शब्दकौस्तुभः/अध्यायः १-पादः ४/आह्निकम् १

शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।।चतुर्थेपादे प्रथममान्हिकम्।।
(अष्टाoसूo1-4-1)
आकडारादेका संज्ञा(अष्टाoसूo1-4-1)। इत ऊर्ध्वं कडाराः कर्मधारये(अष्टाoसूo2-2-38)इत्यतः प्रागेकस्य एकैव संज्ञा स्यात्। तत्रोभयोः सावकाशत्वे "विप्रतिषेधे परम्"(अष्टाoसूo1-4-2)इति परैव। निरवकाशत्वे तु सैवेति विवेकः।
तत्र परस्या उदाहरणं-`धनुषा विध्यति' इति। शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञा अपादानसंज्ञां बाधते। तथा `कांस्यपात्र्याम्भुङ्क्ते' इत्यधिकरणसंज्ञा `धनुर्विध्यति'इति कर्तृसंज्ञा-1--1.अपादानसंज्ञां बाधते इत्यर्थः।-च। तदुक्तम्-"अपादानमुत्तराणि" इति।
निरवकाशायास्तूदाहरणम्-`अततक्षत्' इति। अत्र हि "संयोगेगुरु"(अष्टाoसूo1-4-11)इति गुरुसंज्ञा लघुसंज्ञां बाधते। तेन "सन्वल्लघुनि"(अष्टाoसूo7-4-93)इत्येतन्न प्रवर्त्तते।
स्यादेतत्। भपदसंज्ञाभ्यां तर्हि अङ्गसंज्ञा बाध्येत। तथा च `गार्ग्यः' इत्यत्र "यस्येति च"(अष्टाoसूo6-4-148)इति लोपो न स्यात्। `धानुष्कः' इत्यत्राङ्गस्योच्यमाना वृद्धिर्न स्यात्। अङ्गसंज्ञा तु `कर्त्तव्यम्' इत्यादौ सावकाशा। नहि धातुप्रत्यये पूर्वस्य भवपदसंज्ञे स्तः।
अत्राहुः-"सुपि च"(अष्टाoसूo7-3-102) "बहुवचने झल्येत्"(अष्टाoसूo7-3-103) "तद्धितेष्वचामादेः"(अष्टाoसूo7-2-117)इत्यादौ स्वादिषु तद्धितेषु चाङ्गस्य कार्यविधानं समावेशस्य ज्ञापकम्। द्विविधा हि स्वादयः-यजादयो वलादयश्च। तत्र यथाक्रमं भपदसंज्ञाभ्यां भाव्यम्। ताभ्यां चाङ्गसंज्ञाबाधे निर्विषया एव तत्तद्विधयः स्युः।
गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नहीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः। तेन `वात्सीबन्धुः' इत्यत्र "नदी बन्धुनि"(अष्टाoसूo6-2-109)इति पूर्वपदान्तोदात्तत्वं, `हे वात्सीबन्धी'इत्यत्र "गुरोरनृतः"(अष्टाoसू8-2-86)इति प्लुतश्च सिध्यति। तथा विश्चना च विनरौ "द्वन्द्वे घि"(अष्टाoसूo2-2-32)इति पूर्वनिपातः। विनरावाचष्टे विनयति प्रविनय्य गतः। "ल्यपि लघुपूर्वात्"(अष्टाoसूo6-4-56)इति णेरयादेशः। यथा चायादेशे कर्त्तव्ये टिलोपो न स्थानिवत्तथा "अचः परस्मिन्"(अष्टाoसूo1-1-57)इत्यत्र व्युत्पादितम्। यत्तूक्तं विन्त्रोर्भावो वैन्त्रम् "इगन्ताच्च लघुपूर्वात्"(अष्टाoसूo5-1-131)इत्यणिति, तच्चिन्त्यम्;"द्वन्द्वमनोज्ञादिभ्यश्च"(अष्टाoसूo5-1-133)इति वुञ्प्रसङ्गादिति कैयटः। पुरुषसंज्ञा तु परस्मैपदसंज्ञां न बाधते "णलुत्तमो वा"(अष्टाoसूo7-1-91)इति ज्ञापकात्। अन्यत्रापि यत्र समावेश इष्टस्तत्र चकारादिना स्वस्थाने साधयिष्यते। भाष्ये तु पाठान्तरमप्युपन्यस्तम्-"प्राक्कडारात्परं कार्यम्" इति। अस्यार्थः-प्राक्कडारात्संज्ञाख्यं कार्यं परं स्यादिति। संज्ञाप्रकरणाद्धि संज्ञारूपमेवेह कार्यम्। परासंज्ञेत्येव तु न सूत्रितम्। "विप्रतिषेधे"(अष्टाoसूo1-4-2)इत्यत्तरसूत्रे परङ्कार्यमित्यस्यानुवृत्तिर्यथा स्यात्। तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनवकाशया बाधः प्राप्तः सा पराऽनेन विधीयते। एतदेव च ज्ञापकमिह प्रकरणे संज्ञानां बाध्यबाधकभावस्य। तेन परयाऽनवकाशया सावकाशा पूर्वा बाध्यते। द्वयोस्तुसावकाशयोर्विप्रतिषेधे परया पूर्वा बाध्यते इति। अस्मिन्पक्षे अङ्गसंज्ञा परा कर्त्तव्या भपदसंज्ञे तु पूर्वे, एवं यत्र यत्र समावेश इष्टस्तत्र सर्वत्र बोद्धव्यम्। अस्मिन्पक्षे ऋत्विय इति न सिध्यति। तथाहि, "ऋतोरण्"(अष्टाoसूo5-1-105) "छन्दसि घस्"(अष्टाoसूo5-1-106) "सिति च"(अष्टाoसूo1-4-16)इति पदसंज्ञैवेष्टा। तेन तत्र परं कार्यमिति वचनाद्भसञ्ज्ञापि स्यात्। ततश्च "ओर्गुणाः"(अष्टाoसूo6-4-146)प्रसज्येत। पदत्वप्रयुक्तेनावग्रहेण सित्करणं सार्थकं स्यात्। "शेषो बहुव्रीहिः"(अष्टाoसूo2-1-23)"शेषो घ्यसखि"(अष्टाoसूo1-4-7)इति शेषग्रहणं चास्मिन्पक्षे कर्त्तव्यं स्यात्। अन्यथा हि `उन्मत्तगङ्गम्' इत्यादौ "अन्यपदार्थे च सञ्ज्ञायाम्"(अष्टाoसूo2-1-21)इति सत्यामव्ययीभावसञ्ज्ञायां परङ्कार्यमिति वचनाद्बहुव्रीहिसञ्ज्ञाऽपि स्यात्। `मत्यै' इत्यत्र नदीसञ्ज्ञापर्याये घिसंज्ञाऽपि स्यात्। ततश्च गुणप्रसङ्गः। वस्तुतो बहुव्रीहौ शेषग्रहणं पाठद्वयेऽपि कर्तव्यं, घिसंज्ञायान्तु पाठद्वयेऽपि न कर्तव्यमिति तत्रैव वक्ष्यामः।
इदं त्ववधेयम्। एका संज्ञेति पाठेऽपि संज्ञाग्रहणं न कर्तव्यम्। एकेत्युक्तेऽपि सञ्ज्ञाधिकारदेव तल्लाभात्।
स्यादेतत्, "आद्वन्द्वात" इत्येवोच्यताम्। न हि "चार्थे द्वन्द्वः"(अष्टाoसूo2-2-29)इत्यतः परत्रेदमुपयुज्यते। सत्यम्, तथा सति "द्वन्द्वश्च प्राणितूर्य"(अष्टाoसूo2-4-2)इत्यस्याप्यवधित्वं सम्भाव्येत। ततश्च सम्बुद्धिसञ्ज्ञामन्त्रितसञ्ज्ञयोः समावेशो न स्यात्। ननु "आकडारात्" इत्युक्तेऽपि "प्राक्कडारात्समासः"(अष्टाoसूo2-1-3)इत्यस्यावधित्वं कुतो न स्यादिति चेत्? व्याप्तिन्यायाल्लिङ्गाच्च। यदयं "तत्पुरुषः"(अष्टाoसूo2-1-22)"द्विगुश्च"(अष्टाoसूo2-1-23)इत्यारभते। समावेशार्थं हि च तत्। वस्तुतस्तु "संख्यापूर्वो द्विगुः"(अष्टाoसूo2-1-52)इत्यत्रैव चकारः पाठ्यः तावतैव "दिवः कर्म च"(अष्टाoसूo1-4-43)"तत्प्रयोजको हेतुश्च"(अष्टाoसूo2-1-23)इति सूत्रान्तरं तु न कर्तव्यमेव। एवं समानाधिकरणसमासप्रकरणं समाप्य "कर्मधारयश्च" इत्येव पाठ्यम्। "तत्पुरुषः समानाधिकरणः करमधारयः(अष्टाoसूo1-2-42)इति सुत्रं तु मास्त्विति दिक्।
(अष्टाoसूo1-4-2)

विप्रतिषेधे परङ्कार्यम्(अष्टाoसूo1-4-2)। विरोधे सति कृत्यर्हं यत्परं तत् स्यात्। विप्रतिपूर्वात्सेधतेर्घञ्, "उपसर्गात्सुनोति"(अष्टाoसूo8-3-65)इति षत्वम्। उपसर्गवशाच्च विरोधार्थकत्वम्। `कार्यम्' इत्यत्र "अर्हे कृत्यतृचश्च"(अष्टाoसूo3-3-169)इत्यर्हार्थे कृत्यप्रत्ययः। तेन तुल्यबलविरोध इति पर्यवस्यति। नह्यपवादादीनां सन्निधौ उत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात्। तत्र नित्यमावश्यकत्वाद्वाधकम्। अन्तरङ्गन्तु लाघवात्। अपवादस्तु वचनप्रामाण्यात्। तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः। तदुक्तम्-"परनित्यान्तरङ्गापवादानामुत्तरोत्तरस्य बलवत्त्वम्"(पoभाo38)इति। जातिपक्षे विध्यर्थं सूत्रम्। वृक्षेषु, वृक्षाभ्याम् इत्यत्र हि लब्धावकाशयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे सति गमकाभावादप्रतिपत्तिरेव स्यात्। तदुक्तम्-"अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात्" इति। तत्रास्माद्वचनात्परस्मिन्कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति। यथा `भिन्धकि' इत्यत्र परत्वाद्धिभावे कृतेऽप्यकच्। तदुक्तं-"पुनः प्रसङ्गविज्ञानात्सिद्धम्"(पoभाo39)इति। व्यक्तिपक्षे तु तद्व्यक्तिविषयकयोर्लक्षणयोरन्यत्र चरितार्थत्वासम्भवात्तव्यानीयरामिव पर्याये प्राप्ते नियमार्थमिदं सूत्रम्-विप्रतिषेधे परमेव न तु पूर्वमिति। एतल्लभणारम्भाच्च तत्र पूर्वस्यानारम्भोऽनुमीयते। तथाच जुहुतात्त्वमित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन धित्वं न भवति। तदुक्तं-"सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव"(पoभाo40)इति। जातिव्यक्तिपक्षयोश्च लक्ष्यानुरोधाद्व्यवस्थेत्युक्तं पस्पशायाम्। नित्यादिषु तु नास्य प्रवृत्तिरित्युक्तम्। तेन रधेर्णिचि "अत उपधायाः"(अष्टाoसूo7-1-61)इति वृद्धिं परामप्यनित्यां बाधित्वा "रधिजभोः"(अष्टाoसूo7-1-61)इति नुमेव। न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य एवेति वाच्यम्, कृताकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यताभ्युपगमात्। तेन `रन्धयति' इति सिद्धम्। तथा `अदुद्रुवत्' इत्यादावन्तरङ्ग उवङ् परमपि लघूपधगुणं बाधते। तथा `शुनः' इत्यत्रान्तरङ्गत्वात् "सम्प्रसारणाच्च"(अष्टाoसूo6-1-108)इति पूर्वत्वम्। अल्लोपे तु सति तस्य स्थानिवत्त्वाद्यण् स्यात्। `बहुश्वानगरी' इत्यत्र "अन उपधालोपिनः"(अष्टाoसूo4-1-28)इति ङीप् स्यात्। सिद्धान्ते गौरादिलक्षणो ङीष् तु न, उपसर्जनत्वात्। यत्त्विहत्यभाष्यं `बहुशुनी' इति, तत्सिद्धान्तेन स्थितम्, अल्लोपाभ्युपगमपक्षे प्रवृत्तत्वात्। एतच्चेहैव कैयटे आभात्सूत्रीयभाष्यकैयटयोश्च स्पष्टं न्यायसिद्धञ्च। यत्तु "बहुश्वेत्येव भवितव्यम्" इति डाप्सूत्रे भाष्यम्, तदिह साधकतया न ग्राह्यम्। डाप्पक्षमेवोप्रकम्य `बहुशुका' इति रूपं तिरस्कर्तुं तस्य प्रवृत्तत्वात्। `वृक्ष इह' इत्यादौ त्वन्तरङ्गेण गुणेन दीर्घो बाध्यते। न चासौ अपवादः कथं बाध्यतामिति वाच्यम्, समानाश्रये तस्य चरितार्थत्वात्। तथा च वार्त्तिकम्-"इण्‌ङिशीनामाद्‌गुणः सवर्णदीर्घत्वात्"(काoवाo)इति। इह शीनामिति नदीत्वान्नुट्, विभक्तिपरतया नित्यस्त्रीत्वात्। अत एव "औङः श्याम्"(कoवाo)इति प्रयोगः। उदाहरणन्तु `अयजे इन्द्रं, वृक्षे इन्द्रं, सर्वे इह' इति बोध्यम्। इहान्तरङ्गं बलवदिति लाघवन्यायमूलकमिति कैयटः। "अचः परस्मिन्'(अष्टाoसूo1-1-57)इति सूत्रे भाष्यमप्येवम्। "असिद्धं बहिरङ्गम्"(पoभाo50)इति तु "वाह ऊठ्"(अष्टाoसूo6-4-132)इत्यूठ्ग्रहणेन ज्ञापितम्। "षत्वतुकोः"(अष्टाoसूo6-1-86)इत्यनेन तु तदपवादभूतं "नाजानन्तर्ये"(पoभाo51)इति। तत्र "असिद्धम्"(पoभाo50)इत्यनया `पचावेदम्' इत्यादावैत्वाभावार्थमवश्याश्रयणीयया गतार्थत्वाद् "अन्तरङ्गं बलीयः" इति न कर्तव्येतीहत्यं भाष्यं विरुद्धम्। न्यायसिद्धताया उक्तत्वात्। किञ्च सापवादयाऽसिद्धपरिभाषया कथं निरपवादाया गतार्थता? अथ "षत्वतुकोः"(अष्टाoसूo6-1-86)इत्यनेन "असिद्धं बहिरङ्म्"(पoभाo50)इत्यस्या अनित्यतैव ज्ञाप्यते, लाघवात्; न तु "नाजानन्तर्ये"(पoभाo51)इति, गौरवात्। तर्हि प्रबलमिदं भाष्यम्। स्फुटीकृतं चेदम् "अचः परस्मिन्"(अष्टाoसूo1-1-57)इति सूत्रेऽस्माभिः। एवञ्चाचोरानन्तर्यमिति द्वित्वं विवक्षितम्। नचेत्यादयोऽपि प्राचाङ्कलहा मुधैव। एवञ्च "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते"(पoभाo52)इत्यपि गतार्थम्। "षत्वतुकोः"(अष्टाoसूo6-1-86)इति वा कृतितुग्ग्रहणेन वाऽनित्यताज्ञापनात् "अश्विमानण"(अष्टाoसूo4-4-126) "श्वयुव"(अष्टाoसूo6-4-132)इत्यादिनिर्द्देशाच्च। तेन `गोमत्प्रियः' इत्यादि सिद्धम्। आचारक्विपि तवममादिबाधे च क्रमेण प्रत्ययोत्तरपदग्रहणस्य कृतार्थत्वात्तदीयज्ञापकता प्रवादोऽपि यथाश्रुताभिप्रायेणैवेति दिक्।।
।। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे पादे प्रथममान्हिकम् ।।