← अध्यायः १७ शाङ्खायनश्रौतसूत्रम्
अध्यायः १८
[[लेखकः :|]]


महाव्रतप्रकरणम्
॥18.1॥
उच्चैराहूय त्रिरुपांशु हिंकृत्य १
ब्रह्म जज्ञानं प्रथमं पुरस्तादियं पित्रे राष्ट्रेत्यग्रे विश्वे देवा मम शृण्वन्तु यज्ञिया इत्येतास्तिस्र ऋचस्तूष्णीशंसस्ता उपांश्वप्रणुवन्पच्छः २
अथात्मने वाचमुत्सृजति ३
तदिदास भुवनेषु ज्येष्ठमिति स्तोत्रियस्तृचः ४
तदेतन्नवर्चम् ५
वने न वा यो न्यधायि चाकन्नित्यष्टौ ६
शाक्मना शाको अरुणः सुपर्ण इति तृचम् ७
यो अदधाज्ज्योतिषि ज्योतिरन्तर्महत्तन्नाम गुह्यं पुरुस्पृगिदं त एकं पर ऊ त एकमिति तिस्र एकपातिन्यः ८
तास्त्रयोविंशतिः ९
त्रिःशस्तया प्रथमया सह पञ्चविंशतिः १०
स एष आत्मा पञ्चविंशः ११
तं नदेनोपसृष्टं शंसति १२
नदं व ओदतीनामिति १३
त्रैष्टुभानि पूर्वाणि पदानि नदस्योत्तराणि १४
प्रथमेन त्रैष्टुभेन पदेन प्रथमं नदस्य पदमुपसंधायावस्यति १५
द्वितीयेन त्रैष्टुभेन द्वितीयं संधाय प्रणौति १६
तृतीयेन त्रैष्टुभेन तृतीयं संधायावस्यति १७
चतुर्थेन त्रैष्टुभेन चतुर्थं संधाय प्रणौति १८
एवं विहृतां प्रथमां त्रिः शंसति १९
पराचीरुत्तराः २०
एवं विहृता एव या तृतीया सूक्तस्य तस्या उत्तरम-र्धर्चमुत्सृजति नदस्य चोत्तरम् २१
तौ पुरस्ताद्द्विपदानां शंसति २२
आत्मानं शस्त्वाथ सूददोहसं शंसति । ता अस्य सूददोहस इति तामर्धर्चशः २३

॥18.2॥
अथैतानि शीर्षण्यानि तृचानि शंसति १
इन्द्रमिद्गाथिन इन्द्रेण सं हीन्द्रो दधीच उत्तिष्ठन्नोजसा सहोद्द्वेदभि श्रुतामघमुदु त्यं जातवेदसमित्येतेषां तृचानां येषु सामगाः स्तुवीरंस्तानि शंसेत् २
उदु त्यं जातवेदसमित्येतस्मिन्नु हैके नवर्चे स्तुवते ३
ते यदि तथा कुर्युरेतदेव शंसेत् ४
उदु त्यं जातवेदसमित्येतस्यो हैके प्रथमे तृचे स्तुवते ५
ते यदि तथा कुर्युरितरेषां ये कामयेत ते उपाहरेत् ६
तान्यर्धर्चशः शस्त्वाथ सूददोहसम् ७

॥18.3॥
अथैतं ग्रैवं तृचं शंसति १
यस्येदमोज आरुजस्तुजो युजो बलं सहः
इन्द्रस्य रन्त्यं बृहत्
अनाधृष्टं विपन्यया नाधृष आदधर्षया
धृषाणं धृषितं शवः
स नो ददातु तं रयिं पुरु पिशङ्गसंदृशम्
इन्द्रस्पतिस्तवस्तमो जनेषु इति २
तमर्धर्चशः शस्त्वाथ सूददोहसम् ३

॥18.4॥
उरुं नो लोकमनु नेषि विद्वानित्यक्षा १
तां पच्छः शस्त्वाथ सूददोहसम् २
अथ रथन्तरस्य स्तोत्रियं पुनरादायं ककुप्कारमथ सूददोहसम् ३
अथ रथन्तरस्यानुरूपं पुनरादायं ककुप्कारमथ सूददोहसम् ४
अथ धाय्यां पच्छः शस्त्वाथ सूददोहसम् ५
अथ राथन्तरं प्रगाथमर्धर्चशः शस्त्वाथ सूददोहसम् ६
य एक इद्धव्यश्चर्षणीनामिति सूक्तं तत्पच्छस्तस्य द्वितीयामुद्धृत्य विश्वो ह्यन्यो अरिरा जगामेति यैतस्य द्वितीया तामिह द्वितीयां करोति सूक्तं शस्त्वाथ सूददोहसम् ७
तमिन्द्रं जोहवीमि मघवानमुग्रमिति प्रहस्तकस्तृचः ८
तं पच्छः शस्त्वाथ सूददोहसम् ९

॥18.5॥
स सूर्ये जनयञ्ज्योतिरिन्द्रोऽया धिया तरणिरङ्गिरस्वान्
ऋतेन शुष्मी हवमानो अर्कैरभि स्पृध उस्रो वेदिं ततर्द इत्यक्षा १
तां पच्छः शस्त्वाथ सूददोहसम् २
अथ बृहतः स्तोत्रियं पुनरादायं ककुप्कारमथ सूददोहसम् ३
अथ बृहतोऽनुरूपं पुनरादायं ककुप्कारमथ सूददोहसम् ४
नात्र धाय्या भवति ५
अथ बार्हतं प्रगाथमर्धर्चशः शस्त्वाथ सूददोहसम् ६
विश्वो ह्यन्यो अरिरा जगामेति सूक्तं तत्पच्छस्तस्य द्वितीयामुद्धृत्य य एक इद्धव्यश्चर्षणीनामिति यैतस्य द्वितीया तामिह द्वितीयां करोति ७
सूक्तं शस्त्वाथ सूददोहसम् ८
विश्वाः पृतना अभिभूतरं नरमिति प्रहस्तकस्तृचः ९
तस्य पच्छः प्रथमां शंसत्यर्धर्चश उत्तरे १०
प्रहस्तकं शस्त्वाथ सूददोहसम् ११

॥18.6॥
अथैतानि चतुरुत्तराणि तृचानि शंसति १
इन्द्राय मद्वने सुतमिन्द्रं वृत्राय हन्तवे गायन्ति त्वा गायत्रिणो न त्वा बृहन्तो अद्रय इति चत्वारि तृचानि २
तान्यर्धर्चशः ३
इत्था हि सोम इन्मद इति पाङ्क्तं तृचं तत्पङ्क्तिशंसम् ४
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरादङ्गिराः प्रथमं दधिरे वय इति त्रैष्टुभजागते तृचे ५
ते पच्छः शस्त्वाथ सूददोहसम् ६

॥18.7॥
अथैता अशीतीः शंसति १
महाँ इन्द्रो य ओजसेत्येतया गायत्रीमशीतिं प्रतिपद्यते २
तानि पञ्चदश तृचानि ३
इन्द्र इत्सोमपा एक इत्यष्टौ ४
एवेदेष तुविकूर्मिरिति त्रीणि ५
आ घा ये अग्निमिन्धत इति चतुर्दश ६
तानि चत्वारिंशत्तृचानि ७
तत्पूर्वं कपलम् ८
अथोत्तरम् ९
प्र कृतान्यृजीषिण इति दश तृचानि १०
अपादु शिप्र्यन्धस इति पञ्च ११
आ त्वा विशन्त्विन्दव इति चत्वारि १२
यदद्य कच्च वृत्रहन्निति पञ्च १३
पत्नीवन्तः सुता इम इति चत्वारि १४
इदं ह्यन्वोजसोत्तिष्ठन्नोजमा सहाभि प्र गोपतिमिति त्रीणि तृचानि १५
तेषां यत्पुरस्तात्कृतं स्यात्तदुद्धरेत् १६
यद्यु वै न कुर्युरुदेव हरेत् १७
य आनयत्परावत इति दश तृचानि १८
तानि चत्वारिंशत्तृचानि १९
तदुत्तरं कपलम् २०
अथ सूददोहाः २१

॥18.8॥
या इन्द्र भुज आभर इत्येतया बार्हतीमशीतिं प्रतिपद्यते १
ता नव प्रत्यक्षबृहत्यः २
विश्वे त इन्द्र वीर्यमिति तिस्रः ३
तं घेमित्था नमस्विन इति द्वे ४
न सीमदेव आपदिति षट् ५
ता विंशतिः प्रत्यक्षबृहत्यः ६
अथ प्रगाथाः ७
यः सत्राहा विचर्षणिरिति चत्वारः ८
मो षु त्वा वाघतश्चनेति चत्वार उद्धृत्य द्विपदाम् ९
उदिन्वस्य रिच्यत इति पञ्च १०
अभी षतस्तदा भर मा चिदन्यद्वि शंसते मा उ त्वा पुरूवसो तत्त्वा यामि सुवीर्यं युक्ष्वा हि वृत्रहन्तमेति द्वौ द्वौ ११
यदिन्द्र प्रागपागुदगिति सप्त १२
आ वृषस्व पुरूवसो इति द्वौ १३
अविप्रो वा यदविधदिति पञ्च १४
यः शक्रो मृक्षो अश्व्य इति षट् १५
तेषां त्रीनादत्ते १६
ते चत्वारिंशत्प्रगाथाः १७

॥18.9॥
अथ प्रत्यक्षबृहतीः शंसति १
महे चन त्वामद्रिव इति पञ्चविंशतिः २
तासां विंशतिं शस्त्वाथ सूददोहसम् ३
नि गव्यतेति निविद्धानीया ४
तां पच्छः शस्त्वाहूय निविदं दधाति ५
तां पच्छो व्यवग्राहं शस्त्वा समसूक्ताम् ६
उत्तमेन पदेन प्रणुत्य स जातेभिरिति निविदा शंसति ७
तां पच्छः शस्त्वाथ
सूददोहसम् ८

॥18.10॥
अथ प्रत्यक्षबृहतीः शंसति १
याः पञ्चविंशतेः परिशिष्टास्ताभिः प्रतिपद्यते २
वयं घ त्वा सुतावन्त इति पञ्चदश ३
ता विंशतिः प्रत्यक्षबृहत्यः ४
अथ प्रगाथाः ५
ये षणां त्रयः परिशिष्टास्तैः प्रतिपद्यते ६
यो राजा चर्षणीनामिति त्रयः ७
तं वो दस्ममृतीषहमित्येकः ८
आ नो विश्वासु हव्य इति त्रयः ९
त्वामिदा ह्यो नर इति चत्वारः १०
अथ वालखिल्यानां सूक्तानि षट् ११
तेषां द्वौ प्रगाथा उत्सृजतीन्द्रनिहवं च वैश्वदेवं चा नो विश्वे सजोषस इति १२
ते चत्वारिंशत्प्रगाथाः १३
१०
॥18.11॥
अथ प्रत्यक्षबृहतीः शंसति १
मत्स्यपायि ते महोऽस्माअस्मा इदन्धसो बलं धेहि तनूषु नो युजानो हरिता रथे तवेदिन्द्राहमाशसामासु पक्वमैरय इयं या नीच्यर्किणी प्र ते रथं मिथूकृतमन्तर्यच्छ जिघांसतस्त्वं विश्वस्य जगत इति दशैकपातिन्यः २
अयं ते अस्तु हर्यत आ मन्द्रैरिन्द्र हरिभिरिति सूक्ते ३
ते अर्धर्चशः शस्त्वाथ सूददोहसम् ४
११
॥18.12॥
इन्द्रः सुतेषु सोमेष्वित्येतयौष्णिहीमशीतिं प्रतिपद्यते १
तान्येकादश तृचानि २
य इन्द्र सोमपातम इत्येकादश तेषामेकमुत्सृजतीन्द्रं वृत्राय हन्तव इति ३
तम्वभि प्र गायतेति चत्वारि ४
सखाय आ शिषामहीति नव ५
य एक इद्विदयत आ याह्यद्रिभिः सुतमिति द्वे तृचे ६
तानि षट्त्रिंशत्तृचानि ७
१२
॥18.13॥
अथ चतुःशतं गायत्रीः शंसति १
नकिरिन्द्र त्वदुत्तर इति षट् २
दिवश्चिद्द्वा दुहितरमिति चतुर्दश ३
आ तू न इन्द्र वृत्रहन्नित्येकविंशतिः ४
आ व इन्द्रं क्रिविं यथा यदिन्द्राहं यथा त्वमिति पञ्चदशर्चे ५
प्र सम्राजं चर्षणीनामुत्त्वा मन्दन्तु स्तोमा इति द्वादशर्चे ६
आ प्र द्रव परावत इति नव ७
इति चतुःशतं गायत्रीः ८
वयमु त्वामपूर्व्येत्यष्टौ काकुभाः प्रगाथाः ९
इन्द्राय साम गायतेति
सर्वम् १०
तदर्धर्चशः शस्त्वाथ सूददोहसम् ११
१३
॥18.14॥
अथैतं वशमर्धर्चशः शंसति १
त्वावतः पुरूवसो इति २
तस्य सप्तदशी जगती तां पच्छः ३
अथैकविंशी द्वाविंशी चतुर्विंशी च पङ्क्तयस्ताः पङ्क्तिशंसम् ४
शतं दासे बल्बूथ इति पञ्चपदा तस्यै त्रीणि पदानि समस्यावस्येद्द्वाभ्यां प्रणुयात् ५
त्रयोदशी च त्रिंशत्तमी च द्विपदे ते पच्छः शस्त्वाथ सूददोहसम् ६
अथैतौ विहृतावर्धर्चावथ सूददोहसम् ७
सा तत एवोत्सृज्यते ८
अत्र चतुर्विंशतिकृत्वः शस्ता भवति ९
१४
॥18.15॥
अथैता द्विपदाः शंसति १
इमा नु कं भुवना मीषधामेति पञ्च २
आ याहि
वनसा सहेति चतस्रः ३
एष ब्रह्मा य ऋत्विय इति तिस्रः ४
प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषति
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः
उप प्रक्षे मधुमति क्षियन्तः युष्येम रयिं धीमहे त इन्द्र
विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे
स सुप्रणीती नृतमः स्वरालसि मंहिष्ठो वाजसातये
त्वं हि राधस्यत एक ईशिषे सनादमृक्त ओजसा
इति षट् ५
आ धूर्ष्वस्मै वज्रमेकोऽया वाजं देवहितं सनेमेति ६
ता एकविंशतिर्द्विपदास्ताः पच्छः ७
१५
॥18.16॥
अथैतदैन्द्राग्नं सूक्तं गायत्रीशंसं शंसतीन्द्राग्नी युवं सु न इति १
तस्य द्वितीया सप्तपदा तस्या अनुष्टुभं पूर्वां करोति शंसं गायत्रीमुत्तराम् २
त्रिष्टुबुत्तमा तां
पच्छः ३
१६
॥18.17॥
अथैतदावपनं शंसति १
तुभ्येदमिन्द्र परि षिच्यते मध्वित्येका २
विश्वजिते धनजिते स्वर्जित इति षट् ३
ताः पच्छः ४
स्वादोरित्था विषूवत इति पाङ्क्तः तृचं तत्पङ्क्तिशंसम् ५
प्र वो महे महिवृधे भरध्वमिति वैराजं तृचं तदर्धर्चशः ६
प्रत्यस्मै पिपीषत इत्यानुष्टुभं तृचं तदर्धर्चशः ७
१७
॥18.18॥
अथैतमानुष्टुभं समाम्नायं शंसति १
एहि स्तोमाँ अभि स्वरेति नव २
इन्द्रं विश्वा अवीवृधन्नित्यष्टौ ३
असावि सोम इन्द्र त इति षट् ।
आ नस्ते गन्तु मत्सर इति चतस्रः ४
मत्सि नो वस्यैष्टय इति पञ्च ५
यस्ते साधिष्ठोऽवस इति सप्त ६
उरोष्ट इन्द्र राधस इति द्वे ७
यदिन्द्र चित्र मेहनेति चतस्रः ८
यो रयिवो रयिंतम इति षट् ९
एन्द्र याहि हरिभिरिति पञ्चदश १०
स प्रत्नथा कविवृध इति तचम् ११
यज्जायथा अपूर्व्येति द्वे १२
आ त्वा गिरो रथीरिवेति
सर्वम् १३
शाम इत्था महाँ असीति सर्वम् १४
तदर्धर्चशः १५
१८
॥18.19॥
अथैतं त्रिष्टुप्छतं शंसति १
हैरण्यस्तूपीयं च २
यातऊतीयं च ३
सजनीयं च ४
अध्वर्यवो भरतेन्द्राय सोममिति च ५
आ याह्यर्वाङुप वन्धुरेष्ठा युध्मस्य ते वृषभस्य स्वराज इति सूक्ते ६
नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तृचम् ७
आ सत्यो यातु मघवाँ ऋजीषीति सर्वम् ८
योनिष्ट इन्द्र मदने अकार्युदु ब्रह्माणीति सूक्ते ९
तत्र पुरस्तादुदुब्रह्मीयस्य पदानुषङ्गाञ्छंसति यो व्यतीर-
फाणयदित्येतस्मिंस्तृचे प्रथमायाअर्धर्चमुक्त्वोपरमति १०
१९
॥18.20॥
अथ प्रथमायै तृतीयेन पदेन द्वितीयायै प्रथमं पदमुपसंधाय प्रणौति १
अथ प्रथमाया उत्तमेन पदेन द्वितीयायै द्वितीयं पदमुपसंधायावस्यति २
अथ द्वितीयायै तृतीयेन पदेनोत्तमायै प्रथमं पदमुपसंधाय प्रणौति ३
अथ द्वितीयाया उत्तमेन पदेनोत्तमायै द्वितीयं पदमुपसंधायावस्यति ४
अथार्धर्चशः परिशिष्ट-स्तेन प्रणौति ५
अथो उदुब्रह्मीयस्योत्तमां परिशिष्याह्वयते ६
त्रिःशस्तया परिदधाति ७
परिधायोक्थवीर्यं जपत्यैकाहिकं पूर्वं माहाव्रतिकमुत्तरं महदसि यशोऽसि भर्गोऽसि भोगोऽसि भुञ्जदसि मम भोगाय भवेति ८
२०
॥18.21॥
तदेतत्सकृच्छस्तायां सूददोहसि यावच्छस्त्रमुपसर्जन्यां संख्यायमानायामृते तूष्णींशंसं बृहतीसहस्रं संपद्यते १
त्रिरेवाह्वयते २
स्तोत्रिये निविदे परिधानीयायै ३
समानी याज्या ४
अननुवषट्कृत एव प्रेङ्खं श्रथ्नन्ति ५
सग्रहमेवायन्तं प्राङुपावरोहति ६
प्रत्यक् प्रेङ्खफलकमपोहति ७
परामृशन्ग्रहं जपति यमिमं प्रजयं प्राजैषं तमन्वसानीति ८
अध्वर्य उपहवमिष्ट्वा भक्षयत्योजसे त्वेति ९
वैश्वकर्मणोऽतिग्राह्यः १०
तस्य भक्ष उप मा यन्तु मज्जयः सनीला उप मा जक्षुरुप मा मनीषा प्रियामहं तन्वं पश्यमानो मयि रमो देवानामोजसे त्वेति ११
अथ चमसान्भक्षयन्ति देवोऽसि नराशंस इति १२
कॢप्तं माध्यन्दिनं सवनम् १३
२१
॥18.22॥
अथातस्तृतीयसवनम् १
तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति तृचौ प्रतिपदनुचरौ वैश्वदेवस्य २
एष एव नित्य एकाहातानः ३
तद्देवस्य सवितुर्वार्यं महदिति सावित्रम् ४
ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयम् ५
किमु श्रेष्ठः किं यविष्ठो न आजगन्नित्यार्भवम् ६
अस्य वामस्य पलितस्य होतुरिति सलिलं वैश्वदेवं तस्याः समुद्रा अधि वि क्षरन्ति समानमेतदुदकमित्येते अर्धर्चशः शंसति पच्छ इतराः ७
तच्छस्त्वानोभद्रीये निविदं दधाति ८
पञ्चजनीया परिधानीया ९
इति न्वा उ वैश्वदेवम् १०
२२
॥18.23॥
अथात आग्निमारुतम् १
वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयम् २
प्रयज्यवो मरुतो भ्राजदृष्टय इति मारुतम् ३
ते यदि यज्ञायज्ञीयमग्निष्टोमसाम कुर्युस्तस्योक्तौ स्तोत्रियानुरूपौ(यज्ञायज्ञा वो अग्नये, देवो वो द्रविणोदा) ४
तयोर्दिष्टं शस्त्रम् ५
यद्यु वा इलान्दमग्ने तव श्रवो वय इति (१०.१४०) स्तोत्रियस्तृचोऽत एवोत्तरः सूक्तानुरूपः ६
यद्यु सर्वस्मिन् षलर्चे स्तुवीरन्नाग्निं न स्ववृक्तिभिरित्येतस्य षलनुरूपं कुर्वीत ७
अर्धर्चशः शस्त्रम् ८
यद्यु वा अतिच्छन्दःसु कुर्युरग्निं होतारं मन्ये दास्वन्तमिति स्तोत्रियस्तृचोऽत एवोत्तरः सूक्तानुरूपः ९
या सप्तमी सूक्तस्य तां तृतीयां करोति सोऽनुरूपः १०
अयं जायत मनुषो धरीमणीति वा स्तोत्रियस्तृचोऽत एवोत्तरः सूक्तानुरूपः ११
विचतुरं शस्त्रम् १२
नात्र यज्ञायज्ञीयस्य योनिमनुशंसेत् १३
बलित्था तद्वपुषे धायि दर्शतमिति जातवेदसीयम् १४
इत्याग्निमारुतसूक्तानि १५
इत्येतस्याह्नः सूक्तानि १६
तदग्निष्टोमः संतिष्ठते १७
वसन्त्येतां रात्रीम् १८
२३
॥18.24॥
अथ प्रातरुदयजीयमतिरात्रमुपयन्ति १
य एवासौ प्रायणीयः स उदयनीयः २
तत्र सर्वान्करस्नान्संबाध्य प्रेष्यति मैत्रावरुणः ३
ते प्रथममासं दीक्षितवसनानि वा वसते ४
तानि नवरात्राय निदधति ५
उत्तमाय च मासाय ६
अथेतरान्मासानजिनानि वार्द्रवसनानि वा वसते ७
तस्मिन्हि संस्थित कर्माणि क्रियन्ते ८
न परस्मा अह्नो वसतीवरीर्गृह्णन्ति ९
नातिप्रैषमाह १०
जुह्वति समिष्टयजूंषि ११
यन्त्यवभृथम् १२
क्रियतेऽवभृथकर्म १३
ते यदि यज्ञागारैर्भाक्ष्यमाणा भवन्त्यादधत एव प्रङ्खमिश्रम् १४
यद्यु धक्ष्यन्तो ऽत्रैव स्यात् १५
प्रज्ञातोऽवभृथः १६
प्रज्ञातोदयनीया १७
प्रज्ञातानूबन्ध्या १८
तस्यै वपायां संस्थितायां दक्षिणार्धापरार्धाद्वेदेः किंचित्परिश्रित्य तस्मि-न्नुपविश्य केशश्मश्रूणि वापयन्ति १९
सर्वाणि च रोमाणि नखानि निकृन्तयन्ते २०
स्नान्ति २१
अलंकुर्वन्ति २२
उष्णीषान्पर्यस्यन्त्या केशानां संजननात् २३
परिशेषमनूबन्ध्यायै संस्थापयन्ति २४
हृदयशूलान्ता संतिष्ठते २५
तस्यां संस्थितायां यथासंप्रकीर्णमग्नीन्समारोप्यान्तरेण चात्वालोत्करा उपनिष्क्रामन्ति २६
उत्तरत उद्धतावोक्षितेऽग्न्यायतनानि कृत्वा गोमयेनो-पलिप्य मथित्वाग्नीन्विहृत्य प्रणीताः प्रणीय पूर्णाहुतीर्हुत्वा पृथगुदवसानीया-भिर्यजन्ते य आहिताग्नयो भवन्ति २७
अथ येऽनाहिताग्नयो गृहपतिमेव त उपासते २८
स काममेव पृष्ठशमनीयेन यजेत २९
कामं न यजेत ३०
यदि तु यजेतैत एवास्य सत्त्रिण ऋत्विजः स्युः ३१
तेभ्यस्तद्दद्याद्यद्देयं स्यात् ३२
अत्र संवत्सरः संतिष्ठते ३३
अथातो होत्राणामेव मीमांसा । तस्यातस्तस्यातः ३४
२४
इति शाङ्खायनश्रौतसूत्रेऽष्टादशोऽध्यायः समाप्तः
इति शाङ्खायनश्रौतसूत्रं समाप्तम्