शारीरकाधिकरणरत्नमाला
शारीरकाधिकरणरत्नमाला [[लेखकः :|]] |
श्रीः
श्रीशारीरकाधीकरणरत्नमाला
सप्रकाशा
प्रथमाध्यायस्य प्रथमः पादः
प्रकाशः
श्रीस्तनन्यस्तकस्तूरीनिस्तुलामोदमेदुरम् ।
विस्तारयतु मे स्वस्ति वस्तु कौस्तुभलक्षणम् ।।
नाथयामुनयतीशतादृशाम्नायमौलिगुरुरत्नगुम्फिता ।
भातु मे गुरुपरम्परामयी हारयष्टिरनघा ह्मदन्तरे।
कौशिकदेशिकसूरिश्शसनतः श्रीनिवासस्य ।
अधिकरणरत्नमालां निर्माय व्याकरोत्येनाम् ।।
स भगवान्बादरायणः परमकारुणिको मुमुक्षुजनानुजिघृक्षया परविद्यासु मुमुक्षुभिर्भजनीयतया श्रुतं देवताविशेषं तत्तद्विद्याविचारेण निर्दिधारयिषुस्तद्विचाररूपं शारीरकशास्त्रं प्राणैषीत् ।
तस्यैतस्य शास्त्रस्यार्वाचीनैव्याख्यातृभिः कलुषिततया शास्त्रावताराय प्रयोजनालाभमालोचतया
भगवता भाष्यकृता यथावस्थितशास्त्रकृदभिप्रायविवरणेन तस्य सप्रयोजनतां संपिपादयिषता विरचितस्य
विततगम्भीरशारीरकमीमांसाभाष्यस्यार्थसंग्रहरूपं अन्वहमात्मनः परदेवताभजनाऽऽवृत्तिकृते शारीरकाधिकरण
रत्नमालाख्यं ग्रन्थमारम्भमाणो ग्रन्थकृत् आदौ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तये शारीरकशास्त्र
निर्धारितपरदेवताभजनरूपं मङ्गलमाचरति ।
श्लो 1
प्र. अत्र श्रीशेषशैलशृङ्गे उज्ज्वलमित्यनेनावतारविशेषस्य प्रतिपादनात् तस्य च स्वसमाश्रयणीयत्वार्थत्वात्
विशेषतश्च तस्य हस्तविन्यासविशेषेण स्वचरणस्य समाश्रयणीयताव्यञजकत्वाच्चोपायत्वेनावस्थानं सूचितम्। फणीन्द्रस्योत्सङ्गे उज्ज्वलितमित्यनेन "वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः । महायोगी
जगद्धाता दिव्यसिंहासनोपरि । दिव्यसंस्तरणोपेते शेषाहिफणमण्डिते"( ? ) इत्याद्युक्तप्रक्रियया नित्यवाभूतावनन्तस्योपर्यासिकाविशेषो विवक्षितः । तेन च तत्र मुक्तभोग्यतयाऽवस्थानं ज्ञापितम्। इत्थं चानेन
विशेणद्वयेन लीलाविभूतावुपायतया नित्यविभूतावुपेयतया चावस्थानस्य प्रदर्शनेन शारीरकशास्त्रे साधनफलाध्याययोर्निर्धारितं श्रीनिवासस्य भगवत उपायत्वनुपेयत्वञचात्र सूचितम् । निगमोत्तमाङ्ग उज्ज्वलं
इत्यनेन तत्रोभयत्र प्रमाणं प्रदर्शितम् । सुबालोपनाषदाद्युपनिषत्सु हि " माता पिता भ्राता निवासश्सरणं सुह्मत्गतिर्नारायण"( ) इत्यादिना श्रीनिवासस्योपायत्वमुपेयत्वमुभयमाम्नातम् ; तत्र शरण मित्यनेनोपायत्वस्य 'गति'रित्यनेनोपेयत्वस्य चाभिधानात् ।
1.1.1
अथ-कर्मविचारानन्तरं,अतः-कर्मणो विचारितत्वात्, ब्राहृ जिज्ञासा-इच्छा विषयीभूतो ब्राहृवाचारः कर्तव्य इति शेषः ।।
एतदर्थविवरणाय प्रवृत्तमिदं पद्यम्-
श्लो. 2
अर्थः- कर्मविचारं कृतवद्भिः कर्मफलेष्वाशानावृत्तेर्मोक्षपुरुषार्थं अपेक्षमैणैः पुरुषैर्यत्जिज्ञैस्यं तच्र्छीनिवासाख्यं
ब्राहृ भजे ।
भावः- अधीतवेदस्य पुंसो जैमिनीकृतकर्ममीमांसोक्तन्यायैज्र्योतिष्टोमादिकर्मणां स्वरूपमीदृशं, तदित्थं कर्तव्यं,
स्वर्गादिरूपं त्फलमित्थंभूतमिति निश्चये सति, स्वर्गादिफलानां नश्वरत्वज्ञानात्तत्प्राप्तीच्छा निवर्तते । ब्हृप्राप्तिरूपमोक्षपुरूषार्थे आपातप्रतीतिसत्वात्तत्प्राप्तीच्छा जायते । एवं ब्रहृप्राप्तीच्छोत्पत्तौ ब्राहृस्वरूपमीदृशं
तत्प्रापत्युपायश्चायं तत्प्राप्तिरूपफलं चेत्थंभूतमित्येवमादिनिर्णयहेतुभूतैब्र्राहृमीमांसोक्तन्यायैर्यन्निर्णेतव्यं तच्छ्रीनिवासाख्यं ब्राहृ नामसंकीर्तनंपादपरिचरणप्रदक्षिणप्रणामादिभिराराधयामाति ।।
अधिकरणपूर्वपक्षः- कर्ममीमांसायामर्थवादाधिकरणे "आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते,"(पू.मी 1.2.1)"विधिनात्वेकवाक्यत्वात् स्तुत्यर्थेन वाधीनां स्युः"(पू.मी 1.2.7) इत्यनयोस्सूत्रयोः,वेदसामान्यस्य यत्किञ्चित्कर्तव्यार्थबोधकत्वनियमात् कर्तव्यार्थावबोधकानां
अर्थवादरूपवेदवाक्यानां प्रामाण्यासंभवाद्वेदसामान्यस्य न प्रामाण्यनियम इति प्रथमसूत्रेण पूर्नपक्षं कृत्वा अर्थवादवाक्यानां यत्किञ्चित्कर्तव्यतय अर्थबोधकत्वाभावेऽपि सन्निहितवाधिवाक्यविहित क्रियान्वयिप्राशस्त्यबोधकतया विधिवाक्येन सममेकवाक्यतया प्रामाण्यमुपपद्यत एवेत्यनन्तरसूत्रेण जैमिनिना
सिद्धान्तितम् ।।
युज्यते चैतत् । बालानां प्रथमं वृद्धव्यवहारेण शक्तिग्रहो भवति । तद्यथा- व्युत्पन्नेन केनचिद्व्युत्पन्नमन्यं
प्रति 'गामानये'त्युक्ते, नियुक्तः पुरुषो गामानयति । पुनरपि 'गां नये'त्युक्तेऽन्यत्र नयति । पाश्र्वस्थो बालः
तद्वाक्यप्रयोगान्तरं गवानयनं गोर्नयनं च दृष्ट्वा नियुक्तपुरुषस्य गवानयनकर्तव्यताज्ञानं 'गामानये'ति
वाक्यजन्यं, गोर्नयनकर्तव्यताज्ञानं च 'गां नये'त्यनन्तरवाक्यजन्यमिति निश्चिन्वन्, गोपदं आनयनरूपक्रियाद्वया
न्वय्यर्थंबोधकत्वाद्गोर्वाचकं, आनयपदं आनयनक्रियावाचकं, नयपदं नयनरूपक्रियावाचीति तत्तत्पदानां
शकिं्त गृह्णाति। एवं वृद्धव्यवह्मतवाक्यान्तरेष्वपि तेषां तेषां पदानां तेषु तेष्वर्थेषु शकिं्त जानाति । एवं व्यवहारादेव शक्तिग्रहे जायमाने सर्वसेयैव व्यवहारस्य कार्यार्थपरत्वदर्शनात् सर्वाणि पदानि यत्किञ्चित्
कर्तव्यार्थपराणीति निश्चिनोति । अतो व्युत्पत्यनुसारेण सर्वाण्यपि पदानि कार्यार्थपराण्येव । एवं लौकिक
पदानां कार्यपरत्वे सिद्धे 'य एव लौकिकास्स एव वैदिका' इति न्यायेन वौदिकान्यपि पदानि कार्यपराण्येव
इति क्रियानात्मके ब्राहृणि वेदान्तवाक्यानां तात्पर्याभावात् वेदान्तविचाररूप ब्राहृविचारशास्त्रं न
आरम्भणीयमिति ।
सिद्धान्तः
बालानां प्रथमव्युत्पत्तिः वृद्धव्यवहारादेव भवतीति इदं तावत् सर्वानुभवविरुद्धम्। प्रथमव्युत्पत्तेः अन्यथैवानुभवसिद्धत्वात्। तद्यथा - मातापित्रादयः स्वशिशून् व्युत्पादयितुकामाः चन्द्रगवादिकं पित्रुमातुलादिकं च वस्तुप्रदश्र्य मुहुर्मुहुः अङ्गुल्यानिर्देशपूर्वकम् "अयं चन्द्रः" "इयं गौः", "अयं पिता" "अयं मातुलः"इत्यादि शब्दान् प्रयुञ्जते। शिशुश्च पुरोवर्तिवस्तुप्रदर्शनाङ्गुलिनिर्देशतत्तच्छब्दप्रयोगाणां नियमेन साहचर्यदर्शनरूपेण
उद्बोधकेन पूर्वजन्मानुभूतां एवंविधचेष्टायां तत्तत्पदानां तत्तदर्थानां च सम्बन्धज्ञापनार्थतां स्मरति । ततश्च
चन्द्रादिपदानां पुरोवृत्तिचन्द्राद्यर्थानां च कश्चित्सम्बन्धोऽस्तीति सामान्यतो जानन् बहुभिः पुरूषैस्तत्तदर्थेषु
तत्प्रयोगं शृण्वन् तयोः पदपदार्थयोः सम्बन्धान्तरासम्भवं च जानन् 'इदं पदमेतदर्थबोधकं ' इति तयोः
बोध्यभोधकभावरूपसम्बन्धविशेषं निश्चिनोति । एवं कार्यानन्वित एवार्थे प्रथमतः पदानां शक्तिग्रहणदर्शनात्
प्रथमतो वृद्धव्यवहारात् कार्यान्वित एवार्थे शक्तिग्रह इत्युपपन्नम् ।
कार्यपराद्वाक्यादेव शक्तिग्रहः इत्यप्यनुपपन्नम् ; 'चैत्र पुत्रस्ते जातः 'इत्यादिषु सिद्धार्थपराद्वाक्यादपि
शक्तिग्रहदर्शनात् । तत्र हि चैत्रस्य पुत्रोत्पत्तिज्ञापनाय नियुक्तेन केनचिच्चैत्रं प्रति 'चैत्र पुत्रस्ते जात' इति
वाक्ये प्रयुक्ते, अव्युत्पन्नः कश्चिदन्यश्चैत्रगृहे चैत्रस्य पुत्रोत्पतिं्त तन्निवेदनाय पुरुषस्य नियुक्ततां तद्वाक्यश्रवणेन
चैत्रस्य मुखविकासं च पश्यन्, चैत्रं प्रति तदुच्चरितवाक्यस्य चैत्रं प्रति पुत्रोत्पत्तिरूपार्थबोधकतां निश्चिनोति ।
अतः कार्यपरादेव वाक्यात् शक्तिग्रह इति न नियमः । तदेवं क्वचित्सिद्धपरवाक्यात् कार्यानन्विते, क्वचित्
कार्यपरवाक्यात्कार्ये च यथायथं शक्तिग्रहणात् प्राभाकराणां सर्वंपदानां कार्यार्थपरत्ववर्णनं निर्युक्तिकमिति ।
अतो वेदान्तवाक्यानां सिद्धरुपे ब्राहृणि तात्पर्यसंभवात् तद्विचारशास्त्रमारम्भणीयमिति ।।
एवंविधपूर्वपक्षत्परिहारपरत्वमस्य सूत्रस्य कार्यानन्वयिनो ब्राहृरूपसिद्धवस्तुनो विचारविषयत्व
प्रदर्शनादेव निश्चीयते। वेदान्तवाक्यानां सर्वेषां कार्यपरत्वे हि सिद्धरूपस्य ब्राहृणो वेदान्तवाक्यैर्विचार्यत्ववर्णनं
अनुपपन्नं स्यात् । तर्हि पूर्वोदाह्मतजामिन्युक्तिविरोधः स्यादिति चेदुच्यते- पूर्वपक्ष्युक्तं सर्वेषां वेदवाक्यानां कार्य-
परत्वमभ्युपगम्य परिह्मतं जैमिनिना, न तु तस्य तथैवाभिप्राय इति द्वयोर्न विरोधः । अस्मिन् श्लोके 'विरचितकर्विचारै 'रिति पुरुषविशेषेण कर्मविचारानन्तरमेव ब्राहृविचारस्य कर्तव्यतालाभात् ब्राहृविचारं प्रति
कर्मविचारस्य नियमेन पूर्ववृत्तत्वं लभ्यते । तत् कुत इति चेदुच्यते- अधीतवेदस्य पुरुषस्य वेदवाक्येषु कर्मफलस्य ब्राहृज्ञानफलस्य च क्वचित्स्थिरत्वे क्वचिदस्थिरत्वे आपाततः प्रतिपन्ने सति अनयोः किं तात्विकमिति निर्णयेच्छा जायते । तथा च तन्निर्णाकशास्त्रेषु प्रवर्तमानस्य पुरुषस्य कर्मफलेषु तन्निर्णयौपायिक
शास्त्रविचार एव प्रथमं प्रवृत्तिर्जायते;कर्मणां अनादिवासनया सुकरत्वनिश्चयादनभ्यस्तस्य ब्राहृज्ञानस्य दुष्करत्व
निश्चयाच्च लघूपायेनाभिमतार्थसिद्धिसंभवे गुरूपाये प्रवृत्त्ययोगेन कर्मफलेषु तन्निर्णयेच्छाब्राहृज्ञानफले
तन्निर्णयौपयिकविचारे प्रवृत्तेः प्रतिबन्धात् । कर्मविचारे कृते कर्मफलानां अस्थिरत्वनिश्चयो भवति । तद्यथा-
"दाक्षायणयज्ञेन यजेत" इति कर्मकाण्डे दर्शपूर्णमासप्रकरणे श्रूयते । तत्र दाक्षायणनामा कश्चिद्यज्ञः किं विधीयते अथवा दर्शपूर्णमासयोरेेव कशचिद्गुणो विधीयत इति संशये जैमिनिना महर्षिणा "विकारो वा प्रकरणात् "( पू. मी 2.3.4) इति सूत्रेण दर्शपूणर्मासयोः स्वर्गादिफलभूयस्त्वायाऽऽवृत्तिः कर्तव्या इति श्रुत्यर्थः
इति निर्णीतम् । अनेन दर्शपूर्णमासादिकर्मणां फलभूतं स्वर्गादि नश्वरमिति निश्चयो जायते । दर्शपूर्णमासादि
साध्यस्वर्गादिफलस्य नित्यत्वे हि तस्य चिरकालनुवृत्यर्थं दर्शपूर्णमासावृत्तिविधानं व्यर्थं स्यात् । एवं कर्मफलानां
अनित्यत्वनिश्चये कर्मविचारेच्छारूपप्रतिबन्धकनिवृत्तौ ब्राहृविचारेच्छाधीना तद्विचारे प्रवृत्तिरुत्पद्यत इति
ब्राहृविचारस्य नियमेन कर्मविचारसापेक्षत्वम् ।।
अस्त्वेतत् ; सूत्राभिप्रायविवरणाय प्रवत्तेऽस्मिन्पद्ये सौत्रपदास्पृष्टस्य ब्राहृणः श्रीनिवास नामकत्वोक्तिः कथमुपपद्यत इति चेदुच्यते । अस्मिन्ब्राहृमीमांसाशास्त्रे ब्राहृणो जिज्ञास्यत्वं प्रतिज्ञाय जगज्ज्न्मादिकारणत्वं तस्य लक्षणमभिधाय लक्ष्ये लक्षणसमन्वयाय तदितरेषु तस्य व्यावर्तनाय च प्रवृत्तेषु
ईक्षत्यधिकरणप्रभृतिष्वधिकरणेषु पुरुषसूक्तनारायणानुवाकसुबालोपनिषदादिषु प्रसिद्धं श्रीनिवासं महापुरुषं
तदसाधारणधर्मविशेषेः प्रत्यभिज्ञाप्य तत्र लक्षणसमन्वयस्य तदितरेषु व्यावृत्ततायाश्च प्रदर्शितत्वेन स एव ब्राहृ-
पदार्थत्वेन सूत्रकाराभिमत इतीहापि प्रथमसूत्रे ब्राहृपदेन स एव विवक्षित इति न तस्य सौत्रपदास्पृष्टमिति ।
तदेतदुत्तरत्र स्पष्टीकरिष्यति इति सर्वं निरवद्यम् ।।
इति जिज्ञासाधिकरणम् ।। 1 ।।