शब्दकौस्तुभः/अध्यायः २-पादः १/आह्निकम् ३

← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]

।। तृतीयमान्हिकम् ।।
(अष्टाoसूo2-1-51)
तद्धितार्थोत्तरपदसमाहारे च(अष्टाoसूo2-1-51)। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये समानाधिकरणेन सह समस्येते स तत्पुरुषः। पूर्वस्यां शालायां भवः पौर्वशालः। समासे कृते "दिक्पूर्वपदादसंज्ञायां ञः"(अष्टाoसूo4-2-107)एवम्-आपरशालः।
उत्तरपदे-पूर्वशालाप्रियः। इह त्रिपदे बहुव्रीहौ कृते प्रियशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषे सति समासान्तोदात्तत्वं लकाराकारस्य भवति। असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेम पूर्वशब्दस्याद्युदात्तत्वं स्यात्। दिक्षु समाहारो नास्ति, अनभिधानात्। संख्यायास्तद्धितार्थे षाण्मातुरः। पाञ्चनापितिः। अनपत्य इत्युक्तत्वान्न लुक्। पञ्चकपालः। "संस्कृतम्भक्षाः"(अष्टाoसूo4-2-16)इत्यण्। "द्विगोर्लुगनपत्ये"(अष्टाoसूo4-1-88)इति टच्। ननु पाक्षिकं पञ्चगोधन इति दुर्वारम्। महाविभाषाधिकारेण तत्पुरुषस्य वैकल्पिकत्वात्। अत ए नित्यत्वमुपसंख्यातं वार्तिककृता "द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्"(काoवाo)इति। अत एव वाक् च दृष्च्च प्रिये अस्य वाग्दृषदप्रियः, छत्रोपानहप्रिय इति त्रिपदे बहुव्रीहौ पूर्वयोर्नित्यं द्वन्द्वः। तेन समासान्तोऽपि नित्यमेव। स्यादेतत्। समुदायस्यैकार्थी भावे सति अवयवयोरावश्यक ित्युपसंख्यानं व्यर्थमिति चित्? मैवम्, त्रायाणां समासे कृतेऽन्यपदार्थोपसंक्रमेण परस्परसम्बन्धाभावात् सति तूपसंख्याने वचनसामर्थ्यादद्वन्द्वतत्पुरुषयोः प्रवृत्तेः। न चैवं त्रिपदे बहुव्रीहौ `चित्राजरद्‌गुः' इत्यत्रापि तत्पुरुषे चित्राशब्दस्य पुंवद्भावापत्तिः। उपसंख्यानस्य "तद्धितार्थोत्तरपद"(अष्टाoसूo2-1-51)इति सूत्रोक्ततत्पुरुषमात्रविषयत्वात्तस्यैवोत्तरपदे प्रतिपदोक्तत्वात्। अत एव `खादिरेतरशआम्यम्' इत्यत्र पुंवद्भावसिद्धये कर्मधारयोत्तरपदो बहुव्रीहिर्नतु त्रिपदे इति समर्थसूत्रशेषं कैयटः। यत्तु पूर्वतन्त्रे बाधकलक्षणे पृष्टस्य युगपद्विधेरेकाहवद्‌द्विसामत्वमित्यधिकरणे पृष्ठ्यः षडहो बृहद्रथन्तरसामाकार्य इत्युदाहृत्य द्वन्द्वं कृत्वा बहुव्रीहिः कार्य इति कात्यायनवचनमुपष्टम्भकमःश्रित्य पूर्वपक्षितं, यच्च कात्यायनवचनं समासान्तविसेषमात्रविषयमित्याश्रित्य नेह द्वन्द्व इति सिद्धान्तितं, तदुभयंचन्त्यम्, उत्तरपदे इत्युक्तेद्वन्द्वं कृत्वेत्यस्यासङ्गतेः। स्वरे विशेषस्य स्पष्टतया समासान्तपर्यन्तमाग्रहे बीजाभावाच्चेति दिक्।
समाहारे-पञ्चमूली। पञ्चकुमारी। इह पञ्चानां मूलानां कुमारीणां च समाहार इति विग्रह-। न तु पञ्चमूलाः समाहृता इत्यादि। भावसाधनो हि समाहारशब्दो न तु कर्मसाधन-। तथा सति `पञ्चकुमारी' इत्यत्र कुमार्यर्थस्य प्राधान्यात्समासशास्त्रे च अप्रथमानीर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावेन "गोस्त्रियोः(अष्टाoसूo1-2-48)इति ह्रस्वो न स्यात्। अथात्र नपुंसकह्रस्वत्वं ब्रूयाः, एवमपि पञ्चखट्वी' न सिध्येत्। वा टाबन्त इति स्त्रीलिङ्गत्वपक्षे हीदं रूपम्। तत्र च ह्रस्वाभावात् "द्विगारेतः" इति ङीप् न स्यात् सिद्धान्ते तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यषष्ठ्यैव योग इत्येकविभक्तिकत्वात्सिद्धमुपसर्जनत्वम्। न च "एकविभक्तावषष्ठ्यन्तवचनम्"(काoवाo)इति वार्तिकेन अर्धपिप्पल्यादाविव उपसर्जनत्वनिषेधः शङ्क्यः, तस्यैकदेशिसामासमात्रविषयकत्वात्। अत्र चैतत्सूत्रयिभाष्यमेव प्रमाणम्। यद्वा, "विभाषा छन्दसि"(अष्टाoसूo1-2-36)इति सूत्राद्विभाषाग्रहणानुवृत्त्या व्यवस्थितविभाषाश्रयणाच्च "एकविभक्तिच"(अष्टाoसूo1-2-44)इत्युपसर्जनता एकदेशिसमासे न भवति। पञ्चखट्वादौ तु स्यादेव। स्पष्टं चैतन्न्यासग्रन्थे। तस्माद्भावसाधन एवेह समाहार इति स्थितम्। "द्विगुरेकवचनम्"(अष्टाoसूo2-4-16)इति तु " स नपुंसकम्'(अष्टाoसूo2-4-17)इति वक्ष्यामीत्यारभ्यते।
स्यादेतत्। समाहारः समूह इति पर्यायौ। समूहश्च तद्धितार्थः, "तस्य समूहः"(अष्टाoसूo4-2-37)इति सूत्रात्। तथाच तद्धितार्थइत्येव सिद्धे किं समाहारग्रहणेन?न चैवं तद्धितश्रवणं स्यादिति वाच्यम् "द्विगोर्लुग्"(अष्टाoसूo4-1-88)इति लुक्सम्भवात्। नन्वेवं लुक्कृतानि स्युः। तद्यथा-`पञ्चपूली' इत्यत्र "अपरिमाणबिस्त"(अष्टाoसूo4-1-22)इति ङीप्प्रतिषेधः स्यात्। पञ्चगवम्। "गोरतद्धितलुकि"(अष्टाoसूo5-4-92)इति टच् न स्यादिति चेत्? मैवम्, न तद्धितलुक्यतद्धितलुकीत्येतत्स्थाने समाहारशब्दपाठेन सर्वसामञ्जस्यात्। तथाहि, अपरिमाणबिस्तादिभ्यः समाहारे नियमार्थमिदम्-एभ्यः साहार एवेति। पच्चानामश्वानां समाहारः पञ्चाश्वी। नेह-पञ्चभिरश्वैः क्रीता पञ्चाश्वा। तथा-"गौः" गोन्तात्तत्पुरुषाट्टच् स्यात्। पुङगवः। ततः-समाहारे। गोरित्यनुवर्तते। सजातीयापेक्षो नियमः। गोन्ताद् द्विगोस्समाहार एव टच् स्यात्। पञ्चगवम्। नेह-पञ्चभिर्गोभिः क्रीतः पञ्चगुः।
तदेतत्सकलमभिसन्धायोक्तं वार्तिककृता-समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वादिति। समाहारसमूहयोरिति शब्दपरो निर्द्देशः। अतो नैकशेषः। अविशेषादिति। अर्थाविशेषादित्यर्थः।
अत्र भाष्यकाराः। एवं सति `पञ्चकुमारी' `दशकुमारी' इत्यत्र "लुक्तद्धितलुकि"(अष्टाoसूo1-2-49)इति स्त्रीप्रत्ययस्य लुक् स्यात्। तस्मात्तद्धितनिवृत्त्यर्थं समाहारग्रहणम्। पृथक्समाहारग्रहणाद्धि समासस्यैव समाहारो वाच्यो न तु तद्धितस्येति व्याख्यानात्तद्धितो नोत्पद्यते इति सिद्धमिष्टम्। अत एव च ज्ञापकात्तद्धितार्थे विषये इति व्याख्यातं न तु वाच्येइति। अत एव `पाञ्चनापितिः' इत्यादौ तद्धित उत्पद्यते। समासेनैव तदर्थस्योक्तौ तु तद्धितो नोत्पद्येत। अत एव द्विगोर्लुग्वचनमपि सङ्गच्छते इति दिक्।
ननु पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इत्यत्र मत्वर्थस्य तद्धितार्थत्वादयं समासः प्राप्नोति न तु बहुव्रीहिः, अशेषत्वात्। तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवणं स्यात्। न च द्विगोरिति लुक्, अप्राग्दीव्यतीयत्वात्।
अत्रोच्यते। परत्वाद्बहुव्रीहिः। त्रिकतः शेषस्य भाष्यसम्मतत्वात्। वार्तिककृता तु वचनमेवारब्धम्-मत्वर्थे प्रतिषेधः।
(अष्टाoसूo2-1-52)
संख्यापूर्वो द्विगुः(अष्टाoसूo2-1-52)। "तद्धितार्थः(अष्टाoसूo2-1-51)इत्यत्रोक्तः संख्यापूर्वः समासो द्विगुसंज्ञः स्यात्। पञ्चकपालः। "संस्कृतम्भक्षाः"(अष्टाoसूo4-2-16)इत्यनेनोत्पन्नस्याणो "द्विगोर्लुगनपत्ये"(अष्टाoसूo4-1-88)इति लुक्। पञ्चनावप्रियः। "नावोद्विगोः"(अष्टाoसूo5-4-99)इति समासान्तष्टच्। पञ्चमूली। "द्विगोः"(अष्टाoसूo4-1-21)इति ङीप्। अनन्तरस्येति न्यायात्पूर्वसूत्रविषय एवेयं संज्ञा। एतदर्थमेव तत्र योगविभागः। अन्यथा "दिक्संख्ये संज्ञा तद्धितार्थोत्तरपदसमाहारेषु' इत्येव ब्रूयात्। तेन `सप्तर्षयः' इत्यत्र 'इगन्तकाल"(अष्टाoसूo6-2-29)इति पूर्वपदप्रकृतिस्वरो न भवति। समासान्तोदात्त एव हि पठ्यते-"सप्तऋषयस्तपस्तेपे निषेदुः" इति यथा। कथन्तर्हि `एकापूपी' इतिः? अत्राहुः। नायं "पूर्वकालैक"(अष्टाoसूo2-1-49)इति समासः किन्तु पूर्वसूत्रेण समाहारे। तथाहि, एकमष्यपूपं कश्चित्कृपणो दददनेकं मन्यते। तथा दाने श्रद्धातिशयादपूपमहत्त्वाद्वाऽनेकस्मिन्निव यः संभ्रमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः। तत्रारोपितबहुत्वाश्रयः समाहारः। तत्र समासे कृते द्विगुत्वे सति "अकारान्तोत्तरपदे द्विगुः स्त्रियाम्"(काoवाo)इति स्त्रीत्वे "द्विगोः"(अष्टाoसूo4-1-21)इति ङीप् सिध्यति।
(अष्टाoसूo2-1-53)
कुत्सितानि कुत्सनैः(अष्टाoसूo2-1-53)। "कुत्स अवक्षेपणे"(चुoआo1687)। मत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्द्देश उभयत्रापि स्वरूपग्रहणनिरासार्थः। कुत्स्यमानवाचीनि। कुत्सनैः सह प्राग्वत्। शब्दप्रवृत्तिनिमित्तकुत्सायामेवायमिष्यते, सन्निधानात्। विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः। वैयाकरणखसूचिः। "सूचयतेरिच्च" इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं सूचयति निरीक्षते कथयति वा अहो निर्मलं गगनमिति, स एवमुच्यते। अत्र व्याकरणस्य वेदाङ्गत्वात्तदध्ययनं स्वरूपेण यद्यपि प्रशस्तं तथापि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितवः। किन्तवास्तीति पृच्छन् धनमात्रोद्देशेन जात्यादिनिरपेक्षो द्यूते प्रवर्तमानः कितवः। तथाच श्रुतिः "सभामेति कितवः पृच्छमानो जेष्यामि" इत्यादि। इह तु कितव इव कितवः, यो याज्ञिको दक्षिमामात्रतत्परः सन्नयाज्यमपि याजयति स एवमुच्यते। मीमांसकदुर्दुरूढः। "दुलउत्क्षेपे"(चुoउo16000)। दुर्‌पूर्वः। औणादिकः कूढः प्रत्ययः। "बहुलमन्यत्रापि" इति णिलुक्। रलयोरेकविषयत्वस्मरणाद् दुर्दुरूढः। प्रवृत्तिनिमित्तकुत्सायां किम्?(वैयाकरणो दरिद्रः।
(अष्टाoसूo2-1-54)
पापाणके कुत्सितैः (अष्टाoसूo2-1-54)। एते सुबन्ते कुत्सितैः सहप्राग्वत्। पापामकशब्दौ कुत्सनाभिधायिनौ। तयोः पूर्वसूत्रेण समासे परनिपातः स्यात्। तस्मात्पूर्वनिपातार्थमिदम्। पापनापितः। पापकुलालः। अणकनापितः अणककुलालः।
(अष्टाoसूo2-1-55)
उपमानानि सामान्यवचनैः(अष्टाoसूo2-1-55)। उपमानेपमेयसाधारणधर्मवचनैः सहोपमानानि प्राग्वत्। घनश्यामः। इह पूर्वपदं तत्सदृशे लाक्षणिकम्। अत एव सामानाधिकरण्यात् `मृगीव चपला नृगचपला' इत्यादौ पुंवद्भावः। सादृश्यं चोत्तरपदोपस्थितश्यामत्वचापलादिद्वारकमेव गृह्यते, तथैव ब्युत्पत्तेः, श्रुतं विहायाश्रुतकल्पने गौरवापत्तेश्च। अत एव हि व्यस्तेऽपि `वागर्थाविव' इत्यादिस्थले सम्पर्कप्रभृतिसन्निहितद्वारकमेव सादृश्यं प्रतीयते। पूर्वनिपातनियमार्थं चेदं सूत्रम्। "विशेषणं विशेष्येण'(अष्टाoसूo2-1-57)इति समासे हि पूर्वनिपातः पर्यायणोभयोः स्यात्पाचकपाठकादिवत्। "तत्पुरुषे तुल्यार्थ"(अष्टाoसूo6-2-2)इति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम्। अत एव मयूरव्यंसकादित्वात्समासे उपमानस्वरो न प्रवर्तते इति सिद्धान्तः। उपमीयतेऽनेनेत्युपमानम्। उपपूर्वकान्माङः करणे ल्युट्। प्रादिसमासः। उपपूर्वकश्च माङ् सादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्। तद्वद्गौरिव गवय इति। इह हि गौः करणं पुरुषः परिच्छेत्ता। स हि गौसादृश्येन गवयं परिच्छिनति। घनश्यामादौ तु घनादयः शब्दा यद्यपि घनादिसदृशे उपमेये संक्रान्तास्तथापि भूतपूर्वगत्या उपमानवाचिता द्रष्टव्या। इदमेव दर्शयितुं लौकिके विग्रहवाक्ये इवशब्दः प्रयुज्यते न त्वसौ प्रकियोपयोगीत्यवधेयम्। सामान्यवचनत्वमपि तद्विशिष्टोपमेयपरत्वमेव बोध्यम्।
(अष्टाoसूo2-1-56)
उपमितं व्याघ्रादिभिः सासान्याप्रयोगे(अष्टाoसूo2-1-56)। उपमेयं व्याघ्रादिभिः सह प्राग्वत् साधारणधर्मप्रयोगेऽसति। विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः। पुरुषो व्याघ्र इव पुरुषव्याघ्रः। व्याघ्रादिराकृतिगणः। सामान्याप्रयोगे किम्? पुरुषोऽयं व्याघ्र इव शूरः। कथं तर्हि "भाष्याब्धिः क्वातिगम्भीरः" इति कैयटः? अत्राहुः-नेह गम्भीर्यं साधारणधर्मत्वेन विवक्षिते किन्तु विततदुरवगाहत्वादि। तस्य चाप्रयोगोऽस्त्येवेति निर्बाधः समास इति।
(अष्टाoसूo2-1-57)
विशेषेणं विशेष्येण बहुलम्(अष्टाoसूo2-1-57)। भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत्। नीलमुत्पलं निलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यसमासः। कृष्णसर्पः। लोहितशालिः। क्वचिन्न, रामो जामद्ग्न्यः। व्यासः पाराशर्यः। विशेषणविशेष्ययोः ससम्बन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसम्भवे उभयोपादानं स्पष्टार्थं 'कुत्सितानि कुत्सनैः"(अष्ट्oसूo2-1-53)इत्यादाविवेति कैयटमतम्। हरदत्तस्त्वाह-विशेष्येणेत्युक्त्या विशेषणं लब्धम्। तस्य पुनर्विशेषणत्वोक्तिर्विशेष्यते इति व्यत्पत्त्या विशेष्यत्वलाभार्थं, तथाच समस्यमानपदद्वयजन्यबोधप्रकारयोः परस्परव्यभिचारित्वे समासोऽयं यथा नीलोत्पलादौ। तक्षकः सर्प इत्यादौ तु न भवति। नहि तक्षकत्वं सर्पत्वव्यभिचारीति। अत्रेदं वक्तव्यम्-`शब्दशास्त्रसहकारपादपाद्' इति प्रयुञ्जानेन प्रकृतसूत्र एव शिंशपावृक्ष इति समासो भवत्येवेति वदता त्वयाऽपि शिंशपावृक्षादिभ्यस्तक्षकः सर्प इत्यादौ विशेषो वक्तव्यः। ननूक्त एवासौ, "लुब्योगाप्रख्यानात्'(अष्टाoसूo1-2-54)इतिसूत्रस्वरसेन शिंशपादिशब्दानां फलेऽपि मुख्यतया शिंशपात्वस्य वृक्षत्वव्यभिचारादित्युपपादितत्वादिति चेत्? न, "तक्षको नागवर्धक्योः"(अoकोo3-3-4)इति नानार्थकोशानुरोधेन तक्षकशब्दस्यापि वर्धकौ रूढतया तक्षकत्वस्य सर्पत्वव्यभिचार इत्यविशेषात्। तक्षकत्वं सर्पत्वव्याप्यं भिन्नमेव। तच्च न व्यभिचारीति चेत्? तत्किं शिंशपात्वं वृक्षत्वफलत्वयोर्व्याप्यं नानेति न पर्यालोचयेः। किञ्च `रामो जामदग्न्यः' `अर्जुनः कार्तवीर्यः' इत्यादि प्रकृतसूत्र एव वृत्तौ प्रत्युदाहृतम्। तत्र यदि रामत्वमर्जुनत्वं च दाशरथिधनञ्जयादिव्यावृत्तं भिन्नमेव तच्च व्याप्यमित्याशयस्तर्हि समं शिंशपात्वे। अथ शिंशपात्वं फलवृक्षयोरेकं तर्हि नानार्थोच्छेदः तक्षकरामार्जुनादावतिप्रसङ्गश्च। ुभयसाधारणजातिसाधकं नास्तीत्यादि तु तुल्यमेव। तस्मादिह कैयटमतमेव प्रामामिकमित्यवदेयम्। अत एव `कैलासाद्रिः' `मन्दराद्रिः' `भावपदार्थः' `तर्कविद्या' `व्याकरणशास्त्रम्' इत्यादयः प्रयोगास्सङ्गच्छन्ते।
इदं त्ववधेयम्। विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्यवस्थितः पूर्वनिपातः प्राप्तः। तत्रायं सिद्धान्तः। उपसर्जनमिति तावदन्वर्थसंज्ञेत्युक्तम् `अप्रधानमुपसर्जनम्' इति। तदिह जातिगुणशब्दयोः सन्निपाते गुण एव विशेषणं तस्य द्रव्यावच्छेदद्वारैव क्रियानिर्वर्तकत्वात्। श्रौतव्यवहारोऽप्येवम्। "श्वेतं छागमालभेत" इति हि चोदनायां श्वेतच्छागालाभे कृष्णच्छाग आलभ्यते न तु श्वेतमपि पश्वन्तरम्। क्रियाजात्योरप्युपनिपाते एवमेव। तेन `नीलोत्पलं' `पाचकब्राह्मणः' इति व्यवस्थित एव प्रयोगः। यत्र तु गुणशब्दयोः क्रियाशब्दयोः गुणक्रियाशब्दयोर्वोपनिपातस्तत्रानियम एव। `खञ्जकुब्जः, कुब्जखञ्जः'। `पाचकपाठकः, पाठकपाचकः'। `खञ्जपाचकः, पाचकखञ्जः' इति। `शिंशपावृक्षः' इत्यत्र तु शिंशपात्वस्य व्याप्यत्वात् वृक्षत्वस्य च व्यापकत्वात् विशेषणविशेष्यभावव्यवस्था स्पष्टैवेति दिक्।
(अष्टाoसूo2-1-58)
पूर्वापरपथमचरमजघन्यसमानमध्यमध्यमवीराश्च(अष्टाoसूo2-1-58)एते सुबन्ताः समानाधिकरणेन सुपा सह प्राग्वत्। पूर्वेणैव सिद्धे पूर्वनिपातनियमार्थमिदम्। गुणक्रियाशब्दैः सह समासे पूर्वादीनामेव पूर्वनिपातो यथा स्यात्। पूर्ववैयाकरणः। अपराध्यापकः। इत्यादि। अपरश्चासावर्द्धश्च पश्चार्द्धः। "पश्चात्"(अष्टाoसूo5-3-32)इति सूत्रे पठिष्यमाणेन "अर्द्धेच"(काoवाo)इति वार्तिकेनापरस्य पश्चभावः।
पश्चार्द्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्।
इति कालिदासः। अथ कथं "दृतं सराजन्यकमेकवीरः" इति? इह हि "पूर्वकालैक'(अष्टाoसूo2-1-49)इति बाधित्वा परत्वादनेन समासे `वीरैकः' इति स्यात्। सत्यम्, पूर्वविप्रतिषेधोऽत्र वक्तव्य इति दुर्घटवृत्तिकारादयः। न त्वत्रोपष्टम्भकं मुनित्रयवचः पश्यामः। बहुलग्रहणं वा शरणीकर्त्तव्यम्।
(अष्टाoसूo2-1-59)
श्रेण्यादयः कृतादिभिः(अष्टाoसूo2-1-59)। अर्थः प्राग्वत्। श्रेण्यादिषु च्व्यर्थवचनम्। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः। एकेन शिल्पेन पण्येन वा येजीवन्ति तेषां समूहः श्रेणि। श्रेण्यादयः पठ्यन्ते। कृतादिराकृतिगणः। च्व्यन्तानां तु "कुगति"(अष्टाoसूo2-2-18)इति नित्यं समासः परत्वात्। श्रेणि, एक, पूग, मुकुन्द, राशि, विषय, निचय, निधन, इन्द्र, देव, मुण्ड, भूत, श्रवण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, कृपम, इति श्रेण्यादिः।
(अष्टाoसूo2-1-60)
क्तेन नञ्‌विशिष्टेनानञ्(अष्टाoसूo2-1-60)। नञ्‌मात्राधिकेन क्तान्तेनानञ् क्तान्तं समस्यते स तत्पुरुषः। कृतं च दतकृतं च कृताकृतम्। एकमेव वस्तु एकदेशकरणात्कृतमेकदेशान्तरस्याकरणाच्चाकृतमित्युच्यते। पीतापीतम्। उदितानुदितम्। नुडिडाधिक्येऽपीष्यते। अशितानशितम्। क्लिष्टाक्लिशितम्। नुडिड्‌ग्रहणमर्थाभेदकस्य विकारस्याप्युपलक्षणम्। "शाच्छोरन्यतरस्याम्"(अष्टाoसूo7-4-41)छाताच्छितम्। पूर्वनिपातनियमार्थं सूत्रारम्भः।
कृतापकृतादीनामुपसंख्यानम्(काoवाo)। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। भावेक्तः। तत् क्षणभुवा प्रत्यागमनेन सहचरितं गमनं गतप्रत्यागतम्। यातं च तदनुयातं च तदानीमेव पुनर्गमान्त यातानुयातम्। क्रयाक्रयिका। "अल्पे"(अष्टाoसूo5-3-85)इति कप्रत्ययः। तदन्तश्च स्वभावात्स्त्रियाम्। "अन्येषामपि दृश्यते"(अष्टाoसूo6-3-137)इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते, गोबलीवर्द्दन्यायात्। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति।
समानाधिकरणाधिकारे शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्(काoवाo)। शाकप्रियः पार्थिवः शाकपार्थिकवः। पृथिव्या ईश्वरः। "तस्येश्वरः"(अष्टाoसूo5-4-42)इत्यञ्। लक्षणया सिद्धे उत्तरपदलोपो नोपसंख्येय इत्याहुः।
(अष्टाoसूo2-1-61)
सन्महत्वरमोत्तमोत्कृष्टाः पूज्यमानैः(अष्टाoसूo2-1-61)। एते पूज्यमानैः सह प्राग्वत्। गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम्। सत्पाठकः। महावैयाकरणः। इत्यादि। पूज्यमानैः किम्? उत्कृष्टो गौः। कर्दमादुद्धूत इत्यर्थः। `महाजनः' `महोदधिः' `महापापम्' इत्यादौ तु पूजाभावेऽपि "विशेषणं विशेष्येण"(अष्टाoसूo2-1-57)इति समासः।
(अष्टाoसूo2-1-62)
वृन्दारकनागकुञ्जरैः पूज्यमानम्(अष्टाoसूo2-1-62)। एतैः समानाधिकरणैः पूज्यमानं प्राग्वत्। व्याघ्रादेराकृतिगणत्वादेव सिद्धे पूज्यमानमेवेति नियमार्थं वचनम्। गोवृन्दारकः। गोनागः। गोकुञ्जरः। नेह-माणवकोऽयं नागः यस्मान्मूर्ख इति। केचित्तु सामान्यप्रयोगे विध्यर्थमिदमित्याहुः।
(अष्टाoसूo2-1-63)
कतरकतमौ जातिपरिप्रश्ने(अष्टाoसूo2-1-63)। एतौ समर्थेन सह प्राग्वत्। कतरकठः। कतमकलापः। 'गोत्रं च चरणैः सह"(भाoश्लोoवाo)कतमशब्दसाहचर्यात्कतरशब्दस्यापि तथाविधस्यैव ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापकं कतमशब्दोऽप्यन्यत्र साधुरिति। तथा च चिरन्तनवृत्तिषु प्रत्युदाहृतं कतरो भवतोर्देवदत्तः। कतमो भवतां देवदत्त इति।
(अष्टाoसूo2-1-64)
किं क्षेपे(अष्टाoसूo2-1-64)। एतत्समानाधिकरणेन सह प्राग्वत्। किंराजा, यो न रक्षति। किंसखा, यो द्रुह्यति। किङ्गौः, यो न वहति। "किमः क्षेपे"(अष्टाoसूo5-4-70))इति समासान्तप्रतिषेधः। क्षेपे किम्? को राजा पाटलिपुत्रे।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रावक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः(अष्टाoसूo2-1-65)। नपुंसकं पोटा इति हरदत्तः। अमरस्तु-"पोटा स्त्रीपुंसलक्षणा'(अoकोo2-6-15)इति नपुंसकपर्यायेभ्यः पृथगेवाह। स्तनस्मश्र्वादियुक्ता स्त्री पोटेति तद्व्याख्यातारः। उभयथापि शास्त्रीयस्त्रीत्वविशिष्टे पोटाशब्दो वर्ततते। यथा शास्त्रीयपुंस्त्वविशिष्टे दारशब्दः। गृष्टिरेकवारप्रसूता। धेनुः प्रत्यग्रप्रसवा। वशा वन्ध्या। वेहद् गर्भघातिनी। वष्कयणी तरुणवत्सा। पोटादिभिः सह जातिः प्राग्वत्। इभपोटा। इभयुवतिः। अग्निस्तोकः। उदिश्विवत्कतिपयम्। गोगृष्टिः। गोधेनुः। गोवशा। गोवेहत्। गोबष्कयणी। कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः। कठधूर्त्तः। जातिः किम्? देवदत्तः प्रवक्ता। ` कठधूर्त्तः' इत्यत्र यः कठः स धूर्त इत्यर्थो न तु कठत्वं कुत्स्यते। अतः "कुत्सितानि कुत्सनैः"(अष्टाoसूo2-1-53)इत्यनेन गतार्थता न शङ्क्या, प्रवृत्तिनिमित्तकुत्सायां तत्प्रवृत्तेः। कथं तर्हि "जनयति कुमुदभ्रान्तिं धूर्तबको बालमत्स्यानाम्" इति। बकधूर्त इति हि युक्तम्? सत्यम्, प्रमाद एवायमिति प्रामाणिका-।
(अष्टाoसूo2-1-66)
प्रशंसावचनैश्च(अष्टाoसूo2-1-66)। प्रशस्तवाचिभिः समानाधिकरणैः सह जातिः प्राग्वत्।
"मतल्लिका मचर्चिका प्रकाण्डमुद्‌घतल्लजौ
"प्रशस्तवाचकान्यमूनि"(अoकोo1-4-27)इत्यमरः। नियतलिङ्गा एते न तु विशेष्यनिघ्नाः। गोमताल्लिका। गोमचर्चिका। गोप्रकाण्डम्। गवोद्घः। गोलल्लजः। प्रशस्ता गौरित्यर्थः। जातेः पूर्वनिपातार्थं सूत्रम्। प्रशंसावचनपोटायुवतीत्येकयोगसम्भवे योगविभागस्य प्रयोजनं चिन्त्यम्। जातिः किम्? कुमारी मतल्लिका। प्रशंसयेति वक्तव्ये वचनग्रहणं रूढिशब्दपरिग्रहार्थम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये च जातिशब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति, सिंहो माणवक इत, ते सर्वे व्युदस्ताः।
(अष्टाoसूo2-1-67)
युवाखलतिपलितवलिनजरतीभिः(अष्टाoसूo2-1-67)। जरद्भिरिति पाठान्तरम्। तवाद्यपाठे युवशब्देन जरत्याः सामानाधिकरण्यासम्भवात्तदन्यथानुपपत्त्या "प्रातिपदिकग्रहणे लिङ्गविशिष्ठस्यापि"(पoभाo73)इति परिभाषा ज्ञाप्यते। तथाच युवयुवतिशब्दयोर्द्वयोरपि खलत्यादिभिश्चतुर्भिरुभयलिङ्गैः समानाधिकरणैः सह समासे अष्टौ उदाहरणानि पर्यवस्यन्ति। तथाहि, युवा खलतिः युवखलतिः। युवतिः खलती युवखलती। "कृदिकारादक्तिनः"(काoवाo) "सर्वतोऽक्तिन्नर्थादित्येके"(काoवाo)इति ङीष्। युवपलितः। युवपलिता। युववलिनः। युववलिना। वलिशब्दः पामादिः। युवजरन्। युवजरती इति। जीर्यतेरतृन्। "उगितश्च'(अष्टाoसूo4-1-3)इति ङीप्। युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्सामानाधिकरण्यम्। यत्तु एवं सति पुंस्येव स्त्रीत्वारोपेण जरतीसामानाधिकरण्यं सम्भवतीति परिभाषाज्ञापनं कथमिति हरदत्तेनोक्तं, तत्रेदमुत्तरम्। आरोपं विनोपपत्तौ किं तेन? नहि एकमगत्या आरोपितमिति सर्वमेवारोपणीयम्, लक्ष्यानुरोधेन परिभाषज्ञापनस्यैवौचित्यात्। "कुमारः श्रमणादिभिः'(अष्टाoसूo2-1-70)इति वा ज्ञापकमस्तु, श्रमणादिषु स्त्रीलिङ्गानामेव वहूनां पाठात्। अश्वादिभ्यः फञ्विधौ "पुंसि जाते'(गoसूo)इति गणसूत्रे पुंसीत्युक्तिर्ज्ञापिकेति तु तत्त्वम्। युवशब्दस्य पूर्वनिपातनियमार्थं वचनम्। अनियमो हि प्रसक्तः, गुणशब्दत्वात्।
(अष्टाoसूo2-1-68)
कृत्यतुल्याख्या अजात्या(अष्टाoसूo2-1-68)। कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्चाजातिवचनेन सह प्राग्वत्। भोज्योष्णम्। भोज्यलवणम्। तुल्यश्वेतः। सदृशश्वेतः। पूर्वनिपातनियमार्थं वचनम्। अजात्येति किम्? भोज्य ओदनः। प्रतिषेधसामर्थ्याद्विशेषणमित्यपि न भवति। `तुल्यमहान्' इत्यादौ तु परत्वादनेन "सन्महत्"(अष्टाoसूo2-1-61) इति बाध्यते। तस्य तु अकृत्यतुल्याख्या अवकाशः। कथं तर्हि "तस्य सत्कृत्यशालिनः" इति भट्टिः? "सन्महत्"(अष्टाoसूo2-1-61)इत्यस्मात्परत्वादनेन समासे `कृत्यसत्' इति स्यात्। सत्यम्, सतां कृत्यमिति षष्ठीसमासो बोध्यः। एवं `परमपूज्यः' इत्यत्र।
(अष्टाoसूo2-1-69)
वर्णो वर्णेन(अष्टाoसूo2-1-69)। समानाधिकरणेन सह प्राग्वत्। कृष्णसारङ्गः। सारङ्गश्चित्रः। स चाकृष्णोऽपि सम्भवति। अतः कृष्णो विशेषणम्। न चासम्भवः, नानारूपसमाहारश्चित्रमित्यभ्युपगमात्। चित्रत्वं रूपत्वव्याप्यं निलत्वादिविरुद्धं जात्यन्तरमेवेति पक्षे तु कृष्णावयवके कृष्णशब्दस्य लक्षणा बोध्या।
स्यादेतत्। "तृतीया तत्कृता"(अष्टाoसूo2-1-30)इतीह सिद्धम्, सारङ्गत्वस्य कृष्णादिकृतत्वात्। एवञ्च "वर्णेषु"(अष्टाoसूo6-2-3)इति पूर्वपदप्रकृतिस्वरोऽपि न विधेयः "तत्पुरुषे तुल्यार्थतृतीया"(अष्टाoसूo6-2-2)इत्येव गतार्थत्वात्। मैवम्, `कृष्णशुक्लः' `हरितशुक्ला' इत्याद्यर्थं समासस्यावश्यंविधेयत्वात्। न हीह तत्कृतत्वमस्ति। तथा स्वरसुत्रमप्युभाभ्यां वक्तव्यम्। इह मा भूत् कृष्णैतः, लोहितैतः, इति। तथा चानेन इति निषेधार्थं विध्यर्थं वेति परं संशयः। तत्र कृष्णशुक्लादौ विध्यर्थमेवेति स्थितम्। प्रतिपदोक्तस्य समासस्य ग्रहणसम्भवात्स्वरसूत्रे "वर्णोनेत" इत्येवास्तु वर्णोष्विति न कर्तव्यमिति तुत्त्वम्। वस्तुतस्तु "वर्णो वर्णेषु"(अष्टाoसूo6-2-2)इति यथान्यासमस्तु। प्रकृतसूत्रमेव तु न कर्तव्यं "विशेषणं विशेष्येण"(अष्टाoसूo2-1-57)इत्येव समासस्य सिद्धत्वादिति ध्येयम्।
मत्वर्थीयचिकीर्षायां न कर्मधारय इति वक्तव्यम्।। वीरपुरुषवान् ग्राम इति मा भूत्। तथाच प्रथमत एव मत्वर्थविवक्षया बहुव्रीहिरेव भवति। न्यायसिद्धं चेदमिति भाष्यम्। बहुव्रीहिमात्रेण लभ्येऽर्थे मतुबादेर्गौरवपराहतत्वात्। कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः इत्यादि तु भवत्येव, कर्मधारयं विना जातिविशेषस्याप्रतीतेः। सर्वशब्दस्य त्वकारान्तैः कर्मधारय इष्यते। तस्माच्च ठनं बाधित्वेनिरेवेति वक्तव्यम्। सर्वधनी। सर्वबीजी। सर्वकेशी।
(अष्टाoसूo2-1-70)
कुमारः श्रमणादिभिः(अष्टाoसूo2-1-70)। पूर्वनिपातनियमार्थं सूत्रम्। येऽत्र स्त्रीलिङ्गाः पठ्यन्ते-श्रमणः, प्रव्रजिता, कुलटा इत्येवमादस्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते। ये तु पुंल्लिङ्गा अध्यापकादयस्तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्। कुमारी श्रमणा कुमारश्रमणा। श्रमणा। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण।
(अष्टाoसूo2-1-71)
चतुष्पादो गर्भिण्या(अष्टाoसूo2-1-71)। जातिरिति मण्डूकप्लुत्यानुवर्तते चतुष्पाज्जातिवाचिनः सुबन्ता गर्भिणीशब्देन सह प्राग्वत्। गोगर्भिणी। अजगर्भिणी। जातिः किम्? कालाक्षी गर्भिणी। चतुष्पात्किम्? ब्राह्मणी गर्भिणी। गर्भिणीशब्दस्य परनिपातार्थं वचनम्। प्रत्युदाहरणे तु "विशेषणम्"(अष्टाoसूo2-1-57)इति समासे पूर्वनिपातो बोध्यः।
(अष्टाoसूo2-1-72)
मयूरव्यंसकादयश्च(अष्टाoसूo2-1-72)। एते समुदाया निपात्यन्ते। चकारोऽवधारणार्थः समासान्तरं व्यावर्तयति। व्यंसको धूर्तः। मयूरश्चासौ ब्यंसकश्चेति विग्रहः। व्यंसकशब्दस्य गुणवचनत्वात्पूर्वनिपाते प्राप्ते वचनम्। एवं छात्राव्यंसकादीनां यवनमुण्डपर्यन्तानाम्।
अन्ये त्वाहुः-मयूर इव व्यंसकः। छात्र इव व्यंसकः। कम्बोज इव मुण्डः। यवन इव मुण्डः। उपमानसमासोऽयम्। तत्र--"उपमानानि सामान्यवचनैः"(अष्टाoसूo2-1-55)इत्येव सिद्धे पुनर्विधानं "तत्पुरुषे तुल्यार्थतृतीया"(अष्टाoसूo6-2-2)इति पूर्वपदप्रकृतिस्वरो मा भूदिति। स ह्‌युपमानसंशब्दनेन विहिते समासे विधीयते। मयूरव्यंसकः। छात्रव्यंसकः। कम्बोजमुण्डः। यवनमुण्डः। पादगृह्य, हस्तगृह्य, लाङ्गूलगृह्य, पुनर्दाय, एते चत्वारश्च छन्दसि। यत्प्राक्षिमाः पितरं पादगृह्य। अग्निर्होता हस्तगृह्या निनाय। पुनर्दाय ब्रह्मजायाम्। पुनश्च नसौ छन्दसीति गतिसंज्ञा तु वार्तिककारोक्ता न तु सूत्रारूढेति गणकारेणेदं पठितम्।
एहीडादयोऽन्यपदार्थे(गoसूo)। एहीडेति यस्मिन्कर्मणि तदेहीडम्। एवम् एहियवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा। एवम् अपेहिवाणिजा। प्रेहिवाणिजा। एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता। "ऊह वितर्के(भ्वाoआo641)लोण्मध्यमैकवचनम्। प्रोहकरटमिति यस्यां सा प्रोहकरटा। निपातनात्परस्मैपदम्। प्रोहकटा। प्रोहकर्दमा। उद्धरटूडा। आहरवसना। आहरवनिता। कृन्तविचक्षणा। "कृती छेदने"(तुoपo1435)लोट् सेर्हिः। मुचादित्वान्नुम्। कृन्त विचक्षण इति यस्यां क्रियायां सेत्यर्थः। गणरत्ने तु कृन्धि विचक्षणेति पाठः। तत्र "कृती वेष्टने"(रूoपo1447)इति रुधादिर्बोध्यः। उद्धरकोष्ठात् उत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा। "आख्यातमाख्यातेन"(गoसूo)इति सिद्धे असातत्यार्थं वचनम्। एवम्-उद्धमविधमा। उत्पच निपचा। उत्पतनिपता। इहैषांसमासानामन्यपदार्थे स्त्रीलिङ्गत्वाट्टाप्। एवमग्रेऽपि उदक् च अवाक् च उच्चावचम्। उच्चैश्च नीचैश्चोच्चनीच्चम्। आचितं चोपचितं च आचोपचम्। आचपचम्। निश्चितं च प्रचितं च निश्चप्रचम्। एते सर्वे निपात्यन्ते। न विद्यते किञ्चन यस्यासावकिञ्चनः। सकिञ्चनः। स्नात्वाकालकः। इह समासान्तोदात्तत्वं ल्यषभावश्च निपात्यते। समानकर्तृकत्वं तु अन्तर्भूतक्रियापेक्षं बोध्यम्, स्नात्वाकालकः संपन्न इत्यर्थावगमात्। पीत्वास्थिरकः। भुक्त्वासुहितः। प्रोष्य पायान् उत्पत्य या कला उत्पतनं कृत्वा या पाण्डुर्भवति सोच्यते हस्तिज्वरः पाकलः। तद्विशेषस्तु कूटपाकलः "कलभं कठोर इव कूटपाकलः" इति भवभूतिप्रयोगात् हस्तिशास्त्रे तथादर्शनाच्येत्यन्ये। निपत्यरोहिणी। निषद्यश्यामा। अपेहिप्रणमा।
जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति(काoवाo)। जहीति लोण्मध्यमैकवचनान्तम्। तत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ताभिधीयते। जहिजोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। जहस्तम्बः। उज्जहिस्तम्बः।
आख्यातमाख्यातेन क्रियासात्ये(गoसूo)। अश्नीतपिबतेत्येवं यत्र सततमभिधीयते साऽश्नीतपिबता। एवं पचतभृज्जता। खादतमोदता। खादतवसता। अहरनिचया। आहरनिष्कषा। उत्पचनिपचा। भिन्धिलवणा। भिन्धि लवणमिति यस्यामभिधीयते सा क्रिया तथा। एवं पचलवणा। आकृतिगणोऽयम्। तेनान्येपि ज्ञेयाः। तत्र केचिद्गणरत्नकृता संगृहीताः। तद्यथा-नास्ति कुतोपि भयं यस्य सः अकुतोभयः। कान्दिशं गच्छामीति य आह स कान्दिशीकः। गणपाठसामर्त्यादीकण् द्वीतीयाया अलुक्च। "कान्दिशीको भयद्रुतः"(अoकोo3-2-42)इत्यमरः। अहोपुरुषोऽहमिति यो तस्य भाव आहोपुरुषिका। मनोज्ञादित्वाद्‌वुञ्। अहं शक्तोऽहं शक्त इति यस्यां साहमहमिका। या इच्छा अभिप्राय इति यदृच्छा। एहिरेपाहिरा। एहि रे पाहि रे इति यस्यां सा तथेत्यर्थः। गणपाठादात्वम्।
एहिरां पाहिरे नीता येन निश्चप्रचा अपि।
तत्कर्म दग्धुं सेवेथा गोविन्दमकुतोभयम्।।
उन्मृड्‌ढि अवमृड्‌ढीति यस्यां सा उन्मृजावमृजा। अत एव निपातनादनयोरिहैव साधुत्वम्। अन्यद् द्रव्यं द्रव्यान्तरम्। अन्तरशब्दो भिन्नवाची। भिन्नश्चाभेदेन सम्बन्धेन पूर्वपदार्थे विशेषणम्। पूर्वपदजन्यबोधप्रकाराश्रयप्रतियोगित्वं भेदे व्युत्पत्तिसिम्। अवश्यकार्यम्। तदेव तन्मात्रम्। "मात्रं कार्त्स्न्येऽवधारणे"(अoकोo3-3-177)इत्यादि।
।। इति श्रीशब्दकौस्तुभे द्वितीयाध्यायस्य प्रथमे पादे तृतीयमान्हिकम्।। पादश्चायं समाप्तः।।