शब्दकौस्तुभः/अध्यायः १-पादः २/आह्निकम् ३

← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]

द्वितीये पादे तृतीयमान्हिकम्
(अष्टाoसूo1-2-64)
सरूपाणामेकशेष एकविभक्तौ(अष्टाoसूo1-2-64)। समानायां विभक्तौ यानि सरूपाण्येव दृष्टानि तेषां एक एव शिष्यते। अनैमित्तिकत्त्वेनान्तरङ्गोऽयमेकशेषः सुबुत्त्पत्तेः प्रागेव ङ्यन्ताबन्तप्रातिपदिकानां प्रवर्त्तते। हरिणी मृगी हरितवर्णा च, तयोः सह विवक्षायां हरिण्यौ हरिण्यः। क्षितिक्षान्त्त्योः क्षमा। "वासोन सम्यक् क्षमयोश्च तस्मिन्" इति श्रीहर्षः, "श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य" इति च। "सकृच्छ्रुतात्सकृदर्थः प्रत्ययः" इति मते शब्दसारूप्येऽपि द्वन्द्वः स्यात्। अथाऽपि तन्त्रेणानेकार्थताभ्युपगम्यते एवमपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियमाभावात् पाक्षिको द्वन्द्वो दुर्वारः। आरब्धे त्त्वेकशेषे सुबन्तद्वयविरहात् द्वन्द्वस्याप्राप्तिरेव फलिता भवति। अत एव एकशेषस्य द्वन्द्वापवादकतेत्युद्धोषः। "इको गुणवृद्धी"(अष्टाoसूo1-1-3) इत्यस्य "अलोन्त्य"(अष्टाo सूo1-1-52) अपवादकतेति पश्रेऽपवादशब्दस्येत्थमेव व्याख्यातत्त्वात्। अत एव `घटौ' `घटाः' इत्यादिन्यपीहोदाहरणानि। तत्रापि ऐच्छिकस्यानेकव्यक्तिबोधोद्देश्यकस्यानेकविशकलितशब्दप्रयोगस्य घटोऽयं घटोऽयमिति बहुशो दर्शनेन तद्वदेव सहविवक्षायां `घटौ' इत्यादिद्वन्द्वस्य दुर्वारत्त्वात्। एतेन "व्यर्थेषु च मुक्तसंशयम्"(काoवाo)इति वार्त्तिकं दृष्ट्वा नानार्था एवेहोदाहरणमिति भ्राम्यन्तः परास्ताः। न च पदार्थतावच्छेदकभेदाभावाद् `घटौ' इत्यादौ द्वन्द्वप्रसाक्तेर्नेति वाच्यम्। "चार्थे द्वन्द्वः"(अष्टाoसूo2-2-29)इति सूत्रेण साहित्यमात्रे तद्विधानात्। तस्य चेतरेतरयोगद्वन्द्वे एकशेषे च विशेषणत्वं प्रयोगोपाधित्वं वा। समाहारद्वन्द्वे तु प्राधान्येन भानमित्यन्यदेतत्। न चैवमपि `घटकलशौ' इत्यादिद्वन्द्वापत्तिः। "विरूपाणामपि समानार्थानाम्"(काoवाo)इति वार्त्तिकेन एकशेषात्। वस्तुतस्तु सौत्र एवायमर्थः। रूप्यते बोध्यते इति रूपम्, अर्थः समानं रूपं येषामिति सरूपाः। "ज्योतिर्जनपद"(अष्टाoसूo6-3-85)इति समानस्य सभावः। सरूपाश्च सरूपाश्च तेषामिति एकशेषण व्याख्यानात्। न च स्वाङ्गे स्वव्यापारायोगः वाक्यापरिसमाप्तिन्यायादिति वाच्यम्। उद्देश्यतावच्छेदकरूपाक्रान्ततया "तुल्यास्यप्रयत्नम्"(अष्टाoसूo1-1-9)इतिवत्स्वस्मिन्नपि प्रवृत्तेः। एतद्विषयविवेचनं तु "अइउण्"(माoसूo1)इत्यत्रैव कृतम्। अत एव जननीवाचिनो मातृशब्दस्य धान्यमापवाचिनस्तृजन्तस्य च एकशेषं निषेद्‌धुं प्रवृत्ते "मातृमात्रोः प्रतिषेधः सरूपत्वात्"(काoवाo)इति वार्त्तिके स्वान्तर्गते मातृमात्रोरित्यत्रापि निषेधप्रवृत्तिः। नन्वर्थविशेषोपहितयोरेव तत्राऽनुवादः। अन्यथा जननीवाचिनोरपि निषेधापत्तेः। तत्कथं शब्दरूपपरे स्वान्तर्गते निषेधप्रवृत्तिरिति चेत्, "प्रकृतिवदनुकरणम्" इत्यतिदेशादिति गृहाण। सूत्रमतेतूत्तरसूत्रादेवकारोऽत्राऽनुकृष्यते। तेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानात्परिच्छेतृवाचिनश्च "अप्तृन्"(अष्टाoसूo6-4-11)इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः। न च वाचिनिकैकशेषविरहेऽपि श्लिष्टरूपकस्थल इव तन्त्रन्यायाश्रयेण पाक्षिक एकशेषो मातृमात्रोः स्यादेवेति वाच्यम्। यान्येकविभक्तौ सरूपाण्येव तेषामेवैकशेष इति नियमात्। न चैवं 'घटघटौ' इति पाक्षिकं दुर्वारमिति वाच्यम्। तन्त्रावृत्त्याद्याश्रयणेन सरूपामामेकसेष एवेत्यपरनियमाश्रयणात्। तस्मात् 'घटकुम्भौ' `कुम्भकुम्भौ' `मातृभ्यां' चेति पाक्षिकमनिष्टत्रितयं प्राप्तं सूत्रेणाऽनेन वार्यते। `घटौ' इत्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि। जातिपक्षे व्यक्तिपक्षेऽपीति निष्कर्षसंग्रहः। स्यादेतत्-देवदेव इत्यादावपि तर्ह्येकशेषः प्राप्नोति। न च `एकविभक्तौ' इत्यनेन तद्वारणम्। तस्य सारूप्योपलक्षणत्वादेकशेषस्य चानैमित्तिकत्त्वात्। अथ वक्ष्यमाणरीत्या एकशेषविशेषणतां ब्रूषे, तथाप्यनिस्तारः। देवदेव इत्यत्रापि षष्ठीसमासादुपरि एकविभक्तेः सत्वात्। अन्तर्वर्तिन्योस्तु लुका लुप्तत्वेन प्रत्ययलक्षणाभावात्। अत्राहुः--सहविवक्षायामेव एकशेषः। इतरेतरयोगद्वन्द्वस्य विषये इति यावत्। अत्र ह्यनेकस्यार्थस्य मिलितस्ये तरान्वयः स तथाभूतो विषयः। उक्तञ्च-
"अनुस्यूतेव भिन्नानामेका प्रख्योपजायते।
यदा सहविवक्षान्तामाहुर्द्वन्द्वैकशेषयोः" इति।
(अष्टाoसूo1-2-65)
अयञ्च विषयनियमोऽभिधानबलाल्लभ्यते "वृद्धोयूना"(अष्टाoसूo1-2-65)इत्यादिसूत्रेषु सहयोगे तृतीयायाः प्रयोगाच्च। यद्वा--पूर्वसूत्रात् `द्वन्द्वे' इत्यनुवर्त्तते। अर्थाधिकाराच्चेतरेतरयोगद्वन्द्वावगमः। तेन द्वन्द्वे प्रसक्ते सतीति व्याख्यानादुक्तविषयनियमसिद्धिः। न च द्वन्द्वे कृते इत्येव व्याख्यायतामिति वाच्यम्। स्वरसमासान्तादिदोषप्रसङ्गेन "कृतद्वन्द्वानामेकशेषः" इति पक्षस्य दूषयिष्यमाणत्त्वात्। एतेन "सारवसारवोर्मिजः" इति श्रीहर्षप्रयोगोऽपि व्याख्यातः। सरव्यां भवाः सारवाः। ते च ते आरवसहिताश्चेति कर्मधारये सहविवक्षाविरहात्। " विद्वन्मानसराजहंस" इत्यादिश्लिष्टरूपके तु मानसमेव मानसमिति तन्त्रेण प्रयोगो न तु सौत्र चेत्, पक्षे एवमेव। तावताऽपि उभयप्रयोगस्य निर्वाह्यत्वात्। न चैवं समाहारद्वन्द्वविषये एकशेषानुशासनात्पाक्षिकं `घटघटम्' इत्यादि दुर्वारमेवेति वाच्यम्। तत्राऽनभिधानस्यैव शरणीकरणीयत्वात्। अस्तु वा तत्राप्येकसेषप्रवृत्तिः। न चैवं नपुंसकतापत्तिः। समाहारद्वन्द्व एव तदनुशासनात्। तथा च प्रत्यर्थं शब्दनिवेश इति पक्षे "न ब्राह्मणं हन्यात्" इत्यादौ सकलव्यक्तिसङ्ग्रहो भविष्यतीति प्रतिव्यक्तिलक्षणं नावर्तनीयम्। "एकवच्चास्यान्यतरस्याम्'(अष्टाoसूo1-2-69)इति ज्ञापकादेकशेषे कृते एकवद्भावो नेति तु तत्त्वम्। एकश्च एकश्च द्वौ च द्वौ चेत्यादौ तु द्वन्द्वैकशेषौ उभावपि अनभिधानेनैव वारणीयौ। उत्सर्गतः संख्याशब्देऽप्येवमेवेति बोध्यम्। `विंशति' इत्यादौ त्वेकशेष इष्ट एवेति दिक्। एवं स्थिते सूत्रारंभपक्षेऽपि बहुशोऽनभधानस्यैवाश्रयणाद् `घटघटौ' इत्यादावपि ततैवास्तु किं तन्निरासार्थं सूत्रारम्भेणेत्याशयेन भगवता एकशेषप्रकरणं प्रत्याख्यातम्। न चैवं `पितरौ' इत्यत्र मातुः, `श्वशुरौ' इत्यादौ श्वश्व्रादेश्च प्रतीतिः कथं स्यादिति वाच्यम्। एकशेषारम्भेऽपि तौल्यात्। यः शिष्यते स लुप्यमानार्थाधायीति चेत् तर्हि द्विवचनाद्युपाधिविशेषपुरस्कारेण पित्रादिशब्दानामेव मात्रादौ सक्तिर्निरूढलक्षणा चेति फलितोऽर्थः। तथा च लोकव्यवहारादेव तद्ग्रहसम्भवे न किञ्चिदनुपपन्नम्। न चैवं `अग्निचित्' इत्यादौ क्विबादयोऽपि प्रत्याख्यायतामिति वाच्यम्। प्रत्ययलक्षणेन तुगागमप्रातिपदिकसंज्ञाद्यर्थं तदारम्भात्। तदेवं सरूपाणां विरूपाणां च सर्वमेकशेषं प्रत्याचक्षाणेनापि भगवता सरूपसूत्रमात्रं तु शास्त्रीये व्यवहारे संज्ञापरिभाषादिवद्विनापि सहविवक्षामेकशेषं विधातुं भविष्यतीत्याशयेन "द्विर्वचनोचि'(अष्टाoसूo1-1-59)इत्यत्र एकशेष इति भाष्येऽभिहितमिति दिक्। आरभ्यमाणे तु सूत्रे यद्यपि षट् पक्षाः सम्भवन्ति तथापि तत्र त्रयो दुष्टा एव त्रयस्तु निर्दोषा इत्यवधेयम्। तथाहि-"पृथक् सर्वेभ्यो विभक्तौ परत एकशेषः"। "एकवचनान्तानां" च "अकृतद्वन्द्वानां वा" "समुदायादेकविभक्तौ वा" "युगपदधिकरणवचने वा" "अनैमित्तिको वा" इति षट् पक्षाः। तत्राद्ये एकशब्दः समानपर्यायस्तथा च वृक्ष स्‌ वृक्ष स्‌ इति स्थिते आद्ययोर्निवृत्तौ स्‌ स्‌ वृक्ष स्‌ इति स्थिते संयोगान्तस्य पदान्तस्य लोप इति व्याख्याने मध्यमस्य सोर्लोपः। संयोगान्तं यत्पदं तदन्तस्येति व्याख्याने तु हल्ङ्यादिलोपः तत्रापि सुतिसीति प्रत्ययैः प्रकृतेराक्षेप इति पक्षे तु न कस्य चिल्लोपः। सर्वथाऽपीष्टरूपं न सिध्यत्येव। आद्यन्तयोर्निवृत्तौ तु स् वृक्ष स् स् इति स्यात्। परयोर्निवृत्तौ तु वृक्ष स् स् इति स्यात्। तथा वृक्षा अनित्या इत्यादावन्तसुप्रत्ययश्रवणं स्यादिति दुष्ट एव प्रथमः पक्षः। द्वितीये तु वृक्ष स् इति सविभक्तिकस्यावस्थानात्, द्विवचनबहुवचनयोरनुत्पत्तिरेकवचनश्रवणञ्च स्यात्। तृतीये तु द्वन्द्वे इति अनुवर्त्य अभिमतवाक्यार्थो यद्यपि लब्धुं शक्यते तथापि अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदात्ते कृते यदि पूर्वशेषस्तर्हि सर्वानुदात्तं पदं स्यात्। परशेषे त्वन्तोदात्तं स्यात्। इष्यते त्वाद्युदात्तम्। अशेः क्वनिब्व्युत्पादनात्। "यो अश्वेभिर्वहते विभवोह्यश्वाः" इत्यादौ तथैव प्रयोगाच्च। किञ्च ऋक्च ऋक्च ऋचावित्यत्रान्तरङ्गत्वात् "ऋक्पूः"(अष्टाoसूo5-4-74) इति समासान्ते कृते विभक्तेरकारेण व्यवधानादेकशेषो न स्यात्। समासान्तो हि समासभक्तस्तमेव न व्यवदध्यात्। स्वरूपं तु व्यवदधात्येव। "समासार्थोत्तरपदस्यावयवः" इति भाष्यमतेऽपि विरूपत्त्वादेकशेषो दुर्लभः। "विरूपाणामपि समानार्थानाम्"(काo वाo)इति तु यद्यपि प्राप्नोति तथापि पक्षे ऋच इत्यस्य शेषे टापि `ऋचे' `ऋचा' इत्याद्यपि स्यात्। एवं पथा पथौ इत्याद्यपि पक्षे स्यात्। अपि च `करौ' `कराः' इत्यादि न सिध्येत्। प्राण्यङ्गानां समाहार एवेति नियमात्। अपि च `सर्वेषाम्' इत्यादौ "द्वन्द्वे च"(अष्टाoसूo1-1-31)"विभाषजसि"(अष्टाoसूo1-1-32)इति प्रवर्त्तेत। अत एव विरूपैकशेषो न कृतद्वन्द्वानां तेषामित्यादौ "त्यदादीनिसर्वैः"(अष्टाoसूo1-2-72)इत्येकशेषे सर्वनामत्वाभावप्रसङ्गात्तदेवं त्रयः पक्षा दुष्टा इति स्थितम्। सिद्धान्तस्तु त्रेधा। तथाहि-राम राम राम इत्यत्रावयवानामिव समुदायस्याप्येका प्रातिपदिकसंज्ञा तावदस्ति। मिलितेनार्थवानामिव समुदायस्याप्येका प्रातिपदिकसंज्ञा तावदस्ति। मिलितेनार्थवत्त्वात्। न चार्थवत्समुदायानां समासग्रहणं नियमार्थमित्युक्तेः कथमेतदिति वाच्यम्? नियमस्य सजातीयविषयकत्त्वेन यत्र समुदाये पूर्वो भागः पदं तत्रैव प्रवृत्तेः। अथ एव `बहुपटवः' इत्यत्र प्रातिपदिकत्त्वं भवत्येवेत्युक्तं "अर्थवत्"(अष्टाoसूo1-2-45)सूत्रे। तथा चैकाज्द्विर्वचनन्यायेन समुदायप्रातिपदिकादेव द्विवचनबहुवचनयोरुत्पत्तिः। तावताप्यवयवानां संख्यान्वयेनानुग्रहसम्भवात्। तथा च समुदायादेकविभक्तौ परत एकशेषः। `रामकृष्णौ' इत्यादौ तु यद्यप्युक्तरीत्या समुदायादेकविभक्तिः प्राप्ता तथापि द्वन्द्वविधावनेकं सुबन्तमित्यस्यानुवृत्त्या बाध्यते। अस्मिन्पक्षे मातृमात्रोरपि एकसेषः प्राप्तः। एकविभक्तावित्यस्यावृत्त्या एवकारस्य चानुकर्षणेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानान्न भवति। यद्वा-युगपदधिकरणवचनतायां द्विवचनबहुवचनान्तानामेकशेषः। द्वन्द्वोऽप्येवम्। अजहतस्वार्थायां हि वृत्तौ "रामकृष्णौ" इत्यादौ पूर्वपदमप्युभावभिधत्ते तावेवोत्तरपदमपि। न चान्यतरवैयर्थ्यम्। परस्परसमभिव्याहारेणैवोभयार्थाध्यवसायात्। तथा च द्वन्द्ववृत्तेः प्रागेकैकार्थतावगमेऽपि परार्थाभिधानं वृत्तिरिति सिद्धान्तात्। तथा च रामश्च कृष्णश्चेति लौकिकवाक्यस्यादूरविप्रकर्षेण विग्रहतया प्रदर्शनेऽपि अलौकिकद्वन्दैकशेषयोः प्रक्रियावाक्ये राम औ कृष्ण औ इति प्रविशति। तथा च विभक्त्यन्तानामेकशेषोऽपि निर्बाध एव। अथ वा उपक्रम एव यथा व्याख्यातं तद्रीत्या अनैमित्तिक एवैकशेषः। तथा च पक्षत्रयं स्थितं सिद्धान्ते। अत्रेदमवदेयम्-उक्तपक्षत्रयमध्येऽपि समुदायादेकविभक्ताविति पक्षस्तावत् दुष्टएव मातृमातरावित्यत्रातिप्रसङ्गं वारयितुं एकविभक्तावित्यस्य सरूपाण्येवेत्येतद्विशेषणतया आवश्यकत्त्वे स्थिते एकशेषविशेषणत्त्वायोगात्। आवृत्तौ मानाभावात्। फलाभावाच्च। न च `पयः जरयति' इत्यादिव्यावृत्तिः फलम्। सहविवक्षायामित्यस्य द्वन्द्वग्रहणबलेनावश्यवाच्यत्त्वात्। अन्यथा `पयः पयो नयति' इत्यत्र गौणमुख्यकर्मणोरेकशेषापत्तेः। `देवदेवः' इत्यादावतिप्रसङ्गाच्च। प्रत्युत आवृत्त्योभयविशेषणत्वे `भैक्षम्' इति न सिध्येत्। तथा हि भिक्षा 3 आम् अ इति स्थिते "अन्तरङ्गानापि विधीन्बाहिरङ्गोऽपि" इति लुकि कृते लुका लुप्ते प्रत्ययलक्षणविरहादेकशेषो न स्यात् तथा युगपदाधिकरणवचनतापक्षोऽपि दुर्बलः। जहत्स्वार्थायां वृत्तौ तदयोगात्। तथा च द्वितीये भाष्यम्। सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति। तच्च तत्रैव स्फुटीकरिष्यामः। तस्मात्प्रागुक्तषट्‌पक्षीमध्येऽनैमित्तिकत्वपक्षएव प्रबलः। इतरे पञ्चापि हेया इति तदभिप्रायकतयैव सूत्रं व्याख्यातम्। `पचति' इत्यादौ तु धातोर्द्वन्द्वादिप्रसक्तिरेव नास्ति यद्वाक्यशेषो मृग्येत। न च मिलिताल्लडादिप्रसङ्गः। धातोरित्येकत्वस्य विवक्षितवात्। न चैकस्मादेव कर्तृद्वये लद्वयं कर्तृबहुत्त्वे लकारबहुत्वञ्च स्यादिति वाच्यम्। इष्टापत्तेः। "लस्य"(अष्टाoसूo3-4-77)इत्यत्र जातिविवक्षया लद्वयस्य तसादयः बहूनान्तु झिथादय इति सुवचत्वात्। वस्तुतस्तु "वर्तमाने लट्"(अष्टाoसूo3-2-123)इत्यादौ व्यक्तिनिष्ठैकत्वस्य विवक्षणान्न कश्चिद्दोषः। अत एव `वृक्षं वृक्षं सिञ्चति' इत्यादौ नानैकत्वाभिधानार्थं विभक्तिपरम्परा नेति दिक्। `गर्गौ' इत्यादावपि पितुरेकत्वात्प्रकृतिरेकाप्रत्ययास्तु बहवः। सर्वेषां प्रकृत्यर्थान्विताभिधायितया " विरूपाणामपि समानार्थानाम्"(काoवाo)इति गर्गयशब्दस्य शेषः। न च पक्षे यशब्दमात्रस्यापि तदापत्तिः। विकल्पस्याष्टदोषदुष्टत्वात्। न च विनिगमकाभावः। "अणुरपि" इति न्यायेन स्पष्टप्रतिपत्तिसामर्थ्यस्यैव विनिगमकत्वात्। यद्वा-यञ इत्यपि व्यक्त्यैक्यं विवक्षितम्। प्रतिप्रधानञ्च गुणावृत्तिः। गार्ग्यशब्दत्रयस्य चैकशेषः। उभयथा यञन्तं यद्वहुष्विति लुक्। नचैवं काश्यपस्य प्रतिकृतिः काश्यपः। ततः प्रतिकृतीनां सहविवक्षायां `काश्यपाः' इत्यत्राऽपि अजन्तं बहुषु वर्त्तत इति लुक् स्यादिति वाच्यम्। "यस्कादिभ्यो गोत्र"(अष्टाoसूo2-4-63)इत्यतो गोत्र इत्यनुवृत्तेः। यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं तथा हि 'ऋषिप्रजन एव गोत्रं विवक्षितम्" इति "स्त्रीपुंसाभ्यां नञ्‌स्नञौ"(अष्टाoसूo4-2-87)इति सूत्रे कैयटः। तेन `पौत्राः' `दौहित्राः' इत्यत्र न लुगित्यवधेयम्। एतेन सख्यया कर्मभेद इत्यस्य व्युत्पादनाय प्रवृत्ते पृथक्त्वनिवेशात्संख्यया कर्मभेदः स्यादित्यधिकरणे "सप्तदश प्राजाप्तयान्" इत्युदाहृत्य
"किं त्वयं तद्धितान्तानामेकशेषः कृतो भवेत्।
किं वा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिः।। "
इचि वदतां भट्टानां ग्रन्थोऽपि व्याख्यातः। ण्यप्रत्ययान्तानामेकसेषः। ण्यप्रत्ययान्तानामेव वेति तदाशयात्। कृतैकशेषाणां प्रजापतिर्देवता येषामिति कृतैकशेषयच्छब्देनोपस्थापितानां तद्धितसङ्गतिस्तद्धितवाच्यता। तथा च मिलितानां देवतासम्बन्धं बोधयितुं लौकिकविग्रहे येषामिति निर्द्देशः। वृत्तौ तु देवतावद्वाचकस्य तद्धितस्यैकशेष इति मिलितेषु पशुषु देवतान्वयादेको यागः। अग्नीषोमीय इत्यादौ मिलितयोर्देवतायामभेदान्वये यथेत्युदात्दृतवार्त्तिकस्योत्तरार्धेऽर्थोध्यवसेयः। युक्तं चैतत्। प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते। तत्कृतं चैकशेषत्वमिति न प्रकृतौ भवेदित्युत्तरवार्त्तिकस्यानुगुण्यात्। स्यादेतत्-प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम्। अभेदश्चेह सम्बन्ध आग्नेयादावियं स्थितिरिति पक्षे देवतावतां साहित्यं लभ्यते न तु सहितानां देवताक्त्वे देवतायां प्रदेये च खण्डशः शक्तिरिष्यत इति पक्षेऽपि एकप्रत्ययोपात्तदेवतान्वयस्यान्तरङ्गत्वादेवमेवेति चेत्, सत्यम्। प्रदेये एव शक्तिः प्रकृतेस्तु प्रत्ययसमभिव्याहाराद्देवतायां निरूढलक्षणेत्याशयेनाऽयं ग्रन्थो नेयः। केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन्नित्यादिग्रन्थास्तु मतान्तराभिप्रायेण नेयाः। न चैवमपि विरूपैकशेषपक्षे समानार्थतालाभार्थं प्रकृत्यर्थान्वयस्य प्राथमिकत्वं स्वीकार्यमेवेति वाच्यम्। ययय इत्येषाभेकविभक्तिं प्रति प्रकृतित्वाभावेऽपि विभक्तौ परतः सारूप्यसम्भवेन सरूपैकशेष एवेत्याशयात्। प्रकृतमनुसरामः। स्वरभिन्नानां यस्योत्तरः स्वरविधिः स शिष्यत इति वक्तव्यम्। तेन पूर्वोदात्दृते `हरिण्यौ' इत्यत्र ङीबन्तस्य पित्त्वादनुदात्तप्रत्ययकस्य शेषः। न तु जातौ पुंयोगे वा यो ङीष् तदन्तस्य प्रत्ययस्वेरणान्तोदात्तस्य। ननु " वर्णादनुदात्तात्"(अष्टाoसूo4-1-39)इति ङीषन्तस्यापि उदात्तनिवृत्तिस्वरेणान्तोदात्तता स्यादेवेति चेत्, भ्रान्तोसि। उदात्तनिवृत्तेरेवाभावात्। "वर्णानान्तणतिनितान्तानाम्"(फिoसूo33)इति फिट्सूत्रेण प्रकृतेरनुदात्तत्वात्। तदुक्तं वर्णादनुदात्तादिति। तथा मीमांसते इति `मीमांसकः' लित्स्वरेण मध्योदात्तः। मीमांसामधीते मीमांसकः। "क्रमादिभ्यो वुन्"(अष्टाoसूo4-2-61)। नित्स्वरेणाद्युदात्तः। उभयोः सहविवक्षायामाद्युदात्तः। उभयोः सहविवक्षायामाद्युदात्तः शिष्यते नित्स्वरस्य परत्वात्। अक्षौ अक्षाः। "अक्षस्यादेवनस्य"(फिoसूo35)इति फिट्सूचेण शकटाक्षे आद्युदात्त-। देवनाक्षे तु "फिषः"(फिoसूo1) इत्यन्तोदात्तः। यद्वा-अशेर्द्देवने इति प्रत्ययान्तत्वादन्तोदात्तः। शकटावयवबिभीतकयोस्तु घञन्तत्वादाद्युदात्तः। अत एव "प्राचेयाम" इति सूक्ते अक्षकितवनिन्दाप्रस्तावअक्षस्याहमेकपरस्येत्यादयाऽक्षेशब्दा बहवोन्तोदात्ता एव प्रयुज्यन्ते। `तस्य नाक्षः' इत्यादौ तु रथावयवपरत्वादाद्युदात्तः। उभयोः सहविवक्षायान्तु आद्युदात्तस्य शेषः। इन्द्रियवाचिना क्लीबेन सहविवक्षायान्तु "नपुंसकमनपुंसकेन"(अष्टाoसूo1-2-69)इति अक्षमक्षाणीत्याद्यूह्यम्। नन्वचेतनानां देवतानां कथं पुंनपुंसकादिव्यवस्थेति चेत्, उच्यते। लोकप्रसिद्धमवयवसंस्थानविशेषात्मकलिङ्गं तावन्न व्याकरणे आश्रीयते। दारान् इत्यादौ नत्वाभावप्रसङ्गात्। तटस्तटीतटमित्यादौ यथायथं लिङ्गान् त्रितयनिबन्धनकार्याणामसिद्धिप्रसङ्गाच्च। किन्तु पारिभाषिकमेव लिङ्गत्रयम्। तच्च केवलान्वयि। अयमर्थः इयं व्यक्तिरिदं वस्त्वितिशब्दानां सर्वत्राप्रतिबद्धप्रसरत्वात्। तत्र कश्चिच्छब्दः एकस्मिन्नेव लिङ्गे शक्तः कश्चित्तु द्वयोः कश्चित् त्रिष्विति लिङ्गानुशासनादिभ्यो निर्णेयम्। कुमारब्राह्मणादिशब्दास्तु लौकिपुंस्त्वविशिष्टे सास्त्रीये पुंस्त्वे शक्ताः लौकिकस्त्रीत्वविशिष्टे च शास्त्रीयस्त्रीत्वे। कथमन्यथा `कुमारी' `कुमारः' इत्यादयः प्रयोगा व्यवतिष्ठेरन्। "करेणुरिभ्यां स्त्रीनेभे"(अकोo3-3-52)इत्यमरस्याप्ययमेवार्थः। नन्वेवं पशुनेतिपुंस्त्वं विवक्षितमिति मीमांसकोद्धोषः कथं योज्यः। पारिभाषिकस्याव्यावर्त्तकतया तद्विवक्षाया अकिञ्चित्करत्वात्। लौकिकस्य तु पशुशब्दादप्रतीतेरिति चेत्, सत्यम्। "छागो वा मन्त्रवर्णात्" इति षष्ठान्त्याधिकरणन्यायेन पुंस्त्वस्य नियमो बोद्यः। छागशब्दस्य लौकिकपुंस्त्वविशिष्टपारिभाषिकं शक्तत्वादिति दिक् तच्च जातित्रयमित्येके। उक्तं च हरिणा--
"तिस्रो जातय एवैताः केषां चित्समवस्थिताः।
अविरुद्धो विरुद्धाभिर्गोमनुष्यादिजातिभिः"।। इति ।
भाष्ये तु "स्त्रियाम्"(अष्टाoसूo4-1-3)इतिसूत्रे प्रकारान्तरमुक्तम्।
"संस्त्यानप्रसवौ लिङ्गमास्थोयौ स्वकृतान्ततः।
संस्त्याने स्त्यायतेर्डट् स्त्रीसूतेः सप्रसवे पुमान्।।
उभयोरन्तरं यच्च तदभावे नपुंसकम्।।" इति।

अयमर्थः-संस्त्यानं-स्त्री। सत्वरजस्तमोलक्षणानां गुणानामपचयः। प्रसवो गुणानामुपचयः। स एव पुमान्। सूतेर्धातोः सप्सकारस्य पकारादेश इत्यर्थः। सूङो डुमसुन्निति माधवः। यत्तु उज्ज्वलदत्तेन यातेर्दमसुन्नित्त्युक्तम्। यच्च "पुंसोऽसुङ"(अष्टाoसूo7-1-89)इति सूत्रे न्यासरक्षिताभ्यां "पुनातेर्मकासुन् ह्रस्वश्च" इति सूत्रं पठितं तदुभयमपि भाष्याननुगुणन्तयोरुपचयापचययोरभावे सति यदुभयोरन्तरसदृशं तन्नपुंसकम्। "नभ्राण्नपात्"(अष्टाoसूo6-3-75)इति निपातनादिति भावः। तथा च स्थितिमात्रं नपुंसकम्। अत एवाविर्भावतिरोभावयोरपि स्थितिसामान्यविवक्षासम्भवान्नपुंसकलिङ्गसर्वनामेति सिद्धान्तः। स्त्रीपुमान्नपुंसकमितिशब्दाश्च शुक्त्यादिशब्दवद्धर्मे धर्मिणि वर्त्तन्त इत्यवधेयम्। स्वकृतान्त इति। "कृतान्तौ यमसिद्धान्तौ"(अoकोo3-3-64)इत्यमरः। वैय्याकरणसिद्धान्ते इत्यर्थः।
(अष्टाoसूo1-2-65)
वृद्धोयूनातल्लक्षणश्चेदेव विशेषः(अष्टाoसूo1-2-65)। वृद्धो-गोत्रम्। "अपत्यमन्तर्हितं वृद्धम्" इति पूर्वाचार्यैः सूत्रितत्त्वात्। यूना सहोक्तौ वृद्धः शिष्यते गोत्रयुवप्रत्ययमात्रकृतञ्चतयोर्वैरूप्यं कृत्स्नं स्यात्। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। तल्लक्षणं किम्? भागवित्तिभागवित्तिकौ। कृत्स्नं किम्?। गार्ग्यवात्स्यायनौ।
(अष्टाoसूo1-2-66)
स्त्री पुंवच्च(अष्टाoसूo1-2-66)। यूना सह विवक्षायां वृद्धा स्त्री शिष्यते तदर्थश्च पुंवद्भवति। स्त्रीत्त्वस्य वैरूप्यकारणस्याधिक्यात्पूर्वेणाप्राप्तौ वाच्यम्, पुंवदिति विधातुञ्च। गार्गी च गार्ग्यायणौ च गर्गाः। अस्त्रियामित्यनुवर्त्तमाने "यञञोश्च"(अष्टाoसूo2-4-64)इति लुक्। दाक्षी च दाक्षायणश्च दाक्षी।
(अष्टाoसूo1-2-67)
पुमान् स्त्रिया(अष्टाoसूo1-2-67)। सरूपाणां मध्ये स्त्रिया सहोक्तौ पुमान् शिष्यते स च पुंवदेव स्यात्तल्लक्षण एव विशेषश्चेत्। सम्पृक्ता च संपृक्तं च सम्पृक्तौ। "यः शिष्यते स लुप्यमानार्थाभिधायि" इति सिद्धान्तात्स्त्रीत्त्वस्यापि सत्वेन टाप् प्राप्तः पुंवदेवेत्यनुवृत्तेर्न भवति। हंसश्च वरटा चेत्यादौ हंसजातिसाम्येऽपि शब्दवैलक्षण्यस्य स्त्रीत्वपुंस्त्वमात्रप्रयुक्तत्वादेकशेषः प्राप्तः रूपग्रहणानुवृत्त्या वार्यते तदनुवृत्तौ च "भ्रातृपुत्रौ स्वसृदुहितृभ्याम्"(अष्टाoसूo1-2-68)इति सूत्रं ज्ञापकम्। अन्यथा एकापत्यत्वस्य अपत्यत्वस्य वा साम्यात्तत्राऽपि "पुमान् स्त्रिया"(अष्टाo सूo1-2-67)इत्येव सिध्येत्। नन्वेवमपि गौरीयं गौश्चायं तयोः सहोक्तौ एतौ गावौ इति नियमतो न स्यात्। नैष दोषः। इयमयमिति पदान्तरगम्येऽपि तल्लक्षणविशेषे "पुमान् स्त्रिया"(अष्टाoसूo1-2-67)इत्यस्य प्रवृत्तिसम्भवादिति कैयटः। स्यादेतत्-तल्लक्षणविशेषरूपो विशिष्टाभावोऽत्र हेतुः। स च किन्नरैरप्सरोभिश्च क्रीडद्भिरित्यादौ विशेषणाभावात्। `गावौ' इत्यत्र तु विशेष्याभावादित्यन्यदेतत्। तथा च किमर्थं पदान्तरगम्यत्वपर्यन्तमुक्तमिति चेत्, उच्यते। नेह विशिष्टाभावः प्रयोजकः किन्तु तन्मात्रपयुक्तो विशेषः प्रयोजकः। अन्यथा `भागावित्तिभागवित्तिकौ' इत्यत्र "वृद्दोयूना"(अष्टाoसूo1-2-65)इति स्यात्। इह हि कुत्सासौवीरत्वाभ्यां प्रयुक्तेऽपि ठकि युवप्रयुक्ततास्त्येवेति विशिष्टाऽभावो निर्बाधः। एवमिन्द्रेन्द्राण्यावित्यत्र प्रकृतसूत्रं प्रवर्त्तेत। `हिमहिमान्यौ' इत्यादौ चोत्तरसूत्रमिति दिक्। नन्वेवं गार्ग्यवात्स्याय नयोरतिप्रसङ्ग इति चेत्, योसौ विशेषः स तल्लक्षणश्चेदिति वचनव्यकत्या पाठादुद्देश्यविधेयान्वयलाभात्। एवञ्च कृत्स्नस्य विशेषस्य तन्मात्रप्रयुक्तत्वं फलितम्। तेन पदान्तरपर्यन्तानुसारणं कैयटादीनां युक्तमेवेति दिक्। तदितरप्रयुक्तविशेषविरहरूपविशिष्टाभावविवक्षायान्तु सर्वं सुस्थम्। एतेन सा च स च तावितिव्याख्यातम्। अनैमित्तिकस्यैकशेषस्य तद् तद्‌ इत्यवस्थायां प्रवृत्तावपि पुंस्त्वनियमस्यैतेन लभ्यत्वात्। ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र तु न भवति। स्त्रीपुंसयोः सहविवक्षायामेकशेषः। सहविवक्षा च प्रधानयोरेव। तेन यत्र प्रधानयोरेव स्त्रीपुंसयोर्विशेषप्रयोजकता तत्रैव एकशेषप्रवृत्तेः इह वा प्रधानकृतस्याऽपि विशेषस्य सत्त्वात्। एवकारानुवृत्तेर्नेह-"इन्द्रेन्द्राण्यौ'। इह हि पुंयोगकृतोऽपि विशेषः। `आरण्यारण्यान्यौ'। इह महत्वकृतोऽपि विशेषः। पुमानिति किम्? प्राक् च प्रतीची च प्राक्प्रतीच्यौ स्तः। प्रपूर्वादञ्चेः क्विन्नन्तादस्तातेरंचेलिगिति "तद्धितश्चासर्वविभक्तिः"(अष्टाoसूo1-1-38)इत्यव्ययत्त्वादलिङ्गः प्राक्‌शब्दः।
(अष्टाoसूo1-2-68)
भातृपुत्रौ स्वसृदुहितृभ्याम्(अष्टाoसूo1-2-68)। यथासंख्यं शिष्येते। भ्राता च स्वसा च भ्रातरौ। पुत्रश्च दुहिता च पुत्रौ।
(अष्टाoसूo1-2-69)
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्(अष्टाoसूo1-2-69)। अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत् स्यात्। तल्लक्षण एव चेद्विशेषः। शुक्लः कम्बलाः, शुक्ला, बृहतीका, शुक्लं वस्त्रं, तदिदं शुक्लम्। तानीमानि शुक्लानि। अनपुंसकेनेति किम्? शुक्लं शुक्लंञ्च शुक्ले। एकवच्चेति न भवति। अस्येति किम्? उत्तरसूत्रे एकवद्भावानुवृत्तिर्मा भूत्।
पिता मात्रा(अष्टाoसूo1-2-70)। मात्रा सहोक्तौ पिता वा शिष्यते। पितरौ। मातापितरौ। अयं योगः शक्योऽकर्त्तुम्। तथाहि-"यः शिष्यते स लुप्यमानार्थाभिधायि" इतिन्यायेनास्मिन् विषये पितृशब्द एव मातरमपि वक्तीति निर्विवादम्। तत्र च निरूढलक्षणा वा शक्तिरेव वेत्यन्यदेतत्। न च द्वन्द्वनिवृत्त्यर्थं सूत्रम्। तस्याऽपि पक्षे इष्टत्वात्। एवं "श्वशुरः श्वश्र्वा"(अष्टाoसूo1-2-71)इत्यत्रापि बोध्यम्। एतेन "पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा'(याoस्मृo135)।
इत्यस्य व्याख्यावसरे विग्रहे क्रमप्रतीतेः "प्रथमं माता धनभाक् तदभावे तु पिता" इति विज्ञानेश्वरग्रन्थश्चिन्त्यः। एकपदजन्ये बोधे क्रमाभावात्। सूत्रारम्भेऽप्येवमेव। प्रत्युत मुख्यार्थस्य प्रथमप्रतीतिरुचिता। न तु लक्ष्याया मातुः। यत्तु विग्रहे क्रमप्रतीतिरिति, तन्न। वृत्तिविग्रहयोः सहाप्रयोगात्। वृत्तेरेवेह व्याख्येयश्लोके प्रयोगात्। किं च वृत्तावपिप्रयुक्तायां विग्रहोऽपि स्मर्यतां कथञ्चित्। न तु तत्रापि पूर्वापरिभावे किञ्चिन्नियामकमस्ति तस्मात्क्रमनिर्णये प्रमाणान्तरं मृग्यम्।
(अष्टाoसूo1-2-71)
श्वशुरः श्वश्र्वा(अष्टाoसूo1-2-71)श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते। श्वशुरौ। श्वश्रूश्वशुरौ। श्वश्व्रेति सौत्रनिर्द्देशादेव प्रत्ययान्तस्याऽपि प्रातिपदिकत्वम्। अन्यथा हि "प्रकृतिविदनुकरणम्" इति ऊडन्ततृतीया न स्यात्।
(पाoसूo1-2-72)
त्यादीनि सर्वैर्नित्यम्(पाoसूo1-2-72)। सर्वैस्त्यदादिभिरन्यैश्च सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते। प्रत्यासत्तेस्त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदिति सर्वग्रहणम्। स च देवदत्तश्च तौ। द्वन्द्वनिवृत्त्यर्थं वचनम्। `तौ'इति तु `सरूप'(अष्टाoसूo1-2-64)सूत्रेणैव सिद्धं देवदत्तस्यापि तच्छब्देनैव र्निर्देष्टुंशक्यत्वात्। त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते शब्दपरविप्रतिषेधात्। स च यश्च यौ। "पूर्वशेषोऽपि दृश्यते" इति भाष्यम्। स च यश्च तौ। अहं च भावंश्चावाम्। त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि(काoवाo)। आद्यादित्त्वात्तसिः। त्यदादीनां शेषे सहविवक्षितो योर्थः पुमान् यश्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः। सा च देवदत्तश्च तौ। तच्च देवदत्ता च यज्ञदत्ता च तानि। पुंनपुंसकयोस्तु सहविवक्षायां नपुंसकवशेन व्यवस्थापरत्वात्। तच्च देवदत्तश्च ते। अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्(काoवाo)। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। अर्द्धं पिप्पल्यास्तत्। अर्धपिप्पली च सा अर्धपिप्ल्यौ ते। इह "परवल्लिङ्गम्"(अष्टाoसूo2-4-26)इति समासार्थस्य लिङ्गाऽतिदेशे कृते तद्विशेषणस्य सर्वनाम्नस्तदेव लिङ्गम्। भाष्ये तु एतत्सूत्रं प्रत्याख्यातम्। यदाह-सामान्यविशेषवाचिनोश्च द्वन्द्वाभावात्सिद्धमिति। विशेषसन्निधौ हि प्रयुक्तः सामान्यशब्दौ विशेषान्तरे वर्त्तते। ब्राह्मणा आगता वसिष्ठश्चेति यथा। तथाविधे विषये वाचनिकोऽयं द्वन्द्वनिषेधः। तेनैव तद्देवदत्तावित्यादिनिवृत्तेः सिद्धत्वादयमेकशेषो न वक्तव्य इत्यर्थ इति कैय्यटः। कथं तर्हि `शूद्राभीरं ' `गोबलीवर्दं' `तृणोपलम्' इति, अत्राहुः-आभीरी जात्यन्तराणि।
"ब्राह्मणादुग्रकन्यायामाभीरो नाम जायते।
माहिष्योग्रौ प्रजायेते विट्‌शूद्राङ्गनयोर्नृपात्"।। इति स्मृतेः ।।
गोशब्दस्तु स्त्रीगविपरोऽयं स्त्रीलिङ्गः। अपामुलप इति नामधेयमिति। अनित्योयं निषेधः। "प्राच्यभरतेषु(अष्टाoसूoएo2-4-66)इतिसूत्रनिर्देशाल्लिङ्गात्। तेन "प्रमाणप्रमेय" इत्यादिषु द्वन्द्वः सिद्धः। एतेन-
"अविद्या तच्चितो योगः षडस्माकमनादयः।
मत्स्यादौ तद्विशेषयोः" इत्यादिप्रयोगा व्याख्याताः। सूत्रारम्भे त्वेतेन सिद्ध्येयुरेवेति सहृदयैराकलनर्यिम्।
(अष्टाoसूo1-2-73)
ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री(अष्टाoसूo1-2-73)। एषु सहविवक्षायां स्त्रीशिष्यते। "पुमान् स्त्रिया"(अष्टाoसूo1-2-67)इत्यस्यापवादः। गाव इमाः। ग्राम्यग्रहणं किम्? रुरव इमे। पशुग्रहणं किम्? ब्राह्मणाः। सङ्घेषु किम्? एतौ गावौ चरतः। एकशेषस्यानेकविषयत्वे लब्धे सङ्घग्रहणसामर्थ्याद् बहूनां सङ्घो गृह्यते। अतरुणेषु किम्? वत्सा इमे। बर्करा इमे। अनेकशफेष्विति वक्तव्यम्(काoवाo)अश्वा इमे। गर्दभा इमे। एकशफत्त्वात्पुंशेष एव। "शफं क्लीबे खुरः पुमान्"(अoकोo2-8-49)इत्यमरः। हरदत्तस्तु "शफाः खुराः" इति प्रयुङ्क्त। तत्र शफशब्दस्य पुंस्त्वे मूलान्तरं मृग्यम्। उष्ट्राणां त्वारण्यत्वात् स्त्रीशेषाभावः।
।। इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य द्वितीये पादे तृतीयमान्हिकं पादश्च समाप्तः ।।