प्रथमोऽध्यायः ।

प्रायश्चित्तविहीनानां महापातकिनां नृणाम् ।
नरकान्ते भवेज्जन्म चिह्नाङ्गिकतशरौरिणाम् ।। 1.1 ।।
प्रतिजन्म भवेत्तेषां चिह्नं ततपापसूचितम् ।
प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः ।। 1.2 ।।
महापातकजं चिह्नं सप्तजन्मनि जायते ।
उपपापोद्भवं पञ्च त्रौणि पापसमुद्भवम् ।। 1.3 ।।
दुष्कर्म्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् ।
जपैः सुरार्च्चनैर्होमैर्दामैस्तेषां शमो भवेत् ।। 1.4 ।।
पूर्व्वजन्मकृतं पापं नरकस्य परिक्षये ।
मूत्रकृच्छ्राश्मरौकासा अतिसारभगन्दरौ ।। 1.6 ।।
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।
इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ।। 1.7 ।।
जलोदरं यकृत् प्लोहा शूलरोगब्रणानि च ।
श्वासाजौर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।। 1.8 ।।
रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ।
दण्डापतानकश्चित्र वपुः कम्पविचर्च्चिकाः ।। 1.9 ।।
बल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।
अर्शआद्या नणां रोगा अतिपापाद्भवन्ति हि ।। 1.10 ।।
अन्ये च बहवो रोगा जायन्ते पापसङ्खराः ।
उच्यन्ते च निदानानिः प्रायश्चित्तानि वै क्रमात् ।। 1.11 ।।
महापापेषु सर्व्वं स्यात् तदर्द्धमुपपातके ।
दद्यात् पापेषुः षष्ठांशं कल्प्यं ब्याधिबलाबलम् ।। 1.12 ।।
अथ साधारणं तेषु गोदानादिषु कथ्यते ।
गोदाने वत्सयुक्ता गौः सुखौला च पयस्विनी ।। 1.13 ।।
बृषदाने शुभाऽनड्वान् शुक्लाम्वरसकाञ्चनः ।
निवर्त्तनानि भूदाने दश दद्याद्विजातये ।। 1.14 ।।
दशहस्तेन दण्डेन त्रिंशद्दण्डं निवर्त्तनम् ।
दश तान्येव गाचर्म्म दत्त्वा स्वर्गे महीयते ।। 1.15 ।।
सुवर्णशतनिष्कन्तु तदर्द्धार्द्धप्रमाणतः ।
अश्वदाने मृदु श्लक्ष्णमश्वं सोपस्करं दिशेत् ।। 1.16 ।।
महिषों माहिषे दाने दद्यात् स्वर्णायुधान्विताम् ।
दद्याद्गजं महादाने सुवर्णफलसंयुतम् ।। 1.17 ।।
लक्षसङ्ख्यार्हणं पुष्पं प्रदद्याद्देवतार्च्चने ।
दद्याद्‌द्विजसहस्राय मिष्टान्नं द्विजभोजने ।। 1.18 ।।
रूद्रं जपेल्लक्षपुष्पैः पूजयित्वा च त्र्यम्वकम् ।
एकादश जपेद्रुदान् दशांशं गुग्गुलैर्वृतैः ।। 1.19 ।।
हुत्वाभिषेचनं कुर्य्यान्मन्त्रैर्व्वरूण्दैवतैः ।
शान्तिके गणशान्तिश्च ग्रहशान्तिकपूर्व्वकम् ।। 1.20 ।।
धान्यदाने शुभं धान्यं खारौषष्टिमितं स्मृतम् ।
वस्त्रदाने पट्टवस्त्रद्वय कर्पुरसंयुतम् ।। 1.21 ।।
दशपञ्चाष्टचतुर उपवेश्य द्विजान् शुभान् ।
बिधाय वैष्णवीं पूजां सङ्कल्प्य निजकाम्यया ।। 1.22 ।।
धेनुं दद्याद् द्विजातिभ्यो दक्षिणाञ्चापि शक्तितः ।
अलङ्कत्य यथाशक्ति वस्त्रालङ्करणैर्द्विजान् ।। 1.23 ।।
याचेद्दण्डप्रमाणेन प्रायश्चित्तं यतोदितम् ।
तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि ।। 1.24 ।।
पुनस्तान् परिपूर्णार्थानर्च्चयेद्बिधिवद्‌द्विजान् ।
सन्तुष्टा ब्राह्मणा दध्युरनुज्ञां व्रतकारिणे ।। 1.25 ।।
जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्म्मणि ।
सर्व्वं भवति निश्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ।। 1.26 ।।
ब्राह्मणा यानि भाषन्ते मान्यन्ते तानि देवताः ।
सर्व्वदेवमया विप्रा न तद्वचनमन्यथा ।। 1.27 ।।
उपवासो व्रतञ्चैव स्थानं तीर्थफलं तपः ।
विप्रैः सम्पादितं सर्व्वं सम्पन्नं तस्य तत्फलम् ।। 1.28 ।।
सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।
प्रणम्य शिरसा धार्य्यमग्निष्टोमफलं लभेत् ।। 1.29 ।।
ब्राह्मणा जङ्गमं तीर्थं निर्ज्जलं सार्व्वकामिकम् ।
तेषां वाक्योदकेनैव शुध्यन्ति मलिना जनाः ।। 1.30 ।।
तेभ्योऽनुज्ञामभिप्राप्य प्रगृह्य च तथाशिषः ।
भोजयित्वा द्विजान् शक्त्या भुञ्जीत सह वन्धुभिः ।। 1.31 ।।
इति शातातपौये कर्म्मविपाके प्रथमोऽध्यायः ।। 1 ।।

द्वितीयोऽध्यायः ।

ब्रह्महा नरकस्यान्ते पाण्डुकुष्ठी प्रजायते ।
प्रायश्चित्तं प्रकुर्व्वीत स तत्‌पातकशान्तये ।। 2.1 ।।
चत्वारः कलसाः कार्य्याः पञ्चरत्नसमन्विताः ।
पञ्चपल्लवसंयुक्ताः सितवस्त्रेण संयुताः ।। 2.2 ।।
अश्वस्थानादिमृद्युक्तास्तौर्थोदकसुपूरिताः ।
कषायपञ्चकोपेता नानाबिधफलान्विताः ।। 2.3 ।।
सर्व्वौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः ।
रौप्यमष्टदलं पद्मं मध्यकुम्भोपरि न्यस्येत् ।। 2.4 ।।
तस्योपरि न्यसेद्देवं ब्रह्माणञ्चचतुर्म्मुखम् ।
पलार्द्धार्द्धप्रमाणेन सुवर्णेन विनिर्म्मितम् ।। 2.5 ।।
अर्च्चेत् पुरूषसूक्तेन त्रिकालं प्रतिवासरम् ।
यजमानः शुभैर्गन्धैः पुष्पैर्धूपैर्यथाविधि ।। 2.6 ।।
पूर्व्वादिकुम्भेषु ततो ब्राह्मणा ब्रह्मचारिणः ।
पठेयुः स्वस्ववेदांस्ते ऋग्वेदप्रभृतीन् शनैः ।। 2.7 ।।
दशांशेनः ततो होमो ग्रहशान्तिपुरः सरम् ।
मध्यकुम्भे बिधातव्यो घृताक्तैस्तिलहेमभिः ।। 2.8 ।।
द्वादशाहमिदं कर्म्म समाप्य द्विजपुङ्गवः ।
तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि ।। 2.9 ।।
ततो दद्याद्यथाशक्ति गोभूहेमतिलादिकम् ।
ब्राह्मणेभ्यस्तथा देवमाचार्य्याय निवेदयेत् ।। 2.10 ।।
आदित्या वसवो रूद्रा विश्वदेवा मरूद्गणाः ।
प्रीता सर्व्वे व्यपोहन्तु मम पापं सुदारूणम् ।। 2.11 ।।
इत्युदीर्य्य मुहुर्भक्त्या तमाचार्य्यं क्षमापयेत् ।
एवं बिधाने बिहिते श्वेतकुण्ठी विशुध्यति ।। 2.12 ।।
कुष्ठौ गोबधकारी स्यान्नरकान्तेऽस्य निष्कृतिः ।
स्थापयेद् घठमेकन्तु पूर्व्वोक्तद्रव्यसंयुतम् ।। 2.13 ।।
रक्तचन्दनलिप्ताङ्गं रक्तपुष्पाम्वरान्वितम् ।
रक्तकुम्भन्तु तत् कृत्वा स्थापयेद्दक्षिणां दिशम् ।। 2.14 ।।
ताम्रापात्रं न्यसेत् तत्र तिलचुर्णेन पूरितम् ।
तस्योपरि न्यसेद्देवं हेमनिष्कमयं यमम् ।। 2.15 ।।
यजेत् पुरूषसूक्तेन पापं मे शाम्यतामिति ।
सामपारायणं कुर्य्यात् कलसे तत्र सामवित् ।। 2.16 ।।
दशांशं सर्षपैर्हुत्वा पावमान्यभिषेचने ।
विहिते धर्म्मराजानमाचार्य्याय निवेदयेत् ।। 2.17 ।।
यमोऽपि महिषारुढ़ो दण्डपाणिर्भयावहः ।
दक्षिणाशापतिर्द्देवो मम पापं व्यपोहतु ।। 2.18 ।।
इत्युच्चार्य्य विसृज्यैनं मासं सद्भक्तिमाचरेत् ।
ब्रह्मगोबधयोरेषा प्रायश्चित्तेन निष्कृतिः ।। 2.19 ।।
पितृहा चेतनाहीनो मातृहान्धः प्रजायते ।
नरकान्ते प्रकुर्व्वीत प्रायश्चित्तं यथाविधि ।। 2.20 ।।
प्राजापत्यानि कुर्व्वीत त्रिंश्च्चैव बिधानतः ।
व्रतान्ते कारयेन्नावं सौवर्णपलसम्मिताम् ।। 2.21 ।।
कुम्भं रौप्यमयञ्चैव ताम्रपात्राणि पूर्व्ववत् ।
निष्कहेम्ना तु कर्त्तव्यो देवः श्रीवत्‌सलाञ्छनः ।। 2.22 ।।
पट्टवस्त्रेण संवेष्ट्य पूजयेत् तं बिधानतः ।
नावं द्विजाय तां दद्यात् सर्व्वोपस्करसंयुताम् ।। 2.23 ।।
वासुदेव जगन्नाथ सर्व्वभूताशयस्थित ।
पातकार्णवमग्नं तारय प्रणतार्त्तिहृत् ।। 2.24 ।।
इत्युदीर्य्य प्रणम्याथ ब्राह्मणाय विसर्ज्जयेत् ।
अन्येभ्योऽपि यथाशक्ति विप्रेभ्वो दक्षिणां ददेत् ।। 2.25 ।।
स्वमृघाती तु बधिरो नरकान्ते प्रजायते ।
मूको भ्रातृबधे चैव तस्येयं निष्कृतिः स्मृता ।। 2.26 ।।
साऽपि पापविशुद्ध्यर्थं चरेच्चान्द्रायणव्रतम् ।
व्रतान्ते पुस्तकं दद्यात् सुवर्णफलसंयुतम् ।। 2.27 ।।
इमं मन्त्रं समुच्चार्य्य ब्राह्मणीं तां विसर्ज्जयेत् ।
सरस्वति जगन्मातः शब्दब्रह्माधिदेवत् ।। 2.28 ।।
दुष्कर्ममकरणात् पापं पाहि मां परमेश्वरि ।
बालघातौ च पुरूषो मृतवत्‌सः प्रजायते ।। 2.29 ।।
ब्राह्मणोद्वाहनञ्चैव कर्त्तव्यं तेन शुद्धये ।
श्रवणं हरिवंशस्य कर्त्तव्यञ्च यथाविधि ।। 2.30 ।।
महारूद्रजपञ्चैव कारयेच्च यथाविधि ।
षड़ङ्गैकादशै रूद्रै रूद्रः सामभिधीयते ।। 2.31 ।।
रूद्रैस्तथैकादशभिर्म्महारूद्रः प्रकीर्त्तितः ।
एकादशभिरेतैस्तु अतिरूद्रश्च कथ्यते ।। 2.32 ।।
जुहुयाच्च दशांशेन दूर्व्वयायुतसङ्ख्यया ।
एकादश स्वर्णनिष्काः प्रदातव्याः सदक्षिणाः ।। 2.33 ।।
पलान्येकादश तथा तद्याद्‌द्विजानुसारतः ।
अन्येभ्योऽपि यथाशक्ति द्विज्येभ्यो दक्षिणान्दिशेत् ।। 2.34 ।।
स्नापयेद्दम्पती पश्चाम्नन्त्रैर्व्वरूणदैवतैः ।
आचार्य्याय प्रदेयानि वस्त्रालङ्गरणानि च ।। 2.35 ।।
गोत्रहा पुरुषः कुष्ठी निर्व्वंशश्चोपजायते ।
स च पापविशुद्ध्यर्थं प्राजापत्यशतञ्चरेत् ।। 2.36 ।।
व्रतान्ते मेदिनीं दत्त्वा शृणुयादथ भारतम् ।
स्त्रीहन्ता चातिसारौ स्यादश्वत्थान् रोपयेद्दश ।। 2.37 ।।
दद्याच्च शर्कराधेनुं भोजयेच्च शतं द्विजान् ।
राजहा क्षयरोगौ स्यादेषा तस्य च निष्कृतिः ।। 2.38 ।।
गोभूहिरण्यमिष्टान्नजलवस्रप्रदानतः ।
धृधेनुप्रदानेन तिलधेनुप्रदानतः ।। 2.39 ।।
इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति ।
रक्तार्व्वुदौ वैश्यहन्ता जायते स च मानवः ।। 2.40 ।।
प्राजापत्यानि चत्वारि सप्त धान्यानि चोत्‌मृजेत् ।
दण्डापतानकयुतः शूद्रहन्ता भवेन्नरः ।। 2.41 ।।
प्राजापत्यं सकृच्चैवं दद्याद्धेनुं सदक्षिणाम ।
कारूणाञ्च बधे चैव रूक्षभाषः प्रजायते ।। 2.42 ।।
तेन तत्पापशुद्ध्यर्थं दातव्यो वृषभः सितः ।
सर्व्वकार्य्येष्वसिद्धार्थो गजघाती भवेन्नरः ।। 2.43 ।।
प्रासादं कारयित्वा तु गणेशप्रतिमां न्यस्येत् ।
गणनाथस्य मन्त्रन्तु मन्त्रो लक्षमितं जपेत् ।। 2.44 ।।
कुलत्थशाकैः पूपैश्च गणशान्तिपुरः सरम् ।
उष्ट्रे विनिहते चैव जायते विकृतस्वरः ।। 2.45 ।।
स तत्पापविशुद्ध्यर्थं दद्यात् कर्पूरकं पलम् ।
अश्वे विनिहते चैव वक्रतुण्डः प्रजायतेः ।। 2.46 ।।
शतं पलानि दद्याच्च चन्दनान्यघनुत्तये ।
महिषीघातने चैव कृष्णगुल्मः प्रजायते ।। 2.47 ।।
खरे विनिहते चैव खररोमा प्रजायते ।
निष्कत्रयस्य प्रकृतिं सम्प्रदद्याद्धिरण्मयीम् ।। 2.48 ।।
तरक्षौ निहते चैव जायते काकरेक्षणः ।
दद्याद्रत्नमयीं धेनुं स तत्पातकशान्तये ।। 2.49 ।।
शूकरे निहते चैव दन्तुरो जायते नरः ।
स दद्यात्तु विशुद्ध्यर्थं घृतकुम्भं सदक्षिणम् ।। 2.50 ।।
हरिणे निहते खञ्जः शृगले तु विपादकः ।
अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्म्मितः ।। 2.51 ।।
अजाभिघातने चैवः अधिकाङ्गः प्रजायते ।
अजा तेन प्रदातव्या विचित्रवस्त्रसंयुता ।। 2.52 ।।
उरभ्रे निहते चैव पाण्डुरोगः प्रजायते ।
कस्तुरिकापलं दद्याद्‌ब्राह्मणायः विशुद्धये ।। 2.53 ।।
मार्ज्जारे निहते चैव पीतपाणिः प्रजायते ।
पारावतं ससौवणं प्रदद्यान्निष्कमात्रकम् ।। 2.54 ।।
शुकसारिकयोर्घाते नरः स्खलितवाग्भवेत् ।
सच्छास्त्रपुस्तकं दद्यात् स विप्राय सदक्षिणम् ।। 2.55 ।।
वकघाती दीर्घनसो दद्याद्गां धबलप्रभाम् ।
काकघाती कर्णहीनो दद्याद्गामसितप्रभाम् ।। 2.56 ।।
हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।
तदर्द्धाद्धेप्रमाणेन क्षत्रियादिष्वनुक्रमात् ।। 2.57 ।।
इति शातातपीये कर्म्मविपाके हिंसाप्रायश्चित्तबिधिर्नाम द्वितीयोऽध्यायः ।। 2 ।।

तृतीयोऽध्यायः ।

सुरापः श्यावदन्तः स्यात् प्राजापत्यान्तरं तथा ।
शर्करायास्तुलाः सप्त दद्यात् पापविशुद्धये ।। 3.1 ।।
जपित्वा तु महारूद्रं दशांशं जुहुयात्तिलैः ।
ततोऽभिषेकः कर्त्तव्यो मन्त्रैर्व्वरूणदैवतैः ।। 3.2 ।।
मद्यपो रक्तपित्ती स्यात् स दद्यात् सर्पिषो घटम् ।
मधुनोऽर्द्धघटञ्चैव सहिरण्यं विशुद्धये ।। 3.3 ।।
अभक्ष्यभक्षणे चैव जायते कृमिलोदरः ।
यथावत्तेन शुद्ध्यर्थमुपोष्यं भीष्मपञ्चकम् ।। 3.4 ।।
उदक्या वीक्षितं भुक्त्वा जायते कृमिलोदरः ।
गोमूत्रयावकाहारस्त्रिरात्रेणैव शुध्यति ।। 3.5 ।।
भुक्त्वा चास्पृश्य संस्पृष्टं जायते कृमिलोदरः ।
त्रिरात्रं समुपोष्याथ स तत्पापात् प्रमुच्यते ।। 3.6 ।।
परान्नविघ्नकरणादजीर्णमभिजायते ।
लक्षहोमं स कुर्व्वीत प्रायश्चित्तं यथाविधि ।। 3.7 ।।
मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ।
प्राजापत्यत्रयं कुर्य्याद्भोजयेच्च शतं द्विजान् ।। 3.8 ।।
विषदः स्याच्छर्द्दिरोगी दद्याद्दशपयस्विनीः ।
मार्गहा पादरोगौ स्यात् सोऽश्वदानं समाचरेत् ।। 3.9 ।।
पिशुनो नरकस्यान्ते जायते श्वासकासवान् ।
घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ।। 3.10 ।।
धूर्त्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये ।
ब्रह्मकूर्च्चमयीं धेनुं दद्याद्गाञ्च सदक्षिणाम् ।। 3.11 ।।
शूली परोपतापेन जायते तत्प्रमोचने ।
सोऽन्नदानं प्रकुर्व्वीत तथा रूद्रं जपेन्नरः ।। 3.12 ।।
दावाग्निदायकश्चैव रक्तातिसारवान् भवेत् ।
तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटः ।। 3.13 ।।
सुरालये जले वापि सकृन्मूत्रं करोति यः ।
गुदरोगौ भवेत् तस्य पापरुपः सुदारूणः ।। 3.14 ।।
मासं सुरार्च्चनेनैव गोदानद्वितयेन तु ।
प्राजापत्यन चैकेन शाम्यन्तिगुदजा रूजः ।। 3.15 ।।
गर्भपातनजा रोगा यकृत्‌प्लौहजलोदराः ।
तेषां प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् ।। 3.16 ।।
एतेषु दद्याद्विप्राय जलधेनुं बिधानतः ।
सुवर्णरुप्यताम्राणां पलत्रयसमन्विताम् ।। 3.17 ।।
प्रतिमाभङ्गकारो च अप्रतिष्ठः प्रजायते ।
संवतमरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् ।। 3.18 ।।
उद्वाहयेत् तसश्वत्थं स्वगृह्योक्तबिधानतः ।
तत्र संस्थापयेद्देवं विघ्नराजं सुपूजितम् ।। 3.19 ।।
दुष्टवादी खण्डितः स्यात् स वै दद्याद्विजातये ।
रुप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम् ।। 3.20 ।।
खल्लीटः परनिन्दावान् धेनुं दद्यात् सकाञ्चनाम् ।
परोपहासकृत्काणः स गां दद्यात् समौक्तिकाम ।। 3.21 ।।
समायां पक्षपाती च जायते पक्षघातवान् ।
निस्कत्रयमितं हेम स दद्यात् सत्यवर्त्तिनाम् ।। 3.22 ।।
इति शातातपीये कर्म्मविपाके प्रकीर्णप्रायश्चित्तं नाम तृतीयोऽध्यायः ।। 3 ।।

चतुर्थीऽध्यायः ।

कुलघ्नो नरकस्यान्ते जायते विप्रहेमहृत् ।
स तु स्वर्णशतं तद्यात् कृत्वा चान्द्रायणत्रयम् ।। 4.1 ।।
औडुम्वरो ताम्रचौरो नरकान्ते प्रजायते ।
प्राजापत्यं स कृत्वात्र ताम्रं पलशतं दिशेत् ।। 4.2 ।।
कांस्यहारौ च भवति पुण्डरीकसमन्वितः ।
कांस्यं पलशतं तद्यादलङ्गृत्य द्विजातये ।। 4.3 ।।
रीतिहृत् पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् ।
रीतिं पलशतं दद्यादलङ्गृत्य द्विजं शुभम् ।। 4.4 ।।
मुक्ताहारी च पुरूषो जायते पिङ्गमूर्द्धजः ।
मुक्ताफलशतं तद्यादुपोष्य स बिधानतः ।। 4.5 ।।
त्रपुहारौ च पुरूषा जायते नेत्ररोगवान् ।
उपोष्य दिवसं सोऽपि दद्यात् पलशतं त्रपु ।। 4.6 ।।
सीसहारौ च पुरूषो जायते शीर्षरोगवान् ।
ुपाष्य दिवसं तद्याद्‌घृतधेनुं बिधानतः ।। 4.7 ।।
दुग्धहारी च पुरूषो जायते बहुमूत्रकः ।
स तद्याद्द्रुग्धधेनुञ्च ब्राह्मणाय यथाविधि ।। 4.8 ।।
दधिचौर्य्येण पुरूषो जायते मदवान् यतः ।
दधिदेनुः प्रदातव्या तेन विप्राय शुद्धये ।। 4.9 ।।
मधुचौरस्तु पुरूषो जायते नेत्ररोगवान् ।
स तद्यान्मधुधेनुञ्च समुपाष्य द्विजातये ।। 4.10 ।।
इक्षोर्व्विकारहारी च भवेदुदरगुल्मवान् ।
गुड़धेनुः प्रदातव्या तेन तद्दोषशान्तये ।। 4.11 ।।
लोहहारी च पुरूषः कर्व्वुराङ्गः प्रजायते ।
लोहं पलशवं दद्यादुपोष्य स तु वासरम् ।। 4.12 ।।
तैलचौरस्तु पूरूषो भवेत् कण्ड्वादिपीड़ितः ।
उपोष्य स तु विप्राय दद्यात् तैलघटद्वयम् ।। 4.13 ।।
आमान्नहरणाच्चैव दन्तहौनः प्रजायते ।
स तद्यादश्विनौ हंमनिष्कद्वयविनिर्म्मितौ ।। 4.14 ।।
पक्कान्नहरणाच्चैव जिह्वारोगः प्रजायते ।
गायत्र्याः स जपेल्लक्षं दशांशं जुहुयात् तिलैः ।। 4.15 ।।
फलहारौ च पुरूषो जायते व्रणिताङ्गुलिः ।
नानाफलानामयुतं स दद्याच्च द्विजन्मने ।। 4.16 ।।
ताम्बुलहरणाच्चैव श्वेतौष्ठः सम्प्रजायते ।
सदक्षिणं प्रदद्याच्च विद्रुमस्य द्वयं वरम् ।। 4.17 ।।
शाकहारौ च पुरूषो जायते नीललोचनः ।
ब्राह्मणाय प्रदद्याद्वै महानीलमणिद्वयम् ।। 4.18 ।।
कन्दमूलस्य हरणात् ह्नस्वप्राणिः प्रजायते ।
देवतायतनं कार्य्यमुद्यानं तेन शक्तितः ।। 4.19 ।।
सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते ।
स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि ।। 4.20 ।।
दारूहारौ च पुरूषः स्विन्नपाणिः प्रजायते ।
स तद्याद्बिदुषेः सुद्धौः काश्मोरजपलद्वयम् ।। 4.21 ।।
विद्यापुस्तकहारौ च किल मूकः प्रजायते ।
न्यायेतिहासं दद्यात् स ब्राह्मणाय सदक्षिणम् ।। 4.22 ।।
वस्त्रहारो भवेत् कुष्ठौ सम्प्रदद्यात् प्रजापतिम् ।
हेमनिष्कमितञ्चैव व वस्त्रयुग्मं द्विजातये ।। 4.23 ।।
ऊर्णाहारौ लोमशः स्यात् स दद्यात् कम्बलान्वितम् ।
स्वर्णनिष्कमितं हेमवह्निं दद्याद्विजातये ।। 4.24 ।।
पट्टसूत्रस्य हरणान्निर्लोमा जायते नरः ।
तेन धेनुः प्रदातव्या विशुर्ध्यथं द्विजन्मने ।। 4.25 ।।
औषधस्यापहरणे सूर्य्यावर्त्तः प्रजायते ।
सूर्य्यायार्ध्यः प्रदातव्यो मासं देयञ्च काञ्चनम् ।। 4.26 ।।
रक्तवस्त्रप्रवालादिहारौ स्याद्रक्तवातवान् ।
सवस्त्रां महिषों दद्यान्मणिरागसमन्विताम ।। 4.27 ।।
विप्ररत्नापहारौ चाप्यनपत्यः प्रजायते ।
तेन कार्य्य विशुद्ध्यर्थं महारूद्रजपादिकम् ।। 4.28 ।।
मृतवत्‌सोदितः सर्व्वो बिधिरत्र बिधीयते ।
दशांशहोमः कर्त्तव्यः पलाशेन यथाविधि ।। 4.29 ।।
देवस्वहरणाच्चैव जायते विबिधो ज्वरः ।
ज्वरो महाज्वरश्चैव रौद्रो वैष्णव एव च ।। 4.30 ।।
ज्वरे रौद्रं जपेत् कर्णे महारूद्रं महाज्वरे ।
अतिरौद्रं जपेद्रौद्रे वैष्णवे तद्द्वयं जपेत् ।। 4.31 ।।
नानाबिधद्रव्यचौरो जायते ग्रहणीयुतः ।
तेनन्नोदकवस्त्राणि हेम देयञ्च शक्तितः ।। 4.32 ।।
इति शातातपीये कर्म्मविपाके स्तेयप्रायश्चित्तं नाम चतुर्थोऽध्यायः ।। 4 ।।

पञ्चमोऽध्यायः ।

मातृगामी भवेद्यस्तु लिङ्गं तस्य विनश्यति ।
चाण्डालीगमने चैव होनकोषः प्रजायते ।। 5.1 ।।
तस्य प्रतिक्रियां कर्त्तुं कुम्भमुत्तरतो न्यसेत् ।
कृष्णवस्त्रसमाच्छन्नं कृष्णमाल्यविभूषितम् ।। 5.2 ।।
तस्योपरि न्यसेद्देवं कांस्यपात्रे धनेश्वरम् ।
सुवर्णनिष्कषट्‌केन निर्म्मितं नरबाहनम् ।। 5.3 ।।
यजेत् पुरूषसूक्तेन धनदं विश्वरुपिणम् ।
अथर्व्ववेदविद्बिप्रो ह्याथर्व्वणं समाचरेत् ।। 5.4 ।।
सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्ख्यया ।
दद्याद्विप्राय सम्पुज्य निष्पापोऽहमिति ब्रुवन् ।। 5.5 ।।
धनोनामधिपो देवः शङ्करस्य प्रियः सखा ।
मौम्याशाधिपतिः श्रौमान् मम पापं व्यपोहतु ।। 5.6 ।।
इमं मन्त्रं समुच्चार्य्य आचार्य्याय यथाविधि ।
दद्याद्देवं हौनकोषे लिङ्गनाशे विशुद्धये ।। 5.7 ।।
गुरूजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ।
तेनापि निष्कृतिः कार्य्या शास्त्रट्टष्टेन कर्म्मणा ।। 5.8 ।।
स्थापयेत् कुम्भमेकन्तु पिश्चमायां शुभे दिने ।
नीलवस्त्रसमाच्छन्नं नीलमाल्यविभूषितम् ।। 5.9 ।।
तस्योपरि न्यसेद्देवं ताम्रपात्रे प्रचेतसम् ।
सुवर्णनिष्कषट्‌केन निर्म्मितं यादसाम्पतिम् ।। 5.10 ।।
यजेत् पुरूषसूक्तेन वरूणं विश्वरुपिणम् ।
सामविद्‌ब्राह्मणस्तत्र सामवेदं समाचरेत् ।। 5.11 ।।
सुवर्णपित्रिकां कृत्वा निष्कविंशतिसङ्ख्यया ।
तद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति व्रुवन् ।। 5.12 ।।
यादसामधिपो देवो विश्वेषामपि पावनः ।
संसाराब्धौ कर्णधारो वरूणः पावनोऽस्तु मे ।। 5.13 ।।
इमं मन्त्रं समुच्चार्य्य आचार्य्याय यथाविधि ।
दद्याद्देवमलङ्कृत्य मूत्रकृच्छ्रप्रशान्तये ।। 5.14 ।।
स्वसुतागमने चैव रक्तकुष्ठं प्रजायते ।
भगिनीगमने चैव पौतकुष्ठं प्रजायते ।। 5.15 ।।
तस्य प्रतिक्रियां कर्त्तुं पूर्व्वतः कलसं न्वसेत् ।
पौतवस्त्रसमाच्छन्नं पीतमाल्यविभूषितम् ।। 5.16 ।।
तस्योपरि न्यसेत् स्वर्णपात्रे देवं सुरेश्वरम् ।
सुवर्णनिष्कषट्‌केन निर्म्मितं वज्रधारिणम् ।। 5.17 ।।
यजेत् पुरूषसूक्तेन वासवं विश्वरुपिणम् ।
यदुर्व्वेदं तत्र साम ऋग्वेदञ्च समाचरेत् ।। 5.18 ।।
सुवर्णपुत्रिकां कृत्वा सुवर्णदशकेन तु ।
तद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति व्रुवन् ।। 5.19 ।।
देवानामधिपो देवो वज्रौ विष्णुनिकेतनः ।
शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु ।। 5.20 ।।
इमं मन्त्रं समुच्चार्य्य आचार्य्याय यथाविधि ।
तद्याद्देवं सहस्राक्षं स पापस्यापनुत्तये ।। 5.21 ।।
भ्रातृभार्य्याभिगमनाद्‌गलत्‌कुष्ठं प्रजायते ।
स्वबधुगमने चैव कृष्णकुष्ठं प्रजायते ।। 5.22 ।।
तेन कार्य्यं विशुद्ध्येथं प्रागुक्तस्यार्द्धमेव हि ।
दशांशहोमः सर्व्वत्र घृताक्तैः क्रियते तिलैः ।। 5.23 ।।
यदगम्याभिगमनाज्जायते ध्रुवमण्डलम् ।
कृत्वा लोहमयीं धेनुं तिलषष्ठिप्रमाणतः ।। 5.24 ।।
कार्पासभारसंयुक्तां कांस्यदोहां सवतसिकाम् ।
दद्याद्विप्राय विधिवदिमं मन्त्रमुदीरयेत् ।
सुरभौ वैष्णवौ माता मम पापं व्यपीहतु ।। 5.25 ।।
तपस्विनीसङ्गमने जायते चाश्मरीगदः ।
स तु पापविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।। 5.26 ।।
दद्याद्विप्राय विदुषे मधुधेनुं यथोदितम् ।
तिलद्रोणशतञ्चैव हिरण्येन समन्वितम् ।। 5.27 ।।
पितृस्वम्रभिगमनाद्दक्षिणांशव्रणी भवेत् ।
तेनापि निष्कृतिः कार्य्या अजादानेन शक्तितः ।। 5.28 ।।
मातुलान्यान्तु गमने पृष्ठकुब्जः प्रजायते ।
कृष्णाजिनप्रदानेन प्रायश्चित्तं समाचरेत् ।। 5.29 ।।
मातृष्वस्रभिगमने वामाङ्गे व्रणवान् भवेत् ।
तेनापि निष्कृतिः कार्य्या सम्यग्दानप्रदानतः ।। 5.30 ।।
मृतभार्य्याभिगमने मृतभार्य्यः प्रजायते ।
तत्पातकविशुद्ध्यर्थं द्विजमेकं विवाहयेत् ।। 5.31 ।।
सगोत्रस्त्रौप्रसङ्गेनः जायते च भगन्दरः ।
तेनापि निष्कृतिः कार्य्या महिषीदानयत्नतः ।। 5.32 ।।
तपस्विनीप्रसङ्गेन प्रमेही जायते नरः ।
मासं रूद्रजपः कार्य्यो दद्याच्छक्त्या च काञ्चनम् ।। 5.33 ।।
दीक्षितस्त्रीप्रसङ्गेनः जायते दुष्टरक्तट्टक् ।
स पातकविशुद्ध्यर्थं प्राजापत्यद्वयं चरेत् ।। 5.34 ।।
स्वजातिजायागमने जायते हृदयव्रणी ।
तत्पापस्य विशुद्ध्यर्थं प्राजापत्यद्वयं चरेत् ।। 5.35 ।।
पशुयोनौ च गमने मूत्राघातः प्रजायते ।
तिलपात्रद्वयञ्चैव दद्यादात्मविशुद्धये ।। 5.36 ।।
अश्वयानौ च गमनाद् गुदस्तम्भ प्रजायते ।
सहस्रकमलम्नानं मासं कुर्य्यात् शिवस्य च ।। 5.37 ।।
एते दोषा नराणां स्युर्नरकान्ते नः संशयः ।
स्त्रीणमपि भवन्त्येते तत्तत्‌पुरुषसङ्गमात् ।। 5.38 ।।
इति शातातपीये कर्म्मविपाकेऽगम्यागमनप्रायश्चित्तं नाम पञ्चमोऽध्यायः ।। 5 ।।

षष्ठोऽध्यायः ।

अश्वशूकरशृङ्गाद्रिद्रुमादिशकटेन च ।
भृग्वग्निदारूशस्त्राश्मविषोद्वन्धनजैर्मृताः ।। 6.1 ।।
व्याघ्राहिगजभूपालचौरवैरिवृकाहताः ।
काष्ठशल्यमृता ये च शौचसस्कारवर्ज्जिताः ।। 6.2 ।।
विसूचिकान्नकवलदवातीसारतो मृताः ।
शाकिन्यादिग्रहैर्ग्रस्ता विद्युत्पातहताश्च ये ।। 6.3 ।।
अस्पृश्या अपवित्राश्च पतिताः पुत्रवर्ज्जिताः ।
पञ्चत्रिं शत् प्रकारैश्च नाप्नुवन्ति गतिं मृताः ।। 6.4 ।।
पित्राद्याः पिण्डभाजः स्युस्त्रयो लेपभुजस्तथा ।
ततो नान्दौमुखाः प्रोक्तास्त्रयोऽप्यश्रुमुखास्त्रयः ।। 6.5 ।।
द्वादशैते पितृगणस्तर्पिताः सन्ततिप्रदाः ।
गतिहौनाः सुतादौनां सन्ततिं नाशयन्ति ते ।। 6.6 ।।
दश व्याघ्रादिनिहता गर्भं विघ्नन्त्यमौ क्रमात् ।
द्वादशास्त्रादिनिहता आकर्षन्ति च वालकम् ।। 6.7 ।।
विषादिनिहता घ्नन्ति दशसु द्वादशष्वपि ।
वर्षेकवालकं कुर्य्यादनपत्योऽनपत्यताम् ।। 6.8 ।।
व्याघ्रेण हन्यते यस्तुः कुमारौगमनेन च ।
विषदश्चैव सर्पेण गजेन नृपदुष्टकृत् ।। 6.9 ।।
राज्ञा राजकुमारघ्नश्चौरेण पशुहिंसकः ।
वैरिणा मित्रभेदौ च वकवृत्तिर्वृकेण तु ।। 6.10 ।।
गुरूघातौ च शय्यायां मत्‌सरौ सौचवर्ज्जितः ।
द्रोही संस्काररहितः शुना निक्षेपहारकः ।। 6.11 ।।
नरो विहन्यतेऽरण्ये शूकरेण च पाशिकः ।
क्रिमिभिः कृत्तवासाश्च कृमिणा च निकृन्तनः ।। 6.12 ।।
शृङ्गिणा शङ्करद्रोही शकटेन च सूचकः ।
भृगुणा मेदिनीचौरो बह्निना यज्ञहानिकृत् ।। 6.13 ।।
दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः ।
अश्मना द्विजनिन्दाकृद्विषेण कुमतिप्रदः ।। 6.14 ।।
उद्वन्धनेन हिंस्रः स्यात् सेतुभेदो जलेन तु ।
क्रिमिणा राजदन्तहृदतीसारेण लौहहृत् ।। 6.15 ।।
शाकिन्याद्यैश्च म्रियते सदर्पकार्य्यकारकः ।
अनध्यायेऽप्यधीयानो म्रियते विद्युता तथा ।। 6.16 ।।
अस्पृश्यस्पर्शसङ्गी च वस्तुमाश्रित्य शास्त्रहृत् ।
पतितो मदविक्रेतानपत्यो द्विजवस्त्रहृत् ।। 6.17 ।।
अथ तेषां क्रमेणैव प्रायश्चित्तं बिधयते ।
कारयेन्निष्कमात्रन्तु पुरूषं प्रेतरुपिणम् ।। 6.18 ।।
चतुर्भुजं दण्डहस्तं महिषासनसंस्थितम् ।
पिष्टैः कृष्णतिलैः कुर्य्यात् पिण्डं प्रस्थप्रमाणतः ।। 6.19 ।।
मध्वाज्यशर्करायुक्तं स्वर्णकुण्डलसंयुतम् ।
अकालमूलं कलसं पञ्चपल्लवसंयुतम् ।। 6.20 ।।
कृष्णवस्त्रसमाच्छन्नं सर्व्वौषधिसमन्वितम् ।
तस्योपरि न्यसेदेवं पात्रं धान्यफलैर्युतम् ।। 6.21 ।।
सप्तधान्यन्तु सफलं तत्र तत् सफलं न्यसेत् ।
कुम्भोपरि च विन्यस्य पूजयेत् प्रेतरुपिणम् ।। 6.22 ।।
कुर्य्यात् पुरूषसूक्तेन प्रत्यहं दुग्धतर्पणम् ।
षड़ङ्गञ्च जपेद्रुद्रं कलसे तत्र वेदवित् ।। 6.23 ।।
यमसूक्तेन कुर्व्वीत यमपूजादिकं तथा ।
मायत्र्याश्चैव कर्त्तव्यो जपः स्वात्मविशुद्धये ।। 6.24 ।।
ग्रहशान्तिकपूर्व्वञ्च दशांशं जुहुयात् तिलैः ।
अज्ञातनामगोत्रायः प्रेताय सतिलोदकम् ।। 6.25 ।।
प्रदद्यात् पितृतीर्थेन पिण्डं मन्त्रमुदीरयेत् ।
इमं तिलमयं पिण्डं मधुसर्पिः समन्वितम् ।। 6.26 ।।
ददामि तस्मै प्रेताय यः पीड़ां कुरूते मम ।
सजलान् कृष्णकलसांस्तिलपात्रसमन्वितान् ।। 6.27 ।।
द्वादशः प्रेतमुद्दिश्य दद्यादेकञ्च विष्णवे ।
ततोऽभिषिञ्चदाचार्य्यो दम्पतीकलसोदकैः ।। 6.28 ।।
शुचिर्व्वरायुधधरो मन्त्रैर्व्वरूण्दैवतैः ।
यजमानस्ततो दद्यादाचार्य्याय सदक्षिणाम् ।। 6.29 ।।
ततो नारायणवलिः कर्त्तव्यः शास्त्रनिश्चयात् ।
एष साधारणबिधिरगतीनामुदाहृतः ।। 6.30 ।।
विशेषस्तु पुनर्ज्ञेयो व्याघ्रादिनिहतेष्वपि ।
व्याघ्रेण निहते प्रेते परकन्यां विवाहयेत् ।। 6.31 ।।
सर्पदंशे नागबलिर्द्देयः सर्व्वेषु काञ्चनम् ।
चतुर्निष्कमितं हेमगजं तद्याद्गजैर्द्वते ।। 6.32 ।।
राज्ञा विनिहतेः तद्यात् पुरूषन्तु हिरण्मयम् ।
चौरेण निहते धेनुं वैरिणा निहते वृषम् ।। 6.33 ।।
वृकेन निहते तद्याद्यथाशक्ति च काञ्चनम् ।
शय्यामृते प्रदातव्या शय्या तूलीसमन्विता ।। 6.34 ।।
निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता ।
सौचहीने मृते चैव द्विनिष्कस्वर्णजं हरिम् ।। 6.35 ।।
संस्कारहीने च मृते कुमारञ्च विबाहयेत् ।
शुना हते च निक्षेपं स्थापयेन्निजशक्तितः ।। 6.36 ।।
शूकरेण हते तद्यान्महिषं दक्षिणान्वितम् ।
कृमिभिश्च मृते तद्याद्गोधूमान्नं द्विजातये ।। 6.37 ।।
शृङ्गिणा च हते दद्याद्‌वृषभं वस्त्रसंयुतम् ।
शकटेन मृते तद्यादश्वं सोपस्कारान्वितम् ।। 6.38 ।।
भृगुपाते मृते चैव प्रदद्याद्धान्यपर्व्वतम् ।
अग्निना निहते तद्यादुपानहं स्वशक्तितः ।। 6.39 ।।
दवेन निहते चैव कर्त्तव्या सदने सभा ।
शस्त्रेण निहते तद्यान्महिषीं दक्षिणान्विताम् ।। 6.40 ।।
अश्मना निहते दद्यात् सवत्सां गां पयस्विनीम् ।
विषेण च मृते तद्यान्मेदिनीं क्षेत्रसंयुताम् ।। 6.41 ।।
उद्वन्धनमृते चापि प्रदद्याद्गां पयस्विनीम् ।
मृते जलेन वरूणं हैमं तद्यात्रिनिष्ककम् ।। 6.42 ।।
वृक्षं वृक्षहते तद्यात् सौवर्ण स्वर्णसंयुतम् ।
अतौसारमृते लक्षं सावित्र्याः संहतो जपेत् ।। 6.43 ।।
शाकिन्यादिमृते चैवं जपेन्द्रुद्रं यथोचितम् ।
विद्युत्पातेन निहते विद्यादानं समाचरेत् ।। 6.44 ।।
अस्पर्शे च मृते कार्य्यं वेदपारायणं तथा ।
सच्छास्त्रपुस्तकं तद्याद्वान्तमाश्रित्य संस्थिते ।। 6.45 ।।
पातित्येन मृते कुर्य्यात् प्राजापत्यानि षोड़श ।
मृते चापत्यरहिते कृच्छ्राणां नवतिञ्चरेत् ।। 6.46 ।।
निष्कत्रयमितस्वर्णं तद्यादश्वं हयाहते ।
कपिना निहते तद्यात् कपिं कनकनिर्म्मितम् ।। 6.47 ।।
विसूचिकामृते स्वादु भोजयेच्च शतं द्विजाम् ।
तिलधेनुः प्रदातव्या कण्ठेऽन्नकबले मृते ।। 6.48 ।।
केशरोगमृते चापि अष्टौ कृच्छ्रान् समाचरेत् ।
एवं कृते बिधानेन विदध्यादौर्द्धदेहिकम् ।। 6.49 ।।
ततः प्रेतत्वनिर्म्मुक्ताः पितरस्तर्पितास्तथा ।
दद्युः पुत्रांश्च पौत्रात्‌श्च आयुरारोग्यसम्पदः ।। 6.50 ।।
इति शातातपप्रोक्तो विपाकः कर्म्मणामयम् ।
शिष्याय शरभङ्गाय विनयात् परिपृच्छते ।। 6.51 ।।
इति शातातपीये कर्म्मविपाकेऽगतिप्रायश्चित्तं नाम षष्ठोऽध्यायः ।। 6 ।।


**************------------------
"https://sa.wikisource.org/w/index.php?title=शातातपसंहिता&oldid=399565" इत्यस्माद् प्रतिप्राप्तम्