैरन्तर्ये, दिशिरुच्चारणक्रियः। निरन्तरं दिष्टो निर्दिष्टः। नियमार्थमिदं सूत्रम्। तथाहि, ``इको यणचि (पाoसूo6-1-77) इत्यत्राचीति ``यस्य च भावेन भावलक्षणम् (पाoसूo 2-3-37) इत्यत्राचीति ``यस्य च भावेन भावलक्षणम् (पाoसूo2-3-37) इति सप्तमी। तत्र सत्त्वं परस्येव पूर्वस्यापि सम्भवति। एवमुपश्लेषोऽपि। तत्र युगपदेकस्य कार्यित्वनिमित्तत्वयोरहसंम्भवाद् `दध्युदकं' `मध्विदम्' इत्यादाविकारोकारयोः पर्यायेण यण् प्राप्तः पूर्वस्यैवेति नियम्यते। तथा `अग्निचिदत्र' इति व्यवहितस्यापि यण् प्राप्तः पूर्वस्यैवेति नियम्यते। ननु `गवित्ययमाह' इत्यादौ स्वरूपपदार्थकतामितिशब्दः करोति, यथेहापि। एवञ्च `तस्मिन्नणि (पाoसूo4-3-2) इत्यत्रैवेयं परिभाषा प्रवर्त्तेत। अस्ति हि तत्र व्यवच्छेद्यम्, `हे यौष्माकीण अस्मभ्यं देहि' `हे आस्माकीन युष्मभ्यं ददामि' इत्यादौ खञ्ण्भ्यां परस्याप्यादेशप्रसङ्गसत्वात्। सत्यम्, इतिकरणः पदार्थविपर्यासकृत। लोकेऽर्थपरताया औत्सर्गिकत्वातत्र शब्दपरतां करोति। शास्त्रे तु विपरीतम्। किञ्च यदि ``तस्मिन्नणि(पाoसूo4-3-2) इत्यत्रैवेयं प्रवर्त्तेत तर्हि तत्रेव पूर्वग्रहणं कुर्यात् तस्मान्नेदं तस्मिन्नत्यनुकरणम्। किन्त्वचि हलीत्यादिसकलविशेषसंग्रहार्थं स्वतन्त्रस्य सर्वनाम्नोऽयं निर्द्देशः। ``तस्वापत्यम् (पाoसूo4-1-92) तत्र भवः (पाoसूo4-3-53) इत्यादिवत्।

तस्मादित्युत्तरस्व (पाoसूo1-1-67) ।।
पञ्चमीनिर्देशेषूत्तरस्यैव कार्यं स्यात्तच्चाव्यवहितोच्चारिते। ``तिङ्‌ङतिङः (पाoसूo8-1-28) अग्रिमीळे। इह न भवति--ईळेऽग्निम्। इह कारकविभक्तेरसम्भवाद्दिग्योगलक्षणा पञ्चमी। तत्र दिक्शब्दोऽप्याह्रियमाणोत्तरशब्दवत्पूवशब्दोऽप्यविशेषादध्याहियेत, व्यवहितोऽपि च गृह्यते। तथा च `उत्संस्थाता' इत्यत्रापि ``उदः स्थास्तम्भोः (पाoसूo8-4-61) इत्यस्य प्रसङ्गः। तदेवं पूर्वसूत्रमेतत्सूत्रं चेति द्वयमपि नियमार्थमिति स्तितम्। तथा च वार्त्तिकम्---तस्मिस्तस्मादिति पूर्वोत्तरयोर्योगाविशेषान्नियमार्थं वचनं दध्यदकं पचत्योदनमिति। इहापि तस्मादिति स्वतन्त्रस्य सर्वनाम्नो निर्देशः प्राग्वत्। न त्वनुकरणम्। तथाहि सति यद्यपि ``तस्मान्नुङ्द्विहलः (पाoसूo7-4-74) इत्यत्र ``अत आदेः (पाoसूo7-4-70) इति दीर्घात्पूर्वस्याङ्गस्यास्म्भवात्प्रयोजनाभावान्नैतत्परिभाषोपस्थितिस्तथापि ``तस्माच्छसो नः पुंसि (पाoसूo6-1-103) ``तस्मान्नुडचि (पाoसूo6-3-74) इति योगद्वये स्यात्, `उच्चरत आनुपलभते' `गौरनश्वः' इत्यादेर्व्यावर्त्यस्य तत्र सम्भवादिति दिक्।
     स्यादेतत्। एतत्सूत्रं नियमार्थमस्तु। पूर्वसूत्रमप्यौपश्लेषिकसप्तमीपक्षे नियामकमस्तु। सत्सप्तमीपक्षे तु नियामकत्वमयुक्तम्, षाष्ठभाष्यकैयटविरोधात्। तथाहि, ``श्नान्नलोपः (पाoसूo6-4-23) इत्यत्र भाष्यम्--``नैषा परसप्तमी। का तर्हि? सत्सप्तमी, ङ्किति सति इति। *** तत्रैव कैयटः--कथं पुनः सम्भवत्यां परसप्तम्यां सत्सप्तम्याश्रयितु युक्ता? यथेष्टं वाक्याध्याहाराददोषः। ङ्किति सतीत्येव हि विज्ञायमाने पौर्वापर्यानाश्रयणान्नास्ति ``तस्मिन् (पाoसूo1-1-66) इत्यस्याः परिभाषाया उपस्थानम्। यदा ह्यौपश्लेषिकेऽधिकरणे सप्तमी, तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमे नियमाय परिभाषोपस्थानमिति।
     अत्रोच्यते, षाष्ठग्रन्थस्यप्रकृतमात्रपरत्वादविरोधः। तथाहि, ``श्रान्नलोपः (पाoसूo6-4-23) इति सूत्रे शकारवतो ग्रहणं माऽस्तु नादित्येवास्त्विति प्रश्ने नन्दनादावति प्रशङ्ग इत्युत्त्रितम्। `अनिदिताम्' इत्यस्यानुकर्षणे तु `हिनस्ति' इत्यत्र न स्यात्। ततः ङ्कितीत्यनुवर्त्य श्नममेव ङितमाश्रित्य `हिन्स्ति' इत्यत्र लोपोऽस्त्विति शङ्क्यते। यदि चास्यामवस्थायां ``तस्मिन् (पाoसूo 1-1-66) इति परिभाषोपतिष्ठेत तदा नन्दमानादौ चानसो ङित्त्वाल्लोपः प्रवर्त्तत। श्नमः शित्करणं चानर्थकं स्यात्। तद्धि शित्त्वात्सार्वधातुकतया ङितमिममेवाश्रित्य `हिनस्ति' इत्यत्र नलोपे क्रियमाणे सार्थकं न त्वन्यथा। नन्वार्द्धधातुकसंज्ञानिवृत्त्या शित्त्वं सार्थकम्। तस्यां हि सत्याम् `अनक्ति' `भनक्ति' इत्यत्रातो लोपः स्यात्, `रुणद्धि' `भिनत्ति' इत्यत्र `अनक्ति' `भनक्ति' इत्यत्रातो लोपः स्यात्, `रुणद्धि' `भिनत्ति' इत्यत्र गुणः स्यात्, `तृणोढि' इतीडागमः स्यात्, ``नेङ् वशि (पाoसूo7-2-8) इति तु न प्रवर्त्तते अकृत्त्वादिति चेत्? न, श्नमः पूर्वभागस्यानङ्गतयोक्तविधीनामप्राप्तेः। कथमनङ्गतेति चेत्? इत्थम्, प्रत्ययविधौ यत्पञ्चमीनिर्दिष्ट धातोः प्रतिपदिकादित्यादि, तदादि, तस्मिन्प्रत्यये परतोऽङ्गमिति हि सूत्रार्थः। इह तु यत्पञ्चमीनिर्द्दिष्टं `रुधादिभ्यः' इति, नास्मात्प्रत्ययः परः। यस्माच्च परः पूर्वभागान्नासौ तस्मिन्विधीयमाने पञअचमीनिर्दिष्टः। अत एव `भनक्ति' इत्यादौ ``अतो दीर्घो यञि (पाoसूo7-3-101) इति न प्रवर्त्तते। न च ``श्नसोरल्लोपः (पाoसूo6-4-111) इत्यत्र विशेषणार्थं शित्करणं स्यादिति वाच्यम्, `नसोरल्लोपः' इत्युक्तेऽपि दोषाबावात्। नन्वेवं नान्तास्त्योर्ग्रहणं स्यात्। तथाच कनेर्यङ्‌लुकि `चङ्कान्तः' इत्यत्रापि स्यादिति चेत्? न, सिद्धान्तेपि श्नप्रत्ययसान्तयोर्ग्रहणापत्तौ `वस्तः' इत्यादावतिप्रसङ्गसाम्यात्। साहचर्यात्प्रत्ययधात्वोर्ग्रहणमिति तु तुल्यम्। ननु ``नसोरल्लोपः इत्युच्यमाने यत्र नप्रत्ययस्य ङ्कित्यानन्तर्यं तत्रैव भविष्यति `यत्न इवाचरतः यत्नतः, पामनतः' इति? मैवम्, अनुवर्तमानेन सार्वधातुकग्रहणेन प्रत्ययो विशेष्यते। तथाच विध्यसंस्पर्शान्निर्दिष्टपरिबाषानुपस्थितौ निमित्तसप्तमी। ****** **कानिमित्तस्य नप्रत्ययस्यास्तेश्चाल्लोपः ङ्कित्यनन्तरे इति। ननु च ``**** उत्सार्वधातुके (पाoसूo6-4-110) इति सूत्रे सार्वधातुकग्रहणं प्रत्याख्यातमिति चेत्? न, सति शित्त्वे प्रत्याख्यानात्। तदेवं श्नमः शित्त्वकरणसामर्थ्यात् क्‌ङितीति सत्सप्तम्यामपि परिभाषा नोपतिष्ठते इति स्थितम्। पूर्वपक्षत्वादनास्थया तथोक्तमिति वा वर्णनीयम्।
     इह सूत्रद्वये षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये स्थितः। तथाहि ``षष्ठी स्थानेयोगा (पाoसूo1-1-49) इति सूत्रात्षष्ठीत्यनुवर्त्तते। सप्तम्यर्थनिर्देशे पूर्वस्याव्यवहितस्य षष्ठी स्यादिति। तत्र ``इको यणचि (पाoसूo6-1-77) इत्यादौ सूत्रे एव षष्ठीश्रवणात्तां षष्ठीमनूद्य पूर्वस्यानन्तरस्यैषा न तूत्तरस्य न वा पूर्वस्यापि व्यवहितस्येत्येतावन्मात्रमुच्यते। ``आनो मुक् (पाo सूo7-2-82) इत्यादौ तु षष्ठ्या अश्रवणात्साऽपि प्रकल्प्यते इति विशेषः। सा चानियतयोगत्वात्स्थानषष्ठी। यस्य च स्थानषष्ठी तस्यैव कार्यनियम इति सोऽप्यर्थात्सिद्ध्यति। यत्र तूभवनिर्देशस्तत्रोभयं तावन्न प्रकल्पकं कार्यित्वनिमित्तत्वयोरेकत्र युगपदसम्भवाज्ज्ञापकाच्च। तथाच ``एकः पूर्वपरयोः (पाo सूo6-1-84) इति सूत्रे कैयटः--``सूत्रद्वयप्रमाणत्वाद् द्वे भवेतां प्रकल्‌पिके षष्ठ्यौ विभक्ती। तेनात्र ज्ञापनार्थत्वमाश्रितम् इति। न च पर्यायेणोभयकल्पनम्, अतुल्यबलत्वात्। तथाहि, ``आने मुक् (पाoसूo7-2-82) इत्यत्र सप्तमी निरवकाशा। सा पूर्वत्र चरितार्थाया ``अतो येयः (पाoसूo7-2-80) इति पञ्चम्याः षष्ठीं कल्पयति। एवम् ``ईदासः(पाoसूo7-2-83) इति पञ्चमी `आने' इति सप्तम्याः। तथा तास्यनुदात्तेत्सूत्रे अभ्वस्तसिजंर्थ `सार्वधातुके' इति सप्तमी निर्देशं वक्ष्यति। सा च सप्तम्युत्तरत्र चारितार्थेति तस्या एव षष्ठी कल्प्यते। तथा ``बहोर्लोपः (पाoसूo6-4-108) इत्यत्र बहोरिति पञ्चमी अकृतार्याया `इष्ठेमेयःसु' इति सप्तम्याः षष्ठीं कल्पयति। अत एव `भूच बहोः' इति पूथक् षष्ठीनिर्देशः। तथा ``गोतो णित् (पाoसूo7-1-90) इति पञ्चमी `सर्वनामस्थाने' इति सप्तम्याः षष्ठीं कल्पयति, गोशब्दसर्य णित्त्वे प्रयोजनाभावाच्च। न च `तिष्ठति गौः' इत्यादौ पूर्वस्य वृद्धिः फलमिति वाच्यम्, गोशब्दं प्रति तिष्ठतेरनङ्गत्वात्। एवं प्रायेण पञ्चम्या अकृतार्थतेति भाष्ये स्पष्टम्। ``आमि सर्वनाम्नः सुट् (पाoसूo 7-1-52) इत्यत्रापि पञ्चम्यनवकाशा, आमीति सप्तदमी तूत्तरार्थतया सावकाशा। यदि त्विह आदित्यनुवृत्तया पञ्चम्या सामानाधिकरण्यं सम्पाद्य सर्वनाम्न इति पञ्चम्यपि कृतार्थेति ब्रूयात्तर्हि यथोद्‌देशपक्षाश्रयणेन पपत्वात् ``तस्मादित्युत्तरस्य (पाoसूo1-1-67) इति भविष्यति। तदुक्तम्--उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देश इति। वस्तुतस्तु नेह सामानाधिकरण्यम्, `वर्णाश्रमेतराणाम्' इत्यस्य सिद्धये सर्वनाम्नो विहितस्येति व्याख्यानात्, `येषां, तेषाम्' इत्याद्यर्थमकारात्परस्येति व्याख्यानाच्च। दीर्घाच्छे तुग् भवतीत्यत्र तु षष्ठ्याः स्थाने पञ्चमी। तेन दीर्घस्यैव तुग् भवती न तु छकारस्य। `सुराच्छाया' इति निर्देशश्चेह लिङ्गम्। अन्यथा हि ``खरि च (पाoसूo8-4-55) इति चर्त्वेन सुराच्चायेति चकारद्वये निर्दिशेत्। प्रत्ययविधौ तु पञ्चम्यो न प्रकल्पिकाः, षष्ठ्या अनुवादविभक्तित्वात्। अप्रसिद्धस्य चानुबादासम्भवात्, तत्रानियमाप्रसङ्गेन नियमकारिण्याः परिभाषाया अप्रवृत्तेश्चेति दिक् ।।

स्वं रूपं शब्दस्याशब्दसंज्ञा (पाoसूo1-1-68)।
शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या सेज्ञा, तां विना, ``अग्नेर्ढक् (पाoसूo4-2-33) आग्नेयम्। ``आङो यमहनः (पाoसूo1-3-28) आयच्छते, आहते। इह आग्नि आङ् यम् हन् एषामेतत्सूत्रोपात्तानां प्रयोगसमवायिनस्त एव संज्ञिनः। अशब्दसंज्ञेति किम्? ``उपसर्गे घोः किः (पाoसूo3--392) दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थान्मा भूत्। शब्दः शब्दशास्त्रं, तत्र संज्ञेति सप्तमीसमासः, न तु शब्दस्य संज्ञेति; `कर्म' `करणम्' इत्यादिष्वर्तसंज्ञासु स्वपरूपग्रहणापत्तेः।
     स्यादेतत्। रूपग्रहणं विनापि स्वशब्देन तदेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्त्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च। अर्थो हि प्रतीतौ सम्बन्धग्रहममपेक्षते, साधारणश्च, पर्यायैरपि प्रत्यावनात्। बहिरङ्गश्च पदज्ञानजन्यबोधविषयत्वात्। अनियतोपस्तितिकश्चानुकरणदशायामप्रतीते। तत्किं रूपग्रहणेनेति चेत्?
     अत्राहुः। इह शास्त्रे अर्थोऽपि विवक्षितो रूपवदिति ज्ञापनार्थं रूपग्रहणम्। तेन ``अर्थवद्‌ग्रहणे नानर्थकस्य (पoभाo) इत्युपपन्नं भवति। तत्रोक्तज्ञापकादर्थो ग्रह्यः, `स्वं रूपम्' इति वचनाद्रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम्। तेन `काशे, कुशे' इत्यत्र ``शे (पाoसूo1-1-13) इति प्रगृह्यसंज्ञा न भवति।
     एतत्सूत्रं भाष्ये प्रत्याख्यातम्। तथाहि। आरभ्यमाणेऽपि सूत्रे पशुः, अपत्यं, देवता, प्राञ्चः, उदञ्चः, भरताः, हत्यादयस्तावल्लोकवदर्था एव गृह्यन्ते। ``अग्नेर्ढक् (पाoसूo4-2-33) इत्यादौ तु शब्द एव ग्रहीष्यते, अर्थस्य प्रत्ययेन पौर्वापर्यासम्भवात् ``ङ्याप्प्रातिपदिकात् (पाoसूo4-1-1) इत्यदिकाराच्च। ``उपसर्गे घोः किः (पाoसूo3-3-92) इत्यादौ तु घुधातुर्न ग्रहीष्यते ``दाधा घु (पाoसूo1-1-20) इत्यारम्भात्। उक्तं हि----
     व्यवहारायं नियमः संज्ञायाः संज्ञिनि क्व चित्। इति।
     अर्थवद्ग्रहणपरिभाषाऽपि व्रश्चादिशुत्रे राजिं पठित्वा पुनर्भाजिपाठात्सिद्धा, न्यायसिद्धा च। ``अग्नेर्ढक् (पाoसूo4-2-33) इत्यादौ हि शब्दविशिष्टस्यार्थस्योत्सर्गत उपस्थितौ विशेष्ये कार्यबाधाद्विशेषणीभूते शब्दे प्रवर्तमानं कार्यमुपस्थितार्थोपहिते एव, त्वनर्थकेऽपि, अर्थस्य विशेषणविशेष्यबावव्यत्यासमात्रेणोपपत्तौ सर्वात्मना त्वागायोगात्। गौणमुख्यन्यायोऽप्येतन्मूलः, गौणस्य प्रथमतोऽनुपस्थितेः। एतेन ``अभिव्यक्तपदार्था ये इत्यपि व्याख्यातम्। तस्मान्न्‌यायत एव सकलनिर्वाहे सूत्रं नारम्भणीयमिति। ननूत्तरत्र चतुःसूत्र्यामनुवृत्तये ``स्वं रूपम् (पाoसूo1-1-68) इत्यवश्यं वाच्यमेवेति चेत्? न, अनुवृत्तेरनावश्यकत्वात्। तथाहि, अणुदित्सूत्रे तावत्स्वस्यापि स्वसावर्ण्यादेव सिद्धम्, कथमन्यथा ``अवात्ताम् इत्यत्न ``झरो झरो (पाoसूo8-4-65) इति लोपः। तत्र व्यक्तिभेदात्सावर्ण्यमिति चेत्? इहापि बोध्यबोधकव्यक्त्योर्भेदात्। तथा ``तपरस्तत्कालस्य (पाoसूo1-1-70) इत्यत्रापि। ``आदिरन्त्येन (पाoसूo1-1-71) इत्यत्राप्यादिग्रहमं वृत्त्या सिद्धम्। आवृत्तौ लिङ्गं तु ``नादिचि (पाoसूo6-1-104) इत्यादि। ``येन विधिः (पाoसूo1-1-71) इत्यत्र तु वार्त्तिककार ``तस्य च इति वक्ष्यत्येव। वस्तुतस्तु तदपि न वाच्यम्, व्यपदेशिवद्भाबेनैव सिद्धेः। ``अप्रातिपदिकेन इति तु तत्रेव प्रत्याख्यास्यामः। अत एव ``येनविधिस्तदाद्यन्तत्वे प्रयोजनम् इत्याद्यन्तवत्सूत्रस्थं वार्त्तिकं सङ्गच्छते' इति दिक्।
     सित्तद्विशेषाणां वृक्षाद्यर्थम्। अत्र सिदित्युपलक्षणं किञ्चिल्लिङ्गमासज्य इत्थं लिङ्गा विशेषाणां संज्ञेति वक्तव्यम्। तच्च लिङ्गं वृक्षादावासञ्जनीयमित्यर्थः। एवमग्रेऽपि। तेन ``विभाषा वृक्षमृग (पाoसूo2-4-12) इति सूत्रे विशेषाणामेव ग्रहणात् `प्लक्षन्यग्रोधं, प्लक्षन्यग्रोधाः' इति सिद्ध्यति।
     पित्पर्यायवचनस्य च स्वाद्यर्थम्। चकाराद्विशेषाणां स्वरूपस्य च ग्रहणम्। ``स्वे पुषः (पाo8सूo 2-4-40) रैपोषं पुष्टः, अश्वपोषम्, स्वपोषम्।
     जित्पर्यायवचनस्यैव राजाद्यर्थम्। ``सभा राजामनुष्यपूर्वा (पाoसूo2-4-23) इनसभम्, ईश्वरसभम्। नेह राजसभा, हरिश्चन्द्रसभा। पर्यायेण यो वक्ति स हि पर्यायवचनः। न च स्वस्य स्वेन सहविकल्पः, नापि विशेषेण, सामान्यविशेषयोर्भिन्नप्रकारकबोधजनकतया तुल्यार्थत्वाभावात्। तुल्यार्थस्तु विकल्पेरन्निति न्याथात्। इनशब्दो राजशब्दपर्याय इत्यादिव्यवहारास्तु `भीमो भीमसेनः' इतिवत्।
     झित् तस्य तद्विशेषाणां च मत्स्याद्यर्थम्। ``पक्षिमत्स्यमृगान् हन्ति (पाoसूo8 4-4-35) मात्सिकः, शाफरिकः। पर्यायवचनानां न अनिमिषान् हन्ति। ``मीनस्येष्यते इति भाष्यम्। मैनिकः।
     मृगपक्षिणोस्तु णिन्नर्देशः कर्त्तव्यः। तेन स्वरूपस्व पर्यायाणां विशेषाणां च्च ग्रहणमिति व्याख्यातारः।
     इह वृक्षादौ राजादौ च न्यायेनैवाभिमतं सिध्यतीति तत्रैव वक्ष्यते। ितस्त्तु सर्वं वाचनिकमेवेत्यवधेयम्।।

अणुदित्सवर्णस्य चाप्रत्ययः (पाoसूo1-1-69)।
अत्राण् परेण णकारेणेत्युक्तम्। अणुदिच्च सवर्णस्य संज्ञा स्यात् विधीयमानं विना। चकारात् स्वरूपस्य। ``अस्य च्वौ (पाoसूo7-4-32) शुक्ली स्यात्, माली स्वात्। ``एरनेकाचोऽसंयोगपूर्वस्य (पाoसूo6-4-82) चिच्यतुः, निन्यतुः। ``ऋदोरप् (पाoसूo3-3-56) यवः, स्तवः, लवः, पवः। ``उरण् रपरः (पाoसूo1-1-51) कर्त्ता, किरति। न चैवम् ऋदोरप् ह्रस्वान्तेभ्यः कृञादिभ्योऽपि स्यादिति वाच्यम्, दीर्घोच्चारपावैयर्थ्यापत्तेः। नन्वेवमपि ``अष्टन आ विभक्तौ (पाoसूo7-2-84) इत्यत्र सवर्णग्रहो दुर्वारः। न हि तत्रापि सामर्थ्यम्, ह्रस्वोच्चारणे ह्यर्धमात्रिकस्य मात्रिक एव यथा स्यादिति दीर्घग्रहणस्योभ्यार्थतोपपत्तेरिति चेत्! न, ``अप्रत्ययः (पाoसूoएo6-1-69) इति निषेधात्, दीर्घाणामनण्त्वेन सवर्णग्राहकता नास्तीति प्रागेवोक्तत्वाच्च। ननु दीर्घाश्चेदनणस्तर्हि `कारकः' `हारकः' इत्यादौ रपरत्वं न लभ्येतेति चेत्? भ्रान्तोऽसि। न हि दीर्घाः क्वाप्यण्ग्रहणेन नोपस्थाप्यन्ते इति ब्रूमः किन्तु ग्रहणकशास्त्रे तदुपजीव्येषु वर्णोपदेशादिषु च हतरत्र तु वाक्यापरिसमाप्तिन्यायानवतारादस्त्येवाण्‌ग्रहणेन दीर्घग्रहणमिति तत्त्वम्।
     उदित्-- ``कुहोश्चुः (पाoसूo7-4-62) चकार, जगाद। अप्रत्यय इति निषेधस्तु उगित्सु न प्रवर्त्तते, उगित्करणसामर्थ्यात्। अत एवाहुः--``भाव्यमानोण् सवर्णान्न गृण्हाति (पाoभाo) इति। तुक्-लुक्नुक् तुडादयस्तु नोदितः, ``प्रतिज्ञानुनासिक्याःपाणिनीयाः (भाoइo) इत्यभ्युपगमात्। अप्रत्यय इति किम्? विधायमानानां प्रत्ययागमादेशानां सवर्णग्राहकत्वं मा भूत। ``अत इञ् (पाoसूo4-1-95) ``इदम इश् (पाoसूo5-3-3) ``आर्द्धदातुकस्येङ् (पाoसूo7-2-35) ``भुवो वुक् (पाoसूo6-4-88) ``अम् सम्बुद्धौ (पाoसूo8-1-99) इह हि सर्वत्रोपदेश इति वचनात्सूत्रान्तर्गतेष्वेव इञादिशब्देष्वित्संज्ञा प्रवर्त्तते। लोपस्तु तत्रानुपूर्व्याद्वाधितोऽपि पदस्वरूपपर्यालांचनायां प्रवृत्तः। ततः ``स्वं रूपम् (पाoसूo1-1-68) इति संज्ञाबलात् ज्ञायमाना पदार्थोपस्थितिरनुबन्धविनिर्मुक्तस्यैव भवति। तथाचोपस्थापकस्याण्त्वात्सवर्णग्रहणं प्राप्तं निषिद्यते इत्युचितम्। अत एव चतुर्दशसूत्र्या मुच्चारणार्धस्याकारस्येवेत्संज्ञकानामपि णकारादीनां लण्मध्याकारस्य च पदपर्यालोचनायामेव `लोपश्च बलवत्तरः' इति न्यायेनापहारादितरान्तर्भावेणैव संज्ञा प्रवर्त्तते इति सिद्धान्तः। इदं च ``अलोऽन्त्यात्पूर्व उपधा (पाoसूo1-1-65) इति सूत्रे ``तस्मिन्नति निर्दिष्टे (पाo्सूo1-1-66) इत्यत्र च कैयटग्रन्थे स्पष्टम्। इट् अक इकोचीत्यादौ सानुबन्दाद्विभक्तिस्तु प्राथमिकबोधे विशिष्टस्य विपयतया तस्यैवार्थवत्वमादाय। अन्यो हि पश्चादुपतिष्ठते न तु प्रयुज्यते इति कथं ततो विभक्तिः क्रियताम्? इत्संज्ञाकार्यं तु आनर्थक्यात्तदङ्गेष्विति न्यायेन प्रत्याय्ये प्रवर्त्तते। विभत्त्यर्थान्वयोऽप्येवम्। दृष्टं हि ङमुडादावुपस्थापके कृतस्य लिङ्गस्य तद्वोध्ये फलप्रवर्त्तकत्वमिति दिक्।
     स्यादेतत्। उक्तरीत्या ``उदोष्ठ्यपूर्वस्य (पाoसूo7-1-102) इति सूत्रे उच्छब्दे् प्रवृत्ता इत्संज्ञा लक्ष्ये तित्स्वरं प्रवर्त्तयेदिति चेत्? सत्यम्, अत एवैतत्समाधानाय पूर्वाचार्यैः पराक्रान्तामिति गृहण। कथं तर्हि `एओङ्' सूत्रे तद्‌दूषणाय प्रवृत्तमिति चेत्? तत्कालावधारणेन कृतार्थस्य तकारसयानुबन्धान्तरवैषम्यादिति गृहाण। अत एव `वैयाकरणः' इत्यत्र ऐचश्चित्स्वरो न भवति। `पचस्व' इति शपोऽप्येवम्। ``न य्वाभ्याम् (पाoसूo7-3-3) इति सूत्रे `अचः परस्य द्वे' इत्यत्र च ऐचोश्चकारस्य प्रयाहारे उपक्षयात्। यद्वा, इञिशादिष्वपि माऽस्तु सूत्रान्तर्गतेष्वित्संज्ञा, किन्तु फलप्रत्यासत्तेःक पदार्थेष्वेव साऽस्तु। नैते उपदिष्टा इति चेत्? न ते फलभाज इति तुल्यम्। सामर्थ्यात्परंपराशम्बन्धे लमिति चेत्? संज्ञापि तक्षत्रैवास्तु सामर्थ्यादिति तुल्यम्। उपदेशेऽन्त्यत्वं हि प्रायोगिकेष्वसम्भवात्तत्प्रत्यायकनिष्ठमानुपूर्वीसाजात्यादाश्रीयते। न चैतत्तपरेष्वस्ति, प्रत्याय्ये तकाराभावादिति दिक्।
     प्रकतमनुसरामः। भाव्यमानोऽप्युकारादेशः सवर्णान् गृह्णाति ``ऋतउत् (पाo्सूo6-1-111) इति तपकरणाल्लिङ्गात्। तेन `अमुना' `अम्भ्याम्' इत्यत्र हस्वस्य ह्रस्वो दीर्घस्य दीर्घः सिद्ध्यति। न चैवं ``सनाशंस (पाoसूo3-2-168) इत्युप्रत्ययोऽपि सवर्णं गृह्णात्विति वाच्यम् आदेशविषयकं ज्ञापकमित्युक्तत्वात्। यद्वा, ``अदसोऽसेः (पाoसूo8-2-80) इति सूत्रे एव उश्च ऊश्चोति समाहारद्वन्द्वोऽस्तु। अत एव सोर्लुका निर्देशः कृतः। अत एव च ``ऊदुपधायाः (पाoसूo6-4-89) इति सूत्रे गोह इति विकृतनिर्देशं प्रत्याख्यातुं भाष्यकारैरूकारान्तरप्रश्लेष उक्तः।
     नन्वेवमपि ``अकः सवर्णे (पाoसूo6-1-101) इत्यत्र अकारोऽष्टादशानां ग्राहकोऽस्तु, अम्त्वात्। अस्तु च स एव इकारादीनामपि ग्राहकः, ``आदिरन्त्येन (पाoसूo1-1-171) इत्युक्ते, ईकारादयस्तु कथं ग्राह्याः? न हि तद्वाचकःक शब्दस्तस्मिन्सूत्रे उपात्तोऽस्ति। नन्वक्‌शब्देन इकारादयोऽप्युपस्थिता इति चेत्तर्हि वाक्यार्थे ते नयन्तु नाम, पदार्थसंसर्गस्य वाक्यार्थत्वात्। न तु तेऽपि स्वार्थोपस्थापकाः, अनुच्चारितत्वादित्युक्तम्। अत एव `ऋचं वेत्ति' इत्यादौ शब्दविशेषं वेत्तीत्येवार्थो न तु तदर्थं वेत्तीति। तदुक्तं वार्त्तिककृता--``तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात्। इस्वसम्प्रत्ययादिति चेदुच्चार्यमाणसम्प्रत्यायकत्वाच्छब्दस्यावचनम् इति। शब्दस्य प्रतीयमानस्य अवचनम् अर्थाप्रतिपादकत्वमित्यर्थः। अत्रोच्यते। प्रत्याहारग्रहणे सर्वत्र स्ववाच्यवाच्ये निरूढा लक्षणा ``दीर्घाज्जसिच (पाoसूo6-1-105) इति ज्ञापकात्। ``प्रथमयोः पूर्वसवर्णः (पाoसूo6-1-102) इत्यत्र हि अक इत्यनुवर्त्तते। न चाक्‌शब्दवाच्यो दीर्घोऽस्ति, योऽस्य निषेधस्य विषयः स्यात्। नन्वाकारोऽस्तीति चेत्? न, ``नादिचि (पाoसूo6-1-104) इत्यनेवैव तत्र निषेधसिद्धेः। ``प्वादीनाम् (पाoसू07-3-90) इत्यादिनिर्देशा अपीह लिङ्गम्। नन्वेवम् ``इको यणचि (पाoसूo6-1-77) इति सूत्रे ईदातोर्गहणं न स्यात्, युगपद्वृत्तिद्वयविरोधात्। तथा च `सुध्युपास्यः' `दध्यानय' इत्यादि न सिद्ध्येदिति चेत्? न, सति तात्पर्ये युगपद्वृत्तिद्वयस्य स्वीकारे बाधकाभावात्। इह च ``आण्नद्याः (पाoसूo7-3-112) इत्यादिनिर्देशानां तात्पर्यग्राहकत्वात्। यदि तु प्राचां मते श्रद्धावशाद्युगपद्वृत्तिद्वयं नाभ्युपैषि, तर्हींह ईदातोरपि इगच्छब्दयोर्लक्षणैवास्तु। स्ववाच्यहस्ववाच्य त्वाविशेषात्। स्ववाच्यतापि परमस्तीत्यन्यदेतत्।
     नन्वेवमपि `शरीरम्' इत्यादौ शकारस्य श्थानसाम्याद्यकारादेशः प्राप्नोति, इकारवाच्यो हि दीर्घः तत्सवर्णश्च शकार इति तस्यापग्ग्रिहणेन ग्रहणात्। तथा `शीतलम्' इत्यादावपि यण्प्रसङ्गः, दीर्घः परं न भवति, अक्‌शब्दवाच्यवाच्यतायाः दीर्घे विश्रान्त्या तत्सम्बन्धग्रहे मानाभावादिति।
     अत्रोच्यते। भवेदयं शकारस्य यकारादेशरुपो दोषः। यदि स्वावांच्यसवर्णे लक्षणां वदाम। वयन्तु स्ववाच्यवाच्ये सत्येव ब्रूमः। न च ईकारः शकारस्य वाचकः, दीर्घाणामनण्त्वेन सवर्णाग्राहकताया असकृतावेदितत्वात्। भाष्यमते त्वज्झलोः सावर्ण्यमेव नास्तीत्युक्तम्।
     तदयमिह निर्गलितोऽर्थः। अकारोऽष्टादशानां संज्ञा। एवमिदुतौ। ऋ लृ इत्येतौ तु पर्यायशब्दौ त्रिंशतः संज्ञे, ऋलृवर्णयोः सावर्ण्यस्योपसंख्यातत्वात्, `ऋलृक्' (माoसूo2) सुत्रे ``ऋत्यकः (पाoसूo6-1-128) इति प्रकृतिभावदर्शनेनैव ज्ञापितत्वाद्वा। न च तुल्यव्यक्तिकसंज्ञाद्वयप्रणयनवैयर्थ्यं, तदर्थमिह सूत्रान्तराप्रणयनात्। एचस्तु द्वादशानां संज्ञाः। यवला द्व्योः। रहौ तु स्वस्यैवेति। यद्यपि हकार आकारस्य सञ्झेति प्राप्तं तथापि तत्परिहाराय ``नाज्झलौ (पाoसूo1-1-10) इत्यत्रैव यत्नः कृतो न विस्मर्त्तव्यः।
     वार्त्तिककारस्त्विहाण्ग्रहणं प्रत्याचख्युः। तन्मते `अस्य च्वौ (पाoसूo7-4-32) इत्यादौ जातिनिर्देशात्सिद्धम्। अनुवाद्यविशेषणस्य च ह्रस्वत्वस्य ग्रहैकत्ववदर्विवक्षा। विधिप्रदेशे तु पश्वेकत्ववद्विवक्षेति सर्वेष्टसिद्धिः। यद्यप्यस्मिन्पक्षे ऋकारेण लृकारग्रहण दुःसाध्यं तथापि ऋलृकसूत्रोक्तरीत्या समाधेयमिति दिक्।

तपरस्तत्कालस्य (पाoसूo1-1-70)।
तः परो यस्मात्स तपरः। तात्परोऽपि तपरः। द्विविधोऽप्ययं स्वसमानकालस्य ग्राहकः स्यात्। तेन अत् इत् उदिति षण्णां संज्ञाः। ऋदिति द्वादशानाम्। अत एव ``उपसर्गादृति षण्णां संज्ञाः। ऋदिति द्वादशानाम्। अत एव ``उपसर्गादृति धातौ (पाoसूo6-1-91) इत्यत्र सावर्ण्यात् लृवर्णस्य ग्रहणं तपरत्वाद्दीर्घे नेति सिद्धान्तः। पञ्चमीसमासोदाहरणन्तु ``वृद्धिरादैच् (पाoसूo1-1-1) इति। इह हि संज्ञायां कृतं तात्परत्वं संज्ञिनोः फलति ङमुटष्टित्त्वमिवेत्युक्तम्। परम्परासम्बन्धेन लाक्षणिकस्य स्मारकतेति पक्षे तु न कश्चिद्दोषः। ``अदेङ् गुणः (पाoसूo1-1-2) इत्यत्राप्येवं सिद्धम्, तत्र तकारस्योभयार्थतया सामर्थ्यविरहात्। यदि तुकालसूत्रे वक्ष्यमाणरीत्याऽणुदित्सूत्रेऽशब्द संज्ञायामित्यनुवर्तते, यदि वा कार्यकालपक्षमाश्रित्य भाव्यमानत्वादेव सवर्णग्रहणं वार्यते, तदा वृद्‌धिसूत्रे तपरकरणं स्पष्टार्थम्। इह तु भाष्यं सङ्गच्छते। `गुणा भेदकाः' इति पक्षे तु वृद्‌धिसूत्रे तपरकरणमुभयार्थम्, गुणान्तरयुक्तस्य ग्राहकत्वात्। भेदकत्वे ज्ञापकं त्वणुदित्सूत्रस्थामण्ग्रहणमिति ``हल् (माoसूo14) इति सूत्रे एवोपपादितम्। तथैतत्सूत्रस्थं तत्कालस्येति पदमपीह ज्ञापकम्। अन्यथा हि स्वस्य रूपस्येत्यनुवृत्त्यैव सिद्‌धे किं तेन? न च सावर्ण्याल्लृवर्णग्रहणार्थं तत्। एवं हि तत्रैव लृग्रहणं कुर्यात्, ``ऋति ऋ वा (काoवाo) इति विहितं रेफद्वयमध्यं वोच्चारयेत्। आ इत्येव सिद्धे ``अतो दीर्घी यञि (पाoसूo7-3-101) इति सूत्रे दीर्घग्रहणमपीह लिङ्गमिति दिक्।
      अत एवैतत्सूत्रं भाष्यादौ द्वेधा व्याख्यातं विध्यर्थं नियममार्थं चेति। तथाहि, अणिति नानुवर्त्तते। तेनाऽऽकारादावनणि तत्कालानां सर्वणानां गुणभेदेऽप्यनेन ग्रहणम्। ``अतो भिस ऐस (पाoसूo7-1-2) इत्यादौ तूभयप्रसङ्गे परत्वादस्यैव प्रवृत्तिः। ननु संज्ञानां बाध्यबाधकभावो नेत्युक्तमिति चेत्? सत्यम्, अविरोधे फलभेदे च भवत्येव समावेशः। इह तु विरोध एवास्ति। अष्टादश ग्राह्याः, षङ् ग्राह्य इति हि विरुद्धम्, संख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्ट्त्वात्। अत एव ``छादेर्घे (पाoसूo6-4-96)इति सूत्रे ``अद्विप्रभृत्युपसर्गस्य इति वक्तव्यमिति वार्त्तिकं सङ्गच्छते इत्याहुः। वस्तुतस्तु नेह संज्ञासूत्रद्वये संख्योपात्ता, येन विरोधः स्यात्, किन्तु ``अतो भिस (पाoसूo7-1-9) इत्यादौ तपरकरणसामर्थ्याद्वाध्यबाधकभावोऽनुमीयते इति तत्त्वम्। वस्तुतस्तु तकारविशिष्टेयं संज्ञा, न त्वम्णात्रम्। तत्कालस्येति तच्छब्दस्तु विसेष्यमात्रं परामृशति, न तु विशिष्टम्। तदुच्चारणकालसदृशे लक्षणा तु प्राचां मतेऽप्यस्त्येव। सर्वनामपदेपि ``एतस्यैव वारवन्तीय ``तत्त्वमसि इत्यादौ लक्षणायाः पूर्वोत्तरतन्त्रयोः स्थितत्वात्। तथाच टिघुबाद्यन्तर्गताण्वदिह पदेकदेशत्वेनानर्थक्याद्ग्राहकताप्रसङ्ग एव नास्ति। विभक्त्युत्पत्तिरप्येवं सति सङ्गच्छते। वृद्धिसूत्रे `अत्राकारः प्रयोगस्थौसकारैकारैरर्थवान् इति हरदत्तग्रन्थस्तु प्राचां रीत्या नेतव्य इति निष्कर्षः। सोऽयं विध्यर्थतापक्षः।
     यदा त्वणित्यनुवर्त्तते, तदा नियमार्थमिदं `तपरोऽण् तत्कालस्यैव' इति। गुणानामबेदकत्वादनण्सु न कश्चिद्दोषः। अस्मिर्श्चं पक्षे तत्कालत्वग्रहणं शक्यमकर्त्तुम्, अण्ग्रहणानवृत्तिश्चानावश्यकी, तपरः स्परूपस्यैवेति नियमेनापीष्टसिद्धेः। ``दिव औत् (पाoसूo7-1-84) इत्यत्र तपरकरणं स्वरार्थं न तु, कालावधारणार्थं, भाव्यमानतया सवर्णग्रहमाप्रसक्तेः। तथाच स्वरितः प्रयुज्यते--``द्यौः पितः पृथिवि मातर ध्रुक् इति। ``पृथिवी उत द्यौः इत्युदात्तप्रयोगस्तु द्योशब्दस्य बोध्यः। ``औत् (पा oसूo7-3-128) ``अच्च घेः (पाoसूo7-3-119) इत्यत्र तु मुखसुखार्थं तपरकरणं, व्याख्यानात्। तेन ``समिधाने अग्नौ इत्यादौ तित्स्वलरो नेति वृत्तिकारहरदत्तादयः। यत्तु ``नविभक्तौ तुस्माः (पाoसूo1-3-4) इत्यत्र जयादित्यादिभिरुक्तम्---``इटोऽत् (पाoसूo3-4-106)क इत्यात्रायं निषेधो न भवति ``इदमस्थमुः (पाoसूo5-3-24) इत्युकारानुबन्धकरणादनित्यत्वादस्येति। तदभ्युपगमवादमात्रम्, तित्स्वरप्रसङ्गात्। न चेष्टाप्त्तिः `भक्षीय तवराधस' इत्यादावन्तोदात्तश्रवणात्। तस्माद् ``इटोत् (3-4-106) ``इत्यत्रापि मुखसुखार्थस्तकारः। ``एत ईद्बहुवचने (पाoसूo8-2-81) ``उर्ऋत् (पाoसूo7-4-6) इत्यादिष्वप्येवमेवेति दिक्। वस्तुतस्तु ``दिव औत् (पाoसूo7-1-84) इत्यत्राप्येवमेव, हलः स्रंसनधर्मिणोऽनुदात्ते कृते ``उदात्तस्वरितयोर्यणः (पाoसूo8-2-4)क इत्येव स्वरितसिद्धेः। स्यादेतत्। द्रुता मद्यमा विलम्बिता चेति तिस्रो वृत्तयः। तदुक्तम्---
अ(1)भ्यासार्थेद्रुता वृत्तिः प्रयोगर्थे तु मध्यमा।
शिष्याणां तूपदेशार्थं वृत्तिरिष्टा विलम्बिता ।। इति ।
     ताश्च क्रमेण त्रिभागाधिकाः। तथाहि, द्रुतवृत्त्या यस्याम् ऋचि पठ्यमानायां नव पानीयपलानि स्रवन्ति तस्यामेव ऋचि मध्यमवृत्त्या पठ्यमानायां द्वादश, विलम्बितायान्तु षोडश। एवं स्थिते यदि सूत्रकृद्विलम्बितायां तपरकरणमकार्षीन्मध्यमायां द्रुतायां वा, तर्हि वृत्त्यन्तरेण पाठकाले ``अतो भिस ऐस् (पाoसूo7-1-9) न स्यात्, कालावधारणेन दीर्घप्लुतयोरिव वृत्त्यन्तरस्यापि वार्णादिति। तथा च वार्त्तिकम् - ``द्रुताया तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् इति। अत एव निपातनान्मध्यशब्दे हस्व इति संहितासंज्ञासूत्रे कैयटः। अत्र सिद्धान्तवार्तिककारा एवमाहुः--`सिद्धं त्ववस्तितावर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यतन्ते' इति। अस्यार्थः--व्यञ्चकीभूतो ध्वनिर्यद्यपि बहुकालानुवर्त्ती, तथापि कश्चिन्मात्रापर्य्यन्तमेवाभिव्यनक्ति, तदुकत्तरकालोपहितस्तु स्वयमेवानुवर्त्तते न तु परमभिव्यनक्ति। यद्वा, हस्वस्य व्यञ्जको ध्वनिर्वृत्तित्रयेऽपि मात्राकाल एव। मध्यमविलम्बितयोः प्रयमगृहीतध्वन्यनुनिष्पादिना ततो न्यूनकालेन द्वन्यन्तरेणाभिव्यक्त्यन्तरं जन्यते, अभिव्यङ्ग्यस्तु न भिद्यते। एवं दीर्घव्यञ्जकोऽपि सर्वत्राऽऽद्यो ध्वनिर्द्विमात्र एव। अनुनिष्पादी तु ततो न्यून इत्याद्युद्यम्। व्यङ्ग्यास्तु स्वत एव परस्परविलक्षणाः। एतच्च सर्वं कैयटेन ध्वनितम्---
     तस्मादुच्चारणं तेषां मात्राकालं प्रतीयते।
     द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ।। इति।
     शब्दान्तराधिकरणस्थराणककारोक्तिस्तु कथं नेयेति सूरिभिश्चिन्त्यम्। वर्णास्तु नित्या एव। वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरादपि ग्राह्यः कश्चिद् ध्वनिरवश्याभ्युपेयः। तस्यैव कालभेदाद् वृत्तित्रैविध्यम्। वर्णास्तु वृत्तिभेदेऽप्येकरूपा एव।
     कैश्चिद्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः। (वैoभूoकाo)
     इति पक्षे तु कालरूपोपाधिविशेषावच्चिन्नस्यैव व्यक्तित्वमिति दिक्।
     उक्तं च भाष्ये--
ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते।
अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः ।। इति।
     अस्यार्थः--शब्दो द्विधा व्यञ्जको व्यङ्ग्चश्च। शब्दानां व्यङ्ग्यानांव्यञ्जकत्वेन सम्बन्धी यो ध्वनिः स एव महानल्पश्च लक्ष्यते। तदुभयं व्यङ्गयं व्यञ्जकरूपं केषांचिदेव ताल्वादिव्यापारजन्यानामेव न तु भेर्यादिजन्यानामपि। कुतः? स्वभावतः, कारणवैलक्षण्यात्। अत्रोभयमिति भावप्रधानो निर्देशः। उभयरुपतेत्यर्थः।

आदिरन्त्येन सहेता (पाoसूo1-1-71)।
अन्त्येनेता सहोच्चार्यमाण आदिवर्णो वर्णसङ्गातो वा मध्यगानां संज्ञा स्यादादेः स्वरूपस्य च। वर्णो यथा अल्। सङ्घातस्तु कृञ्। इह अभूततद्भावे ``कृभ्वस्ति (पाo्सूo5-4-50) इत्यतः ``कृञो द्वितीय (पाoसूo5-4-58) इति ञकारेण प्रत्याहारः। आद्यन्तौ तावदवयवौ। ताभ्यामवयवी समुदाय आक्षिप्यते। तस्य च युगपल्लक्ष्ये प्रयोगाभावात्तदवयवेषु संज्ञाऽवतरन्ती मध्यगेषु विश्राम्यति, न त्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयात्। अतः स्वंरूपमित्यनुवर्त्तते। स्वं रूपं चादेरेव गृह्यते, नान्त्यस्य, अप्राधान्यात्। अन्त्येनेति ह्यप्रधाने तृतीया। तेन`दध्यत्र' इत्यादौ केवल एव यकारः प्रवर्त्त ते न णकारसहित इति कैयटादयः।
     अत्रेंदं वक्तव्यम्---``प्रत्याहारेष्वाद्य वाचकास्तत्र ग्रहणकशास्त्रं सावकाश्म इति ग्रहणसशास्त्रस्थभाष्यादिपर्यालोचनया वाचकत्वं तावदाद्यवर्णे विश्रान्तम्, अन्त्यस्तु तात्पर्यग्राहकः। सहग्रहणात्तु विशिष्टाद्विभक्‌त्युत्पत्तिरिति द्योतकान्तरवैषम्यमिति स्थितम्। तत्रान्त्यस्येत्संज्ञयाऽपत्दृतस्य कथं संज्ञित्वप्रसक्तिः ? अन्यथा ऽजादिसंज्ञानामपि णकारादावतिप्रसक्तेः क उद्धारः? किञ्च अस्तु विशिष्टस्य यण्संज्ञा, तथापि `दध्यत्र' इत्यत्र यण्शब्दापाद्नमसङ्गतमेव, न्यायसाम्येनेक्‌शब्दस्यैव स्यानित्वप्रसक्तया इकारस्य स्थानित्वासम्भवात्।
     अन्त्येनेति किम्? सुडिति तृतीयैकवचनावयवेन मा भूदिति वृत्तिकाराः। ``टाङसिङसाम् (पाoसूo7-1-22) इत्यादिनिर्देशैष्टकारो न पूर्वान्त इति निर्णयादिति भावः। नन्वेवमपि टकारान्तस्य सङ्घस्य टाटकारोऽन्त्यो भवत्येवेति चेत्? न , व्यवसितान्त्यताविरहात्। इह हि अन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहार इति ``सुडनपुंसकस्य (पाo्सूo1-1-43) इति सूत्रे हरदत्तः। न चैवं रप्रत्याहारासिद्धिः, लण्‌सूत्रेऽनुनासिकप्रतिज्ञासामर्त्यादनन्त्येनापि प्रत्याहारात्।
     इदं तु वक्तव्यम्। औटष्टित्त्वस्यानन्यार्थतया तेनैव सुट्प्रत्याहारः, प्रत्यासत्तेश्च। तथा चान्त्यग्रहणं मास्त्विति।
     अत्रेदं समाधानम्--मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूत्।
     एवमन्त्येन सहितो मध्यमः पूर्वेषां संज्ञा मा बूदित्यादिग्रहणम्।
     इतेति किम्? रप्रत्याहारो यता स्यात्। स ह्यनन्तेनाप्यनुनासिकपतिज्ञासमर्थ्याद्भवतीत्युक्तम्। न चैतदितेत्यस्य विरेहे लभ्यते.
      तवीनास्तु सहाऽऽसमन्तादेतीति सहेता मध्यमो वर्णः। अन्त्येनादिः अणित्यादिसेज्ञेको भवतीत्यर्थः। आद्यन्तसमभिव्याहाराच्च सहेता मध्यमो वर्णो लभ्यते। स्वं रूपमिति चानुवर्तते। वृद्धिगुणादिसंज्ञास्विवेहापि सामानाधिकरण्यात्संज्ञात्वावगतिः। अस्मिंश्च व्याख्याने ``हलन्त्यम् (पाoसूo1-3-3) इत्यत्रेतरेतराश्रयशङ्काऽपि नास्तीत्याहुः। आद्यन्तावयवद्वारा समुदायानुकरणेनि सिद्धेऽन्त्यव्यावृत्तये इदम्।

येन विधिस्तदन्तस्य (पाoसूo1-1-72) ।।
विशेषेण तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । ``एरच् (पाoसूo3-3-56) वयः, जय
ः, अयः। ``ओरावश्यके (पाoसूo3-1-124) अवश्यलाव्यम्। इह येनेति करणे तृतीया, न तु कर्त्तरि, कृद्योगलक्षणषष्ठ्या बाधितत्वात्। विधिरिति हि कर्मणि किप्रत्ययः। तेन कर्मणोऽभिहितत्वाद् ``उभयप्राप्तौ" (पाoसूo2-3-66) इति नियमस्य नायं विषयः। करणं च परतन्त्रं, कर्त्रधिष्ठितस्यैव करणत्वात्। एवञ्चेह तृतीयया पारतन्त्र्यं लक्ष्यते ``सुब् विमक्तौ न लक्षणा इति नैयायिकोद्धोषस्तु निर्मूलः। न च प्रत्ययानुशासनवैयर्थ्यापत्तिस्तन्मूलम्, तिङ्क्ष्वपि तस्यतुल्यत्वात्, `रथो गच्छति' इत्यादौ व्यपारे लक्षणायास्त्व(1) यापि स्वीकारात्। अत एव ``प्रयाजशेषेण हवींष्यभिघारयति इत्यत्र प्रयाजशेषं इविष्युक्षारयेदिति मीमांसका व्यचख्युरिति दिक्। न च ``एरच् (पाoसूo3-3-56) इत्यादाविकारदीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव च स्वरूपतः स्मभवति, किं तु वैवक्षिकम्। तेन विशेषणमप्रधानं तच्चात्मान्तस्य विशेष्यस्य संज्ञेति फलितम्।
     विशेष्यसन्निधौ च विशेषणत्वं भवति। सन्निधिस्तु क्वचित्साक्षान्निर्द्देशेन, यथा ``ईदूदेद् द्विवचनम्प्रगृह्यम् (पाoसूo1-1-11) इति द्विवचनस्य, क्वचिच्छब्दाधिकारात्, यथा ``एरच् (पाoसूo3-3-56) इत्यत्र धातोः, क्वचिदाक्षेपाद्यथा ``इको झल् (पाoसूo1-2-9) इत्यत्र सना धातोः। ``इको यणचि (पाoसूo6-1-77) ``एचोऽयवायावः (पाoसूo6-1-78) इत्यादौ त् न कथञ्चिदपि विशेष्यस न्निधिः। अतो नेदं प्रवर्त्तते।
    स्यादेतत्। ``उदोष्ठ्यपूर्वस्य (पाoसूo7-1-102) इत्यत्र ओष्ठ्यपूर्वकत्वं धातोरेव विशेषणं स्यान्न तु ऋकारस्य। स(1) हि विशेशणत्वादृदन्तस्य संज्ञा। संज्ञा च संज्ञिनं प्रत्याययति, न तु स्वयं विशेषणादियोगमनुभवति। ततश्च `शङ्कीर्णम्' इत्यादावतिव्याप्तिः, `पूर्त्तम्' इत्यादावव्याप्तिश्च। एवम् ``उतश्च प्रत्ययात् (पाoसूo6-4-106) इत्यत्राप्यसंयोगपूर्वत्वमङ्गस्य प्रत्ययस्य वा विशेषणं स्यान्न तूकारान्तस्य। ततश्च `अश्नुहि' इत्यादावतिव्याप्तिः। विशेषणं च यद्यङ्गकस्य, तदा `तक्ष्णुहि' इत्यादावतिव्याप्तिः। अथ प्रत्ययस्य, तर्हि `तक्ष्णुहि' इत्यादि सिद्ध्यत्, `अश्निहि' इत्यादौ तु दोष एवेति।
     अत्राहुः। गुणप्रधानभावसापेक्षेयं संज्ञा। तथाच ``उतश्च प्रत्ययात् (पाoसूo6-4-106) इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणात्तमनुभूय पश्चाद्विशेष्यसम्बन्धे विशिष्टा सेज्ञा भवति। इह हि विशिष्टस्य वैशिष्ट्यम्, न तु विशेष्ये विशेषणमिति, व्याख्यानात्। अत एव न विशिष्टे वैशिष्ट्यं नाप्येकत्र द्वयमिति दिक्। तथाच वार्त्तिकम्--``येन विधिस्तदन्तस्येति चेत्? ग्रहणोपाधीनां तदन्तोपाधिताप्रसह्गः। सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात् इति। ग्रहणोपाधीनां गृह्यमाणविशेषणत्वेन सम्मतानामोष्ठ्यपूर्वत्वादीनामित्यर्थः। यथेष्टत्वादित्यनेनेदं दर्शयति--चतुर्विधेषु विशिष्टवैशिष्टवैशिष्ट्यबौधेषु मध्ये विशिष्टस्य वैशिश्ट्यमेवेह सम्मतं न त्वितरत्र्त्रिकं व्याख्यानाल्लक्ष्यानुरोधाच्च। इह सिद्धान्ताभिमतं विशेषणविशेष्यभावं स्फुटीकर्त्तुं बहूनि वा र्त्तिकानि प्रवृत्तानि। तद्यथा -- ``समासप्रत्ययविधौ प्रतिषेधः (काoवा) ``द्वितीयाश्रित (पाoसूo2-1-24) इत्यादौ श्रितादयो विशेष्यास्ताद्विशेषणं च सुप्। एवं ``ऩडादिभ्यः फक् (पाoसूo4-1-99) इत्यादौ नडादि विशेष्यं प्रातिपदिकं विशेषणमिति फलितोऽर्थः। एतेन ``ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इत्यापि व्याख्यातं तस्याप्युदात्दृतप्रतिषेधसमानविषयकत्वस्य ``दिव उत् सूत्रे कैयटादिभिरुक्तत्वात्। अत एव ``गोस्त्रियोः (पाoसूo1-2-48) इति सूत्रे गोन्तं यत्प्रतिपादिकमिति व्याख्यातम्। एतेन ``शेषो घ्यसखि (पाoसूo1-4-7) इत्यादौ ग्रहणवतेति प्रतिषेधं सञ्चारयन्तो हरदत्तादयः प्रत्युक्ताः।
     प्रकृतमनुसरामः, श्रितादयो विशेष्या इत्युक्तम्। तेन ``द्वितीया श्रित (पाoसूo2-1-24) इति समासः `कृष्णाश्रितः' इत्यत्रेव भवति, न `कृष्णं परमश्रितः' इत्यादावपि। तथा ``नडादिभ्यः फक् (पाoसूo4-1-99)क नाडायनः। नेह सुत्रनडस्यापत्यं सौत्रनाङिः । अनुशतिकादित्वादुभयपदवृद्धिः। ननु ``कृष्णं परमश्रितः' इत्यत्र समासप्राप्तिरेव नास्ति। अत्र हि समासात्सुब् विहितः। तेन श्रितान्तं सुबन्तमेव भवति। अत्र कैयटहरदत्तौ-सम्बुद्ध्यन्तमुदाहर्त्तव्यं `कृष्णं परमश्रित' इति। एताद्धि प्रतच्ययलक्षणेन सुबन्तं भवति, श्रितान्तं च श्रूयते इति। स्यादेतत्। सिद्धान्ते श्रितादीनां विशेष्यत्वेऽपि तत्र सुबन्तत्वं बाधितम्। न चात एवान्वयानुपपत्त्या श्रितादिशब्दानां तत्प्रकृतिके लक्षणेति वाच्यम्, सम्बुद्ध्यनेते एव मुक्यार्थपुरस्कारेणावकाशलाभात्। तथाच `कृष्णाश्रितम्' इत्यादि न सिद्ध्येदिति। उच्यते, समासतद्धितप्रकरणे सर्वत्र श्रितादीनां नडादीनां च तत्तत्प्रकृतिके लक्ष्णैव ``खट्वाक्षेपे (पाoसूo2-1-46) इत्यादौ सम्बुद्ध्यन्ततासम्भवेपि `` एकविभक्तौ (पाoसूoएo1-2-64) इत्यादिसौत्रनिर्देशो न सिध्यते। तस्मात्सामान्यापेक्षज्ञापकबलेनैकरूप्यय् सर्वत्र तत्तत्प्र**तिके लक्षणेति स्थिते इहत्यभाष्यवृत्त्योः कैयटहरदत्तकृतं भङ्क्तवा व्याख्यानमनादेयमित्यवधेयम्।
     अस्यापवादमाह-उगिद्वर्णग्रहणवर्जमिति। उगिता वर्णेन च प्रातिपदिकं विशेष्यते इति फलितोऽर्थः। महान्तमतिक्रान्ताअतिमहती। उपसर्जनत्वाद्गौरादिलक्षणस्य ङीषोऽभावे उगिदन्तत्वान् ङीप्। बृहन्महतोर्गैरा दित्वं नास्तीत्यपि केचित्। युक्तं चैतत्। ``महते सौभगाय इत्यादौ विभक्तेरुदात्तत्वसिद्धये ``शतुरनुमः (पाoसूo6-1-176) इति सूत्रे ``नद्यजाद्युदात्तत्वेबृहन्महतोरुपसंख्यानम् (काoवाo) इति वार्त्तिकस्यारभ्यमाणत्वान्ङीपोऽप्युदात्तत्वसिद्धेः। ``अत इञ् (पाoसूo4-1-95)दाक्षिः। न चेह सामर्थ्यात्तदन्तविधिः अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात्। न चैवमिञो ञित्त्वं व्यर्थं स्यादिति वाच्यम् ``बाह्वादिभ्यश्च (पाoसूo4-1-96) इत्यत्र यथायथं वृद्ध्याद्युदात्ताभ्यां चरितार्थत्वात्। नन्वेवमपि `औपगविः' इत्यादावेव स्यान्न तु `दाक्षिः' इति, अकारस्येहानर्थकत्वादिति चेत्? न, वर्णग्रहणे अर्थवत्परिबाषाया अप्रवृत्तेः। तताचैतत्सूत्रशेषे वार्तिकम्--अलैवानर्थकेनेति। अत एवक संगातेनार्थवतैव। तेन ``स्त्रियाः (पाoसूo6-4-79) इतीयङ् इहैव भवति स्त्रियौ `परमस्त्रियौ' नेह `शस्त्रयौ' `शस्त्र्यः'। तथा ``इन्हन्‌पूषार्थम्णां शौ' (पाoसूo 6-4-12) ``सौ च (पाoसूo6-4-13) इत्यत्र हन् इत्यत्र संघातग्रहणे प्लीहन्ग्रहणं न। तेन `प्लीहानौ' इत्यादौ ``सौ च (पाoसूo6-4-13)इति नियमाप्रवृत्तेः दीर्घः सिद्ध्यति। ``उदः स्थास्तम्भोः (पाoसूo8-4-61) इत्यत्र ``वा पदान्तस्य (पाoसूo8-4-59) इत्यतः पदग्रहणानु वृत्तिपक्षेप्युदेव विशेष्यः। अननुवृत्तौ तु न काचित् क्षतिः। उभयथाप्यनर्थकस्याग्रहणान्नेह `गर्मुत्स्थास्यति'`गर्मुत्सुवर्णतृणयोः'। ननु `शस्त्र्यौ' `प्लीहानौ' इत्यत्र प्राप्तिरेव नास्ति `पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च (पoभाo-29) इति वचनात्। न हीदन्तन्नापि तदुत्तरमिति चेत्? सत्यम् `पदाङ्गाधिकारे' इति वचनसत्त्वे तथैव, किं त्वेतद् दूषितं भाष्यते, सौत्रेण तदन्तविधिनैव गतार्थत्वात्। अत एव परमश्चासावतिमहाश्चेति विग्रहे `परमातिमहान्' इति सिध्यति वचनाश्रयणे तु नैतत्सिध्येत्। अतिमहच्छब्दस्य महदुत्तरपदत्वेऽप्यनङ्गत्वात्, परमविशिष्टस्याङ्गत्वेऽपि महदुत्तरपदत्वाभावात् सौत्रेण तदन्तविधिना तु ``सान्तमहतः (पाoसूo6-4-10) इति दीर्घमुगिल्लक्षणो नुमागमश्चेह सिद्ध्यति। न चेह ``ग्रहणवता (पाoभाo31) इति निषेधः शङ्क्यः ``समासप्रत्ययीवधौ (काoवाo)इत्यनेन सह समानविषयः स इत्युक्तत्वात्। एतेन
     वतिजन्मजरसः परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम्। (किo5-22)
     इति भारविप्रयोगो व्याख्यातः। `अलैव' इत्यस्यापवादः पठ्यते भाष्ये, ``अनिनस्मन्‌ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति (पoभाo16) इति। अन्-`राज्ञा' इत्यर्थवता, `साम्ना' इत्यनर्थकेन। इन्-`दण्डी' इत्यर्थवता, `वाग्मी' इत्यनर्थकेन, अस्-`सुपयाः' इत्यर्थवता, `सुस्रोताः' इत्यनर्थकेन। मन्-`सुशर्मा' इत्यर्थवता, `सुप्रथिमा, इत्यनर्थकेन। तच्च ``इणःक षीध्वम् (पाoसूo8-3-78)इति सूत्रेऽङ्गहणेनार्थवद्ग्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम्। `परिवेविषिध्यम्' इत्यत्र षीध्वंशब्दस्यानर्थकत्वादेवाग्रहणे सिद्धे किं तन्निवृत्त्यर्थेनाङ्गग्रहणेनेति दिक्।
     सुत्रस्योदाहरणान्तराण्याह वार्त्तिककारः---
     प्रयोजनं सर्वनामाव्ययसंज्ञायाम्। अन्वर्थसंज्ञयाऽऽक्षिप्तःक संज्ञी सर्वादिभिर्विशिष्यते इति फलितोऽर्थः।
     उपपदविधौ भयाढ्यादिग्रहणम्। भयञ्च आढ्यादयश्चेति द्वन्द्वः। तेन खच्प्रकरणे ``मेघर्त्तिभयेषु कृञः (पाoसूo3-2-53) इतिसूत्रे वाक्यं भित्त्वा उपपदेन मेघर्त्ती विशेष्येते भयेन तूपपदम्। यदि तुभयाढ्यशब्दयोर्द्वन्द्वं कृत्वा आदिशब्देन बहुव्रीहिः क्रियेत तदा क्षेमप्रियमद्रैरप्युपपदं विशेष्येत। सिद्धान्ते तु क्षेमादय उपपदेन विशेष्यन्ते। भयङ्करः, अभयङ्करः। आढ्यङ्करणं, स्वाढ्यकरणम्।
     ङीप्प्रतिषेधे स्वस्रादिग्रहणम्। स्वसा, परमस्वसा।
     अपरिमाणबिस्तादिग्रहणं च। प्रतिषेधे प्रयोजनमित्यनुवर्त्तते। द्विगुना सन्निधापितमुत्तरपदं बिस्तादिभिर्विशेष्यते इति भावः। द्विबिस्ता, द्विपरमबिस्ता। द्व्याचिता, द्विपरमाचिता। दितिः--दैत्यः, आदित्यः। ``दित्यदित्यादित्य (पाoसूo4-1-85) इति सुत्रेऽदितिग्रहणं न कर्त्तव्यं, परमदित्यदिभ्यस्त्वनभिधानान्न भवतीति भावः। रोण्या अण् ``रौणी (पाoसूo3-2-78) इति सूत्रेण चातुरर्थिकः। रौणः, आजकरोणः, सैंहकरोणः।
     तस्य च। तस्य चेति वक्तव्यम्। उक्तानां वक्ष्यमाणानां च सर्वेषा मयं शेषः। तथाचेह सूत्रे `स्वं रूपम्' इत्यनुवर्त्तते इति फलितोऽर्थः। ननु व्यपदेशिवद्भावेन `रोणः' इति सिद्धमिति चेत्? न, ``व्यपदेशिवद्भावोऽप्रातिपदिकेन (पoभाo32) इति निषेधादिति भाष्यकाराः। यद्यपि रोणीशब्दो न प्रातिपदिकं, तथाप्यप्रततिपदिकेनेत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्त्स्त्रीप्रत्ययान्तैरपि व्यपदेशिवद्भावो नास्तीति भावः। यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणमिति हि ङयाप्सूत्रे वक्ष्यते। ननु यदि तस्य चेत्युच्यते, स्वरूपग्रहणं चानुवर्त्त्यते, तर्हि ``व्यपदेशिवद्भावोऽप्रातिपदिकेन(पाoआo32) इत्यस्य निर्विषयत्वं स्यादिति चेत्? न, ``सूत्रान्ताठ्क् (पाoसूo4-2-60) ``दशान्ताड्डः (पाoसूo5-2-45) इत्यादौ सावकाशत्वात्। न च तत्रान्तग्रहणसामर्थ्यादेव व्यपदेशिद्भावो न भविष्यतीति वाच्यम् ``समासप्रत्ययविधौ प्रतिषेधः (काo वाo ) इत्येतद्‌बाधेनान्तग्रहणस्य चरितार्थत्वात्। ज्ञापकसिद्धेयं परिभाषा। पूर्वात्सपूर्वादिनिरिति वक्तव्ये ``पूर्वादिनिः (पाoसूo5-2-86) ``सपूर्वाच्च (पाoसूo5-2-87) इति योगविभागश्चेह ज्ञापकः। वस्तुतस्तुक भयाढ्यादाविव``सूत्रान्ताठ्ठक् (पाoसूoएo 4-2-60) ``दशान्तड्डः (पाoसूo5-2-4-5) इत्यादावपि विशेषणविशेष्यभावव्यत्यासमात्रेण सिद्धे अन्तग्रहणसामर्थ्यमपि सूपपादमिति परिभाषाश्रयणं व्यर्थम्। न चैवं `गोकुलम्' इत्युत्र इस्वः स्यादिति वाच्यम्, उपसर्जनं यो गोशब्दस्तदन्तस्य् प्रातिपदिकस्य हस्वविधानात्। सन्निधानाच्च प्रातिपदिकं प्रत्येव विशेषणताश्रयणात्। गोशब्दे च तदभावात्। अत एव ``राजकुमारीपुत्रः इत्यत्र न ह्रस्वः। उपपसर्जनं यत्स्त्रीप्रत्ययान्तं तदन्तस्य प्रातिपदिकस्येत्यत्रापि सन्निधानाश्रयणात्। एष एव तवापि गतिः। न ह्युक्तपरिभाषेह सम्भवति ``व्यपदेशिवद्भावोऽप्रातिपादिकेन (पाoभाo33)``ग्रहणवता (पाoभाo31) इति च परिभाषाद्वयमपि प्रत्ययविधिविषय कमिति दिवउत्सूत्रे कैयटहरदत्ताभ्यामुक्तत्वात्। एवञ्च ``पूवोदिनिः (पाoसूo5-2-87) इति योगविभागो व्यर्थः। किम्बहुना ``पूर्वादिनिः (पाoसूo5-2-87) इत्यत्र तदन्तग्रहणसम्भवात् ``सपूर्वाच्च (पाoसूo5-2-87) इति सूत्रं व्यर्थम्। व्यपेदीशवद्भावेन सिद्धे तस्येति प्रकृतवार्त्तिकमपि न कर्त्तव्यम्। स्वं रूपमिति तु प्रागेव प्रत्याख्यातमिति दिक्।
     रथसीताहलेभ्यो यद्विधौ। ``तद्वहति (पाoसूo4-4-76) इति यत्। रथ्यः; परमरथ्यः। सीत्यं, परमसीत्यं क्षेत्रम्। सीतयासम्मितं, सम्मतमित्यर्थः। ``नौवयोधर्म (पाoसूo4-4-91) इति यत्। हलस्य कर्षो हल्यः ``मतजनहलात्करणणजल्पकर्षेषु (पाoसूo4-4-7) इतिक यत्। यद्विधाविति किम्? ``हलसीराठ्ठक् (पाoसूo4-3-124) इति यत्। यद्विधाविति किम्? ``हलसीराठ्ठक् (पाoसूo4-3-124) इति ठग्‌विधौ तदन्तग्रहणं मा भूदिति कैयटः। अत्रेदं वक्तव्यम्। ``हलसीरात् (पाoसूo4-3-124) इति द्विःक पठ्यते ``तस्येदम् (पाoसूo4-3-120) इत्यधिकारे``तद्वहति (पाoसूo 4-4-91) इत्यधिकारे च। तत्रोभयत्रापि तदन्तविधिरिष्ट एव। आद्यस्य प्राग्‌दीव्यतीयत्वाल्लुक्--द्‌विहलः। अपरस्यश्रवणम्---द्वैहलिकः। स्वष्टं चेदं चतुर्थे हरदत्तग्रन्थे। युक्तं चैतत्। ``रथाद्यत् (पाoसूo4-3-111) ``तद्वहति (पाoसूo4-4-76) इति रथशब्दस्य द्विरुपादानमेतदर्थमिति भाष्येप्युक्तत्वात्। वहत्यधिकारस्थरथहयोरुपादानसामर्थ्याल्लभ्योहि तदन्तविधिरविशेषादुभयत्रापि स्यादेव। न चैवमिहि यद्विधावित्यसङ्गतमिति वाच्यम्, तस्योपलक्षणत्वात्। यद्वा, ``रथाद्यत् (पाoसूo4-3-121) इति सूत्रे रथाद्रथाङ्गे इति वद्वोढरीत्युक्तौ तत्प्रकारकशाब्दबोधस्योपपादयितुं शक्यत्वेऽपि हलग्रहणे तदुपपादनस्य वक्तुमशक्यत्वेन हलग्रहणेन न तदन्तविधिः। अस्तु वा संख्यापूर्वपद एवेति कैयटाशयः। ``तस्मै हितम् (पाoसूo5-1-5) इति प्रकरणे ``शरीरावयवाद्यत् (पाoसूo5-1-6) इति सुत्रे ``रथाच्च (काoवाo) इति वार्त्तिकम्। तत्राप्ययं तदन्तविधिर्बोध्यः। यत्तु तत्र कैयटो वक्ष्यति हलसीताशब्दाभ्यां साहचर्याच्चतुर्थाध्यायविहित एव यदिति तदन्तविदिमाहुरिति। तत्राहुरित्यस्वरसोद्भावनम् ``असमासे निश्कादिभ्यः इत्यसमासग्रहणेन तस्मिन्प्रकरणे विशिष्यापि कतदन्तविधेर्ज्ञापिततया साहचर्याश्रयणेऽपि तदन्तविधेर्दुर्वारत्वादित्यवधयेम्।
     सुसर्वार्द्धदिक्शब्देभ्यो जतपदस्य। सुपाञ्चालकः। सुमागधकः। सर्वपाञ्चालकः। अर्द्धपाञ्चालकः। ``अवृद्धादपि बहुवचनविषयात् (पाoसूo4-1-125) इति वुञ्। ``सुसर्वार्द्धाज्जनपदस्य (पाoसूo7-3-12) इत्युत्तरपदवृद्धिः। दिक्‌शब्दः--पूर्वपाञ्चालकः। अपरपाञ्चालकः। पूर्ववद्र वुञ्। ``दिशोऽमद्राणाम् (पाoसूo7-3-13) इत्युत्तरपदवृद्धिः।
     ऋतोर्वृद्धिमद्विधाववयवानाम्। ऋतुवाचिनः शब्दाद्यो। वृद्धिमान् वृद्धिनिमित्तः प्रत्ययस्ताद्वि धाने अवयनानां पूर्वपदत्वे इति शेषः। तदन्तविधिरिह वाचनिक एव। शरदः पूर्वो भागः पूर्वशरत्।``पूर्वापराधरोत्तरम् (पाoसूo 2-2-1) इत्येकदेशिसमासः। तत्र भवं ``पूर्वशारदम्। ``सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् (पाoसूo4-3-16) । ``अवयवादृतोः (पाoसूo7-3-11) इत्युत्तरपदवृद्धिः। वृद्धिमदिति किम्? ``प्रावृष एण्यः (पाoसूo4-3-11)इत्युत्तरपदवृद्धिः। वृद्धिमदिति किम्? ``प्रावृष एण्यः (पाoसूo4-3-17) इत्य तदन्तविधिर्मा भूत् । तेन तत्र ऋत्वणेव भवती--पूर्वप्रावृषमिति। अवयवानां किम्? पूर्वस्यां शरदि भवं पौर्वशारदिकमित्यत्राण् न भवति किं तु कालाठ्ठञेव भवति। तत्र हि यथाकथञ्चित्कालवाचिनो गृह्यन्ते न तु रूढयैवेत्याग्रहः, उत्तरत्र सन्धिवेलाद्युनुनक्षत्रेभ्य इति विशेषणात्। अत एव सायम्प्रातिकः, पौनःपौनिकः, इत्यादि सिद्ध्यति।
     ठञ्‌विधौ संख्यायाः द्वे षष्ठी परिम्णमस्येति विग्रहे ``तद्दितार्थ (पाoसूo2-1-51)क इत्यनेन समासे कृते आर्हाद् (पाoसूo6-1-19) इति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्‌प्रतिषेधात्। तेन ``प्राग्वतेः (पाoसूo5-9-18) इतिक ठञेव भवति। ``अध्यर्द्धपूर्व (पाoसूo5-1-28 ) इति लुक्तु न भवति ``सोस्यांशवस्नभृतयः (पाoसूo5-1-53) इत्यतः सोऽस्येत्यनुवर्त्तमाने ``तदस्य परिमाणं (पाoसूo5-1-57) इत्यत्र पुनः प्रत्ययार्थस्य समर्थविभक्तेश्च निर्देशात्। पुनर्निर्देशेन हि प्रकृताल्ल्लुकसम्बद्धाद्विलक्षणमिदमिति सूच्यते। यद्वा, अनुवर्तमानेन सोस्येत्यनेन सहितं परिमाणं संख्याया इत्येतत्तावत्प्रत्ययं विधत्ते। ततस्तस्य लुकि कृते पुनः ``तदस्यपरिमाणम् (पाoसूo5-1-57) इति वचनसामर्थ्यात्स्वार्थे तज्जातीयः प्रत्ययः। तस्य विधानसामर्थ्यात् द्विगुनिमित्तत्वाभावाद्वा लुङ् न भविष्यति। एतच्च विधानसामर्थ्यात् द्विगुनिमित्तत्वाभावाद्वा लुङ् न भविष्यति। एतच्च वृत्तिकारमतमाश्रित्योक्तम्। भाष्यकारमते तु ``तमधीष्ट (पाoसूo5-1-58) इति सूत्रेण भूतार्थे प्रत्ययं कृत्वा ``द्विषाष्टिकः इत्यादि साध्यम्। न ह्यत्र ``अध्यर्द्ध (पाoसूo5-1-28) इतिलुक् प्राप्नोति, अनार्हीयत्वात्। यद्यपि ``तमधीष्ट (पाoसूo5-1-86) इत्यत्र कालादिति वर्तते तथापि काले संख्येये वर्तमानात् षष्टिशब्दादुत्पत्तिर्न विरुध्यते समणीयदिभ्यस्त्वनमिधानान्न भवति। परिमाणार्थं तु लुक् दुर्वारः। तथाहि ``प्राग्वतेष्ठञ् (पाoसूo5-1-18) इति ठञ् ``तदर्हति (पाoसूo5-1-63) इत्यतः प्राक् ``तेन क्रीत्म् (पाoसूo5-1-63) इत्येवमाद्या येऽर्थास्तेषु भवति, अर्हत्यर्येच। ततः परेऽपि येऽर्था वर्त्तयतीत्यादेयः ``आकालिकडाद्यन्तवचने (पाoसूo5-1-114)क इत्येवमन्तास्तेष्वपि भवति एवञ्च ठञ आर्हीयानार्हीयार्थसाधारणत्वेपि परिमाणस्य ``तदर्हति (पाoसूo5-1-63) इत्यतः प्राङ् निर्देशात्तत्रोत्पन्नष्ठञ् आर्हीय एव। न च तदस्येति पुनरूपादानमात्रेणार्हीयत्वमपगच्छति। न हि काको वाश्यत इत्यार्हीयत्वं निवर्त्तते। किञ्च, यद्यार्हीयत्वं निवर्त्तते, तर्हि जीवितपरिमाणादन्यत्रापि लुङ् न स्यात्। द्वौ निष्कौ परिमाणमस्य द्विनिष्कः। न च ``द्वित्रिपूर्वान्निष्कात् (पाoसूo5-1-30) इति वचनसामर्थ्यात्स्यादिति वाच्यम्, परिमाणातिरिक्तेष्वार्हीयार्थेषु वचनस्य सावकाशत्वात्। तस्माद्यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवतीति ``तमधीष्टो भृत (पाoसूo5-1-80) इत्येव द्विषाष्टिकः साधनीत्यः। तदस्येति तु त्यक्तव्यं सोस्योत्यनुवूत्त्यैवेष्टसिद्धोरिति स्थितम्।
     धर्मान्नञः। ``धर्मं चरति धार्मिकः। अधर्मं चरति आधर्मिकः। ``अधर्माच्च (काoवाo) इत्येतन्न वक्तव्यम्।
     पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च प्रयोजनम्। इष्टकेषीकामालानाञ्चिततूलभारिषु (पाoसूo6-3-65) इष्टकचितम्, पक्केष्टकचितम्। इषीकतुलेन, मुञ्जेषीकतूलेन। मालभारी, उत्पलमालभारी। इहोत्तरपदाधिकरे प्रयोजनस्योदाहरणात्पदाङ्गेति पदशब्द उत्तरपदपर इति कैयटादयः।
     अत एव `परममहत्‌परिमाण्म्' इत्यत्र परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषः। सामानाधिकरण्ये हि ``आन्महतः (पाoसूo6-3-46) इत्यात्वं स्यादित्युदयनाचार्या व्याचख्युः। यत्तु तत्र वर्द्धमानेनोक्तम्--``पदाङ्गाधिकारे इत्यत्र केवलपदाधिकारो गृह्यते न तूत्तरपदाधिकारः। अन्यथा ``इष्टकेषीकामालानाम् (पाoसूo6-3-65) इत्यत्र पुनस्तदन्तविध्युपसंख्यानं व्यर्थं स्यात्। तथाच `परममहत्परिमाणमित्यत्र कर्मधारयपक्षेप्यात्वप्रसक्तिर्नास्त्येवेति तदेतदनवहिताभिधानम्, ``इष्टकेषीक (पाoसूo6-3-65) इत्यस्य प्रयोजनत्वेनोदाहरणात्, उपसंख्यानान्तरस्य् गगनकुसुमायमानत्वात्। तस्मादाचार्योक्तमेव सम्यक्। एतेन ``सततनैशतमोवृतमन्यतः (किo5-2) इति भारविफ्रयोगे ``ओजः सहोम्भस्तमसस्तृतीयायाः (पाoसूo6-3-3) इत्यलुक् कुतो नेत्याशङ्क्य वर्धमानोक्तरीत्योत्तरपदाधिकारे तदुत्तरपदग्रहणं नास्तीति दुर्घटवृत्तिकारोक्तिरप्यपास्ता। यदपि ``ओजः सह (पाoसूo 6-3-3) इति सूत्रे हरदत्तेनोक्तम्--ओजः प्रभृतीनामुत्तरपदाक्षिप्तं पूर्वपदं प्रति विशेष्यत्वादिति तदपि वार्तिकविरोधादुपेक्ष्यम्, विशेष्यविशेषमभावनिर्णंयायैवेहत्यवार्तिकानां प्रवृत्तिरिति कैयटवदेव स्वयमपि व्याख्यातत्वात्। भारविप्रयोगस्त्वित्थं समाधेयः। वृत्तं वृत्तिः नैशतमसो वृतमिति षष्ठीतत्पुरुषः। नपुंसके भावे क्तस्य योगे शेषत्वविवक्षायां षष्ठी। ततः सततं नैशतमसो वृतं यस्मिन्निति बहुव्रीहिः। यद्वा, ``वृतु वर्तने (भ्वाoआo759) घञर्थे कविधानमिति भावे कः। सततं नैशतमसो वृतं वृत्तिर्यस्मिन्निति प्राग्वत्।
     अङ्गधिकारे प्रयोजनान्याह--प्रयोजनं महदप्‌स्वसृनप्तॄणं दीर्घविधौ। महान्, परममहान्। आपस्तिष्ठन्ति, स्वापः। ``न पूजनात् (पाoसूo5-4-69) इति समासान्तनिषेधः। नन्वेवमपि ``द्व्यन्तरूपसर्गेभ्योऽपईत् (पाoसूo6-3-97) इतीकारः प्राप्नोति। न ह्ययं समासान्तः येन ``ऋक्‌पूः (पाoसू5-4-74) इत्यप्रत्ययइव निषिध्येत इति चेत्? सत्यम्, ``द्व्यन्तरुपसर्गेभ्य (पाoसूo6-3-97) इत्यत्राप इति कृतसमासान्तस्यानुकरणँ प्रथमान्तम्। ``अन्होऽदन्तात् (पाoसूo8-4-7) इतिवद्व्यत्ययेन षष्ठ्यर्थे प्रथमा। इहत्यं ``स्वाप इति भाष्यं चास्मिन् व्याख्याने प्रमाणमित्यवधेयम्।
     स्वसारौ, परमस्वसारौ। नप्तारौ, परमनप्तारौ।
     पद्‌युष्मदस्मदस्थ्याद्यनडुहो नुम्। पद्भावः प्रयोजनम्। द्विपदः पश्य। केवलस्योदाहरणं तु पादयतेरप्रत्ययः, पात्, पदः, पदा, इत्यादि। इह क्वौ लुप्तत्वाण्णिलोपो न स्थानिवत्। उत्तरपदाधिकारेतु पादशब्दो विशेष्य एव। तेन ``पादस्य पदाज्यातिगोपहतेषु (पाoसूo6-3-52) इति पद्‌भावः `पादेनोपहतं पदोपहतम्' इत्यत्रैव भवति। इह तु न दिग्धपादेनोपहतं दिग्धपादोपहतम्, इति । उत्तरसूत्रेप्येवम्। तेन `` पद्यत्यतदर्थे (पाoसूo6-3-53) हिमकाषिहतिषु च (पाoसूo6-6-54) इति पद्भाव इहैव भवति-पादौ कषतीति पत्कषी। इह तु न-परमपादकाषी। यस्तु `परमपत्काषीति प्रयोगः। स परमश्चासौ पत्काषी चेति विग्रहेण समाधेय इति भाष्यकैयटयोः स्थितम्।
     यूयं, वयम् अतियूयम् अतिवयम्। अस्थना, परमास्थना। अनङ्वान् परमानड्वान्।
     दयुपथिमथिपुंगोसखिचतुनडुत्त्रिग्रहणम्। द्यौः, सुद्योः। पन्थाः, सुपन्थाः। ``न पूजनात् (पाoसूo5-4-69) इति समासान्ताभावः। पन्थाः, परममन्थाः। पुमान्, परमपुमान्। गौः, सुगौः। सखा, सुकखा। सखायौ, सुसखायौ। चत्वारः, परमचत्वारः। अनङ्‌वाहः, परमानड्‌वाहः। त्रयाणां, परमत्रयाणाम्। भाष्ये तु परमपन्थाः, परमगौः इत्युदाहृतम्। तत्र समासान्तापत्तिः। ``न पूजनात् (पाoसूo5-4-69) इति निषेधस्तु नास्ति ``स्वतिभ्यामेव (काoवाo) इति वक्ष्यमाणत्वात्। अत एव क्वाचित्कोऽयमपपाठ इति कैयटः। समासान्तविधेरनित्यतया वा समाधेयम्। यद्वा, परमुदाहरणान्तरमित्यर्थः। अपन्थाः, अगौरित्यत्र नञस्तत्पुरुषात् ``पथो विभाषा (पाoसूo 5-4-72) इति साधुत्वम्। यत्तु `परमसखायौ' इति पठितं भाष्ये। तत्र बहुव्रीहिर्बोध्यः। गौणत्वे ऽपि ह्यनङ्णित्त्वे इत्येते एवास्थ्याद्यनङ्वत्। एतच्च ``मि**चोन्त्यात् (पाoसूo1-1-47) इत्यत्र ``द्वितीया श्रित (पाoसूo*-1-24) इत्यत्र च स्पष्टम्। ``अरुद्‌युक्षोवरुण इन्द्रसखा ``आग्नेयाहिमरुत्सखा इत्यादि प्रयोगाश्चैवमेव सङ्गव्छन्ते। एतेन घिसंज्ञासूत्रे शोभनः सखा अस्य सुसखिरित्युदाहरन् हरदत्तो न्यासकारश्चापास्तः। `त्रेस्त्रयः (पाoसूo6-3-48) इति तु त्रिशब्दार्थसमवेतसंख्याद्यमिधायिन्यामिपरे इति व्याख्यानाद्गौणे न भवति--प्रियत्रीणाम्, अतित्रीणाम्। प्राधान्ये तु स्यादेव--``परमत्रयाणाम् इत्याहुः। अत्र व्याख्याने प्रमाणं मृग्यम्।
     इह`पदाङ्गाधिकार' इति कर्त्तव्यम्, तदन्तग्रहणेनैव सकलेष्टसिद्धेरित्युक्तं न विस्मर्त्तव्यम्।
     ``प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् (पाoभाo23)। इह प्रत्ययाक्षिप्तस्य धातुप्रातिपदिकाद्यवयवकसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविधिर्लभ्यते। अङ्गसंज्ञासूत्रे यस्मात्प्रत्ययविधिस्तदादिप्रत्यये इति योगं विभज्य परिभाषात्वेन व्याख्यानादंशान्तरलाभः। इदं च संज्ञाविधौ न प्रवर्त्तते, ``सुप्‌तिङन्तं पदम् (पाoसूo1-4-14) इति ज्ञापकात्। उत्तरपदाधिकारेऽपि न प्रवर्त्तते ``हृदयस्य हृल्लेखयदण्‌लासेषु (पाoसूo6-3-50) इति सूत्रे लेखग्रहमाज्ज्ञापकादिति वक्ष्यते। अस्यापवादमाह--``प्रक्ययग्रहणं चापञ्चम्याः (पाoभाo24) इति। यत्र पञ्चम्यन्तं प्रत्ययस्य विशेषणं तत्र तदन्तग्रहणं नेत्यर्थः। यथा ``रदाभ्यां निष्ठातः (पाoसूo8-2-42) इत्यत्र। तेन `हृषत्तीर्णा' इत्यत्र तॄधातोस्तकारस्य निष्ठान्तप्रत्ययावयवीभूतस्य नत्वं न भवति। इह प्रघट्टके संज्ञाविधावुत्तरपदाधिकारे ``रदाभ्यां (पाoसूo8-2-42) ``स्यतासी लृलुटोः (पाoसूo3-1-33) इत्यादौ च प्रत्ययो विशेष्यतयाऽऽश्रीयते, इतरत्र तु विशेषणतयेति फलितोऽर्थः। तदिदं सकलं सूत्रेणैव सिद्ध्यतीति स्थितम्।
     सौत्रस्य तदन्तविधेर्वाचनिकमपवादमाह वार्तिककारः--यस्मिन् विधिस्तदादावलग्रहणे। ``अचि श्नुधातु (पाoसूo6-4-77) इतीयङुवङ् च यथेह भवति श्रियौ, भ्रुवाविति, एवमिहापि सिद्ध्यति श्रियः, भ्रूवः इति। तदन्तविध्यपवादस्तदादिविधिरतो विशेषणेनैव ।।

वृद्धिर्यस्याचामादिस्तद्‌वृद्धम् (पाoसूo1-1-73) ।।
यस्य समुदायस्यावयवानामचां मध्ये प्राथमिकोऽज् वृद्धिसंज्ञकः स वृद्धसंज्ञकः स्यात्। आम्रगुप्तीयः। ``वृद्धाच्छ (पाoसूo4-2-114) । अचामिति जातौ बहुवचनं तेन द्वयोरपि भवति--शालीयः। एकस्यापि च भवति व्यपदेशिवद्भावात्--ज्ञा ब्राह्मणी, तस्या अयं ज्ञीयः। ``वा नामधेयस्य (काoवाo)--पौरुषेयं नाम तस्य वृद्धसंज्ञा वा स्यादित्यर्थः। उभयत्र विभाषेयम्, देवदत्तादीनामप्राप्ते वामनादीनां च प्राप्तो आरम्भात्। देवदत्तीयाः, दैवदत्ताः। ``विधाय मूर्तिं कपटेन वामनीम् इति श्रीहर्षः। ``गोत्रोत्तरपदस्य च। नित्यं वृद्धसंज्ञा वक्तष्येति शेषः। कम्बलचारायणीयाः। ओदनपाणिनीयाः। घृतरौढीयाः। कम्बलप्रियस्य चारायणस्य शिष्या इत्यादिरर्थः। पणनं पणः। ``घञर्थे कविधानम् इति कः। सोऽस्यास्तीति पणी। पणिनो गोत्रापत्यं पाणिनः। अण्। ``गाथिविदथिकेशिगणिपणिनश्च (पाoसूo6-4-165) इति प्रकृतिभावः। ततो यूनीञ्। पाणिनिः।
     स्यादेतत्। ``ण्यक्षत्रियार्षञितः (पाoसूo2-4-58) इति सूत्रेणेह इञो लुक् प्राप्नोति, आर्षाद्‌यून्युत्पन्नत्वादिति चेत्? न, आर्षग्रहणेन ``ऋष्यन्धक (पाoसूo4-1-114) इति सूत्रविहितस्य ऋष्यण एव ग्रहणात्। अस्य चौत्सर्गिकत्वात्। यद्वा, पणिन्‌शब्दो यौगिको न तु ऋषौ रुढः। लुग्विधौ तु रूढस्यैव ग्रहणम्। एतच्च शास्त्रान्ते ``एकशेषनिर्देशाद्वा भगवतः पाणिनेः सिद्धम् (काoवाo) इति वार्त्तिकनिर्देशाद् ``दाक्षीपुत्रस्य पाणिनेः (भाoइo) इति भाष्यकारव्यवहाराच्च निर्णीयते।
     नन्वेवमपि पाणिनेश्छात्राः पाणिनीयाः इति न सिध्यति। वृद्धाच्छं वाधित्वा ``इञश्च (पाoसूo4-2-112) इत्यणः प्रसङ्गात्। न च छे विवक्षिते ``यूनि लुक् (पाoसूo4-1-10) इतीञो लुकि सति नायमिञन्त इति वाच्यम्। प्रत्ययलक्षणेन इञन्तत्वानपायात्।
     अत्राहः। ``इञश्च (पाoसूo4-2-112) इत्यत्र ``कण्वादिभ्योगोत्रे (पाoसूo4-2-111) इत्यतो गोत्रग्रहणमनुर्वत्तते। तच्च पूर्वसूत्र एव स्वर्यते। तेनापत्याधिकारदन्यत्वेन प्राप्तं लोकिकं गोत्रं विहाय गोत्राधिकारो गृह्यते ``स्वरितेनाधिकारः (पाoसूo1-311) इति वचनात्। कण्वदिश्च गर्गाद्यन्तर्गणः। ततो ``गर्गादिभ्यो यञ् (पाoसूo5-1-105) इति विधीयमानो यञ् पारिभाषिक एव गोत्रे भवति, तत्रापत्याधिकारसत्त्वात्। तेन ``इञश्च (पाoसूo4-2-112) इत्यत्रापि पारिभाषिक् गोत्रे य इञ् तदन्ताच्छेषेऽणित्यर्थः फलितः। यद्वा, लक्षमप्रतिपदेक्तपरिभाषया कण्वादिसुत्रे यञेव गृह्यते स च पारिभाषिके विहितत्वात्तस्यैव प्रत्ययकः। एवञ्चार्थाधिकारादिञश्च (पाoसूo4-2-112) इत्यत्रापि तथा। पाणिनिरिति तु यूनि इञ्, न तु गोत्रे। तेनाणोऽप्राप्तेर्निर्बाधश्छप्रत्यय इति स्थितम्।
     रूढस्यापत्यं रौढिः। ``अत इञ् (पाoसूo4-1-95)। अनन्तरे गोत्रे वा। न चैवम् ``इञश्च (पाoसूo4-2-112) इत्यण् प्रसङ्गः, `` न द्व्यचः प्राच्यभरतेषु (पाoसूo4-2-113)। इति निषेधात्।
    स्यादेतत्। यदि गोत्रोत्तरपदस्य वृद्धसंज्ञा विधयिते, तर्हि पिङ्गलकाण्व्यस्य छात्राः पैङ्गलकाण्वा इत्यत्र वृद्धाच्छः स्यात्। इष्यते तु ``कण्वादिभ्यो गोत्रे (पाoसूo4-2-111) इत्यण्। सत्यम्। अत एवापरितोषादुक्तं वार्तिककृता ``गोत्रान्ताद्वासमस्तवत् (काoवाo) इति। शैषिकाधिकारे `प्राग्‌दीव्यतोऽण् (पाoसूo4-1-183) इत्यत्र वा इत्थमतिदेशः कर्त्तव्य इत्यर्थः। अपत्याधिकारादन्यत्वाच्च लौकिकगोत्रग्रहणाद् ``ओदनपाणिनीयाः इत्यादि सिद्धयतीति भावः। किमीशेषेण? नेत्याह। जिव्हाकात्यहरितकात्यवर्ज्जम्। कतशब्दो गर्गादिः। जिव्हा चपलो, हरितवर्णश्च कात्यः। तस्य छात्रा इत्यर्थेऽणेव भवतिजैव्हाकाताः, हारितकाताः।।

त्यदादीनि च (पाoसूo1-1-74)।
एतानि वृद्धसंज्ञानि स्युः। त्यदीयम्, अदसीयम्, इदमीयम् किमीयम् त्वादायनिः, मादायनिः। ``उदीचां वृद्धाद् (पाoसूo4-1-157) इति फिञ्। प्रत्ययोत्तरपदयोश्च (पाoसूo5-2-98) इति त्वमावादेशौ ।।

एङ्प्राचां देशे ।। (पाoसूo1-1-75)।
यस्याचामादिरिति मष्डूकप्लुप्याऽनुवर्त्तते। एङू यस्याचामादिस्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने। एणीपचनीयः। गोनर्दीयः। भोजकटीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। विधेयसंज्ञासम्बन्धबलेन पृथग्विभक्त्युच्चारणाच्च प्राग्रहणमाचार्यनिर्देशार्थम्। व्यवस्थितविभाषा चेयम्। तेन क्रोडदेवदत्तशब्दयोरप्राग्‌देशवाचिनोर्न वृद्धसंज्ञा तेन `क्रोडः' `दैवदत्तः' इत्यणेव भवति। प्राग्‌देशवचिनस्तु देवदत्तशब्दस्य भवत्येव वृद्धसंज्ञा। ततः काश्यदित्वाद्वृद्धलक्षणौ ठञ्‌ञिठौ भवतः। शैषिकेष्विति वक्तव्यम्। सैपुरिकी, सैपुरिका। स्कौनगरिका, स्कौनगरिका। सेपुरं स्कोनगरं च वाहीकग्रामौ। नत्र वृद्धत्वाद् ``वाहीकग्रामेभ्यश्च (पाoसूo4-2-117) इति ठञ्‌ञिठौं भवतः। शौषिकेष्विति वचनादपत्ये वृद्धलक्षणः। फिञ् ना विकारे च ``नित्यं वृद्ध (पाoसूo4-6-144) इति मयण् न। तदेवं कुणिमतं भाष्यमतं चानुसृत्य प्राग्‌ग्रहणमाचार्यनिर्देशार्थमिति व्याख्यातम्। जयादित्यस्तु प्राचि देशे ये सन्ति ते प्राचः पुरुषास्तेषां यो देशस्तदभिधान इति व्याचख्यौ। प्राचामित्यस्य च श्रूयमाणेदशविशेषणत्वे सम्भवति अध्याहर्त्तव्येन मतेनेत्यनेनान्वयो न कल्प्य इति तस्याशयः। अस्मिन् पक्षे वाहीकग्रामे `दैवदत्तः' इत्यत्र वाऽवृद्धत्वादेव ठञ्ञिठौ न भवत इति स्पष्टम्। किन्तु `सैपुरिकी' इत्यादिभाष्योदात्दृत वचनेनैव साधनीयं स्यादिति दिक्।
     देशिति किम्? गोमती नाम प्रागूदेशनदी, तत्र भवा मत्स्याः `गौमता' । देशग्रहमेन नदी गृह्यते ``नदीदेशोऽग्रामाः (पाoसूoएo2-4-7) इति पृथगुपादानाल्लिङ्गात्। प्रागादिदेशविभागस्त्वित्थम् शरावतीनाम नदी उत्तरपूर्वाभिमुखी। तस्या दक्षिणर्पूवस्यां दिशि व्यवस्थिते देशः प्राग्देशः। उत्तरापरस्यामुदग्देशः। उक्तञ्च
     प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा।
     विदुषां शब्दसिद्ध्यर्थं सा नःपातु शरावती ।। इति।
     अमरसिंहोप्याह---
     लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः।
     देशः प्राग्दक्षिणः प्राच्यः उदीच्यः पश्चिमोत्तरः (अoकोo) इति।
     अमरव्याख्यातारस्तु ऐशानितो नैर्ऋत्यां पश्चिमाब्धिगामिनी शरावतीति वदन्ति। उभयथाऽपि प्रागुदक्‌श्वरूपे न विवादः। वाहीकदे शस्तु प्रागुदग्बहिर्भूतः। ``बहिषष्टिलोपो यञ्च (काoवाo) इतु व्युत्पादना दिति विवरणम्। तच्चिन्त्यम्, ``अव्ययात्त्यम् (पाoसूo4-2-104) इति सूत्रे ``काश्यादिब्यष्ठञ्ञिठौ (काoवाo) इति वार्तिकं व्याचक्षाणेन भगवता शाकलनाम्नो ग्रामस्योदीच्यवाहीकोभयरूपताभ्युपगमात्। तत्र हरदत्तादिभिस्तथैवानुवादाच्च। तस्माद्वाहीको देशविशे, इत्येव तत्त्वम्। तथाच कर्णपर्वणि
     पञ्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः।
     वाहिका नाम ते देशा न तत्र दिवसं वसेत् ।। इति।
     एतेन धर्मबहिर्भूतत्वाद्वाहीका इत्युकं भवति। शतद्रूर्विपाशा इरावती वितस्ता चन्द्रभागेति पञ्च नद्यः, सिन्धुनदस्तु षष्ठः, तन्मध्यदेशो वाहीक इति तद्वयाख्यातारः। व्युत्पत्त्यन्तरं तु तत्रैव दर्शितम्।
वहिकश्य वहीकश्च विपाशायां पिशाचकौ।
तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः ।। इति।
     एतच्च विवेचनं ``वाहीकग्रमेभ्यश्च (पाoसूo4-3-117) इत्यादावुपयोक्ष्यत इति सर्वं सुस्थम् ।।

     इति श्रीविद्बन्मुकुटरत्नस्य लक्ष्मीधरसूरेः सूनुना भट्टोजिभट्टेन कृते
         शब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे नवममान्हिकम् ।।
                   पादश्चायं प्रथमः समाप्तः ।।
                       ---***---