शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् ६

← आह्निकम् ५ शब्दकौस्तुभः
आह्निकम् ६
[[लेखकः :|]]


।। तृतीयाध्यायस्य प्रथमे पादे षष्ठमान्हिकम् ।।
(पाoसूo3-1-94)
वाऽसरूपोऽस्त्रियाम्(पाoसूo3-1-94)।। परिभाषेयम्। अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते। एवञ्च "ददातिदधात्योर्विभाषा"(पाoसूo3-1-139)इत्यादिवद्वैकल्पिकत्वेनैव अपवादे शास्त्रात्प्रमिते तद्वदेव पक्षे उत्सर्गः प्रवर्तते। इगुपधज्ञाप्रीकिरः कोऽपवादः तद्विषये ण्वुल्‌तृचावपि भवतः। विक्षेपकः विक्षेप्ता, विक्षिपः। नचैवम् "आतोऽनुपसर्गे कः"(पाoसूo3-2-3)इति कस्य विषये "कर्मण्यण्"(पाoसूo3-2-1)इत्यपि पक्षे प्रवर्तेत। सरूपोऽसाविति चेत्? किं ततः? गुणवृद्धिशास्त्रेष्विक्‌पदस्येव कविधौ वेति पदस्य उपस्थितिर्हि ज्ञातैव। अन्यथा ण्वुलादेरपि दुर्लभत्वात्। सत्याञ्च वेत्यस्योपस्थितौ कथं सरूपस्यापि पक्षे प्रवृत्तिर्नभवेदिति चेत्? सत्यम्, असरूपग्रहणसामर्थ्यात् यम्प्रत्यसरूपता तं प्रत्येवास्य पाक्षिकता, अन्यं तु प्रति बाधकतैवेति न कश्चिद्दोषः। ततश्च असरूपोऽपवादप्रत्यय उत्सर्गस्य वा बाधकः स्यादिति फलितोऽर्थः। अस्त्रियां किम्? चिकीर्षा। अत्र क्तिन्न भवति। स्त्रीग्रहणं स्वर्यते। स्वरितेनाधिकारगतिर्भवतीति "स्त्रियां क्तिन्"(पाoसूo3-3-94)इत्यधिकारे विकल्पो नेति सिद्धान्तः। यदि तु स्त्रियामभिधेयायां नेत्युच्येत तदा `विक्षेपिका' 'विक्षेप्त्री' इति कविषये ण्वुल्‌तृचौ न स्याताम्। अथापि `स्त्रियाम्' इत्येवंशब्दमुच्चार्य विहिते निषेधः इत्युच्येत्, तर्हि `व्यावक्रोशी' `व्यावक्रुष्टिः' इति कर्मव्यतिहारे णचो विषये क्तिन्न स्यात्। द्वयोरपि `स्त्रियाम्' इत्युच्चार्य विदानात्।
अत्र केचित्-उत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशितत्वे सति प्रतिषेधोऽयमित्याहुः। अन्ये तु अपवादमात्रस्यापीति। तत्रार्द्य मते `आसना' `आस्या' स्त्र्यधिकारविहितेनापि युचाऽपवादेन सह ऋहलोर्ण्यतः(पाoसूo3-1-124)समावेशः सिध्यति। घञस्तु क्तिनादिनाऽनभिधानान्न समावेशः। द्वितीयपक्षे तु घञः क्तिन्नादिभिरसमावेशः सिध्यति। `आस्या' इत्यत्र तु "कृत्यल्युटो बहुलम्"(पाoसूo3-3-113)इति ण्यदिति विवेक-। नन्विह सारूप्यं प्रयोगे उपदेशे वा? नाद्यः, `ग्रामणीः' `ग्रामर्ण्यः' इति क्विबादिविषयेऽणादीनामप्रवृत्तिप्रसङ्गात्। न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानात्। नान्त्यः, अनुबन्धभिन्नेषु कणप्रभृतिष्वतिप्रसङ्गादिति चेत्? न, अनुबन्धानामनेकान्तत्वेन द्वितीयपक्षे दोषाभावात्। एकान्तत्वेऽपि "नानुबन्धकृतमसारूप्यम्"(पoभाo8)"ददातिदधात्योर्विभाषा"(पाoसूo3-1-139)इति लिङ्गात्। अन्यथाऽनुबन्धकृतादसारूप्यादेव `ददः' `दधः' इति शविषये `दायः' `धायः' णोऽपि इतिभविष्यतीति किं विभाषाग्रहणेन? अनित्येयं वासरूपपरिभाषा "अर्हे कृत्यतृचश्च"(पाoसूo3-3-169)इत्यत्र कृत्यतृज्‌ग्रहणाल्लिङ्गात्। तेन "क्तल्युटतुमुन्‌खलर्थेषु वाऽसरूपविधिर्न भवति"(पoभाo77)इति सिद्धान्तः। हसितं हसनं छात्रस्य। अत्र क्तल्युड्‌विषये घञ् न। तुमन्-इच्छति भोक्तुम्। अत्र "इच्छार्थेषु लिङ्लोटौ"(पाoसूo3-3-157)इति लोण्नभवति। लिङ् तु भवत्येव, "लिङ्च"(पाoसूo3-3-159)इति वचनात्। एवं चास्मादेव नियमादिह लोट् सुपरिहरः। अतोऽत्र तुमुन्‌ग्रहणमापाततः। खलर्थः-आतोयुच् ईषत्पानः अत्र खल् न भवति। ननु स्त्र्यदिकारादूर्ध्वं 'वाऽसरूप"(पाoसूo3-1-94)न्यायो नास्ती त्येवाश्रीयताम्। मैवम्, `आसित्वा भुङ्क्ते' `आस्यते भोक्तुम्' इत्याद्यसिद्धिप्रसङ्गात्। इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते। क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे तत्रैव च लकार इति समानविषयत्वाद्बाध्यबाधकभावः स्यात्। "प्रैषातिसर्ग"(पाoसूo3-3-163)इति सूत्रे "स्त्रियां क्तिन्"(पाoसूo3-3-94)इत्यत ऊर्ध्वं वासरूपविधेरभावादिति कौमुदीग्रन्थस्तु आकरविरुद्ध इति दिक्।
(पाoसूo3-1-95)
कृत्याः(पाoसूo3-1-95)। अधिकारोऽयम्। अवधिविशेषस्तु ज्ञापकात्सिद्धः। 'अर्हे कृत्यतृचश्च"(पाoसूo3-3-169)इति सूत्रे `कृत्याः' इत्येव वक्तव्ये त़ज्‌ग्रहणं योगापेक्षं ज्ञापकम्-`ण्वुल्‌तृचावित्येतद्योगात्प्राक् कृत्यसंज्ञाऽदिक्रियते' इति। संज्ञाप्रदेशाः-'कृत्यानां कर्तरि वा"(पाoसूo2-3-31)इत्यादयः बहुवचनमनुक्तसमुच्चयार्थम्। तेन "केलिमर उपसंख्यानम्"(काoवाo)इत्यादि सूत्रेणैव सूचितं भवति। अत्र सूत्रे वृत्तिकारः "प्राङ् ण्वुलः" इति प्रचिक्षेप।
(पाoसूo3-1-96)
तव्यत्तव्यानीयरः(पाoसूo3-1-36)।। धातोरेवैते प्रत्ययाः स्युः। तकाररेफौ स्वरार्थौ। कर्त्तव्यम्। करणीयम्।
वसेस्तव्यत्कर्तरि णिच्च(काoवाo)।। वस निवासे(भ्वाoपo1030)इत्यस्य ग्रहणम्, न तु वस आच्छादने(अoआo13)इत्यस्य लुग्विकरणस्य। तयोरेवेति वचनात् कर्त्तरि न प्राप्नोतीति वचनम्। वसतीति वास्तव्यः। तद्धितान्तो वा। वास्तुनि भवो वास्तव्यः। दिगादित्वाद्यत्। `अवास्तव्यः' इत्यत्र स्वरभेदोऽपि नास्ति। तव्यत्‌प्रत्यये हि 'कृत्योकेष्णुच्चार्वादयश्च"(पाoसूo6-2160)इत्यन्तोदात्तत्वम्। यत्प्रत्यये तु "ययतोश्चातदर्थे"(पाoसूo6-2-156)इत्यनेनेति।
केलिमर उपसंख्यानम्(काoवाo)।। कृत्या इति बहुवनेनैतत्सूचितमित्युक्तम्। ककारो गुणवृद्धिनिषेधार्थः। रेफः स्वरार्थः। पचेलिमा माषाः। पक्तव्याः। भिदेलिमाः सरलाः। भेत्तव्याः। शुद्धे कर्मणि प्रत्ययो भाष्ये स्थितः। वृत्तिकारस्तु कर्मकर्तरि चायमिष्यते इत्याह। तद्भाष्य विरुद्धम्।
(पाoसूo3-1-97)
अचो यत्(पाoसूo3-1-97)।। अजन्ताद्धातोर्यत्स्यात्। चेयम्। जेयम्। ननु पूर्वसूत्रे एव यदपि निर्दिश्यताम्, अज्‌ग्रहणं च मास्तु, हलन्ताण्ण्यतं वक्ष्यति, पुरिशेषादजन्तेभ्य एव यद् भविष्यति इति चेत्? अजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमिदम्। दित्स्यं, धित्स्यम्। इह हि दाञो धाञश्च सन्नन्तस्य `दित्स' `धित्स' इति स्थिते आर्द्धदातुके इति विषयसप्तमीमाश्रित्य सनोऽतो लोपे कृते साम्प्रतिकं हलन्त त्वमस्तीति ण्यत्स्यात्। अज्‌ग्रहणात्तु भुतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन "यतोऽनाव-"(पाoसूo6-1-213)इत्याद्युदात्तत्वम्। ण्यति तु कृते तित्स्वरितत्वं स्यात्। `चिकीर्ष्यम्' इत्यादौ तु ण्यद्यतोर्विशेषो नास्ति। "यतोऽनावः" इत्यत्र द्व्यज्‌ग्रहणानुवृत्तेः। 'आर्द्धधातुके" इत्यस्य परसप्तमीत्वे तु इहाज्‌ग्रहणं न कर्त्तव्यमेव।
तकिशसिचतियतिजनीनामुपसंख्यानम्(काoवाo)।। तक हसने(भ्वाoपo117)। शसु हिंसायाम्(भ्वाoपo728)। चते याचने(भ्वाoउo890)। यती प्रयत्ने(भ्वाoआo30)। जनी प्रादुर्भावे(दिoआo43)। तक्यम्। शस्यम्। चत्यम्। यत्यम्। जन्यम्। अत्र जनेर्यद्विधानं 'यतोऽनावः"(पाoसूo6-1-213)इति स्वरार्थं "जनिवध्योश्च"(पाoसूo7-3-35)इति वृद्धिनिषेधेन ण्यत्यपि रूपे विशेषाभावात्। इह शंसिमपि कोचित्पठन्तीति हरदत्तः। तेन "तद्वान्नराशंस्यं राध्यं च" अत्राद्युदात्तः सिध्यति। अपाठपक्षे तु ण्यन्तादचो यति सिध्यतीति बोध्यमिति। वदन्ति। तदेतत्सर्वम् "ईडवन्द"(पाoसूo6-1-214)इत्यादिसूत्रविस्मरणमूलकत्वादुपेक्ष्यम्।
हनो वा वधश्च(काoवाo)।। हन्तेर्वा यत्, तत्सन्नियोगेन च वधादेशो वक्तव्य इत्यर्थः। वध्यः। घात्यः। यदभावे ण्यत्, "हनस्तोऽचिपणलोः"(पाoसूo7-3-32)इति तत्वम्। "हो हन्तेः"(पाoसूo7-3-54)इति कुत्वम्। यद्यपि `वधमर्हतीति वध्यः' इति रूपं यदित्यनुवर्तमाने "दण्डादिभ्यः"(पाoसूo5-1-66)इति तद्धितेन यताऽपि सिध्यति तथापि `असिवध्यः' `मुसलवध्यः' इत्यत्र समासो न सिध्येत्। कृति पुनः "कर्तृकरणे कृता"(पाoसूo2-1-32)इति सिध्यति। न च असिवधमर्हतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम्, दण्डादिषु केवलस्य वधशब्दस्य पाठात्। तदन्तविधेश्च प्रतिषेधात् स्वरे भेदाच्च। असिवधशब्दाद्यति हि "तित्स्वरितम्"(पाoसूo6-1-185)इति स्वरितः प्रसज्येत। कृदन्तेन समासे तु कृदुत्तरपदप्रकृतिस्वरेम वध्यशब्द आद्युदात्तः। अत एव वध्यशब्देन तद्धितान्तेन सह "सुप्सुपा"(पाoसूo2-1-4)इति समास इत्यपि न वाच्यम्, अन्तोदात्तप्रसङ्गात्। वध्यशब्दे कृत्तद्धितान्ते प्रकारकृतविशेषस्य सत्त्वाच्च। एतेन "गिरौ डश्छन्दसि"(काoवाo)इति वार्तिकप्रत्याख्यानपरं भाष्यमप्यपास्तम्। अत एव "कृतलब्धक्रीतकुशलाः"(पाoसूo4-3-38)इत्यादीनां चारितार्थ्यमिति दिक्।
अत्रत्यभाष्यादिपर्यालोचनया असमस्तवध्यशब्दे विशेषाभाव इति लभ्यते। तथा च दण्डादिभ्य इत्येव सूत्रं, यच्चानुवर्तते। दण्डादिभ्यो य इति निरनुबन्धपाठस्तु प्रामादिक इति माधवो हन्तिधातौ स्फुटीचकार। हरदत्तग्रन्थपर्यालोचने तु इदं च वचनं यद्विधौ भाष्यादौ पठितमपि क्यब्विधौ "मृजेर्विभाषा"(पाoसूo3-1-113)इत्यस्याग्रे एव पाठ्यमित्येव भाष्यतात्पर्यं युक्तम्, विकल्पाकरणेन लघुत्वादिति लभ्यते। तस्मिन्नपि पक्षे वध्यशब्दो धातुस्वरेमाद्युदात्तः, क्यप्तु पित्त्वादनुदात्तः। न च नञ्समासे "ययतोश्चातदर्थे"कृत्योकष्णुच्चार्वादयश्च"(पाoसूo6-2-160)इत्यस्य प्रवृत्त्येष्टसिद्धेः। असमस्ते एव विशेषाभावस्य प्रतिपाद्यत्वाच्च।
(पाoसूo3-1-98)
पोरदुपधात्(पाoसूo3-1-98)।। पवर्गान्तादकारोपधात् धातोर्यत् स्यात्। ण्यतोऽपवादः। शप्यम्। लभ्यम्। पोः किम्? वाक्यम्। "चजोः कु घिण्ण्यतोः"(पाoसूo7-3-52)इति कुत्वम्। अदुपधात्किम्? कोप्यम्। तपरकरणं किम्? आप्यम्। कुप कोपने(दिoपo127)आप्लृ व्याप्तौ(स्वाoपo14)आभ्यां ण्यति तित्स्वरः। यति तु "यतोऽनावः"(पाoसूo6-1-213)इति स्यात्।
(पाoसूo3-1-99)
शकिसहोश्च(पाoसूo3-1-99)।। स्पष्टम्। शक्यम्, सह्यम्।
(पाoसूo3-1-100)
गदमदचरयमश्चानुपसर्गे(पाoसूo3-1-100)।। व्यत्ययेन पञ्चम्यर्थे सप्तमी। एभ्योऽनुपसर्गेभ्यो यत्स्यात्। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्गे किम्? "न नैषधे कार्यमिदं निगाद्यम्"। प्रमाद्यम्। प्रचार्यम्। यमेः पूर्वेणैव सिद्धे नियमार्थं वचनम् "अनुपसर्गादेव यथा स्यात् सोपसर्गान्मा भूत्" इति। कथं तर्हि 'तेन न तत्र भवेद्विनियम्यम्" "अनियम्यस्य नायुक्तिः" "त्वया नियम्या ननु दिव्यचक्षुषा" इत्यादि? प्रमादपाठ एवायम्। `विनियाम्यम्' इत्यादि दीर्घ एव तु पठनीय इति हरदत्तः। नियमे साघुर्नियम्य इति "तत्र साधुः"(पाoसूo4-4-98)इति यदित्यन्ये। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे।
चरेराङि चागुरौ(काoवाo)।। सोपसर्गार्थं वार्तिकम्। आचर्यो देशः। गन्तव्य इत्यर्थः। अगुरौ किम्? आचार्यो गुरुः।
(पाoसूo3-1-101)
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु(पाoसूo3-1-101)।। अवद्यादयस्त्रयो यथासंख्यं गर्ह्यादिष्वर्थेषु निपात्यन्ते। तत्र वदेर्नञि उपपदे "वदः सुपि क्यपू च"(पाoसूo3-1-106)इति यत्क्यपोः प्राप्तयोर्यदेव यथा स्यात्, सोऽपि गर्हायामेव यथा स्यादित्युभयार्थं निपातनम्। अवद्यं पापम्। अवचनार्हत्वात्। गर्ह्ये किम्? अनुद्यं गुरुनाम्। तद्धि न गर्ह्यं वचनार्हं तु न भवति,
आत्मनाम गुरोर्नाम नामातिकृपणस्य च।
श्रेयस्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः।।
इति स्मृतेः। अत्र "वदः सुपि"(पाoसूo3-1-106)इति क्यबेव भवति। यजादित्वात् सम्प्रसारणम्। "नलोपो नञ" "तस्मान्नुडचि"(पाoसूo6-3-73,74)पणेर्व्यवहारार्थात् ण्यति प्राप्ते यत् विधीयते। पण्यः कम्बलः। पण्या गौः। पाण्यम् अन्यत्। स्तुत्यर्हम् इत्यर्थः। `पणितव्य' शब्दस्य साधारणत्वेऽपि निपातनस्य रूढ्यर्थत्वात् पण्यशब्दस्य व्यवहर्तव्ये एव रूढत्वादर्थनियमो लभ्यते। उक्तञ्च-
धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च।
अनुबन्धविकाराणां रूढ्यर्थं च निपातनम्।। इति।
वृङ्‌सम्भक्तौ(क्र्याoआo37)अस्माद्यत् अप्रतिवन्धोशतेन सहस्रेण वर्या कन्या। शतसहस्रशब्दावनियतवचनौ, कन्याया वरणे वरयितॄणां नियमो नास्तीत्यर्थः। `वृङ' एवेदं निपातनम्, तत्रैव अनिरोधसम्भवात्। तेन `वृञ् वरणे'(स्वाoउo8)इत्यस्मात् "एतिस्तुशास्"(पाoसूo3-1-109)इत्यादिना क्यबेव, वृत्या। इह सूत्रे अवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तस्य निर्द्देशः। तेन `वर्या' इति स्त्रियामेव निपात्यते। अस्त्रियान्तु "ऋहलोः"(पाoसूo3-3-124)इति ण्यदेव-वार्या ऋत्विजः, इति वृत्तिकारमतम्। न चात्र "एतिस्तु"(पाoसूo3-1-109)इति क्यप् शङ्क्यः, तत्र 'वृञ' एव ग्रहणं न तु `वृङ' इति वक्ष्यमाणत्वात्।
भट्टिस्तु द्वन्द्वाज्जसा निर्द्देशं मन्वानः पुल्लिङ्गेऽपि यतं प्रायुङ्क्त-
सुग्रीवो मम वर्योऽसौ भवता चारुविक्रमः। इति।
पुरुषोत्तमादयोऽप्येवम्।
(पाoसूo3-1-102)
वह्यं करणम्(पाoसूo3-1-102)।। वह्यं निपात्यते करणं चेद्भवति। वहन्त्यनेनेति वह्यं शकटम्। करणे किम्? वाह्यम् अन्यत्, वहनकर्मेत्यर्थः।
(पाoसूo3-1-103)
अर्यः स्वामिवैश्ययोः(पाoसूo3-1-103)।। ऋ गतौ(भ्वाoपo961)अस्मात् ण्यति प्राप्ते यत् निपात्यते। अर्यः स्वामी वैश्यो वा। स्वामि वैश्ययोः किम्? आर्यो ब्राह्मणः। प्राप्तव्य इत्यर्थः। अत्र भाष्ये `स्वामिन्यन्तोदात्तत्वञ्च' इत्युक्तम्। वैश्ये तु "यतोऽनावः"(पाoसूo6-1-213)इति आद्युदात्तमेव। अथ यो वैश्यः स्वामी च तत्र कथमिति चेत्? वैश्यत्वविवक्षायामाद्युदात्तम्, स्वामित्वविवक्षायामन्तोदात्तम्। अत एव `अर्यः स्वाम्याख्या चेत्' इति फिट्‌सूत्रे आख्याग्रहणं कृतम्। तथा चेदृशे विषये युगपदर्थद्वयविवक्षा न कर्तव्यैवेति फलितोऽर्थः।
(पाoसूo3-1-104)
उपसर्या काल्या प्रजने(पाoसूo3-1-104)।। उपपूर्वात्सृदातोर्भौवादिकात् जौहोत्यादिकाच्च यत् निपात्यते प्रथमगर्भग्रहणे प्राप्तकाला चेत्। उपसर्या गौः, गर्भाधानार्थं वृषभेणोपगन्तुं योग्या इत्यर्थः। काल्याप्रजने इति किम्? उपसार्या शरदि मधुरा, प्राप्तव्या इत्यर्थः। कर्मणिं ण्यत्। `काल्या' इत्यत्र `तदस्यप्राप्तम्' इति वर्त्तमाने "कालाद्यत्"(पाoसूo5-1-107)इति यत्। प्रजननं प्रजनः, भावे घञ्। "जनिवध्योश्च"(पाoसूo7-3-35)इति वृद्धिनिषेधः।
(पाoसूo3-1-105)
अजर्यं सङ्गतम्(पाoसूo3-1-105)।। नञ्‌पूर्वाज्जीर्यतेः कर्त्तरि यन्निपात्यते सङ्गतं चेत् विशेष्यम्। `सङ्गतम्' इति नपुंसके भावे क्तः। न जीर्यतीत्यजर्यं सतां सङ्गतम्। इह `अजर्यम्' इति समुदायस्य सङ्गतं वाच्यम् इत्यर्थो न ग्राह्यः, उदाहरणे सहप्रयोगानुपपत्तेः। न च `घटः कलशः' इतिवत् व्याख्यानपरतया सहप्रयोगः,
तेन सङ्गतमार्येण रामाजर्यं कुरु द्रुतम्।
इति भट्टिप्रयोगात्।
मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध।
इति कालिदासप्रयोगस्तु `सङ्गतम्' इत्यध्याहृत्य व्याख्येयः। सङ्गतं किम्? अजरिता कम्बलः। कर्त्तरि निपातनम् इत्युक्तत्वात् भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति।`अजार्यं सङ्गतेन' इति।
(पाoसूo3-1-106)
वदः सुपि क्यप् च(पाoसूo3-1-106)।। `अनुपसर्गे इति वर्तते' इति वृत्तिकृत्। वदेर्धातोरनुपसर्गे सुप्युपपदे क्यप् स्यात् चाद्यत्। ब्रह्मोद्यम्, ब्रह्मवद्यम्, भावे क्यप् पूर्ववत्सम्प्रसारणम्। ब्रह्म वेदः, तस्य वदनमित्यर्थः। ननु सकर्मकाद्भावे कृत् प्रत्ययो दुर्लभः, "भावे चाकर्मकेभ्यः" "तयोरेव कृत्यक्तखलर्थाः"(पाoसूo3-4-69,70)इति वक्ष्यमाणत्वादिति चेत्? सत्यम्, उत्तरसूत्रादिह भावग्रहणस्यापकर्षणान्नोक्तदोषः। इह सूत्रे अनुपसर्गग्रहणस्यानुवृत्तिर्यद्यपि वृत्तिभाष्यादिषु स्थिता, तथापि सा नावश्यकी, "सत्सूद्विष"(पाoसूo3-2-61)इति सूत्रे उपसर्गग्रहणं ज्ञापकम्-`अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न' इति वक्ष्यमाणेन गतार्थत्वात्। `सर्वथाऽप्युपसर्गे न' इति फलं निर्विवादम्। तेनेह ण्यदेव-प्रवाद्यम्, अनुवाद्यम्, अपवाद्यम्। यत्तु भट्टवार्त्तिके `अनूद्यम्' इति प्रयुक्तं व्याकरणाधिकरणे, तत्र निश्चयार्थेनुशब्दे उपपदे क्यपं विधाय नञ्समासे सति कथञ्चित्समाधेयमिति न्यायसुधायामेव स्पष्टम्।
(पाoसूo3-1-107)
भुवो भावे(पाoसूo3-1-3-1-107)।। भवतेरनुपसर्गे सुप्युपपदे क्यप् स्यात् भावे। यत्तु नानुवर्त्तते, पूर्वसूत्र चानुकृष्टत्वात्। ब्रह्मणो भावो ब्रह्मभूयम्। सुपि इत्येव-भव्यम्। अनुपसर्गे इत्येव-प्रभव्यम्। ननु अनुपसर्गे भवतिरकर्मकः, तस्माद्भावे एव भविष्यति, तत्किं भावग्रहणेनेति चेत्? मैवम्, प्राप्त्यर्थात्कर्मणि प्रसङ्गात्सत्तार्थकादपि कालादिकर्मणि प्रसङ्गात् उत्तरार्थत्वाच्च।
(पाoसूo3-1-108)
हनस्त च(पाoसूo3-1-1-8)।। हन्तेर्धातोरनुपसर्गे सुबन्ते उपपदे भावे क्यप् स्यात् तकारश्चान्तादेशः। ब्रह्महत्या। एतत्सूत्रविहितक्यप्प्रत्ययान्तस्य स्वभावात् स्त्रीलिङ्गत्वमेव लोके। छन्दसि तु क्लीबतापीष्यते। सनादेव दस्युहत्याय जज्ञिषे।
छन्दसि स्त्रियां क्यप् चिद्वक्तव्यः(काoवाo)।। तरति ब्रह्महत्यां योऽश्वमेधेन यजते। सुपीति किम्? घातो वर्त्तते। ण्यत्तु न भवति, सकर्मकाद्भावे विधानाभावात्। कर्माविवक्षायामकर्मकत्वेऽपि न भवति, अनभिदानात्। अनुपसर्गे इत्येव। प्रघातो वर्त्तते।
(पाoसूo3-1-109)
एतिस्तुशास्वृदृजुषः क्यप्(पाoसूo3-1-109)।। सुप्यनुपसर्गे भाव इति निवृत्त्म्। एभ्यः क्यप् स्यात्। `एति' इति इण एव ग्रहणं नेङिकोः, तयोरधिपूर्वयोरेव प्रयोगात् `एति' इति निर्द्देशानुपपत्तेः। तथा च 'रक्षार्थं वेदानामद्येवं व्याकरणम्" इति भाष्ये यदेव प्रयुक्तः। केचित्तु "इण्वदिक इति वक्तव्यम्"(काoवाo)इति वचनादधीत्यमित्युदाहरन्ति। इत्यः। कथन्तर्हि उपेयमिति?ईङ गतौ(दिoआo37)इति दैवादिकाद्यत्। स्तुत्यः। शिष्यः, "शास इदङ्हलोः"(पाoसूo6-4-34)इति इत्वम्, "शासिवसि"(पाoसूo8-3-60)इति षत्वम्। `आङः शासु इच्छायाम्"(अoआo12)इत्यस्यापि ग्रहणम्, अविशेषात्। तेन `आशास्यम्' इति धातुस्वरेण मध्योदात्तं पदं भवति। ण्यति तु "गतिकारकोपपदात्कृत्" इति अन्तस्वरितत्वं स्यात्। केचित्तु "शासु अनुशिष्टौ'(अoपo65)इत्यस्यैव ग्रहणमिच्छन्ति। `वृ' इति वृञो ग्रहणं न वृङः पूर्वोत्तरसाहचर्येणोभयपदिनो ग्रहणाज् ज्ञापकात्। यदयं "ईडवन्दवृशंसदुहां ण्यतः"(पाoसूo6-1-21)इति वार्याशब्दस्याद्युदात्तत्वं शास्ति। तत्र हि ईडिवन्दिभ्याम् अकारवद्विकरणप्रकृतिभ्यां साहचर्यात् आत्मनेपदिनो वृङो ग्रहणम्। वृत्यः। दृत्यः। जुष्यः। `क्यप्' इति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। तेन "ओरावश्यके"(पाoसूo3-1-125)इति ण्यतं बाधित्वा क्यबेव भवति। तथाहि, इह सूत्रे स्तौतेर्ग्रहणस्यावकाश आवश्यकाविवक्षायां स्तुत्य इति, "ओरावश्यके" इत्यस्यावकाशो `अवश्यलाव्यम्'। `अवश्यस्तुत्यः' इत्यत्र उभयप्रसङ्गे परत्वात् ण्यत् स्यात्, पुनः क्यब्ग्रहणात् क्यबेव भवति।
शंसिदुहिगुहिभ्यो वेति वक्तव्यम्(काoवाo)।। शस्यम्, शंस्यम्। दुह्यम्, दोह्यम्। गुह्यम्, गोह्यम्। एतच्च वृत्तावेव स्थितम्। भाष्ये तु नास्ति तत्र "प्रशस्यस्य श्रः"(पाoसूo5-3-60)"इडवन्दवृशंसदुहां ण्यतः"(पाoसूo6-1-214)इति सूत्रद्वयप्रामाण्यात् शंसेः सिद्धम्। इतरयोस्तु मूलं मृग्यम्।
आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम्(काoवाo)।। अञ्जू व्यक्ति म्रक्षणादिषु(रुoपo21)। अस्मात् बाहुलकात्करणे क्यप्। 'अनिदितां हल"(पाoसूo6-4-24)इति नलोपः, आज्यम्। ननु ण्यत्येव नलोपः कस्मान्नोक्त इति चेत्? न, कुत्वप्रसङ्गात्, तित्स्वरप्रसङ्गाच्च। तस्मात्क्यबन्त एवायम्। नन्वेवमवग्रहः प्राप्नोति, न चेष्टापत्तिः, "आज्यं किमासीत्परिधिः क आसीत्" इत्यादौ पदकारस्तैदकरणात् इति चेत्?
अत्र भाष्यम्-न लक्षणेन पदकारा अनुवर्त्याः पदकारैस्तु लक्षणमनुवर्त्त्यमिति। अयमाशयः-संहितैव नित्या पदविच्छेदस्तु पौरुषेयः। अन एवार्थविनिश्चयाभावान्नावगृह्णन्ति। यथा `हरिद्रव' इति। अत्र किं हरिशब्द इकारान्तः, उत हरिच्छब्स्तकारान्त इति सन्देहः, किञ्च "वनेन वायः" इति मन्त्रे "वेति चय इति च चकार शाकल्यः" इत्युपन्यस्य "उदात्तं त्वेवमाख्यातमभविष्यत्" इति अधायिशब्दे अट्‌स्वरप्रसङ्गेन दूषयित्वा वेरपत्यं `वाय' इत्येकपद्येन सिद्धान्तं कुर्वन् यास्कः पदविभागस्य पौरुषेयत्वं स्पष्टमेवाचष्टे। अपि च सति पदत्वे अवग्रहः, असति तु न, इति द्वयमपि प्रायोवादमात्रं सम्प्रदायानुरोधागातुम्" इत्यादौ अवग्रहाभावात् "ईयिवांसमतिस्त्रिधः" देवयन्तो यथामतिम्" इत्यादाववग्रहाच्चेति दिक्।
प्रक्रियाकौमुद्यान्तु `अज गतौ क्षेपणे च' (भ्वाoपo230)इत्यस्य `आज्यम्' इत्युक्तं, तत्तु भाष्यविरुद्धम्, अर्थाननुगुणञ्च, इति प्रामाणिकैरुपेक्ष्वमेव।
(पाoसूo3-1-110)
ऋदुपधाच्चाक्लृपिचृतेः(पाoसूo3-1-110)।। ऋकारोपधाद्धातोः क्यप् स्यात् क्लृपिचृती वर्जयित्वा। वृत्-वृत्यम्। वृध्-व-द्यम्। अक्लृपिचृतेरिति किम्? कृप् सामर्थ्ये(भ्वाoआo763)कल्प्यम्। कृपेर्लत्वस्यासिद्धत्वात् ऋकारलृकारयोः सवर्मसंज्ञाविधानाच्च ऋदुपधत्वम्। चृति हिंसाग्रन्थनयोः(तुoपo44)चर्त्यम्। तपरकरणं किम्? कॄत संशष्दने(चुoपo120), णिजभावे णयदेव भवति। कीर्त्यम्। इदमेव च तपरकरणं लिङ्गम्, "अनित्यण्यन्ताश्चुरादयः" इत्यत्र। णिजन्तात्तु णिलोपे कृते चाकृते च दित्स्यमितिवद्यदेव। तेन "यतोऽनावः"(पाoसूo6-1-213)इत्याद्युदात्तता भवति।
(पाoसूo3-1-111)
ई च खनः(पाoसूo3-1-111)।। खनः क्वप् स्यात् ईकारश्चान्तादेशः। दीर्घनिर्द्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो "ये विभाषा"(पाoसूo6-4-43)इत्यात्वबाधनार्थः। अन्वथा "ये विभाषा" इत्यस्यावकाशः-`खायते' `खन्यते'। इत्वस्यावकाशः यस्मिन्पक्षे आत्वं नास्ति। आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। "ये विभाषा" इति विषयसप्तमी। तथा च यकारादौ बुद्धिस्थे एव भवदात्वमन्तरङ्गम्। अयंत्विकारः क्यपा सह विधानाद्वहिरङ्गः। तदित्थम्-"ये विभाषा" इति विषयसप्तमीति पक्षमाश्रित्य सूत्रकृता दीर्घोच्चारणं कृतम्। भाष्यकृता तु परसप्तमीमाश्रित्य प्रत्याख्यातम्। तथाहि, परसप्तमीपक्षे इत्वमन्तरङ्गम्, परनिमित्तमनपेक्ष्य विधानात्। क्यप्सन्नियोगशिष्टं हि तत्। तथाच तदेवात्वस्य बाधकम्। ननु ह्रस्वादेशे तस्य पूर्वेण सह आद् गुणे सत्यपि "षत्वतुकोरसिद्धः"(पाoसूo6-1-86)इति एकादेशस्यासिद्धतया "ह्रस्वस्य पिति कृति तुक्"(पाoसूo6-1-71)इति तुक् स्यात् अतो दीर्घ एव विधेयः इति चेत्? न, पदान्तपदाद्योरेकादेशस्तुग्विदावसिद्धः, न, त्वन्योऽपि इति वक्ष्यमाणत्वात्। अन्यथा `वृक्षे छत्रम्' इत्यत्र ङौ आद्‌गुणस्वासिद्धत्वात् "छे च'(पाoसूo6-1-73)इति ह्रस्वाश्रयो नित्यस्तुक् स्यात्, इष्यते तु "दीर्घात्" "पदान्ताद्वा'(पाoसूo6-1-75,76)इति दिक्। खेयम्।
(पाoसूo3-1-112)
भृञोऽसंज्ञायाम्(पाoसूo3-1-112)।। क्यप् स्यात्। भृत्वाः कर्मकराः, भर्त्तव्वा इत्यर्थः। तथा च क्रियाशब्दोऽयं, न तु संज्ञा।
समश्च बहुलम्(काoवाo)।। असंज्ञायामेव। सूत्रेण नित्वं प्राप्तस्य क्यपो विकल्पार्थमिदं वार्त्तिकम्। सम्भूत्याः, सम्भार्याः। असंज्ञायां किमि? भार्यो नाम क्षत्रियः।
संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।
स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति।।
अथवा बहुलं कृत्याः संज्ञायामिति च स्मृतम्।
यथा पत्यं यथा जन्यं यथा भित्तिस्तथैव सा।।
अस्यार्थः-ते तव सूत्रकारस्य भार्याशब्दो न सिध्यति, णयतं बाधित्वा "संज्ञायां समजनिषद"(पाoसूo3-3-99)इत्यादिना क्यपः प्रसङ्गात्। ननु "नृञोऽसंज्ञायाम्"(पाoसूo3-1-112)इति प्रकृतसूत्रे संज्ञायां निषेधसामर्थ्यात् "संज्ञायाम्"(पाoसूo3-3-99)इत्यादिसूत्रान्तरप्राप्तोऽपि क्यप् भृञः संज्ञायां न भविष्यति। न चैव तत्र "संज्ञायाम्" इत्यस्य वैयर्थ्यं, धात्वन्तरेषु चरितार्थत्वात्, इत्याशङ्क्याह-संज्ञायामित्यादि। प्रतिषेधस्येति शेषः, `असंज्ञायाम' इत्वस्य प्रतिषेधस्य पुंसि `भार्या नाम क्षत्रियः' इत्यत्र दृष्टत्वात् चरितार्थत्वात्। तथा च सामर्थ्यं नास्तीति भावः। तस्मात् भार्याशब्दो न सिद्ध्यतीति चोद्यं सुस्थम्।
उत्तरमाह-स्त्रियां भावाधिकारोऽस्तीति। ननु "संज्ञायां समज"(पाoसूo3-3-99)इति सूत्रे वृत्तिकृद्वक्ष्वति भावे इति न स्वर्यते पूर्वएवाधिकार इति। युक्तं चैतत्, `समजन्ति तस्यामिति सम्ज्वा' `निषीदन्ति तस्यामिति निषद्या' इत्यादिदर्शनात्। तत्कथमुच्यते `स्त्रियां भावाधिकारोऽस्तीति? सत्यम्। स्त्रियां-स्त्रीप्रकरणे "संज्ञायां समज" इत्वादिना क्यपि विधीयमाने भावस्याधिकारः अभिधेयत्वोपगमलक्षणो व्यापारोऽस्ति। शब्दशक्तिस्वाभाव्याद्भाव एव क्यप् न तु कर्मणीत्वाशवः।
एतदपरितोषादेवाह-अथवेति। न पतन्त्यनेनेत्यपत्यम्। अजन्तात् भावकर्मणोर्विधीयमानोऽपि यत् हलन्तात्करणे च भवति। `जन्यम्' इत्यत्रापि हलन्ताद्यत्, `भित्तिः' इत्यत्र "षिद्भिदादिभ्योऽङ्"(पाoसूo3-3-104)इत्यङो विषये क्तिन्। सर्वमिदं यथा बाहुलकाद्भवति, एवं भार्याशब्दे क्यब्विषये ण्यद्भवतीत्यर्थः। अथवा इत्थं समाधेयम्-क्यब्विधौ भृञ् भरणे(भ्वाoउo923)इति भ्वादिरेव गृह्यते न जौहोत्यादिको डुभृञ् भरणे(जुoउo5), द्व्यनुबन्धकत्वात्। एवञ्च विभर्तेर्वा `भॄञ्भरणे'(क्र्याoपo19)इति दीर्घान्तात् क्र्यादेर्वाण्वति भार्याशब्दो निर्बाध एवेति।
(पाoसूo3-1-113)
मृजेर्विभाषा(पाoसूo3-1-113)।। ऋदुपधत्वान्नित्यं क्यपि प्राप्ते विकल्पार्थं सूत्रम्। परिमृज्वः। परिमार्ग्यः। ण्वत्पक्षे "मृजेर्वृद्धिः"(पाoसूo7-2-114) `चजोः'(पाoसूo7-3-52)इति कुत्वम्।।
(पाoसूo3-1-114)
राजसूयसूर्यमृषोद्यरुच्यकुप्वकृष्टपच्याव्वथ्याः(पाoसूo3-1-114)।।
एते सप्त क्यवन्ता निपात्यन्ते। अभिषिक्तः क्षत्रियो राजा तेन सोतव्योऽभिषवद्वारेम निष्पादयितव्य इत्यर्थे कर्मणि क्यप्। दीर्घत्वञ्च निपात्वते रूढ्यर्थम्। यद्वा लतात्मकः सोमो राजा, "राजानं क्रीणन्ति" इत्यादौ दर्शनात्। स सूयते कण्ड्‌यते अत्र इत्यर्थे अधिकरणे क्यप्। निपातनं रूढ्यर्थम्। तेन आद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसङ्गः। राजसूयशब्दश्च पुन्नपुंसकलिङ्गोऽर्धर्चादित्वात्। सरत्याकाशमार्गे इति सूर्यः। `सृ गतौ'(भ्वाoपo960)। कर्तरि क्यप् निपातनादुत्वं, रपरत्वं, "हलि च'(पाoसूo8-2-77)इति दीर्घः। यद्वा `षू प्रेरणे'(तुoपo128)तुदादिः। सुवति-कर्मणि लोकं प्रेरयति इत्वर्थे कर्तरि क्यपि कृते क्यपो रुडागमश्च निपात्यते। मृषोपपदाद्वदेः कर्मणि क्यप्। पक्षे यति प्राप्ते नित्यं क्यप् निपात्यते। विशेष्यनिघ्नोऽयम्।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषाद्याः।(माoकाo4-10)
इति माघः रोचते असौ रुच्यः। कर्त्तरि क्वप्।
गुपेरादेः कुत्वञ्च संज्ञायाम्। कुप्यम्। सुवर्मरजतातिरिक्तस्य धनस्येयं संज्ञा। कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः। कर्मकर्त्तरि निपातनम्। इहान्तोदात्तत्वमपि निपात्यते। शुद्धे तु कर्मणि `कृष्टपाक्यः' इत्येव भवति। न व्यथते अव्यथ्यः, कर्तरि क्यप्। अत्र वार्तिकानि-
सूयरुच्यव्यथ्याः कर्तरि(काoवाo)।।
सूसर्तिभ्याञ्च सर्तेरुत्वम्(काoवाo)।।
सुवतेर्वा रुडागमः(काoवाo)।। कुप्यं संज्ञायाम्(काoवाo)इति।
भिद्योद्ध्यौ नदे(पाoसूo3-1-115)।। भिदेरुज्झेश्च कर्तरि क्यप् उज्झेर्धत्वञ्च। भिनत्ति कूलं भिद्यः। उज्झत्युदकम् उद्ध्यः। नदे किम्? भेत्ता। उज्झिता।
(पाoसूo3-1-116)
पुष्यसिध्यौ नक्षत्रे(पाoसूo3-1-116)।। पुषेः सिधेश्च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये। पुष्यन्त्यस्मिन्नारब्धा अर्था इति पुष्यः। सिध्वन्त्यस्मिन्निति सिध्यः। नक्षत्रे इति किम्? पोषणं, सेधनम्। पुष्यसिध्यशब्दौ पर्यायौ। स्वरूपपरत्वात्तु सूत्रे द्वन्द्वः। `पुष्ये तु सिध्वतिष्यौ'(अoकोo3-24)इत्यमरः। तत्र तुष तुष्टौ(दिoपo78)इत्यस्मात् बाहुलकादधिकरणे ण्वति "सूर्यतिष्य"(पाoसूo6-4-149)इति निपातनादुकास्येकार इत्येक्। `तिष्यः पुष्ये कलियुगे'(अoकोo3-3-155)इत्वमरव्याख्याने क्षीरस्वामी त्वाह-त्विष दीप्तौ(भ्वाoउo1026)"अध्न्यादयश्च"(उoसूo561)इत्यौणादिकयक्प्रत्ययान्तः। निपातनाद्वलोपः।
(पाoसूo3-1-117)
विपूयविनीवजित्या मुञ्जकल्कहलिषु(पाoसूo3-1-117)।। पूङ् नीञ्जिभ्यः क्यप् निपात्यते यथासंख्यं मुञ्जादिषु वाच्येषु। पूङ् पवने(भ्वाoआo991)विपूर्वः। विपूयो मुञ्जः। `रज्ज्वादिकरणाय शोधयितव्यः' इत्यर्थः। मुञ्जस्तृणविशेषः। विनीयः कल्कः। कल्कशब्दोऽयमस्ति पिष्टे औषधविशेषे। यथा-
पथ्या शुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय। इति।
अस्ति च पापे, `तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य `तामस्य ग्रहणमिति केचित्। अविशेषेणेति हरदत्तः। तथाच माघः प्रायुङ्क्त--`अविनीयसम्भ्रमविकासिभक्तिभिः' इति। जि अभिभवे(भ्वाoपo971)। जित्यो हलिः। `बलेन कष्टव्यः' इत्यर्थः। महद्धलं हलिः। कृष्टसमीकरणार्थं स्थूलकाष्ठमुच्यते। विपव्यम्। विनेयम्। जेयञ्चान्वत्। खर्वत्र "अचो यत्"(पाoसूo3-1-97)।
(पाoसूo3-1-118)
प्रत्यपिभ्यां ग्रहेः(पाoसूo3-1-118)।। क्यप् स्यात्। मत्तस्य न प्रतिगृह्यम्। तस्मान्नापिगृह्यम्।
(पाoसूo3-1-119)
छन्दसीति वक्तव्यम्(काoवाo)।। लोके तु-प्रतिग्राह्यम्, अपिग्राह्यम्। गृहेर्धातोः क्यप् स्यात्। प्रगृह्यम्पदम्। वस्य प्रगृह्यसंज्ञा विहितेति वृत्तिः। यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा न तु पदस्य, तथापि अवयवधर्मस्य समुदाये उपचारो बोध्यः। यद्वा यौगिकोऽयं पदशब्दः पठ्यते, गम्यतेऽनेनार्थ इति। असन्निकर्षश्चात्र गृहेरर्थः, `अग्नी अत्र' इत्यादौ हि प्रकृतिभावात् यणाद्यभावे कियताऽपि कालेन व्यवधानात् परस्परमचोन सन्निकृष्यन्ते। तथा च बव्हृचप्रातिशाख्यम्-स्वरान्तरं तु विवृत्तिः, सा वा स्वरभक्तिकालेति। स्वरभक्तिकालस्तु अर्द्धमात्रा पादमात्रा वा, द्राघीयसी सार्द्धमात्रेति तत्रैवोक्तत्वात्। तथा चाचोरन्तरालस्य विवृत्तिसंज्ञकस्य वर्णशून्यकालस्य क्वचिदर्द्धमात्रत्वं क्वचित्पादमात्रत्वं चेति फलितोऽर्थः। एतद्व्यवस्था तु शिक्षासु बोद्धव्या। अवगृह्यं पदम्, यस्यावग्रहः क्रियते इति वृत्तिः। अवग्रहो विच्छेदः। अत्रापि गृह्णातेरर्थः प्राग्वत्, मात्रा ह्रस्वस्तावदवग्रहान्तरमिति प्रातिशाख्यात्। अत्र पदकाले समासे पूर्वपदमेवगृह्यमिति हरदत्तः। उपलक्षणञ्चैतत्, `हरिभिः' इत्यादेरपि सङ्ग्राह्यत्वात्। तस्मात् महापदसंज्ञाक्रान्ते य एकदेशः पदकाले विच्छिद्य पठ्यते, स सर्वोऽप्यवगृह्यमिति स्थितिः। स्वेनैव ईरितुं शीलमस्य स्वैरी स्वतन्त्रः। अस्वैरी परतन्त्रः। गृह्यका इमे, `गृहीतका' इत्यर्थः। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते।
गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते।
(अoकोo5-46)इत्यमरः। बाह्यायाम्-ग्रामगृह्या, नगरगृह्या सेना। `ग्रामनगराभ्यां बहिर्भूता' इत्यर्थः। स्त्रीलिङ्गनिर्देशात्पुन्नपंसकयोर्नभवति। पक्षे भवः-पक्ष्यः। दिगादित्वाद्यत्। वासुदेवगृह्यः। आर्यगृह्यः। तत्पक्षाश्रित इत्यर्थः।
(पाoसूo3-1-120)
विभाषा कृवृषोः(पाoसूo3-1-120)।। क्वप् स्यात्। पक्षे ण्यत्। कृत्यम्। कार्यम्। वृषु सेचने(भ्वाoपo707)। वृष्यम्। वर्ष्यम्।
(पाoसूo3-1-121)
युग्यञ्च पत्रे(पाoसूo3-1-121)।। पतन्त्यनेन पत्रं वाहनम्। "दाम्नीशस"(पाoसूo3-2-182)इत्यादिना करणे ष्ट्रन्। तस्मिन्नर्थे युजेः कर्मणि क्यप् कुत्वञ्च निपात्यते। युग्यो गौः। पत्रे किम्? `योग्यम्' अन्यत्। ण्यति "चजोः"(पाoसूo7-3-52)इति कुत्वम्।
अत्र हरदत्तः-प्राग्घितीयेन यतेदं सिद्धम् "तद्वहतिरथयुगप्रासङ्गम्"(पाoसूo4-4-76)इति। स्वरेऽपि नास्ति भेदः। क्यपि धातुस्वरः, यत्यपि 'यतोऽनावः"(पाoसूo6-1-213)इत्याद्युदात्तत्वम्। `अयुग्यम्' इत्यत्रापि न स्वरभेदः। "ययतोश्चातदर्थे"(पाoसूo6-2-156)"कृत्योकेष्णुच्चार्वादयश्च"(पाoसूo6-2-160)इत्युभयत्रापि अन्तोदात्तत्वविधानात्। तस्मादिदं सूत्रं शक्यमकर्तुमिति।
अत्रेदं वक्तव्यम्। `युग्यो गौः' इत्यादिसिद्धावपि `युग्योहस्ती' इति वृत्तावुदाहृतं तद्धितेन न सिध्यति, नहि हस्ती युगं वहतीति। कृतातु सिध्यति युज्यते सम्बन्धये ह्यसौ कुथादिनेति। किञ्च असत्यस्मिसूत्रे ण्यत्‌प्रत्ययेन `योग्यो गौः' इत्यपि स्यात्। अपि च स्वरभेदोऽपि पाक्षिकोऽस्त्येव। "क्रतुर्भवत्युक्थ्यः" इत्यादौ तित्म्वरदर्शनात्। "यतोऽनावः"(पाoसूo6-1-213)इति सूत्रं यदन्ते द्व्यच्के एकाच्प्रकृतिक एव प्रवर्तत इति वेदभाष्यकारप्रतिपादिते पक्षे स्वरभेदस्य दुर्वारत्वादिति दिक्।
(पाoसूo3-1-122)
अमावस्वदन्यतरस्याम्(पाoसूo3-1-122)।। अमाशब्दः सहार्थे वर्त्तते, `अमात्यः' इत्वादौ दर्शनात्। तस्मिन्नुपपदे वसेर्धातोरथिकरणे ण्यत् तन्निमित्तायां वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते। निपातनादेव कालविशेषे रूढिर्लभ्यते। अमा सह सन्निकृष्टौ वसतोऽस्यां चन्द्राक्रौ इत्यमावस्या, अमावास्या। एकदेशविकृतस्यानन्यत्वात् "अमावास्याया वा"(पाoसूo4-3-30)इति दीर्घमध्यमनूद्य विहितस्ताद्धितो ह्रस्वमध्यादपि सिद्ध्यति। यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्ते `अमावास्या' इत्यधिकरणे ण्यदेव तावद् दुर्लभः। अथापि बाहुकालाल्लभ्येत, एवमपि "अमावास्याया वा"(पाoसूo4-3-30)इत्यत्र ण्यदन्तग्रहणे यदन्तं न गृह्येत। किञ्च ण्यत्पक्षे उपपदसमासो न स्यात्। मयूरव्यंसकादित्वाद्भविष्यतीति चेत्? एवमपि "गतिकारकोपपदात्"(पाoसूo6-2-139)इति स्वरो न स्यात्, किं त्वन्तोदात्तः स्यात्, इष्यते तु तित्स्वर एव "अमावास्यासुभगा सुसेव" `यदाग्नेयोऽष्टाकपालोऽमावास्यायाम्' इत्वादौ स्वाशब्दे स्वरितत्वस्य शेषानियातस्य च पठ्यमानत्वात्। तस्मात् "ण्यदन्तस्यैव वृद्धौ सत्यां पक्षे ह्रस्वो निपात्यते" इति यथाव्याख्यानमेवादर्त्तव्यम्। तथा च भाष्यम्-
अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्।
तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।।
इह व्यक्तिभेदाश्रयो द्विवचनिर्द्देशः। एकस्योति शेषः। ण्यतोः-ण्यदन्तयोः। अमापूर्वयोर्वसोर्मध्ये एकस्य अवृद्धितां ह्रस्वम् अहं निपातयामि। सूत्रकारेणैक्यमापन्नस्येयमुक्तिः। तथा सति तयोः शब्दयोरेका तद्धितवृत्तिर्ययोः तत्ता सिध्यति एकदेशविकृतस्यानन्यत्वात्। एवं निपातयतो मे स्वरोऽपि सिध्‌यति। स च व्याख्यात एव। न च सिद्धान्तेऽपि उत्तरपदप्रकृतिस्वरो दुर्लभः, सूत्रे सप्तम्यभावेन उपपदसंज्ञाया अप्रवृत्तौ उपपदात्परत्वाभावादिति वाच्यम्, `अमा' इति सप्तम्या लुका निर्द्देशादिति भावः।
(पाoसूo3-1-123)
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि(पाoसूo3-1-123)।। एतानि सप्तदश छन्दसि निपात्यन्ते। कृती छेदने (तुoपo154)अस्मात् निस्‌पूर्वात्क्यपि प्राप्ते ण्वत्, आद्यन्तयोर्विपर्यासः, निसः षत्वं च निपात्यते, निष्टर्क्यं चिन्वीत पशुकामः। देवशब्द उपपदे व्हयतेर्जुहोतेर्वा क्यप् दीर्घत्वं तुगभावश्च, स्पर्द्धन्ते वा उदेवहूये। अत्र प्रपूर्वादुत्पुर्वाच्च नयतेः क्यप्, प्रणीयः, उन्नीयः। उत्पूर्वाच्छिषेः क्यप्, उच्छिष्यम्। मृङ् प्राणत्यागे(तुoआo123), स्तञ् आच्छादने(स्वाoउo6), ध्वृ हूर्छने(भ्वाoपo164)एभ्यो यत्, मर्यः, स्तर्या, स्त्रियामेवास्य निपातनम्। ध्वर्यः। खनेर्यत्ण्यतो, खन्यः, खान्यः। देवशब्द उपपदे यजेर्यप्रत्ययः, शुन्धध्वं दैव्याय कर्मणे देवयज्यायै। प्रत्ययस्वरेणान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरः। स्त्रीलिङ्ग एवेदं निपातनम्। आङ्‌पूर्वात्पृच्छेः क्यप्, आपृच्छ्यं धरुणं वाज्यर्षति। प्रतिपूर्वात्सीव्यतेः क्यप् षत्वञ्च, प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर्व्यत्, "वदः सुपि क्यप् च"(पाoसूo3-1-106)इति प्राप्तयोः क्वव्यतोरपवादः, ब्रह्मवाद्यम्। अथ कथं "ब्रह्मोद्यं वदन्ति"(ऋoश्रोoसूo2-4)इति? छन्दसि विशेषविहितेन ण्यता लोके चरितार्थस्य "वदः सुपि" इति क्यपो बाधप्रसङ्गात्। न च "वासरूप"(पoभाo8)इत्युक्तत्वात्। सत्यम्, कृद्व्यत्ययोऽत्र बोध्यः। उक्तं हि, "कालहलच्‌स्वरकर्तृयङां च" इति। तत्र हि कर्तृग्रहमं कृत्प्रत्ययपरमित्यवोचाम।
भवतेः स्तौतेश्च ण्यत्, भाव्यः, स्ताव्यः। उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च निपात्यते पृडे उत्तरपदे। मृड सुखने, पृड च(तुoपo47,48)। इत्येतस्मादिगुपधलक्षणःकः, उपचाय्यपृडम्।
हिरण्य इति वक्तव्यम्(काoवाo)।। उपचेयपृडमेवान्यम्। अत्र वावर्त्तिकम्-
निष्टर्क्ये व्यत्ययं विद्यात् निसः षत्वं निपातनात्।
ण्यदायादेश इत्येतौ उपचाय्ये निपातितौ।।
ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्वश्च यतो विधिः।
ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः।।
ण्यत्वयमिति, आद्यन्तविपर्यासमत्यर्थः। `चतुर्भ्यः' इति देवहूयादिषु चतुर्भ्यो धातुभ्यः क्यप्, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति, द्वाभ्यां धातुभ्वां द्वाविति भावः। ण्यद्विधिश्चतुरिति सुजन्तम्। `चतुरो वारान् ण्यद्विधीयते' इत्यर्थः।।
(पाoसूo3-1-124)
ऋहलोर्ण्यत्(पाoसूo3-1-124)।। ऋवर्णान्तात् धातोर्हलन्ताच्च ण्यत् स्यात्। कार्यम्। हार्यम्। वाच्यम्। पाच्यम्। सूत्रे पञ्चम्यर्थे षष्ठी। `ऋ'इति च अर्तेर्ग्रहणं न भवति, किन्तु वर्णग्रहणम्, हला साहचर्यात्। `परङ्कार्यम्'(पाoसूo1-4-2)इति निर्द्देशात्। "ईडवन्दवृशंसदुहांण्यतः"(पाoसूo6-4-214)इति लिङ्गाच्च। अत्र वार्त्तिकानि--
पाणौ सूजेर्ण्यद्विधिः(काoवाo)।। ऋदुपधत्वात्प्राप्तस्य क्यपोऽपवादः। पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः।
समवपूर्वाच्चेति वक्तव्यम्(काoवाo)।। समवसर्ग्या।
लपिदभिभ्याञ्चेति वक्तव्यम्(काoवाo)।। अपलाप्यम्। अवदाभ्यम्। आभ्यां "पोरदुपघात्"(पाoसूo3-1-98)इति प्राप्तस्य यतोऽपवादः। अत्र `दभिः' धातुष्वपठितोऽपि वार्त्तिकवचनात् चुराद्यन्ते "बहुलमेतन्निदर्शनम्"(चुoगoसूo)इति बहुलग्रहणाच्चुलुम्पादिवत्साधुः। तथा च प्रयुज्यते-"न तानशान्ति न दभाति तस्कारः" इति, "विष्णुर्गोपा अदाभ्यः" इति च। जयादित्यस्तु आद्यं वार्त्तिकद्वयम्, "एतिस्तुशास्वृ"(पाoसूo3-1-109)इति सूत्रे पठित्वा तृतीयवार्त्तिकोक्तयोर्धात्वोर्मध्ये लपिम्, "आसुयुवपि"(पाoसूo3-1-126)इति सूत्रे रपेरुपरि प्रक्षिप्य अनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्‌ग्रहमाह। तत्र वैरूप्यं निर्बीजमेवेत्यवधेयम्।
(पाoसूo3-1-125)
ओरावश्यके(पाoसूo3-1-125)।। उवर्णान्ताद्धातोर्ण्यत् स्यात् आवश्यके द्योत्ये। अवश्यं भाव आवश्यकम्। मनोज्ञादित्वाद् वुञ्। "अव्ययानां भमात्रे टिलोपः"(काoवाo)। लाव्यम्। पाव्यम्। द्योतितार्थस्यापि क्वचित्प्रयोगो दृश्यते, लाघवं प्रत्यनादरात्। अवश्यलाव्यम्। अत्रोपपदसमासासम्भवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः। उत्तरपदप्रकृतिस्वरत्वमपि तत्रैव निपातनाद्वोध्यम्।
(पाoसूo3-1-126)
आसुयुवपिरपित्रपिचमश्च(पाoसूo3-1-126)।। आङ्‌पूर्वात्सुनोतेर्युप्रभृतिभ्यश्च ण्यत् स्यात्। "अचो यत्" "पोरदुपधात्"(पाoसूo3-1-97,98)इति यथायोगं प्राप्तस्य यतोऽपवादः। अत्र रपेरुपरि लपिर्वृत्तिकृता प्रक्षिप्त इत्युक्तम्। षुञ् अभिषवे(स्वाoउo1)। आसाव्यम्। यु मिश्रणे(अoपo23)। याव्यम्। `युञ् बन्धने'(क्याoउo7)इत्यस्य तु सानुबन्धकत्वान्नेह ग्रहणम्। वाप्यम्। राप्यम्। अपत्राप्यम्। आचाम्यम्।
(पाoसूo3-1-127)
आनाय्योऽनित्ये(पाoसूo3-1-127)।। नयतेराङ्‌पूर्वात् ण्यदायादेशौ निपात्येते। रूढ्यर्थमपि निपातनम्। ते घटादौ न भवति। किन्तु दक्षिणाग्निविशेष एव भवति। तथाहि-दक्षिणाग्नेर्योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतः भ्राष्ट्राद्वा गार्हपत्याद्वेति। तत्र यो गार्हपत्यादानी यते आहवनीयेन सहैकयोनिः, तत्रैवदं निपातनं, तस्य चानित्यत्वम्, सततमप्रज्वलनात्। अत्र भाष्यम्-
आनाय्योऽनित्यइति चेद्दक्षिणाग्नौ कृतं भवेत्।
एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत्।।
चेदित्यस्यानन्तरं घटादिष्वतिप्रसङ्ग इति शेषः। भवेदिति सम्भावने लिङ्ग निपातनादेव रूढिः सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन सहेति शेषः। आनेय इति। घटादावनित्ये भिन्नयोनौ च दक्षिणाग्नौ "अचो यत्"(पाoसूo3-1-97)इति यदेव भवतीत्यर्थ-।
(पाoसूo3-1-128)
प्रणाय्योऽसम्मतौ(पाoसूo3-1-128)।। सम्माननं सम्मतिः। प्रीतिविषयभावोपगमनं कर्मव्यापारोऽत्र विवक्षितः। तथा भोगविषय आदरोऽपि सम्मतिः तन्त्रेणार्थद्वंय विवक्षितम्। तेन पूजानर्हे निष्कामे च प्रपूर्वान्नयतेः व्यदायादेशौ निपात्येते। प्रणाय्यश्चोरः। ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्यायान्तेवासिने नान्यस्मै कस्मै चन।
(पाoसूo3-1-129)
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु(पाoसूo3-1-129)।। यथासंख्यं चतुर्षु चत्वारो निपात्यन्ते। पाय्यं मानम्। मीयतेऽनेन मानम्। माङो ण्यत्प्रत्ययः करणे। "आतो युक् चिण्‌कृतोः"(पाoसूo7-3-33)।। इति युक्। धात्वादेः पत्वञ्च निपातनात्। मेयमन्यत्। सान्नाय्यं हविर्विशेषः। सम्यङ् नीयते होमार्थमग्निं प्रतीति। सम्पूर्वान्नयतेर्ण्यदायादेशौ उपसर्गदीर्घत्वञ्च निपात्यते। ऐन्द्रन्दध्यमावास्यायाम्, ऐन्द्रं पयोऽमावास्यायामिति विहितयोर्दाधिपयसोः संज्ञोयम्।
माघस्तु यथाश्रुतग्राही हविर्मात्रे प्रायुङ्क्त-
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य।
कृतगुरुदुरितौघध्वंसमध्वयुर्मुख्यैर्हुतमयमवलीढे साधुसान्नाय्यमग्निः।। इति।(माoकाo11-41)
नन्विदमपि दधिपयोविषयकमेव किं न स्यादिति वाच्यम्, चन्द्रोदयास्तमयवर्णनपूर्वकं सूर्योदयं प्रक्रम्य पठितस्यास्य कृष्णप्रतिपद्विषयत्वेन तत्र दधिपयोयोगस्यासम्भवात्। हविर्विशेषवाचकस्य सामान्ये विशेषन्तरे वा लक्षणेत्यपि बोद्यम्। निकाय्यो निवासः। निपूर्वाच्चिनोतेरधिकरणे ण्यत्, आयादेशः, आदेः कत्वञ्च निपात्यते। निचीयतेऽस्मिन्धान्यादिकमिति विग्रहः। निचेयमन्यत्। अत्रैवार्थे निकायशब्दोऽप्यस्ति। स च "निवासचितिशरीरोपसमाधानेष्वादेश्च कः"(पाoसूo3-3-41)इत्यत्र व्युत्पादयिष्यते। धाञो ण्यत्‌प्रत्ययः सामिधेन्याम्। समिधामाधानी सामिधेनी। "समिधामाधाने षेण्यण्"(काoवाo)। "प्रवोवाजाः" इत्यादिका ऋचः सामिधेन्यः। अत्र च न सर्वा सामिधेनी धाय्येत्युच्यते, किन्तु समिध्यमानवन्तीं समिद्धवन्तीं चान्तरेम विकृतिषु प्रक्षिप्यमाणा 'पृथुपाजा अमर्त्यः" इत्यादिकैव। सूत्रे सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थम्। तथा चासामिधेन्यामपि दृश्यते-धाय्याः शंसति। "अग्निर्नेता" "त्वं सोमक्रतुभिः" इति ज्योतिष्टोमे मरुत्वतीये शस्त्रविधानमेतत्। तत्र `धीयते अनया समित्' इति करणे ण्यदिति हरदत्तग्रन्थः "पृथुपाजाः" इत्यादिविषयः, `धीयत इति धाय्या' इति कर्मणि ण्यदिति माधवग्रन्थस्तु "अग्निर्नेता" इत्यादिसाधारण इति विवेकः। सर्वश्चायं विशेषो निपातनस्य रूढ्यर्थत्वाल्लभ्यते।
(पाoसूo3-1-130)
क्रतौ कुण्डपाय्यसञ्चाय्यौ(पाoसूo3-1-130)।। एतौ निपात्येते क्रतौ वाच्ये। तत्र कुण्डशब्दे तृतीयान्ते उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक्च। कुण्डेन पीयते अस्मिन्सोम इति कुण्डपाय्यः क्रतुः। ननु अत्र ण्यदेव निपात्यतां प्रकृतत्वात्, एवञ्च युक् न निपातनीयः, "आतो युक्"(पाoसूo7-3-33)इत्येव सिद्धत्वादिति लाघवमपीति चेत्? मैवम्, तित्स्वरप्रसङ्गात्। इष्यते तु "यतोऽनावः"(पाoसूo6-1-213)इत्याद्युदात्तत्वम्, कृदुत्तरपदप्रकृतिस्वरेम तस्यैव परिनिष्ठितत्वात्। तथा च प्रयुज्यते-"यस्ते शृङ्गवृषो नयात् प्रणपात् कुण्डपाय्यः" इति। सम्पूर्वाच्चिनोतेर्ण्यत् आयादेशश्च निपात्यते। सञ्चीयते असौ सञ्चाय्यः क्रतुः। क्रताविति किम्? कुण्डपानं, सञ्चेयः।
(पाoसूo3-1-131)
अग्नौ परिचाय्योपचाय्यसमूह्याः(पाoसूo3-1-131)।। एते निपात्यन्ते अग्नावभिधेये। अग्निश्चेह न ज्वलनः, किन्तु तद्धारणार्थमिष्टकाचयननिर्मितस्थलविशेषः, तत्रैव निरूढत्वात्। परिपूर्वादुपर्पूर्वाच्च चिनोतेर्ण्यदायादेशौ निपात्येते-परिचाय्यः। उपचाय्यः, सम्पूर्वाद्व्हेः सम्प्रसारणं दीर्घत्वञ्च निपात्यते-समूह्यं चिन्वीत पशुकामः। अग्नाविति किम्? परिचेयम्। उपचेयम्। संवाह्यम्। इह सम्पूर्वात् "ऊहवितर्के'(भ्वाoआo649)इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्तमानाद्धलन्तत्वाण्ण्यति `समूह्यम्' इति सिद्धम्। युक्तं चैतत्; "समूह्यं चिन्वीत पशुकामः। पशवो वै पुरुषः। पशुनेवास्मै तत्समूहति" इति वह्यर्थेन ऊहिना ब्राह्मणे समूह्यशब्दस्य निरुक्तत्वात्। उक्तञ्च वार्तिककृता-
`समूह्य' इत्यनर्थकं वचनं सामान्यकृतत्वात्। वह्यर्थमिति चेद्वहते स्तदर्थत्वात्सिद्धम्। ऊहिविग्रहाच्च ब्राह्मणे सिद्धमिति।
(पाoसूo3-1-132)
चित्याग्निचित्ये च(पाoसुo3-1-132)। चित्येत्यत्र कर्मणि क्यप् निपात्यते। यतोऽपवादः। धातुस्वरेमाद्युदात्तं पदम्। चीयते असौ चित्योऽग्निः। अग्नेश्चयनमग्निचित्या। भावे यकारप्रत्ययस्तुक् च निपात्यते, न तु क्यप्। तेनान्तोदात्तत्वं भवति। इह सूत्रे `अग्नौ' इत्यनुवर्त्तते, तच्च चित्यशब्दस्यैव विशेषणं, नाग्निचित्याशब्दस्य, तस्य भावे निपातितत्वात्। तेनाग्नेरन्यत्र `चेयम्' इत्येव भवति।
समाप्ताः कृत्याः।।
(पाoसूo3-1-133)
ण्वुल्‌तृचौ(पाoसूo3-1-133)।। धातोर्ण्वुल्‌तृचौ स्तः। इत ऊर्ध्वमध्यायपरिसमाप्तेरुत्सर्गतः "कर्तरि कृत्"(पाoसूo3-4-67)इत्युक्तेः कर्तरि प्रत्ययाः। पाचकः। पक्ता। तृचश्चकारः सामान्यग्रहणाविघातार्थः। "तुश्छन्दसि"(पाoसूo5-3-59)"तुरिष्ठेमेयः सु"(पाoसूo6-4-154)इति। एवञ्च "अप्तृन्"(पाoसूo6-4-11)इति सूत्रेऽपि तृन्‌तृचोः इति पृथक्‌ग्रहणं विहाय `अप्तृस्वसृ' इत्येव ग्रहणमुचितम्।
(पाoसूo3-1-134)
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः(पाoसूo3-1-134)।। नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दिग्रहिपचादयश्च न धातुपाठे सन्निविष्टाः संगृह्यन्ते। किन्तर्हि नन्दन रमण इत्येवमादिषु प्रातिपदिकगणेषु ये प्रकृतिभागास्ते इह बुद्ध्या पृथक् कृत्य गृह्यन्ते। नन्वेवं किमनेन सूत्रेण, गणपाठादेव नन्दनादिशब्दानां साधुत्वोपपत्तेरिति चेत्?
अत्र हरदत्तः--असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगात् गणपाठो नापेक्षष्यते इति। तस्यायमाशयः-एव एव साधव इति स्वरूपनियमपरं हि व्याकरणशास्त्रं तच्च "सूत्रेष्वेव हि तत्सर्वम्" इति न्यायेन सूत्रात्मकम्। तथा च यत्सूत्रैः कथमपि न विषयीकृतं, तस्य गाव्यादिवदर्थादसाधुत्वं प्रसज्येतेति।
नन्दिवाशिमादिदूषिसाधिवर्द्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायायाम्(गoसूo)।। टुनदि समृद्धौ(भ्वाoपo67)। नन्दयतीति नन्दनः। वाशृ शब्दे(दिoआo77)। वाशनः। मदी हर्षे(दिoपo1-2)। मदनः। दुष वैकृत्ये(दिoपo79)। "दोषो णौ"(पाoसूo6-4-90)इत्यूत्वम्, दूषमः। राध साध संसिद्धौ(स्वाoपo16,17)। विप्रो यज्ञस्य साधनः। ल्युः कर्त्तरीति पुंस्त्वम्। कथन्तर्हि `होतुराहुतिसाधनं धेनुः' इति? करणे ल्युटि सामान्ये नपुंसकं भविष्यति। वृधु वृद्धौ(भ्वाoआo760)वर्द्धनः। शुभ शुम्भ शोभार्थे(तुoपo41,42)शोभनः। रुच दीप्तौ(भ्वाoआo746)। रोचनः।
सहितिदमः संज्ञायाम्(गoसूo)।। षह मर्षणे(भ्वाoआo877)सहनः। तप सन्तापे(भ्वाoपo1010)तपनः। दमु उपशमे(दिoपo97)। दमनः। जप जल्प व्यक्तायां वाचि(भ्वाoपo397,398)। जल्पनः। रमु क्रीडायां(भ्वाoआo878)रमणः। दृप हर्षविमोचनयोः(दिoपo90)दर्पणः। क्रदि आव्हाने रोदने च(भ्वाoपo71)सङ्‌क्रन्दनः। कृष विलेखने(भ्वाoपo1015)सङ्कर्षणः। हृषु अलीके (भ्वाoपo710)हर्षणः। अर्द हिंसायाम्(भ्वाoपo55)जनमर्दयतीति जनार्दनः। कर्मण्यणि प्राप्ते। एवमुत्तरत्रापि कर्मण्युपपदे द्रष्टव्यम्। युमिश्रणे(अoपo23)। यवनः। षूद क्षरणे(भ्वाoआo25)। मधुर्नामाऽसुरस्तं सूदयतीति मधुसूदनः। ञिभी भये(जुoपo2)। विपूर्वात् णिचि "भियो हेतुभये षुक्"(पाoसूo7-3-40)इति षुक्, विभीषमः। लूञ् छेदने(क्र्याoउo11)। निपातनाण्णत्वम्, लवणः। णश अदर्शने(दिoपo88), दमु उपशमे(दिoपo97)। ण्यन्तौ। वित्तं नाशयतीति वित्तनाशनः। कुलं दमयतीति कुलदमनः, शत्रुदमनः। इति नन्द्यादिः।
ग्रह उपादाने(क्र्याoउo61)। ग्राही। षह मर्षणे(भ्वाoआo988)उत्साही। दसु उपक्षये(दिoपo107)उद्दासी। भस भर्त्सनदीप्त्योः(जुoपo18)उद्भासी। तिष्ठतेः "आतो युक्"(पाoसूo73-33)। स्थायी। मत्रि गुप्तपरिभाषणे(तुoआo146)चुरादिः, मन्त्री। अर्द्द हिंसायाम्(चुoउo296)। समर्दी।
रक्षश्रुवप्‌शां नौ(गoसूo)।। रक्ष पालने(भ्वाoपo659)निरक्षी। श्रुवणे(भ्‌वाoपo967)। निश्रावी। डुवप् बीजसन्ताने(भ्वाoउo1028)निवापी। शो तनूकरणे(दिoपo39)निशायी। चत्वारोऽमी निपूर्वाः।
याचृव्याहृसंव्याहृव्रजवदवसां ऩञ्पूर्वाणाम्(गoसूo)।। टुयाचु याच्ञायाम्(भ्वाoउo888)। हृञ् हरणे(भ्वाoउo924)। व्रज गतौ(भ्वाoपo254)। वद व्यक्तायां वात्ति(भ्वाoपo1034)। वस निवासे(भ्बाoपo1034)। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी।
अचामचित्तवत्कर्तृकाणाम्(गoसूo)।। अजन्तानां धातूनाम् अचेतनकर्तृकाणां णिन िर्भवति। प्रतिषिद्धार्थानामेव। अकारी। अहारी। शीङ् स्वप्ने(अoआo22)विशयी, वृद्ध्यभावो निपातनात्। षिञ् बन्धने(स्वाoउo2)विषयी, वृद्ध्यभावः प्राग्वत्। इह षत्वमपि निपातनादिति गणरत्नमहोदधिव्याख्यायां वर्द्धमानः। `विशयी विषयी देशे' इति वृत्तिः। अभिभावी भूते। अभिभूतवान् अभिभावी। राध संसिद्धौ(स्वाoपo16)अपराधी। रुधिर् आवरणे(रुoउo1)अवरोधी। उपरोधी। परिभावी। इह पाक्षिको वृद्ध्यभावो निपात्यते। इति ग्रहादिः।
डुपचष्‌पाके(भ्वाoउo1021)वच परिभाषणे(अoपo53)इत्यादि।
आकृतिगणोऽयम्। तथा च "शिवशमरिष्टस्य करे"(पाoसूo4-4-143)इति सूत्रे कृञोऽच्‌प्रत्ययः कृतः। "कर्मणि घटोऽठच्"(पाoसूo5-2-35)इति सूत्रे च घटेः। तथा 'यङोऽचि च"(पाoसूo2-4-74)इति सूत्रेण अस्मिन्नच् प्रत्यये परे यङो लुग्विहितः। भाष्ये च "अजपि सर्वधातुभ्यो वक्तव्यः" इत्युक्तम्। किमर्थं तर्हि पचाद्यनुक्रमणमिति चेत्? नदट् इत्यादौ अनुबन्दासञ्जनार्थम्, कर्मोपपदानामिगुपदानां च बाधनार्थम्। अन्येषान्तु प्रपञ्चार्थम्। तथाहि-नदट्, भषट्, प्लवट्, चरट्, गरट्, तरट्, चोरट्, देवट्, सूदट्, एते टितः। नद अव्यक्ते शब्दे(भ्वाoपo54), टो ङीबर्थः, नदः। नदी। भष भर्त्सने(भ्वाoपo696)भषी। प्लुङ् गतौ(भ्वाoआo983)प्लवी। चर गतौ(भ्वाoपo560)चरी। गॄ निगरणे(तुoपo130)गरी। तॄ प्लवनतरणयोः(भ्वाoपo994)तरी। चुर स्तेये(चुoपo1)चोरी। दिवु क्रीडादौ(दिoपo7)देवी। सूदिरुक्तार्थः। सूदी। मिष स्पर्द्धायाम्(तुoपo72)मेषः। कुप क्रोधे(दिoपo127)कोपः। सूप्लृ गतौ(भ्वाoपo1008)सर्पः। इह दिविप्रभृतिषु इगुपधत्वात्कः प्राप्तः। डुभृञ्(जुoउo5)जारं बिभर्तीति जारभरा। श्वानं पचतीति श्वपचा। अनयोः कर्मण्यण् प्राप्तः। न्यङ्क्वादिषु श्वपाकशब्दस्य पाठात् पक्षे 'कर्मण्यण्"(पाoसूo3-2-1)अपि भवतीति कैयटादयः। जॄष्‌मृङ्‌प्रभृतीनान्तु पाठः प्रपञ्चार्थ एवेति विवेकः।
(पाoसूo3-1-135)
इगुपधज्ञाप्रीकिरः कः(पाoसूo3-1-135)।। इगुपधेभ्यो जानातेः प्रीणातेः किरतेश्च कः प्रत्ययः स्यात्। विक्षिपः। विलिखः। विबुधः। कृशः। जानातीति ज्ञः। "आतो लोप इटि च"(पाoसूo6-4-44)इत्यालोपः। प्रीञ् तर्पणे(क्र्यांoउo2)इयङादेशः, प्राणातीति प्रियः। कॄ विक्षेपे(तुoपo129)"ऋतं इद्धातोः"(पाoसूo7-1-100), किरतीति किरः। सूत्रे तु इतरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कॄशब्दस्य धात्वनुकरणत्वेन 'प्रकृतिवदनुकरणम्"इत्यति देशात् ऋत इत्वं बोध्यम्। समाहारद्वन्द्वे तु नपुंसकत्वेन ह्रस्वे सतीत्वं न स्यात्।
(पाoसूo3-1-136)
आतश्चोपसर्गे(पाoसूo3-1-136)।। आकारान्ताद्धातोरुपसर्गे उपपदे कप्रत्ययः स्यात्। 'श्याद्व्याधा"(पाoसूo3-1-141)इति प्राप्तस्य णप्रत्ययस्यापवादः। प्रस्थः। सुग्लः। सुम्लः।
(पाoसूo3-1-137)
पाघ्राध्माधेड्‌दृशः शः(पाoसूo3-1-137)।। एभ्यः पञ्चभ्यः शप्रत्ययः स्यात्। पिबतीति पिबः। जिघ्रः। धमः। धयः। स्त्रियान्तु टाप्, धया। यद्यपि धेटिष्टित्त्वात् स्तनन्धयीत्यत्रेव इहापि ङीप् प्राप्नोति। तथापि "खशन्ते एव ङीप् न तु शप्रत्ययान्ते" इति सूत्रे `उपसर्गे' इति केचिदनुवर्तयन्ति, तत्तु बहूनामसम्मतम्। तथा च प्रायुङ्क्त श्रीहर्षः- फलानि धूमस्य धयानधोमुखानिति। श्रूयते च-यदा पश्यः पश्यते रुक्मवर्णमिति। अत्र पिबतेरेव ग्रहणं न तु `पा रक्षणे'(अoपo46)इत्यस्य, लुग्विकरणत्वात्।
घ्रः सञ्ज्ञायां प्रतिषेधः(काoवाo)।। अत्र च "व्याघ्रादिभिः"(पाoसूo2-1-56)इति सौत्रनिर्द्देशो लिङ्गम्। व्याघ्रः। "आतश्चोपसर्गे'(पाoसूo3-1-126)इति कः।
(पाoसूo3-1-138)
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च(पाoसूo3-1-138)।। अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययः स्यात्। लिम्पतीति लिम्पः। विन्दतीति विन्दः। सूत्रे लिम्पविन्देति भाविना नुमा सनुम्‌कौ निर्दिष्टौ। तेन विकरणेतराणामग्रहणम्। लाभार्थस्यैव तु ग्रहणम्। धृञ् धारणे(भ्वाoउo925), धृङ् अवस्थाने(तुoआo132), ण्यन्तयोर्द्वयोरपि ग्रहणम्। धारयः। अथ कथं 'न मह्यमत्रोत्तरदारयस्य ते" इति श्रीहर्षः? परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम्। तथा च वार्त्तिकम्-अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन (काoवाo)इति। सत्यम्, कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेषषष्ठ्यन्तेन समासो भविष्यति। एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः। पार कर्मसमाप्तौ(चुoपo379)पारयतीति पारयः। विदचेतनाख्यानादिषु(चुoआo175)चुरादिः। ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। वेदयतीति वेदयः। एजृ कम्पने(भ्वाoआo173)ण्यन्तः। उदेजयतीत्युदेजयः। चिति संज्ञाने(चुoपo2)चुरादिः। चेतयतीति चेतयः। सत सुखे चुरादिण्यन्त इति बोपदेवः। सातिः सौत्रो हेतुमण्ण्यन्त इति हरदत्तः। सातयः। वासरूपन्यायेन क्विपि सात्। सम्पदादित्वाद्भावे क्विब्वा। एवञ्च एष एवानन्दयतीति श्रुतिबलादानन्दयितृविज्ञानमानन्दमित्यादिम श्रुतिबलादानन्दरूपं ब्रह्म साच्छब्दार्थः। तदस्त्येषामिति सात्वन्तो भक्ताः। एतेन 'सात्वतां पतये नमः" इत्यादि व्याख्यातम्। सदेव सात् इत्युक्त्वा आर्षत्वञ्च वदन्तः प्रत्याख्याताः। `षद मर्षणे'(भ्वाoआo877)चुरादिर्हेतुमण्ण्न्तो वा, साहयः। उदाहरणेषु लिम्पिविन्दिभ्यां "तुदादिभ्यः शः"(पाoसूo3-1-77)"शे मुचादिनाम्"(पाoसूo70-1-69)इति नुम्। दारयादिषु शब्‌गुणायादेशाः। अनुपसर्गादिति किम्? प्रलिपः।
नौ लिम्पेरिति वक्तव्यम्(काoवाo)।। निलिम्पा नाम देवाः।
गवादिषु विन्देः संज्ञायामिति वक्तव्यम्(काoवाo)।। गोविन्दः। अरविन्दः। चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अरः, तदाकाराणि दलानि सादृश्यात्तच्छब्दभाञ्जि लभत इत्यर्थे कर्मण्यणो बाधनायेदम्।
(पाoसूo3-1-139)
ददातिददात्योर्विभाषा(पाoसूo3-1-139)।। शः स्यात्। पक्षे 'श्याद्व्यधा"(पाoसूo3-1-141)इति णॉः। ददः। दधः। दायः। धायः। अनुपसर्गादित्येव। प्रदः। प्रधः। दद दाने(भवाoआ17)दध धारणे(भ्वाoआo8)आब्यामचि `ददः' `दधः' इति सिद्धम्। दाधाभ्यां णे `दायः' `धायः' इति। सत्यम्, स्वरार्थमिदं सूत्रम्। अददः। अदधः। अत्र नञ्स्वरेण आद्युदात्तत्वं यथा स्यात्। अजन्तत्वे तु "अच्कावशक्तौ"(पाoसूo6-2-157)इति अन्तोदात्तत्वमिति महान् भेदः।
(पाoसूo3-1-140)
ज्वलितिकसन्तेभ्यो णः(पाoसूo3-1-140)।। इतिशब्द आद्यर्थः। `ज्वल दीप्तौ'(भ्वाoपाo856)इत्येवमादिभ्यो धातुभ्यः `कस गतौ'(भ्वाoपo885)इत्यन्तेभ्योणो वा स्यात्। ज्वलः, ज्वालः। चलः, चालः। अनुपसर्गादित्येव, प्रज्वलः। कसिमधीत्य `वृत्' इति ये पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ज्वलधातुश्च यद्यपि घटादिषु परस्ताच्चेति द्विः पठ्यते तथापि द्वितीय एवेह गृह्यते, घटादिपाठस्य मित्संज्ञायां चरितार्थत्वात्। इतरस्य चानन्यार्थत्वात् ज्वलादिषु `भ्रमु चलने'(भ्वाoपo875)इति पठ्यते। तस्माण्णे `भ्रमः' इति रूपं, "नोदात्तोपदेशस्य"(पाoसूo7-3-34)इति वृद्धिनिषेधात्। ज्वलादिपाठस्तु स्वरार्थः `अभ्रमः' इत्यत्र "अच्कावशक्तौ'(पाoसूo6-2-157)इति स्वरो मा भूदिति।
तनोर्ण उपसंखअयानम्(काoवाo)। अवतनोतीत्यवतानः। विभाषेत्यनुपसर्गादिति च नात्र वार्त्तिके सम्बध्यते।
(पाoसूo3-1-141)
श्याद्व्यधास्रुसंस्र्‌वतीणवसावहृलिहश्लिषश्वसश्च(पाoसूo3-1-141)।। अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात्। एवञ्च तत्सम्बद्धं विभाषाग्रहणमपि निवर्त्तते। श्यैङ्‌प्रभृतिभ्यो णः स्यात्। श्यैङ् गतौ(भ्वाoआo988)अस्य आदन्तत्वादेव सिद्धे उपसर्गे कं बाधितुं ग्रहणम्। अवस्यायः, प्रतिश्यायः। "आतो युक्"(पाoसूo7-3-33)इति युक्। एतेनावस्यतेर्ग्रहणं व्याख्यातम्। आत्-दायः, धायः। इह सूत्रे `श्या आत्' इति प्रश्लेषो न तु शीहो यणादेशेन, नापि अततेः, अच्छब्दान्तानां वा यतिप्रभृतीनाम्। नाप्यकारान्तानाम्। अत्र च व्याख्यानमेव शरणम्। व्यध ताडने(दिoपo75)व्याधः। स्रु गतौ(भ्वाoपo960)आङ्‌पूर्वः सम्पूर्वश्च। आस्रावः। संस्रावः। इण् गतौ(पाoसृ35)अति पूर्वः। अत्यायः। षोऽन्तकर्मणि(दिoपo41)। हृञ हरणे(अoउo924)। अवपूर्वः. अवहारः। लिह आस्वादने(अoपo6)लेहः। श्लिष आलिङ्गने(दिoपo80)श्लेषः। श्वस प्रामने(अoपo59श्वास-।
(पoसूo3-1-142)
दुन्योरनुपसर्गे(पाoसूo3-1-142)।। दुनोतेर्नयतेश्च अनुपसर्गाण्णः स्यात्। दुनोतिति दावः। नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेस्तु पचाद्यच्, दवः। करणसाधनो वा "ऋदोरप्"(पाoसूo3-3-57)इत्यबन्तः। "दवदावौ वनारण्यवह्नी"(अoकोo3-3-214)इत्यमरः। नयतीति नायः। अनुपसर्गे किम्! प्रदवः। प्रणयः।
(पाoसूo3-1-143)
विभाषा ग्रहः(पाoसूo3-1-143)।। णः स्यात्। पक्षे अच्। व्यवस्थितविभाषेयम्। तेन जलचरे-ग्राहः। ज्योतिषि-ग्रहः।
भवतेश्चेति वक्तव्यम्(काoवाo)।। भवो देवः संसारश्च। भावाः पदार्थाः। एतद्वक्तव्यं भाष्यं नास्ति। `भावाः' इति तु प्राप्त्यर्थाच्चुरादिण्यन्तादचि बोध्यम्।
(पाoसूo3-1-144)
गहे कः(पाoसूo3-1-144)।। ग्रहेः कः स्यात् गेहे कर्तरि। गृह्णति धान्यादिकमिति गृहम्। तात्स्थ्याद् गृहा दाराः। गृहशब्दोऽर्धर्च्चादिः। तत्र पुल्लिङ्खो बहुवचनान्त एव। नपुंसकस्तु अभिधेयवचनः। द्विविधोऽपि वेश्मनि मुख्यः। दारेषु गौणः। तथा च-
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
इति वेश्मनि मुख्यतामभिप्रेत्यैव व्यवहरन्ति। वृत्तिकारस्तु तन्त्रावृत्त्योरन्यतराश्रयणेन सूत्रे गेहशब्देन अर्थद्वयं निर्द्दिश्य प्रत्ययविधानाद् दारेष्वपि गृहशब्दं मुक्यमेवेच्छन्ति। `गेह' इति च प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदं "गृहपतिना संयुक्ते"(पाoसूo4-4-90)इति निर्द्देशादिति न्यासकारहरदत्तौ। गृह ग्रहणे(चुoआo367)इति चुरादावदन्ताण्णिचि पचाद्यचा भ्वादेरिगुपलक्षणेन कप्रत्ययेन वा गृहशब्दस्य सिद्धौ निर्द्देशस्यान्यथोपपत्तेर्दुर्बलमिदं ज्ञापकम्। व्याख्यानादेव तु कर्तृविशेषणतेत्यवधेयम्।
वस्तुतस्तूक्तरीत्यैव गृहशब्दसिद्धेः "गेहे कः" इति सूत्रं शक्यमकर्तुमिति दिक्।
(पाoसूo3-1-145)
शिल्पिनि ष्वुन्(पाoसूo3-1-145)।। धातोः ष्वुन् स्यात् शिल्पिनि कर्तरि। क्रियाकौशलं शिल्पं, तदस्यास्तीति शिल्पी। पूर्वेण साहचर्यात् `शिल्पिनि' इत्यपि प्रत्ययार्थस्य विशेषणम्। अत्र भाष्ये "नृतिखनि रञ्जिभ्यः" इति परिगणनं कृतम्। नर्तकः। नर्तकी। खनकः। खनकी। "जनीजॄष्‌क्नसुरञ्जोऽमन्ताश्च"(गoसूo)इति मित्त्वोक्तिर्ज्ञापयति-सञ्जेरक्‌ङित्यपि क्वचिदनुनासिकलोपो भवतीति न्यासकारहरदत्तादयः। एवञ्च "रञ्जेर्णौ मृगरमणे"(काoवाo)इति "रजकरजनरजस्सूपसङ्ख्यानम्"(काoवाo)इति च वार्त्तिकं ज्ञापनसिद्धार्थानुवादकम्। रजकः। रजकी। षित्त्वान्ङीष्।
भाष्यमते तु ङीष् न भवति। तथाहि-षष्ठे "रजकरजनरजःसूपसङ्ख्यानम्" इति वार्त्तिकं प्रत्याख्यातुं भाष्यकृतोक्तं "कित एते औणादिकाः" इति,
तत्र कैयटः-`राजकः' इति "क्वुन् शिल्पिसंज्ञयोः"(उoसूo200)इति क्वुन्। `रजनम्' इति "रञ्जेः क्युन्"(उoसूo246)इति क्युन्। `रजः' इति "भूरञ्जिभ्यां कित्"(उoसूo666)इत्यसुन्‌प्रत्ययः। `रजकी' इत्यत्र तु पुंयोगलक्षणो ङीष्। अपुंयोगे तु ङीषा न भाव्यमिति भाष्यकाराभिप्राय इति। एवञ्च भाष्यमते नृतिखनिभ्यामेव ष्वुन् न तु रञ्जेरिति स्थितम्।
(पाoसूo3-1-146)
गस्थकम्(पाoसूo3-1-146)।। गायतेस्थकन् स्यात् शिल्पिनि कर्त्तरि। गाथकः। गामादाग्रहणेष्वविशेषेऽपि `गै शब्दे'(भ्वाoपo942)इति इह गृह्यते न तु `गाङ् गतौ'(भ्वाoआo975)इति। थकन्‌प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः।
(पाoसूo3-1-147)
ण्युट् च(पाoसूo3-1-147)।। गायतेर्ण्युट् स्यात् शिल्पिनि कर्त्तरि। गायनः। गायनी। योगविभाग उतरत्रास्यैवानुवृत्त्यर्थः।
(पाoसूo3-1-148)
हश्च व्रीहिकालयोः(पाoसूद3-1-148)।। जहातेर्जिहातेश्च ण्युट् स्यात् व्रीहौ काले च कर्त्तरि। जहात्युदकमिति हायनो व्रीहिः। अम्बुनोऽदिकं वर्धनात्। जिहीते जलमिति वा विग्रहः। जलं प्रायेणापेक्षते इत्यर्थः। जाङ्गलदेशोद्भवा व्रीहिविशेषा हायना इत्याहुः।
प्रलयावस्थायां जहाति भावानिति, जिहीते गच्छति परिच्छेदकत्वेन व्याप्नोतीति वा हायनो वर्षम्। अत्रापि व्रीहिकालयोरिति नोपपदम्, "त्रिचतुर्भ्यां हायनस्य"(काoवाo)इति लिङ्गात्।
(पाoसूo3-1-149)
प्रुलृल्वः समभिहारे वुन्(पाoसूo3-1-149)।। एभ्यो वुन् स्यात् साधुकारिणि कर्त्तरि। समभिहारग्रहणेन साधुकारित्वं लक्ष्यते, भूयः सहचारात्। यो हि यां क्रियां पुनः पुनरनुतिष्ठति स तत्र कौशलं लभते इत्युत्सर्गः। तेन सकृदपि यः सुष्ठु करोति तत्र भवति। बहुशोऽपि दुष्टं कुर्वति न भवति। प्रवकः। सरकः। लवकः। सूत्रे `प्रुसृल्वः' इति पञ्चम्याः स्थाने जस्।
(पाoसूo3-1-150)
आशिषि च(पाoसूo3-1-150)।। अप्राप्तप्रार्थनाविषयीभूतेऽर्थे वर्त्तमानाद्धातोर्वुन् स्यात्कर्तरि। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीश्चेह प्रयोक्तृधर्मः। पित्रादिगतेच्छाविषयीभूतयोर्जीवननन्दनयोः कर्तरि पुत्रादौ पित्रादेरियमुक्तिः।
।। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे षष्ठमान्हिकम्।। पादश्च समाप्तः ।।