शब्दकौस्तुभः/अध्यायः २-पादः ४/आह्निकम् २

← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]

।। चतुर्थे पादे द्वितीयमान्हिकम् ।।
(पाoसूo2-4-62)
तद्राजस्य बहुषु तेनैवास्त्रियाम्। (पाoसूo2-4-62)।। बहुष्वर्थेषु विद्यमानस्य तद्राजस्य लुक् स्यात्तेनैव लुग्भाग्जातीयेनैव कृते चेद्वहुत्वं, न तु स्त्रियाम्। अङ्गाः। वङ्गाः। सुह्याः। पुण्ड्राः। मगधाः। "ते तद्राजाः"(पाoसूo4-1-174)इत्यञादीनामिह संज्ञा। लोहध्वजाः। व्रीहिमताः। इह तु "ञ्यादयस्तद्राजाः"(पाoसूo5-3-119)इति। तद्राजस्येति किम्? औपगवाः। राघवाः। यादवाः। कथन्तर्हि "रघूमामन्वयं वक्ष्ये" इति "निरुध्यमाना यदुभिः कथंचित्" इति च?
उच्यते, रघ्वपत्ये रघुशब्दो लक्षमया वर्तते। एतच्च "बह्वच इञः"(पाoसूo2-4-66)इति सूत्रे पदमञ्जर्यां स्पष्टम्। नन्वेवं "परश्च"(पाoसूo3-1-2)इति सूत्रे `बभ्रुर्मण्डुर्लमक' इत्यादीनामपशब्दत्वपरं भाष्यं विरुध्येतेति चेत्? न, भाष्यस्य शक्तिभ्रमप्रयुक्तपरत्वात्। इष्येते हि गोणीशब्दस्य गोणीसादृश्यशक्तिभ्रमाभ्यां गवि प्रयुक्तस्य साधुत्वासाधुत्वे। एतेन-
सोऽयमित्यभिसम्बन्धात्तद्धितेन विना यदि।
बभ्वादयः प्रयुज्येरन्नपत्यनियमो भवेत्।।
इति हरिश्लोकोऽपि व्याख्यातः। बहुषु किम्? आङ्गः। वाङ्गः। तेनैव किम्? आङ्गदेवदत्तयज्ञदत्ताः। यद्यपीह बहुत्वमाङ्गेऽप्यन्वेति तथापि नेदं लुग्भाजोऽर्थ एव विश्रान्तम्, देवदत्तादिगतत्वात्। नन्वेवं "भार्गवश्च वात्स्यश्च आग्रायणश्च भृगुवत्साग्रायणाः" इत्यत्र लुङ् न स्यात्, उत्तरसूत्रेष्वपि तेनैवेत्यधिकारात्। आग्रायणे च नडादिफको लुगभावात्?
सत्यम्, तेनैवेत्यस्य तज्जादीयेनेति व्याख्यातत्वाददोषः। अपत्यतयेह साजात्यात्। यद्येवं `गार्ग्यश्च काश्यपश्च गालवश्च' इत्यत्र गालवे ऋष्यणो लुगभावेऽपि अपत्यतया साजात्याद्यञञोर्लुक्प्रसङ्गः।
अत्राहुः, लोप्यलोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। "भृगुवत्साग्रायणेषु" "अगार्ग्यकाश्यपगालवानाम्" इत्युमयथापि सूत्रनिर्द्देशात्। अस्त्रियां किम्? आङग्यः स्त्रियः।
स्यादेतत्, आङ्गस्यापत्यानि बहूनि-"अणो द्व्यचः"(पाoसूo4-1-156)इति फिञ्। तस्य "तद्राजाच्चाणः" इति गणसूत्रेण "अब्राह्मणगोत्रमात्रात्"(काoवाo)इति वार्त्तिकेन वा लुक्। अङ्गाः। बैदस्यापत्यानि बहूनि-"अत इञ्"(पाoसूo4-1-95)। "ण्यक्षत्रिय"(पाoसूo2-4-58)इति लुक्। बिदाः। अत्र यूनि बहुत्वान्वयेऽपि गोत्रस्य तद्राजवाच्यस्यैक्याल्लुङ् न स्यात्। किञ्च बिदानामपत्यं माणवकः बैदः, बैदौ। अत्र युवबहुत्वाभावेऽपि गोत्रबहुत्वादतिव्याप्तिः।
सत्यम्, "गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्" "एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि" इति वार्त्तिकद्वयेन सिद्धम्।
यद्वा, अव्याप्त्युद्धारः सूत्रेणापि सुकरः। तथाहि, तद्राजान्तं यद्वहुष्विति व्याख्यास्यामः। न चैव प्रतिकृतिबहुत्वेऽतिप्रसङ्गः, तेनैवेत्यस्य `लोपिप्रत्ययार्थजातीयेन' इत्यर्थात्। गोत्रयूनोरपत्यतया सजातीयत्वेऽपि प्रतिकृतेर्विजातीयत्वात्। नापि `बैदौ' इत्यत्रातिव्याप्तिः। "गोत्रेऽलुगचि"(पाoसूo4-1-89)इति सूत्रेण इञि विवक्षित एवालुक्‌प्रवृत्तेः। न च यून्युपसङ्‌क्रमानन्तरं पुनर्युवबहुत्व इव तद्रद्वित्वैकत्वस्थले लुकः प्राप्तिरस्ति युवबहुत्वे तु पुनर्लुक्। न च पुनरलुक् शङ्क्यः, "समर्थानां प्रथमात्'(पाoसूo4-1-82)इत्यधिकारात्। विभक्तिविपरिणामेन हि गोत्रप्रत्ययस्य प्रथमस्य अलुगित्यर्थः। प्राथम्यं च अर्थान्तरेऽनुपसङ्‌क्रान्तत्वम्। अथ एव `आत्रिभरद्वाजिका' इति सिद्ध्यति। अत्रेरपत्यानि "इतश्चानिञः"(पाoसूo4-1-122)इति ढक्। भरद्वाजस्यापत्यानि बिदाद्यञ्। तत उभयत्र युवबहुत्वे "अत इञ्"(पाoसूo4-1-95)तस्य "ण्यक्षत्रिय"(पाoसूo2-4-58)इति लुक्। ढको "अत्रिभृगु"(पाoसूo2-4-65)इति, अञो "यञञोश्च"(पाoसूo2-4-64)इति। ततो अत्रिभरद्वाजानां मैथुनिकेति द्वन्द्वाद् वुन्, तस्याकादेशः। यदि द्वितीयमर्थमुपसंक्रान्तस्यापि अलुक् स्यात्तदा इहाप्यञः स स्यात्। गोपवनादिगणे गर्गभार्गाविकाग्रहणं चेह ज्ञापकम्। गर्गशब्दाद्यञ्, तस्य लुक्। भृगुशब्दादृष्यण्, तदन्ताद्यूनि "अत इञ्"(पाoसूo4-1-95), तस्य लुक्। गर्गभृगूणां मैथुनिकेति वुन्। अत्रात्रिभृग्विति प्राप्तलुकं निषेद्‌धुं हि गोपवनादिषु पाठः। स च द्वितीयार्थोपसङ्क्रमेऽप्यलुगिति पक्षे व्यर्थः स्यात्।
इदं त्ववधेयम्, आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्वे आङ्गीशब्देन स्त्रीत्वयुक्तानामर्थानामभिधानात्तदणो लुक् न भवति। अन्यस्य तु स्यादेव। आङ्गीवङ्गसुह्मा इति। इह भाष्ये तेनैवेति प्रत्याख्यातम्। अतो गार्ग्यश्च चैत्रश्च मैत्रश्चेत्यत्रापि लुग्भवतीति प्रतीयते, तज्जातीयत्वस्यानुक्तेश्च। तथापि सूत्रसेषे "अथ यो लोप्यलोपिनां समास" इति भाष्यं व्याचक्षाणेन कैयटेन तेनैवेति वचनादलोपिसान्निदिकृतं बहुत्वमिति माकारि लुगित्युक्त्या तेनैवेत्यंशस्य भाष्याब्युपगतत्वं लभ्यते। अत एवाञन्तं यद्बहुष्विति पक्षे "काश्यपस्य प्रतिकृतयो बव्ह्यः काश्यपाः" इत्यत्रापत्यबहुत्वाभावान्मा भूत्। आङ्गस्य प्रतिकृतयो बव्ह्य इत्यत्र तु स्यादेव। इह गोत्रग्रहणाबावादित्याशङ्क्य तेनैव ग्रहमबलेन समाहितं हरदत्तेनेति ध्येयम्। ननु `आङ्गश्च'इत्यादिविग्रहे भाष्यादिसम्मतोऽपि लुक् दुरुपपादः, तद्राजान्तस्य बहुष्ववृत्तेरिति चेत्? न, अजहत्स्वार्थायांबहुषु वृत्तेः स्पष्टत्वात्। कथं तर्हि "सेयं दुःखा च" इत्यादि प्रागुक्तमिति चेत्? द्विवचनबहुवचनान्तैर्विग्रहो नेत्याशयेनेति गृहाण। तथाहि, लौकिके विग्रहवाक्ये स्वार्थमात्रवृत्तिता स्पष्टा। प्रक्रियावाक्येऽपि वृत्तिप्रवेशात्प्राक् प्रवृत्तमेकवचनं दुर्वारमेव। राजपुरुषादौ षष्ठ्यादिवत्। अथ कथं--
कौरव्याः पशवः क्रियापरिभवक्लेशोपशान्तिः फलम्।
इति वेणीसंवरणम्?
उच्यते, "कुरुनादिभ्यो ण्यः"(पाoसूo4-1-172)इति कौरव्यशब्दं व्युन्पाद्य "तत्र साधुः'(पाoसूo4-4-89)इति यत् कार्यः। एतेन "तस्यामेव रघोः पाण्ड्याः"(रoवंo4)इति व्याख्यातम्। "वृद्धेत्कोसल"(पाoसूo4-1-171)इत्यत्र "पाण्डोर्ड्यण्"(काoवाo)इत्युपसङ्ख्यानात् ड्यणस्तद्राजत्वेऽपि `पाण्ड्ये साधवः पाण्ड्याः' इति यत्प्रत्ययानतत्वेन साधुत्वनिर्वाहात्।
(पाoसूo2-4-63)
यस्कादिभ्यो गोत्रे(पाoसूo2-4-63)। एभ्यः परस्य गोत्रप्रत्ययस्य लुक् स्यात्। बहुषु तेनैवास्त्रियामित्यनुवर्तते। "गोत्रे कुञ्जादिभ्यश्चफञ्"(पाoसूo4-1-98)इतिगोत्रप्रत्ययप्रकरणं, ततोऽन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्। अपत्याधिकारे तु गोत्रग्रहणसामर्थ्यादेव पारिभाषिकस्य ग्रहणम्। यद्यपि कृत्रिमस्यैवाऽन्यत्र ग्रहणं प्राप्तं तथापि लौकिकस्य ज्ञापकं वक्ष्यते। तेनान्तरापत्येऽपि लुक्। यस्काः। लह्याः। बहुष्विति किम्? यास्कः। लाह्यः। स्त्रियां तु यास्काः स्त्रियः। गोत्रे इति किम्। यास्काः छात्राः। यस्क, लह्य, द्रुह्य, अयःस्थूण, तृणकर्ण, एते पञ्च शिवादिषु पठ्यन्ते। ततः परेभ्यः षड्भ्य इञ्। सदामत्त, कम्बल-1--1.`हार' इति कौमुद्याम्।-भार, अ-2--2.`बहिर्योग' `कर्णाढक' इति कौमुद्याम्।-हिर्योग, कर्णाटक, पिण्डीजङ्घ, बकसक्थ। ततः परेभ्यश्चतुर्भ्यः "शुभ्रादिभ्यश्च"(पाoसूo4-1-123)इति ढक्-3--3.`विश्रि' इति कौमुद्याम्।-बिस्ति, कुद्रि, अजवस्ति, मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख, जङ्घारथ, म-4.-4.`मथक' इति कौमुद्याम्।-न्यक, उत्कास, कटुक, पुष्करसत्,-5--5.`विषपुट' इति कौमुद्याम्।-विषपत्, उपरिमेखल, क्रोष्टुमान, क्रोष्टुपाद, क्रोष्टुमाय, शीर्षमाय। नन्विह पुष्करसदः पाठो व्यर्थः। स हि बाव्हादित्वादिञन्तः। "बव्हच इञ प्राच्यभरतेषु"(पाoसूo2-4-66)इत्येव सिद्धम्। न चायं प्राच्यो नेति भ्रमितव्यम्, तौल्वल्यादिष्वेतत्पाठस्य वौयर्थ्यापत्तेः। तस्य हि "इञः प्राचाम्"(पाoसूo2-4-60)इति प्राप्तस्य लुकः प्रतिषेधः फलम्।
अत्राहुः, "न गोपवनादिभ्यः"(पाoसूo2-4-67)इति प्रतिषेधं बाधितुमिहास्य पाठः। गोपवनादिगणे हि तौल्वल्यादय इति कैश्चित्पठ्यत एव। यैर्न पठ्यते तैरप्यत एव ज्ञापनात् तौल्वल्यादिप्रकृतिभागानां तुल्वलादीनां गोपवनाद्यन्तर्भावोनुमेय इति। -6--6.`खलप यदक वर्षुक भलन्दन भडिल भण्डिल भडित भण्डित' इति कौमुद्याम्।-खरपद, अस्य नडादित्वात्फक्। पदक। क्रमक। आभ्यामतइञ्। भलन्दत। अस्माच्छिवाद्यम्। भडिल। भडिक। भडिव। भण्डित। एभ्यश्चतुर्भ्यः "अश्वादिभ्यः फञ्"(पाoसूo4-1-110)
(पाoसूo2-4-64)
यञञोश्च(पाoसूo2-4-64)। गोत्रे यौ यञञौ तदन्तं यद्वहुषु तदवयवयोर्यञञोर्लुक् स्यान्न तु स्त्रियाम्। गर्गाः। वत्साः। बिदाः। उर्वाः। स्त्रियां तु गार्ग्यः स्त्रियः गोत्रे किम्? "द्वीपादनुसमुद्रं यञ्"(पाoसूo4-3-10)द्वैप्याः। "उत्सादिश्योऽञ्"(पाoसूo4-1-16)औत्साः। अथ कथं-`पौत्राः' बिदाद्यञन्तत्वात्?
उच्यते, अपत्याधिकारादन्यत्र लौकिकं गोत्रन्तच्चेऽह प्रवराध्यायप्रसिद्धम्। न च पौत्रादिस्तथा। इदं च "स्त्रीपुंसाभ्याम्'(पाoसूo4-1-87)इति सूत्रे कैयटेन स्फुटीकृतम्।
यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम्(काoवाo)। एकद्वयोरिति भावप्रधानो निर्द्देशः। गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलं, गार्ग्यकुलं वा। यञादीनां किम्? आङ्गकुलम्। एकद्वयोः किम्? गर्गाणां कुलं गर्गकुलम्। तत्पुरुषे किम्? गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठ्याः किम्? परमगार्ग्यः।
(पाoसूo2-4-65)
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यस्च(पाoसूo2-4-65)।। एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् बहुत्वे। अत्रिशब्दात् "इतश्चानिञः"(पाoसूo4-1-122)इति ढक्। इतरेभ्य ऋष्यण्। अत्रयः भृगव इत्यादि।
(पाoसूo2-4-66)
बव्हच इञः प्राच्यभरतेषु(पाoसूo2-4-66)।। बव्हचः परो य इञ् प्राच्यगोत्रे भरतगोत्रेच वर्त्तमानस्तस्य लुक् स्यात्। पन्नागाराः। मन्थरैषणा-। भरतापत्ये तु युधिष्ठिराः। अर्जुनाः। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वादिण्यापवादो बाव्हादिलक्षम इञ्। भरतापत्ये अभेदोपचाराद्भरतशब्दः। ते च भरताः प्राच्या एव। द्वन्द्वस्तु गोबलीवर्द्दन्यायेन। सामान्यविशेषवाचिनोर्वाचनिकद्वन्द्वनिषेधो यद्यप्युक्तस्तथापि तस्यानित्यता अनेनैव ज्ञाप्यते। तत्फलं तूक्तमेव। प्राग्‌ग्रहणेनैव सिद्धे भारतानां पृथगुपादानमन्यत्र प्राग्‌ग्रहणे एषां ग्रहणं नेति ज्ञापनार्थम्। तेन "इञः प्राचाम्"(पाoसाo2-4-60)इति लुक् भरतयुवप्रत्ययस्य न भवति। आर्जुनिः पिता, आर्जुनायनः पुत्रः।
(पाoसूo2-4-67)
न गोपवनादिभ्यः(पाoसूo2-4-67)।। एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात्। बिदाद्यन्तर्गणोऽयम्। स च हरितात्प्रागेव। तथा च वार्तिकम्-गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यः(काoवाo)इति। आगणान्ताद्ग्रहणे प्राप्ते हरितात्प्राक् वृत्करणं कर्त्तव्यमिति भावः। गौपवनाः। शैग्रवाः। नेह-हरिताः।
(पाoसूo2-4-68)
तिककितवादिभ्यो द्वन्द्वे(पाoसूo2-4-68)।। एभ्यो गोत्रप्रत्ययस्य बहुषु लुक् स्याद् द्वन्द्वे। यद्यपि द्वन्द्वरूपाण्येव गणे पठ्यन्ते तिकादीनि पूर्वपदानि कितवादिन्युत्तरपदानि, तथापि "तिकादिभ्यः"(पाoसूo4-1-154)इत्युक्तेः पूर्वपदेष्वेव लुगाशङ्‌क्येत। इष्यते तूत्तरपदेष्वपि। अतः `तिककितवादिभ्यः' इत्युक्तम्। तैकायनश्च कैतवायनयश्च "तिकादिभ्यः फिञ्"(पाoसूo4-1-154)। तस्य लुक्। तिककितवाः।
(पाoसूo2-4-69)
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे(पाoसूo2-4-69)।। एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् वा स्यात् द्वन्द्वे चाद्वन्द्वे च। सूत्रशेषस्य अद्वन्द्वे इत्यस्य तु द्वन्द्वग्रहणमिह नानुवर्त्तते इत्यर्थः। एषां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते। औपकायनाश्च लामकायनाश्च "नडादिभ्यः फक्"(पाoसूo4-1-99)। तस्य लुक्। उपकलमकाः। भ्राष्ट्रककपिष्ठलाः। कृष्णाजिनयः। कृष्णसुन्दराः। एषां पूर्वेण नित्यमेव लुक्। अद्वन्द्वे त्वनेन विकल्पः। उपकाः। औपकायनाः। लमकाः। लामकायनाः। भ्राष्ट्रकाः। भ्राष्ट्रकयः। कापिष्ठलाः। कापिष्ठलयः। कृष्णाजिनाः। कार्ष्णाजिनयः। कृष्णसुन्दराः। कार्ष्णसुन्दरयः। शेषणान्तु द्वन्द्वेऽपि विकल्प इति वृत्तिः। भाष्ये तु `भ्राष्ट्रकिकापिष्ठलयः' इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः।
(पाoसूo2-4-70)
आगस्त्यकौडिन्ययोरगस्तिकुण्डिनच्(पाoसूo2-4-70)।। एतयोरवयवस्य गोत्रप्रत्ययस्य अणो यञश्च बहुषु लुक् स्यात् अवशिष्टस्य प्रकृतिभागस्य यथासङ्ख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः। अगस्तयः। कुण्डिनाः। कुण्डिनीशब्दस्य यञि "भस्याढ"(काoवाo)इतिपुंवद्भावे "नस्तद्धिते"(पाoसूo6-4-144)इति टिलोपे `कौण्ड्यः' इति प्राप्तम्। अस्मादेव तु निपातनान्न पुंवत्। ईकारस्य "यस्य"(पाoसूo6-4-148)इति लोपः। तस्य स्थानिवत्त्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपो न। चकारः स्वरार्थः। मध्योदात्तो हि कुण्डिनीशब्दः। `कुण्डमस्त्यस्याः' इति मत्वर्थीयस्य इनेरुदात्तत्वात्। तदादेशोऽपि आन्तरतम्यात्तथा स्यात्। कथं तर्हि-
वासिष्ठकुण्डिनौ तद्वदुपमन्युपराशराः।
चतुर्णामेकगोत्रत्वान्न विवाहः परस्परम्।। इति?
उच्यते, नायं कुण्डिनजादेशः, किन्तु "कुडि दाहे"(भ्वाoआo271)इत्यस्मादौणादिके इनच्‌प्रत्यये उज्ज्वलदत्तादिभिर्व्युत्पादितः स्वतन्त्र एवायं शब्दः। अत एव "वासिष्ठमैत्रावरुणकौण्डिन्येति होता कुण्डिनवन्मित्रावरुमवद्वसिष्ठवदित्यध्वर्युः" इति बौधायनसूत्रं सङ्गच्छते। आपस्तम्बसूत्रमप्येवम्। एतेन-
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपा-।
इति मत्स्यपुराणप्रवराध्यायप्रयोगोऽपि व्याख्यात इति दिक्।
इह यदि लुकं निवर्त्य विशिष्टयोरेवादेशौ क्रियेते, तदा `कौण्डिनाः' इत्यस्य सिद्धावपि `आगस्तीयाः' इति न सिद्ध्यती। तथाहि, अगस्त्य शब्दादृष्यणि आगस्त्यः। ततो बहुवचनान्ताद्धृद्धाच्छे विवक्षिते "गोत्रेऽलुगाच"(पाoसूo4-1-89)इति लुक्‌प्रतिषेधः। प्रत्ययविशिष्टस्यागस्त्यादेशपक्षे तु तन्निषेधाभावाद्धृद्धत्वापगमे शैषिकोऽणेव स्यात्। उपपादितं चेदं "प्रत्ययस्य लुक्‌श्लु"(पाoसूo1-1-61)सूत्रे।
(पाoसूo2-4-71)
सुपो धातुप्रातिपदिकयोः(पाoसूo2-4-71)।। एतयोरवयवस्य सुपो लुक् स्यात्। पुत्रीयति। राजपुरुषः।
(पाoसूo2-4-72)
अदिप्रभृतिभ्यः शपः(पाoसूo2-4-72)।। एभ्यः शपो लुक् स्यात्। अत्ति। कथं तर्हि--
"वासुदेवं परित्यज्य योऽन्यं देवमुपासते" इति?
उच्यते, `अस गतिदीप्त्यादानेषु'(भ्वाoउo911)इति भ्वादेरुभयपदिनोरूपमिदम्, उपादत्ते इत्यर्थात्। अथ कथम् "आश्वसेयुर्निशाचराः" इति भट्टिः "न विश्वसेत्पूर्वाविरोधितस्य" इति च पञ्चतन्त्रम? पचाद्यजन्तादाचारक्विपि भविष्यति। "गणकार्यमनित्यम्" इति तु जयमङ्गला। तत्र ज्ञापकं तु "घटादयः षितः" इत्यत एव सिद्धे "क्षमूष् सहने"(भ्वाoआo443)इति षित्करणम्।।
(पाoसीo2-4-73)
बहुलं छन्दसि(पाoसूo2-4-73)।। छन्दसि बहुलं शपो लुक् स्यात्। वृत्रं हनति। अहिः शयते। अन्येभ्योऽपि भवति। त्राध्वं नो देवाः।।
(पाoसूo2-4-74)
यङोऽचि च(पाoसूo2-4-74)।। यङोऽच्‌प्रत्यये परे लुक् स्यात् चकाराद्वहुलमन्यत्रापि। लोलुवः। पोपुवः। पचाद्यच्। इदमेव अचि लुग्विधानं ज्ञापकं "सर्वदातुभ्यः पचाद्यच्" इति। बाहुलकात् `बेभिदीति' `चेच्छिदीति' इत्यादि। इह अजिति प्रत्याहारो न गृह्यते। तथाहि सति "अणि" इत्येवावक्ष्यत्, यङन्तादन्यस्याचोऽसम्भवात् इति हरदत्तः। न च `पापच्ये' इत्येवावक्ष्यत्, यङन्तादन्यस्याचोऽसम्भवात् इति हरदत्तः। न च `पापच्ये' `पापच्यै' इत्यत्र सम्भवः, शपा व्यवधानात्, एकादेशस्य स्थानिवद्भावात्। "लिटस्तझयोः"(पाoसूo3-4-81)इत्येशः सम्भवोस्तीति चेत्? न, आम्प्रसङ्गात्। यदि तु "अमन्त्रे" इति निषेधात् मन्त्रे कथंचित्तत्संभवस्तर्हि यङा साहचर्यादिति युक्त्यन्तरमन्वेषणीयम्।
(पाoसूo2-4-75)
जुहोत्यादिभ्यां श्लुः(पाoसूo2-4-75)।। एभ्यः शपः श्लुः स्यात्। जुहोति। मण्डूकप्लुत्येह शबनुवर्तते। न त्वनन्तरोपि यङ्, "श्लो"(पाoसूo6-1-10)इति सूत्रारम्भात्। अन्यथा यङो लुकीव श्लावपि "सन्यङोः"(पाoसूo6-1-9)इत्येव सिद्धे किं तेन?
(पाoसूo2-4-76)
बहुलं छन्दसि(पाoसूद2-4-76)।। दाति प्रियाणि। अन्येभ्यश्च भवति-पूर्णां विवष्टि। जनिमासंविविक्तः।
(पाoसूo2-4-77)
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु(पाoसूo2-4-77)।। एभ्यः सिचो लुक् स्यात्परस्मैपदेषु। इह मण्डूकप्लुत्या लुगनुवर्तते न त्वनन्तरोऽपि श्लुः, व्याख्यानात्। यद्यपि गामादाग्रहणेष्वविशेषस्तथापि `गाति' इति निर्द्देशादिह "इणो गा लुङि"(पाoसूo2-4-45)इत्यस्य ग्रहणम्। गादेशस्यैव ह्ययं श्तिपि शब्लुका निर्द्देशः।
ननु नायं गादेशः, लुङ्‌येव तद्विधानात्। सत्यम्, तथापि "प्रकृति वदनुकरणम्' इति स्थानिवद्भावातिदेशाच्छब्‌लुक्। "भवतेरः"(पाoसूo7-4-73)इत्यादौ तु अस्त्यादेशानुकरणे अतिदेशातिदेशेन प्राप्तोऽपि शब्‌लुक् "प्रकृतिवत्" इत्यस्यानित्यत्वान्नेत्यवदेयम्। हरदत्तस्तु स्थानिवद्भावात्। "प्रकृतिवदनुकरणम्" इति वा गातीत्यत्र शब्लुगिन्याह। तत्र शब्दस्यासङ्गतिः स्पष्टैव। वस्तुतस्तु "गापोर्ग्रहणे इण्‌पिबत्योः"(काoवाo)इति वार्तिकमेवात्र शरणम्। निर्द्देशादेव व्यक्तम्। लुग्विकरणग्रहणमिति तु भाष्ये प्रौढिवादमात्रम्, निर्देशस्य सन्दिग्धत्वात्। गायतेरपि हि सिचि कृतात्वस्यानुकरणं गातीति सम्भवत्येवेत्यवधेयम्। अगात्। अस्थात्। अदात्। अधात्। पिबतेरेवेह ग्रहणं न तु पातेः, "लिग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव"(पाoभाo)इति परिभाषया। अपात्। अभूत्। भूधातोः स्त्रतन्त्रस्यास्त्यादेशस्यचेदं रूपं तुल्यम्। न चादेशस्य लुग्विकरणत्वात्पातिवदग्रहः शड्क्य-। आर्धधातुकैकविषयतया हेतोः स्वरूपासिद्धेः गापोर्ग्रहणेन इणादेशपिबत्योरेव ग्रहममित्युक्तम्। नेह-`के गै रै शब्दे'। अगसीत्। `पा रक्षणे'। अपासीत्। "यप्ररम"(पाoसूo3-2-73)इतीट्सकौ। `पै शोषणे' इत्यस्यापि लाक्षणिकत्वादग्रहणं बोध्यम्। परस्मैपदेषु किम्? अगासातां ग्रामौ देवदत्तेन। अत्र कश्चित् सूत्रे भीधातोर्ङसौ निर्द्देशः। "एरनेकाचः"(पाoसूo6-4-82)इति यण्। तेन `मा भैः शशाङ्क मम शीधुनि नास्ति राहुः" इति प्रयोगः सङ्गच्छत इत्याह। एवं तु।
"मा स्म बैषीस्त्वयाऽद्यैव कृतार्थां द्रक्ष्यते यतिः"
इति भट्टिर्विरुध्येत। मा भैरिति तु प्रामादिकम्। यद्वा, आगमशासनानित्यतया "अस्तिसिचः"(पाoसूo7-3-96)इतीटो विरहे सिपो "हल्‌ङ्या"(पाoसूo6-1-68)इति लोपे सिचो विसर्गः।
(पाoसूo2-4-78)
विभाषा घ्राधेट्‌शाच्छासः(पाoसूo2-4-78)।। एभ्यः सिचो वा लुक् स्यात्परस्मैपदेषु। धेटः पूर्वेण प्राप्ते इतरेषामप्राप्ते विभाषेयम्। अघ्रात, अधात्, अशात्, अच्छात्, असात्। पक्षेऽघ्रासीदित्यादि। परस्मैपदेषु किम्? अघ्रासन्त सुमनसो देवदत्तेन। कर्मणि तङ्।
(पाoसूo2-4-79)
तनादिभ्यस्तथासोः(पाoसूo2-4-79)।। एभ्यः सिचो वा लुक् स्यात्तथासोः परतः। अतत। अतथाः। अतनिष्ट। अतनिष्ठाः। असता। असनिष्ठाः। यूयमतनिष्टेत्यत्र तु न लुक्, आत्मनेपदेनैकवचनेन च थासा साहचर्य्यात्तथाभूतस्यैव तशब्दस्य ग्रहणात्।
(पाoसूo2-4-80)
मन्त्रे घसव्हरणशवृदहाद्वृच्‌कृगमिजानिभ्यो लेः(पाoसूo2-4-80)।। एभ्यो लेर्लुक् स्यान्मन्त्रे। अक्षन्नमीमदन्त हि। "लुङ्‌सनोर्घस्लृ"(पाoसूo2-4-37)। "गमहन"(पाoसूo6-4-98)इत्युपधालोपः। "शासिवसि"(पाoसूo8-3-6)इति षत्वम्। अट्। "विभाषा छन्दस्यमाङ्योगेऽपि"(काoवाo)इत्यडभावे तु मा त्वा वृकासो अशिवासउ क्षन्। `व्हृकौटिल्ये' अस्य कृतगुणस्यानुकरणं ह्वरेति, अकारस्तूच्चारणार्थः। मा व्हर्मित्रस्य। धूर्तिः प्रणङ् मर्त्यस्य। "नशेर्वा"(पाoसूo8-2-63)इति कुत्वम्। पक्षे "व्रश्च"(पाoसूo8-2-36)इति षत्वे नडिति रूपं बोध्यम् वृ इति वृङवञोः सामान्यग्रहणम्। सुरुचो वेन आवः। दह-मानआधक्। आदित्याकारान्तग्रहणम्। सुरुचो वेन आवः। आप्रा द्यावापृथिवी अन्तरिक्षम्। वृज्--परावर्ग्भारभृद्यथा। अक्रन् कर्म कर्मकृतः। त्वेरयिं जागृवांसो अनुग्मन्। अज्ञत वा अस्य दन्ताः। यद्यप्यैतरेयब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्येदं वचनं तथापि मन्त्रग्रहणमिह सूत्रे छन्दस उपलक्षणमिति ब्राह्मणेऽपि लुक् सिध्यति। इह सूत्रे विबाषेत्यनुवर्तते। तेन-"न ता अगृभ्णन्नजनिष्ट हिषः"इत्यादि सिद्धम्। एतेन इह सूत्रे `सिच' इत्यनुवर्त्य सिच्‌स्थानिभूतो यो लिरिति व्याख्यानाल्लिङूलिटोर्नति हरदत्तग्रन्थः परास्तः। लोपस्य वैकल्पिकतया छन्दसि रूपान्तरस्यानापाद्यतया च सिजनुवृत्तेर्वैफल्यात्। अत एव सिचि प्रकृते लिग्रहणम् "आदिः सिचोऽन्यतरस्याम्"(पाoसूo6-1-187)इत्येतस्याप्रवृत्त्यर्थमिति प्रकृतसूत्रस्थहरदत्तग्रन्थः "च्लि लुङि"(पाoसूo3-1-43)इत्यत्रत्यकैयटग्रन्थश्च परास्तः।
(पाoसूo2-4-81)
आमः(पाoसूo2-4-81)।। आमः परस्य लुक् स्यात्। ईहांचक्रे। "लक्षणप्रतिपदोक्त"(पoभाo)परिभाषया नेह। "अम गत्यादिषु"-आम। आमतुः। तिबाद्यपवादत्वाल्लावस्थायामेवायं लुक्। तेनामन्तस्यातिङन्तत्वादनिगातस्ततः परस्य निघातश्च सिध्यतीति "न लुमता"(पाoसूo1-1-63)इति सूत्रे प्रतिपादितम्। न चैवमामन्तस्य पदत्वं न स्यादिति वाच्यम्, सुबन्ततया तत्सिद्धेः। यथा च सुपो न श्रवणं तथा "कृन्मेजन्तः"(पाoसूo1-1-39)इति सूत्रे प्रतिपादितम्।
(पाoसूo2-4-82)
अव्ययादाप्‌सुपः(पाoसूo2-4-82)।। अव्ययद्विहितस्यापः सुपश्च लुक् स्यात्। तत्र शालायाम्। अथ। अत्र वार्तिकम्-
"अव्ययादापो लुग्वनानर्थक्यं लिङ्गाभावात्" इति। न च "स्त्रियाम्"(पाoसूo4-1-3)इति सूत्रे `स्त्रीसमानादिकरणात्' इति पक्षः स्थितः, `भूतमियं ब्राह्मणी' इत्यादावतिव्याप्तेः। विहितविशेषणान्नेह-अत्युच्चैसौ।।
(पाoसूo2-4-83)
नाव्ययीभावादतोऽम् त्वपञ्चम्याः(पाoसूo2-4-83)।। अदन्तादव्ययीभावात्सुपो न लुक् पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात्। उपकुम्भं तिष्ठति। अपञ्चम्याः किम्? उन्मत्तगङ्गादागतः। अतः किम्? अधिहरि।
(पाoसूo2-4-84)
तृतीयासप्तम्योर्बहुलम्(पाoसूo2-4-84)।। अनयोर्बहुलमम् स्यात्। पूर्वेण नित्ये प्राप्ते आरम्भः। उपकुम्भमुपकुम्भेन वा कृतम्। उपकुम्भमुपकुम्भे स्थितः। अत वार्तिकम्--
सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम्।। ऋद्दिः-समुद्रम्। नदीसमास-उन्मत्तगङ्गम्। संख्यावयवः-एकविंशशतिभारद्वाजम्। त्रिपञ्चाशद्गौतमम्। एकविंशतिभरद्वाजा वंश्यास्त्रिपञ्चाशद्गौतमा वंश्या इति विग्रहः। "संख्या वंश्येन'(पाoसूo2-1-19)इति समासः। ननु भरद्वाजात् बिदाद्यञो "यञञोश्च"(पाoसूo2-4-64)इति लुक् प्राप्नोति, एवं गोतमादृष्यणः "अत्रिभृगु"(पाoसूo2-4-65)इत्यारम्भात्। न च "वर्तिपदानां स्वार्थपसर्जनैकत्वविशिष्टार्थान्तरोपसंक्रमाल्लुगभावः" इति कैयटोक्तं युक्तम्, वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात्। अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात्।
अत्राहुः, "भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य" इति। इदं च वार्त्तिकं बहुलग्रहणसिद्धार्थकथनपरम्।
लुटः प्रथमस्य डारौरसः(पाoसूo85)।। लुडादेशस्य प्रथमपुरुषस्य डारैरसः क्रमात्स्युः। अत्ता। शयिता। ननु पदद्वये द्वौ त्रिकौ प्रथमपुरुषौ, तथा च षट् स्थानिनः त्रय आदेशाः तत्कथं वैषम्ये संख्या तानुदेशः? अत्राहुः डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषात् षडेवादेशाः। यद्वा, अर्थत आन्तर्याद्व्यवस्था एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थ इत्यादि। एकार्थत्वादिनिर्णयस्तु व्यवहारात्। यद्यपि "नानुबन्धकृतमनेकाल्त्वम्"(पoभाo6)तथापि डा इत्यस्य सर्वादेशत्वमानुपूर्व्याद्बोध्यम्। प्रतिपादितं चेदम् "अनेकाल्‌शित्"(पाoसूo1-1-55)इति सूत्रे। न चात्मनेपदे अध्येता अध्येतारौ इत्यादौ डारौरस्सु कृतेषु टेरेत्वं स्यादिति चेत्? न, अस्मिन्नेव प्रयोगे सकृत्प्रवृत्ततया चरितार्थत्वात्। तथाहि, एत्वं डादयश्चेत्युभयमपि शब्दान्तरप्राप्त्याऽनित्यम्, तत्र परत्वादेत्वे कृते पुनःप्रसङ्गविज्ञानाड्‌ डादयः। यद्वा, तिङ आदेशेषु टेरेत्वं न भवति, एशिरेचोस्थासः सेश्च एकारोच्चारणाज्ज्ञापकात्। स्यादेतत्, तिप्तयोर्द्वयोरपि डादेशेऽन्तोदात्तम्पदमिष्यते। तत्र तिबादेशस्यान्तरतम्यादनुदात्तत्वे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वं सिद्ध्यतु, तादेशस्य तु न सिध्यति। तथाहि, तप्रत्ययस्य डादेशे कृते लसार्वधातुकस्वरात्परत्वाट्टिलोपः। न चेदानीमुदात्तनिवृत्तिस्वरो लभ्यः, अनुदात्तत्वात्प्रागेव लोपात्। ननु स्वरभिन्नस्य प्राप्नुवन्ननित्यो डादेशः, शब्दान्तरस्य प्राप्नुवन्ननुदात्तोऽप्यनित्यः, उभयोरनित्ययोः परत्वादनुदात्तत्वे कृते पुनः प्रसङ्गविज्ञानाड्‌डादेशे कृते उदात्तनिवृत्तिस्वरः सुलभ इति चेत्? न, अन्तरङ्गत्वाड्डादेशप्रवृत्तेः।
अत्राहुः, अस्तूक्तरीत्या परत्वाट्टिलोपः, तथाप्यसौ अनुदात्ते अविद्यमानोदात्ते पर इत्यर्थः। "अनुदात्तस्यच"(पाoसूo6-1-161)इति सूत्रे ह्यनु दात्तग्रहणं प्रत्याख्यास्यते, तत्स्वीकारेऽपि शास्त्रीयोऽनुदात्तो न गृह्यते, किन्तूदात्तभिन्नः। न च प्रत्ययाद्युदात्तप्रवृत्तेरिदमपि दुर्लभमिति वाच्यम्, परिहृत्य चापवादविषयमिति न्यायेन लसार्वधातुकानुदात्तविषये प्रत्ययस्वराप्रवृत्तेः। न च तासेः प्रत्ययस्वरात्प्रागेव परत्वाट्टिलोपः शङ्क्यः, प्रत्ययस्वरस्य प्रत्ययसंनियोगसिष्टत्वेनान्तरङ्गत्वात्। तथाच भाष्ये संग्रहस्लोकौ--
प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्त्वम्।
तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदाचित्।।
प्रत्ययस्वरश्च तासेर्वृत्तिसंनियोगशिष्टः।
तेन चाप्य सावुदात्तो लोप्स्यते तथा न दोषः।।
वृत्तिः प्रवृत्तिः। यदैव तासिः प्रवर्तते तदैवापवादाभावादुदात्तत्वयुक्त इत्यर्थः।
मुनित्रयोक्तिसद्वेणीपरिशीलनशालिनाम्।
महतामपि मान्योऽसौ धार्यते येन कौस्तुभः।।
।। इति श्रीमत्पदावाक्यप्रमाणपारावारपारीणस्य लक्ष्मीधरसूरेः सूनुना भट्टोजिभट्टेन कृते श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीयमान्हिकम्। पादश्च समाप्तोऽध्यायश्च ।।